॥ भद्रसूक्तम् ॥

 

स्वस्तिवाचनम्

हरिॐ आनो॑भ॒द्रा क्रत॑वोॺन्तुव्वि॒श्वतोद॑ब्धासो॒अप॑रीतासउ॒द्भिद ।
दे॒वानो॒यथा॒सद॒मिद्वृ॒धेअस॒न्नप्रा॑युवोरक्षि॒तारो॑दि॒वेदि॑वे ॥१॥

दे॒वानाम्भ॒द्रासु॑म॒तिरृ॑जूय॒तान्दे॒वानारा॒तिर॒भिनो॒निव॑र्त्तताम् ।
दे॒वानास॒ख्यमुप॑सेदिमाव॒यन्दे॒वान॒आयुप्रति॑रन्तुजी॒वसे॑ ॥२॥

तान्पूर्व॑यानि॒विदा॑हूमहेव्व॒यंभगं॑मि॒त्रमदि॑तिं॒दक्ष॑म॒स्रिध॑म् ।
अर्ॺमणं॒व्वरु॑णसोम॑म॒श्विना॒सर॑स्वतीनसु॒भगा॒मय॑स्करत् ॥३॥

तन्नो॒व्वातो॑मयो॒भुव्वा॑तुभेष॒जन्तन्मा॒तापृ॑थि॒वीतत्पि॒ताद्यौ ।
तद्ग्रावा॑णसोम॒सुतो॑मयो॒भुव॒स्तद॑श्विनाशृणुतन्धिष्ण्याॺुवम् ॥४॥

तमीशा॑नञ्जग॑तस्त॒स्थुष॒स्पतिन्धियञ्जि॒न्न्वमव॑सेहूमहेव्व॒यम् ।
पू॒षानो॒ॺथा॒व्वेद॑सा॒मस॑द्वृ॒धेर॑क्षि॒तापा॒युरद॑ब्धस्व॒स्तये॑ ॥५॥

स्व॒स्तिन॒इन्द्रो॑व्वृ॒द्धश्र॑वास्व॒स्तिनपू॒षावि॒श्ववे॑दा ।
स्व॒स्तिन॒स्तार्क्ष्यो॒अरि॑ष्टनेमिस्व॒स्तिनो॒बृह॒स्पति॑र्द्दधातु ॥६॥

पृष॑दश्वाम॒रुतपृश्नि॑मातरशुभं॒ॺावा॑नोव्वि॒दथे॑षु॒जग्म्मय ।
अग्निजि॒ह्वामन॑वसूर॑चक्षसो॒व्विश्वे॑नोदे॒वाअव॒साग॑मन्नि॒ह ॥७॥

भ॒द्रङ्कर्णे॑भिशृणुयामदेवाभ॒द्रम्प॑श्येमा॒क्षभि॑र्ॺजत्त्रा ।
स्थिरैरङ्गै॑स्तुष्टु॒वास॑स्त॒नूभि॒र्व्य᳖शेमहि दे॒वहि॑तं॒ ॺदायु ॥८॥

श॒तमिन्नुश॒रदो॒अन्ति॑देवा॒ॺत्रा॑नश्च॒क्राज॒रसन्त॒नूना॑म् ।
पु॒त्रासो॒ॺत्र॑पि॒तरो॒भव॑न्ति॒मानो॑म॒द्ध्यारी॑रिष॒तायु॒र्गन्तो ॥९॥

अदि॑तिर्द्यौ॒रदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्म्मातासपि॒तासपु॒त्र ।
विश्वे॑दे॒वाअदि॑तिपञ्च॒जना॒अदि॑तिर्ज्जातमदि॑ति॒र्जनि॑त्वम् ॥१०॥

तंपत्क्नीभि॒रनु॑गच्छेमदेवापुत्रै॒र्भ्रातृ॑भिरु॒तवा॒हिर॑ण्यै ।
नाकङ्गृभ्णा॒नासु॑कृ॒तस्य॑लो॒केतृ॒तीये॑पृ॒ष्ठेअधि॑रोच॒नेदि॒व ॥११॥

द्यौ शान्ति॑र॒न्तरि॑क्षशान्तिपृथि॒वीशान्ति॒रापशान्ति॒रोष॑धयशान्ति ।
वन॒स्पत॑यशान्ति॒र्व्विश्वे॑दे॒वाशान्ति॒र्ब्रह्म॒शान्ति
सर्वशान्तिशान्ति॑रे॒वशान्तिसामा॒शान्ति॑रेधि ॥१२॥

ॺतो॑यतस॒मीह॑से॒ततो॑नो॒अभ॑यङ्कुरु ।
शन्नकुरुप्प्र॒जाभ्योभ॑यन्नप॒शुभ्य ॥१३॥

विश्वा॑निदेवसवितर्द्दुरि॒तानि॒परा॑सुव । ॺद्द्भद्द्रन्तन्न॒आसु॑व ॥१४॥

॥ इति स्वस्तिवाचनम् ॥

You cannot copy content of this page