पुंसवनम्
पुंसवनसंस्कार-विधिः
पुंसवन संस्कार हिंदू धर्म के 16 संस्कारों में से एक है। यह गर्भधारण के बाद किए जाने वाले संस्कारों में से एक महत्वपूर्ण संस्कार है। यह आमतौर पर गर्भ के तीसरे या चौथे महीने में किया जाता है, जब यह माना जाता है कि गर्भस्थ शिशु का लिंग निर्धारण हो चुका होता है। पुंसवन संस्कार का मुख्य उद्देश्य गर्भस्थ शिशु की सुरक्षा और उसके स्वस्थ विकास के लिए प्रार्थना करना होता है। इस संस्कार में विभिन्न धार्मिक अनुष्ठानों, मंत्रों और पूजा विधियों का पालन किया जाता है। इसके साथ ही, शिशु के स्वस्थ और योग्य पुत्र होने की कामना भी की जाती है। पुंसवन संस्कार को स्वस्थ और गुणवान संतान की प्राप्ति के लिए एक महत्वपूर्ण धार्मिक प्रक्रिया के रूप में देखा जाता है।
तत्र पारस्करसूत्रम्– मासे तृतीये पुंसवनं कुर्यात्। तत्र गर्भाधानप्रभृति तृतीये मासि पुंनक्षत्रे
(यस्मिन्दिने पुष्यश्रवणहस्तमृगशीर्षादिनक्षत्रयोगे चन्द्रमा भवति) चन्द्रतारानुकूले गर्भिणीं
संस्नाप्य तत्पतिः स्वयं च स्नात्वा उभावप्युपोषितौ अहते धौते वाससी परिधाय प्रथमं गणेशादीन्
सम्पूजयेत्। तत्रादौ प्रतिज्ञासङ्कल्पं कुर्यात्।
सङ्कल्पः
अद्येह अमुकगोत्रोऽमुकोऽहं ममास्यां भार्यायां उत्पत्स्यमानस्य गर्भस्य बीजगर्भ–
समुद्भवैनोनिबर्हणपुंरूपोदयप्रतिरोधिकर्मनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुंसवनाख्यं कर्म करिष्ये।
तत्र च पुंसवनकर्मणः पूर्वाङ्गत्वेन मातृपूजानान्दीश्राद्धपुण्याहवाचनानि करिष्ये।
इति सङ्कल्प्य मातृपूजादिकं विधाय अस्तमये वटवृक्षस्यावरोहान्मूलाकारान् तदभावे कुशमूलं वा
उदकेन पिष्ट्वा तद्रसं गर्भिण्या दक्षिणनासिकायामासिञ्चति ।
आसिञ्चनमन्त्राः
तत्र दक्षिणनासिकासिञ्चने मन्त्रः
ॐ हिरण्यगर्ब्भः समवर्त्तताग्रे भूतस्य जातः पतिरेकऽआसीत्।
स दाधार पृथिवीन्द्यामुतेमाङ्कस्मै देवाय हविषा व्विधेम ।
ततो वामनासिकायाम्
ॐ अद्भ्यः सम्भृतः पृथिव्यै रसाच्च व्विश्वकर्म्मणः समवर्त्तताग्रे।
तस्य त्वष्टा व्विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥
इति मन्त्राभ्यां उदरप्राप्तिक्षममासिञ्चेत्। सा यदि वीर्यवानयं पुत्रः स्यादिति कामयेत तदा
उदकपूर्णं शरावम् उपस्थे धृत्वा गर्भाभिमन्त्रणं कुर्यात्।
गर्भाभिमन्त्रणम्
तत्र मन्त्रः – ॐ सुपर्ण्णोसि गरुत्माँस्त्रिवृत्ते शिरो गायत्रञ्चक्षुर्बृहद्रथन्तरे पक्षौ ॥
स्तोमऽआत्मा छन्दाᳩस्यङ्गानि ॺजूᳩषि नाम ॥
साम ते तनूर्व्वामदेव्यं ॺज्ञाॺज्ञियं पुच्छं धिष्ण्याः शफाः ।
सुपर्ण्णोसि गरुत्मान् दिवं गच्छ स्वः पत ॥
इति मन्त्रेण गर्भाभिमन्त्रणं कृत्वा दक्षिणासङ्कल्पंकुर्यात्।
दक्षिणासङ्कल्पः
ॐ अद्येहामुकोऽहं कृतस्यास्य पुंसवनाख्यकर्मणः साद्गुण्यार्थम् इमां दक्षिणां भोजनं च नानानामगोत्रेभ्यो ब्राह्मणेभ्यो विभज्य दातुमहमुत्सृजे।
ॐ तत्सन्न मम । ततोऽभिषेकमन्त्रपाठादिः ॥
। इति पुंसवनसंस्कारः ॥
