चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनाम् अष्टोत्तरशतनामस्तोत्रम्

चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनाम्

अष्टोत्तरशतनामस्तोत्रम्


श्रीमन्नारायणाचार्ययतीश्वरपदाश्रितः ।
गोपालाचार्यसान्निध्यलब्धविद्यामहानिधिः ॥


जीयर्शैक्षिकसंस्थानस्थापको वेदरक्षकः ।
भगवच्छास्त्रसंत्राता छात्रकल्पतरुर्महान् ॥


सहस्रकुण्डसद्यागनिर्वाहकुशलो गुणी ।
श्रीरामानुजसिद्धान्तप्रचारैकरतस्सुधीः ॥


त्रव्यंतार्थप्रतिष्ठाता तत्त्वबोधनतत्परः ।
चतुर्वेदपरित्राता बहुग्रंथप्रमुद्रकः ॥


सर्वसंशयविच्छेत्ता स्मयमानमुखांबुजः ।
यावद्भारतसत्तीर्थपावनीकृतसत्पदः ॥


श्रीमदष्टाक्षरीक्षेत्र व्यवस्थापरिवर्धकः ।
वेदान्तद्वयसत्पीठनिर्वाहनिपुणः सुधीः ॥


श्रीमद्विष्णुसहस्राख्यनामवैभवबोधकः ।
मंदसास्थानमहिमोद्धारकः सफलाशयः ॥


श्रीमद्भक्तिनिवेदाख्यपत्रिकाधिपतिर्गुरुः ।
गीताभाष्यादिसद्ग्रन्थनिगूढार्थोपदेशकः ॥


रामायणरहर्यार्थप्रबोधनपरायणः ।
वदान्यो मधुरालापो विनयादिविभूषितः ॥


शास्त्रज्ञः सत्यसङ्कल्पः सारासारविचक्षणः ।
विशिष्टाद्वैतसिद्धान्तप्रख्यापनधुरंधरः ॥


स्वाचार्यपादुकासेवानिरतो विपुलाशयः ।
श्रीसीतारामपादाब्जनित्याराधनसद्व्रतः ॥


शुभ्रोर्ध्वपुण्ड्रविलसल्ललाटो मधुरस्वरः ।
दिव्यसूरिप्रबन्धार्थव्याख्याता विजयी बुधः ॥


सर्ववैदिकसिद्धान्तसारांशग्रहणक्षमः ।
धाराप्रवाहवेदान्तशास्त्रज्ञानप्रबोधकः ॥


पादयात्राप्रचारी च वेदयात्राविधायकः ।
श्रीमन्मानसरोयात्रा निर्वाहनिपुणः स्थिरः ॥


जीवासंस्थाप्रतिष्ठाता वैद्यविद्याप्रवर्धकः ।
श्रीमज्जीयपुरस्कारप्रतिष्ठाता गुणालयः ॥


गोपालोपायनाभिख्यपुरस्कारप्रवर्तकः ।
वेदवेदान्तशास्त्रज्ञसम्मानैकपरायणः 


बाह्यदृष्टिविहीनानामुच्चविद्याप्रदायकः ।
देशांतरसुविख्यात भगवद्भक्तिगौरवः ॥


प्रज्ञापुस्तकनिर्माणप्रबोधितसुसंस्कृतिः ।
दिव्यसाकेतनिर्माता सत्समाजप्रवर्धकः ॥


जीयर्शताब्दिसंदर्भकृतभूरिमहोत्सवः ।
बहुभाषाविशेषज्ञः स्वाचार्यादृतमार्गगः ॥


नाथयामुनसिद्धान्तपरित्राणपरायणः ।
श्रीमुक्तिनाथसत्क्षेत्रयात्रा- पावितसज्जनः ॥


यादाद्रियदुगिर्यादितदीयाराधनोद्यतः ।
भूकंपादिमहादुःखमग्नानामवलंबकः ॥


विशालहृहयो धीमान् ज्ञानभक्त्यभिवर्षुकः ।
श्रीमद्गोधनसंत्राता गोसंवर्धनतत्परः॥


पूर्वाचार्यमहाग्रन्थरहस्योद्घाटनक्षमः ।
सच्छात्रनिलयो विद्वान् विद्यादानपरायणः ॥


प्रसन्नवदनो दान्तः सर्वभूतदयापरः ।
नदीपुष्करसंदर्भब्रह्मयज्ञविधायकः ॥


बहुशिष्यविनिर्माता बहुदेशप्रचारवान् ।
स्वाचार्यपरमाचार्यसद्वैभवप्रकाशकः ॥


रामानुज सहस्राब्दीमहोत्सवप्रवर्धकः ।
समतामूर्तिसंस्फूर्तिकेंद्रनिर्माणतत्परः॥


अंताराष्ट्रियसद्भक्तसंसेवितपदांबुजः ।
सौलभ्यगुणसंपन्नः सौशील्यगुणशेवधिः ॥


इतिहासपुराणादिव्याख्याग्रन्थसुमुद्रकः ।
मितभाषी मधुरवाक् वेदवाङ्मयरक्षकः ॥


मन्त्रमन्त्रार्थदो मान्यो माधवाङ्घ्रिसमाश्रितः ।
तुलास्वात्यवतीर्णोऽथ दीपावलिप्रभान्वितः॥


श्रीमद्विजयकीलाद्रिमंदिरस्थापकोत्तमः ।
रंगधामप्रतिष्ठाता बहुविद्यालयाधिपः ॥


श्रीजीयर्मठनिर्माता जगबंधुर्जयावहः ।
कृष्णमाचार्यवर्येण समर्पितमिदं मुदा
अष्टोत्तरशतं नाम्नां यतीश्वरपदाब्जयोः ॥


तुलास्वात्यवतीर्णाय विश्वविख्यातकीर्तये ।
श्रीमन्नारायणाभिख्ययतिराजाय मंगलम् ॥

चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनां अष्टोत्तरशतनामस्तोत्रम्

You cannot copy content of this page