श्रीवेङ्कटेश शरणागतिस्तोत्रम्
Venkatesha Sharanagati Stotram
श्रीवेङ्कटेश शरणागतिस्तोत्रम्
शेषाचलासमासाद्य कश्यपाद्या महर्षयः ।
वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा ॥
कलिसन्तारकं पुण्यं स्तोत्रमेतत् जपेन्नरः ।
सप्तर्षि वा प्रसादेन विष्णुः तस्मै प्रसीदती ॥
कश्यप उवाच
कारि ह्रीमन्त विद्यायाः प्राप्यैव परदेवता ।
कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजेत् ॥
अत्री उवाच
अकारादि क्षकारान्त वर्णैः यः प्रतिपाद्यते ।
कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापती ॥
भरद्वाज उवाच
भगवान् भार्गवीकान्तो भक्ताभीप्सित दायक ।
भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः ॥
विश्वामित्र उवाच
विराट् विष्णुर्विधाता च विश्वविज्ञान विग्रहः ।
विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा ॥
गौतम उवाच
गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः ।
शरणं गौतमास्यास्त वेङ्कटाधि शिरोमणिः ॥
जमदग्निरुवाच
जगत्कर्ता जगत्भर्ता जगन्नाथो जगन्मया ।
जमदग्निः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः ॥
वसिष्ठ उवाच
भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् ।
तत्र हैवाहमस्मीति वेङ्कटेशं भजेत् सदा ॥
सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन् नरः ।
सोऽभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत् ॥
॥ इति श्रीवेङ्कटेशशरणागतिस्तोत्रं सम्पूर्णम् ॥
