श्रीराममङ्गलाशासनम्

मङ्गळं कोसलेन्द्राय महनीयगुणाब्धये।
चक्रवर्तितनूजाय सार्वभौमाय मङ्गळम्॥ १ ॥

वेदवेदान्तवेद्याय मेघश्यामळमूर्तये।
पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गळम्॥ २ ॥

विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गळम्॥ ३ ॥

पितृभक्ताय सततं भ्रातृभिः सह सीतया।
नन्दिताखिललोकाय रामभद्राय मङ्गळम्॥ ४  ॥

त्यक्तसाकेतवासाय चित्रकूटविहारिणे।
सेव्याय सर्वयमिनां धीरोदाराय मङ्गळम्॥ ५ ॥

सौमित्रिणा च जानक्या चापबाणासिधारिणे।
संसेव्याय सदा भक्त्या स्वामिने मम मङ्गळम्॥ ६ ॥

दण्डकारण्यवासाय खण्डितामर शत्रवे।
गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गळम्॥७ ॥

सादरं शबरीदत्तफलमूलाभिलाषिणे।
सौलभ्यपरिपूर्णाय सत्त्वोद्रिक्ताय मङ्गळम्॥८ ॥

हनुमत्समवेताय हरीशाभीष्टदायिने।
वालिप्रमथनायास्तु महाधीराय मङ्गळम्॥९ ॥

श्रीमते रघुवीराय सेतूल्लङ्क्तिसिन्धवे।
जितराक्षसराजाय रणधीराय मङ्गळम्॥ १० ॥

आसाद्य नगरी दिव्यामभिषिक्ताय सीतया।
राजाधिराजराजाय रामभद्राय मङ्गळम्॥ ११ ॥

मङ्गळाशासनपरैर्मदाचार्य पुरोगमैः।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गळम्॥ १२  ॥

॥ इति श्रीराममङ्गळं समाप्तम्॥

You cannot copy content of this page