श्रीशिवमहापुराणम् – प्रथमोऽध्यायः
श्रीशिवमहापुराणम्
अथ श्रीशिवमहापुराणं विश्वेश्वरसंहिता प्रारभ्यते
श्रीगणेशाय नमः श्रीगुरुभ्यो नमः श्रीसरस्वत्यै नमः
अथ शिवपुराणे प्रथमा विश्वेश्वरसंहिताप्रारभ्यते
आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम्
पंचाननं प्रबलपंचविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् १
अध्याय
व्यास उवाच
धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे
प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि १
मुनयः शंसितात्मानस्सत्यव्रतपरायणाः
महौजसो महाभागा महासत्रं वितेनिरे २
तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः
आजगाम मुनीन्द्र ष्टुं सूतः पौराणिकोत्तमः ३
तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा
चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ४
ततो विनयसंयुक्ता प्रोचुः सांजलयश्च ते
सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ५
रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात्
पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ६
तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम्
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ७
यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते
न त्वयाऽविदितं किंचित्त्रिषु लोकेषु विद्यते ८
त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः
कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ९
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम्
न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः १०
इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते
तद्र हस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत् ११
प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः
दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः १२
परापवादनिरताः परद्र व्याभिलाषिणः
परस्त्रीसक्तमनसः परहिंसापरायणाः १३
देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः
मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः १४
विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः
धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः १५
त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः
त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः १६
अदयाः पंडितं मन्यास्स्वाचारव्रतलोपकाः
कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः १७
क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः
असत्संगाः पापरता व्यभिचारपरायणाः १८
अशूरा अरणप्रीताः पलायनपरायणाः
कुचौरवृत्तयः शूद्राः ! कामकिंकरचेतसः १९
शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः
शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा २०
प्रजापालनसद्धर्मविहीना भोगतत्पराः
प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा २१
वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः
कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः २२
गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः
अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः २३
कामिनीजारभावेषु सुरता मलिनाशयाः
लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः २४
तद्वच्छूद्रा श्च ये केचिद्ब्राह्मणाचारतत्पराः
उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः २५
कर्तारस्तपसां भूयो द्विजतेजोपहारकाः
शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः २६
शालिग्रामशिलादीनां पूजकाहोमतत्पराः
प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः २७
धनवंतः कुकर्म्माणो विद्यावन्तो विवादिनः
आख्यायोपासना धर्मवक्तारो धर्मलोपकाः २८
सुभूपाकृतयो दंभाः सुदातारो महामदाः
विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् २९
स्वधर्मरहिता मूढाः संकराः क्रूरबुद्धयः
महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः ३०
सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः
सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ३१
स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः
श्वशुरद्रो हकारिण्यो निर्भया मलिनाशनाः ३२
कुहावभावनिरताः कुशीलास्स्मरविह्वलाः
जारसंगरता नित्यं स्वस्वामिविमुखास्तथा ३३
तनया मातृपित्रोश्च भक्तिहीना दुराशयाः
अविद्यापाठका नित्यं रोगग्रसितदेहकाः ३४
एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम्
परलोकेपीह लोके कथं सूत गतिर्भवेत् ३५
इति चिंताकुलं चित्तं जायते सततं हि नः
परोपकारसदृशो नास्ति धर्मो परः खलु ३६
लघूपायेन येनैषां भवेत्सद्योघनाशनम्
सर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ३७
व्यास उवाच
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम्
मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ३८
॥ इति श्रीशैवेमहापुराणे विश्वेश्वरसंहितायां मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः ॥
