॥ श्रीवरवरमुनि सुप्रभातम् ॥

श्रीवादिभीकरगुरुभिरनुगृहीतं श्रीरामानुजसुप्रभातम्

जयजय यतिसार्वभौमामलस्वान्त ! तुभ्यं नमः
जयजय जनिसिन्धुमग्नात्मसन्तारकग्रामणीः ।
जयजय भजनीय कूरेशमुख्यैः प्रसीद प्रभो !
जयजय विदुषां निधे ! जागृहि श्रीनिधे ! जागृहि ॥ १ ॥

पूणार्यपूर्णकरुणापरिलब्धबोध !
वैराग्यभक्तिमुखदिव्यगुणामृताब्धे !।
श्रीयामुनार्यपदपंकजराजहंस !
रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ २ ॥

आनेतुमद्य वरदस्य गजाद्रिभर्तुः
पानीयमच्छमतिशीतमगाधकूपात् ।
ध्वान्तं निरस्तमरुणस्य करैस्समन्तात्
रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ३ ॥

श्रीरंगराजपदपंकजयोरशेष-
कैंकर्यमाकलयितुं सकुतूहलस्त्वम्।
उत्तिष्ठ नित्यकृतिमप्यखिलां च कर्तुं
रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ४ ॥

त्वां वीक्षितुं समुपयाति वृषाचलेन्द्रः
त्वत्संप्रक्लृप्तवरशङ्खरथांगपाणिः।
संयोजितामुरसि मां भवतैव बिभ्रत्
रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ५ ॥

श्रीमत्कुरंगपरिपूर्णविभुस्त्वदुक्तं
श्रीभाष्यशास्त्रममलं त्वयि भक्तियुक्तः ।
श्रोतुं समिच्छति यतीन्द्र ! सितोर्ध्वपुण्ड्रः ‘
तं बोधयार्थमखिलं तव सुप्रभातम् ॥ ६ ॥

श्रीभाष्यमालिखितुमात्तविशाललेख्यः
श्रीवत्सचिह्नगुरुरानतदिव्यगात्रः ।
वेदान्तसूत्रमपिं वक्तुममुष्य सर्वम्
उत्तिष्ठ लक्ष्मणमुने ! तव सुप्रभातम् ॥ ७ ॥

श्रीरंगवेंकट श्रीमान् स पूर्णवटुरादरतः
प्रगृह्य श्रीपादुका यतिपते । पदयोः प्रयोक्तुम् ।
द्वारि स्थिति वितन्ते प्रणतार्तिहारिन् !
रामानुजार्य | भगवन । तव सुप्रभातम् ॥ ८ ॥

काषायवस्त्रकटिसूत्रकमण्डलूश्च ।
श्रीदन्तकाष्ठमपि देशिकसार्वभौमाः।
पाणी निधाय निवसन्ति विशुद्धगात्राः
रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ६ ॥

त्वां बोधयन्ति गुरवः प्रथिता महान्तः
श्रीवैष्णवाश्च यमिनस्तव पादभक्ताः।
एकान्तिनश्च विमलास्त्वदनन्यभावाः
तान् पालयाद्य यतिशेखर ! सुप्रभातम् ॥ १० ॥

ब्राह्मे प्रबुद्ध्य विबुधाः स्वगुरून्
प्रणम्य रामानुजाय नम इत्यसकृब्रुवाणाः।
अष्टाक्षरं सचरमं द्वयमुच्चरन्ति ।
रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ११ ॥

प्रातः पठन्तिं परमद्रविडप्रपन्न
गायत्रिमन्त्रशतमष्टशिरस्कमच्छम्।
श्रीवैष्णवास्तव पदाब्जनिविष्टभावाः
रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ १२ ॥

आराधनं रचयितुं कमलासखस्य
श्रीयादवाचलपतेर्विविधोपचारैः।
पातुं च दृष्टिकमलेन नतानशेषान्
रामानुजार्य ! भगवन ! तव सुप्रभातम् ॥ १३ ॥

संसेव्य ! सप्तशतसंयमिसार्वभौमैः
सद्देशिकैस्सकलशास्त्रविदां वरिष्ठैः।
एकान्तिभिः परमभागवतैर्निषेव्य !
रामानुजार्य ! भगवन ! तव सुप्रभातम् ॥ १४ ॥

गद्यत्रयं निगमशेखरदीपसारौ
वेदार्थसंग्रहमपि प्रथितं च नित्यम्।
गीतार्थभाष्यमपि देशिकपुंगवाना
दातुं प्रसीद यतिशेखर ! सुप्रभातम् ॥ १५ ॥

पादाम्बुजं यतिपते । शरणं विहर्तुं
संगत्य संसरणवारिधिलंघनोत्काः।
आयान्ति हस्तकमलाभिधृतोपचाराः
तान् पाहि ते करुणया तव सुप्रभातम् ॥ १६ ॥

स्नातुं कवेरतनयासलिलेषु शिष्यैः
मार आचार्यपूरुषवरैर्यतिभिर्विशुद्धैः।
श्रीवैष्णवैश्च सह सेव्य ! महानुभावैः
रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ १७ ॥

रामानुजार्य ! रमणीयगुणाभिराम !
रागादिदूरग ! गुरो ! गुरुसार्वभौम !।
सत्त्वप्रधान ! शरणागतवत्सल ! त्वत्
पादाब्जयोरिह परत्र च किंकरः स्याम् ॥ १८ ॥

॥ इति श्रीरामानुजसुप्रभात समाप्तम् ॥

श्रीवादिभीकरगुरुभिरनुगृहीतं श्रीवरवरमुनिसुप्रभातम्

रविरुदयत्यथापि न विनश्यति मे तिमिरं
विकसति पंकजं हृदयपंकजमेव न मे।
वरवरयोगिवर्य ! वरणीय ! दयैकनिधे!
जयजय देव जागृहि जनेषु निधेहि धियम् ॥ १ ॥

स्वपनमिदं तव स्वमहिमानुभवैकरसं त
दपि तथाविधं तदिति जातु न वेत्ति जनः।
वरवरयोगिवर्य ! तदिदं विजहातु भवान्
अपरिमितं हितं त्रिजगतामनुचिन्तयितुम् ॥२ ॥

अवतरणं तदेव जगतामविवेकभृतां
विविधहितावबोधनकृते हि कृतं भवता।
तत इत एहि योगशयनान्मम नाथ ! जनान्
अमृतमयैरपांगवलयैरभिषेचयितुम् ॥३ ॥

शरदरविन्दबृन्दसुषमापरिपोषजुषा ।
तव नयनेन केचन परे चरणेन तथा।
मधुरगभीरधीरचतुरैरुदितैरितरे वरद !
धुरं धरन्ति भवसिन्धुमम तरितुम् ॥४ ॥

परमनभोनिवास ! फणिपुंगव ! रंगपतेः
भवनमिदं हिताय जगतो भवताऽधिगतम्।
तदपि सदैव देव ! नृगतिं प्रकटीकुरुषे
तदिह महत् तवैव कुरु वैभवमुद्भिदुरम् ॥५ ॥

त्वदभिमतप्रियस्त्वदनुवर्तनधन्यतमात्
अलमतिरिक्त इत्यखिललोकसुबोधमिदम् ।
अवनितलं त्वदीप्सितमिदं च हि तत्र वसन्
अयमखिलस्तदैव निरुपायमुपैति पदम् ॥ ६ ॥

॥ इति वरवरमुनि सुप्रभातं समाप्तम् ॥

You cannot copy content of this page