चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनां अष्टोत्तरशतनामस्तोत्रम्
चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनां
अष्टोत्तरशतनामस्तोत्रम्
श्रीमद्वालयतिः ज्ञानी विश्वविख्यात वैभवः ।
वेदांतद्वयविज्ञाता काश्यपान्वयसंभवः ॥
श्रीमन्नारायणाचार्ययतीश्वरपदाश्रितः ।
गोपालाचार्यसान्निध्यलब्धविद्यामहानिधिः ॥
जीयर्शैक्षिकसंस्थानस्थापको वेदरक्षकः ।
भगवच्छास्त्रसंत्राता छात्रकल्पतरुर्महान् ॥
सहस्रकुण्डसद्यागनिर्वाहकुशलो गुणी ।
श्रीरामानुजसिद्धान्तप्रचारैकरतस्सुधीः ॥
त्रव्यंतार्थप्रतिष्ठाता तत्त्वबोधनतत्परः ।
चतुर्वेदपरित्राता बहुग्रंथप्रमुद्रकः ॥
सर्वसंशयविच्छेत्ता स्मयमानमुखांबुजः ।
यावद्भारतसत्तीर्थपावनीकृतसत्पदः ॥
श्रीमदष्टाक्षरीक्षेत्र व्यवस्थापरिवर्धकः ।
वेदान्तद्वयसत्पीठनिर्वाहनिपुणः सुधीः ॥
श्रीमद्विष्णुसहस्राख्यनामवैभवबोधकः ।
मंदसास्थानमहिमोद्धारकः सफलाशयः ॥
श्रीमद्भक्तिनिवेदाख्यपत्रिकाधिपतिर्गुरुः ।
गीताभाष्यादिसद्ग्रन्थनिगूढार्थोपदेशकः । ।
रामायणरहर्यार्थप्रबोधनपरायणः ।
वदान्यो मधुरालापो विनयादिविभूषितः ॥
शास्त्रज्ञः सत्यसङ्कल्पः सारासारविचक्षणः ।
विशिष्टाद्वैतसिद्धान्तप्रख्यापनधुरंधरः ॥
स्वाचार्यपादुकासेवानिरतो विपुलाशयः ।
श्रीसीतारामपादाब्जनित्याराधनसद्व्रतः ॥
शुभ्रोर्ध्वपुण्ड्रविलसल्ललाटो मधुरस्वरः ।
दिव्यसूरिप्रबन्धार्थव्याख्याता विजयी बुधः ॥
सर्ववैदिकसिद्धान्तसारांशग्रहणक्षमः ।
धाराप्रवाहवेदान्तशास्त्रज्ञानप्रबोधकः ॥
पादयात्राप्रचारी च वेदयात्राविधायकः ।
श्रीमन्मानसरोयात्रा निर्वाहनिपुणः स्थिरः ॥
जीवासंस्थाप्रतिष्ठाता वैद्यविद्याप्रवर्धकः ।
श्रीमज्जीयपुरस्कारप्रतिष्ठाता गुणालयः ॥
गोपालोपायनाभिख्यपुरस्कारप्रवर्तकः ।
वेदवेदान्तशास्त्रज्ञसम्मानैकपरायणः । ।
बाह्यदृष्टिविहीनानामुच्चविद्याप्रदायकः ।
देशांतरसुविख्यात भगवद्भक्तिगौरवः ॥
प्रज्ञापुस्तकनिर्माणप्रबोधितसुसंस्कृतिः ।
दिव्यसाकेतनिर्माता सत्समाजप्रवर्धकः ॥
जीयर्शताब्दिसंदर्भकृतभूरिमहोत्सवः ।
बहुभाषाविशेषज्ञः स्वाचार्यादृतमार्गगः ॥
नाथयामुनसिद्धान्तपरित्राणपरायणः ।
श्रीमुक्तिनाथसत्क्षेत्रयात्रा- पावितसज्जनः ॥
यादाद्रियदुगिर्यादितदीयाराधनोद्यतः ।
भूकंपादिमहादुःखमग्नानामवलंबकः ॥
विशालहृहयो धीमान् ज्ञानभक्त्यभिवर्षुकः ।
