अथ दत्तात्रेयद्वादशनामस्तोत्रम्
अथ दत्तात्रेयद्वादशनामस्तोत्रम्
।।श्री गणेशाय नम:।।
अस्य श्रीदत्तात्रेय द्वादशनाम स्तोत्र मंत्रस्य। परमहंस ऋषि:। श्री दत्तात्रेय परमात्मा देवता।
अनुष्टुप् छंद:। सकल कामना सिद्ध्यर्थे जपे विनियोग:।
प्रथमस्तु महायोगी द्वितीय प्रभुरीश्वर:
तृतीयश्च त्रिमूर्तिश्च चतुर्थो ज्ञानसागर:।
पंचमो ज्ञानविज्ञानम् षष्ठस्यात् सर्वमंगलम्।
सप्तमो पुंडरीकाक्षरष्टमो देववल्लभ:।
नवमो नंददेवेशो दशमो नंददायक:।
एकादशो महारुद्र: द्वादशो करुणाकर:।
एतानि द्वादश नामानि दत्तात्रेय महात्मन:
मंत्रराजेति विख्यातं दत्तात्रेय हर: परा:।
क्षयोपस्मार कुष्ठादि तापज्वर निवारणम्
राजद्वारेपथे अघोरे संग्रामेषु जलांतरे।
गिरे गृहांतरे अरण्ये व्याघ्र चोर भयादिषु।
आवर्तने सहस्रेषु लभन्ते वांछितं फलम्।
त्रिकालं य: पठेन्नित्यं मोक्षसिद्धिमवाप्नुयात्।
दत्तात्रेय सदा रक्षेत् यश: सत्यं न संशय:।
विद्यार्थी लभते विद्यां रोगी रोगात् प्रमुच्यते।
अपुत्रो लभते पुत्रं दरिद्रि लभते धनम्।
अभार्यो लभते भार्याम् सुखार्थी लभते सुखम्।
मुच्यते सर्व पापेभ्यो सर्वत्र विजयी भवेत्।।
इति श्री दत्तात्रेयद्वादशनामस्तोत्रम् संपूर्णम्।।
श्री दत्तात्रेयार्पणमस्तु।।
