॥ श्रीचतुश्लोकी भागवतम् ॥

अहमेवासमेवाग्रे नान्यद्‌ यत्‌ सदसत्‌ परम्‌ ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्‌ ॥ १ ॥

ऋतेऽर्थं यत्‌ प्रतीयेत न प्रतीयेत चात्मनि ॥
तद्‌विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ २ ॥

यथा महान्ति भूतानि पूतेषूच्चावचेष्वनु ।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्‌ ॥ ३ ॥

एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः ।
अन्वयव्यतिरेकाभ्यां यत्‌ स्यात्‌ सर्वत्र सर्वदा ॥ ४ ॥

॥ इति  श्रीचतुश्लोकी भागवतम् ॥

You cannot copy content of this page