श्रीमद्गोधनसंत्राता गोसंवर्धनतत्परः॥
पूर्वाचार्यमहाग्रन्थरहस्योद्घाटनक्षमः ।
सच्छात्रनिलयो विद्वान् विद्यादानपरायणः ॥
प्रसन्नवदनो दान्तः सर्वभूतदयापरः ।
नदीपुष्करसंदर्भब्रह्मयज्ञविधायकः ॥
बहुशिष्यविनिर्माता बहुदेशप्रचारवान् ।
स्वाचार्यपरमाचार्यसद्वैभवप्रकाशकः ॥
रामानुज सहस्राब्दीमहोत्सवप्रवर्धकः ।
समतामूर्तिसंस्फूर्तिकेंद्रनिर्माणतत्परः॥
अंताराष्ट्रियसद्भक्तसंसेवितपदांबुजः ।
सौलभ्यगुणसंपन्नः सौशील्यगुणशेवधिः ॥
इतिहासपुराणादिव्याख्याग्रन्थसुमुद्रकः ।
मितभाषी मधुरवाक् वेदवाङ्मयरक्षकः ॥
मन्त्रमन्त्रार्थदो मान्यो माधवाङ्घ्रिसमाश्रितः ।
तुलास्वात्यवतीर्णोऽथ दीपावलिप्रभान्वितः॥
श्रीमद्विजयकीलाद्रिमंदिरस्थापकोत्तमः ।
रंगधामप्रतिष्ठाता बहुविद्यालयाधिपः ॥
श्रीजीयर्मठनिर्माता जगबंधुर्जयावहः ।
कृष्णमाचार्यवर्येण समर्पितमिदं मुदा ।
अष्टोत्तरशतं नाम्नां यतीश्वरपदाब्जयोः ॥
तुलास्वात्यवतीर्णाय विश्वविख्यातकीर्तये ।
श्रीमन्नारायणाभिख्ययतिराजाय मंगलम् ॥
चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनां अष्टोत्तरशतनामस्तोत्रम्
मंगलशासनम्
विशिष्टाद्वैताख्यं सकलगुरुभिः स्थापितमतं,
वितन्वानो नित्यं विपुलतमभूमौ गुरुवरः ।
त्रयीणां संत्राता रघुपतिपदन्यस्तहृदयः
चिरं जीयात् विद्वान् यतिपतिरसौ विश्वविजयी ॥
विद्यावेत्ता विमलहृदयो, विश्वविख्यातकीर्तिः
आम्नायानामनघकवचः, छात्ररक्षाप्रवीणः ।
श्रीमद्रामानुजमुनिमतस्थापको दीर्घदर्शी,
श्रीमन्नारायणयतिपतिः दीर्घकालं सुजीयात् ॥
जयतु जयतु नित्यं वेदविद्याप्रदीपः
जयतु जयतु नित्यं वैष्णवेष्वग्रगण्यः ।
जयतु जयतु नित्यं मानमेयैकवेत्ता,
जयतु जयतु नित्यं चिन्नजीयर् महीयान् ॥
स्वस्त्यस्तु ते गुरुवराय गुणार्णवाय
सन्मंगलं भवतु त्वत्कमनीयकीर्त्यै ।
नारायणार्ययतिशेखर ते नमः स्तात्
स्वाती सदा सकलमंगलदाऽस्तु तारा ॥
श्रीमत्काश्यपवंशभूषणमणिः कारुण्यवारान्निधिः
विश्वत्राणपरायणो गुणनिधिः सच्छात्रसेव्यस्स्दा
श्रीरामानुजकीर्तिव्याप्तिकरणे दत्तावधानो भृशं
षष्ट्यब्दीं परिपूरयन् विजयते नारायणार्यो यतिः ॥
प्रज्ञाभूमिर्महिष्ठः सुविपुलमहिमा, रक्षिता वाङ्मयस्य
संस्कर्ता मानवानां, रघुपतिविजयख्यापने बद्धदीक्षः ।
द्रष्टा लक्ष्यस्य नित्यं, सुमधुरवचसां सर्जकः शास्त्रवेत्ता,
श्रीमन्नारायणाख्यो जयतु यतिपतिः दीर्घकालं दयालुः ॥
॥ स्वस्ति ॥
