कर्णवेधः
कर्णवेधः
वर्षे तृतीये पञ्चमे वेति अयुग्मवर्षे कर्णवेधः । तत्र चन्द्रतारानुकूले शुभदिने, कर्णवेधोक्तनक्षत्रे
पिता प्रातरुत्थाय स्वकीयं प्रातःकृत्यं निर्वर्त्त्य आचम्य कर्मपात्रं कृत्वा प्रतिज्ञासङ्कल्पं कुर्यात् –
प्रतिज्ञासङ्कल्पः
ॐ अद्येहेत्यादि देशकालौ सङ्कीर्त्य अमुकोऽहममुकराशेः पुत्रस्य बीजगर्भसमुदभवैनोनिबर्हणद्वारा
पुष्ट्यायुःश्रीवृद्धिपूर्वकं श्रीपरमेश्वरप्रीतये कर्णवेधकर्म करिष्ये।
तदङ्गत्वेन अर्घ्यस्थापनपूर्वकं दीपकलशगणेशादीनां पूजनञ्चाहं करिष्ये।
ततोऽर्घ्यं संस्थाप्य दीपकलशगणेशान् सम्पूज्य कलशे नवग्रहानावाह्य सम्पूज्य जले
केशवादिदेवानां पूजनं कुर्यात् –
ससङ्कल्पं केशवादिदेवानां पूजनम्
तत्र सङ्कल्पः– अद्येहेत्यादि अमुकराशेः पुत्रस्य कर्णवेधकर्मणि कलशे आदित्यादिनवग्रहाणां जले
केशवादिदेवानां च पूजनमहं करिष्ये। इति सङ्कल्प्य एतन्ते० इति प्राणप्रतिष्ठां कृत्वा
आवाहनम् –
ॐ भूर्भुवः स्वः कलशेआदित्यादिनवग्रहाः जले केशवादिदेवाः सुप्रतिष्ठिताः सुवरदा भवन्तु,
इत्यावाह्य नाममन्त्रेण पाद्यादिभिः पूजयेत् –
तत्र व्यासः– कृतचूडेऽव्रते बाले कर्णवेधो विधीयते । तद्देशाचारकुलाचारतोऽवगन्तव्यमिति ।
ॐ केशवाय नमः । ॐ हराय नमः । ॐ ब्रह्मणे नमः । ॐ चन्द्राय नमः । ॐ सूर्याय नमः ।
ॐ दिगीशेभ्यो नमः । ॐ नासत्याभ्यां नमः । ॐ सरस्वत्यै नमः । ॐ गवे नमः । ॐ गुरुभ्यो नमः ।
इति नाममन्त्रैर्ध्यानावाहनासनपाद्यार्घ्यस्नानाचमनवस्त्रगन्धाक्षतपुष्पधूपदीपनैवेद्यभूषणादिभिः
सम्पूज्य जपं विधाय समर्प्य नीराज्य पुष्पाञ्जलिं समर्प्य स्वेष्टदेवं भिषग्वरं ब्राह्मणान् सौचिकं
च नमस्कृत्य मातुरुत्सङ्गस्थं भूषणवस्त्रादिभिरलङ्कृतं बालकं प्राङ्मुखं कृत्वा लग्नदानसङ्कल्पं
कुर्यात्।
लग्नशुद्धये दक्षिणादानम्
ॐ अद्येहेत्यादि अमुकराशेरस्य बालकस्य कर्णवेधलग्नाद् (अमुक)स्थानस्थितग्रहेण
सूचितारिष्टनिवृत्यर्थं ग्रहाणां प्रीतये इमां दक्षिणां ब्राह्मणाय दास्ये। इति लग्नदानम्।
ततो दैवज्ञबोधिते शुभे लग्ने पिता सौचिकोऽन्यो वा सुवर्णसूच्या रजतसूच्या वा अष्टाङ्गुलया
बालकस्य दक्षिणं कर्णं वेधयेत्
अथ दक्षिणकर्णाभिमन्त्रणम्
ॐ भद्रं कर्णेभिरिति प्रजापतिर्ऋषिस्त्रिष्टुप्छन्दः लिङ्गोक्ता देवता
दक्षिणकर्णाभिमन्त्रणेविनियोगः ।
ॐ भद्रङ्कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्ॺजत्राः ।
स्थिररैङ्गैस्तुष्टुवाᳩसस्तनूभिर्व्व्यशेमहि देवहितँ ॺदायुः ॥
वामकर्णाभिमन्त्रणम् –
ॐ वक्ष्यन्ती वेदा इति देवा ऋषयस्त्रिष्टुप्छन्दो लिङ्गोक्ता देवता
वामकर्णाभिमन्त्रणे विनियोगः ।
ॐ वक्ष्यन्ती वेदा गनीगन्ति कर्णं प्रियᳩसखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधिधन्वन्ज्याऽइयᳩसमने पारयन्ती ॥
इत्यभिमन्त्र्य कर्णौ वेधयित्वा दक्षिणासङ्कल्पं कुर्यात् –
दक्षिणादानम्
ॐ अद्येहामुकोऽहं अमुकराशेरस्य बालकस्य कर्णवेधकर्मणः साङ्गफलप्राप्तये साद्गुण्यार्थं चेमां
दक्षिणां नानानामगोत्रेभ्यः शर्मभ्यो ब्राह्मणेभ्यो विभज्य दास्ये, ॐ तत्सन्न मम ।
ततो ब्राह्मणान् भोजयित्वा दक्षिणां प्रदाय अभिषेकतिलकरक्षाबन्धनघृतच्छायामन्त्रपाठादि
कारयित्वा जीवमातृपूजनं महानीराजनं च कुर्यात्॥
॥ इति कर्णवेधविधिः ॥
