मृत्युञ्जयाराधना

 

॥ अथ मृत्युञ्जयाराधनम् ॥

अथ यजमानः स्नानादि नित्यकर्म कृत्वा, कर्माङ्गत्वेन स्नानपवन -मन्त्राचमनमन्त्रप्रोक्षणानि विधाय, गणपतिं सम्पूज्य, क्षेत्रपालवास्तोष्पतिं संप्रार्थ्य, श्री मृत्युञ्जयरुद्रः प्रीयतामितिपुण्याहं वाचयित्वा, सङ्कल्पयति ।

अथ प्रधानसङ्कल्पः ॥

मम अतीतेषु जन्मसु, इह जन्मनि च जन्मप्रभृत्येतत्क्षणपर्यन्तं ज्ञानतोऽज्ञानतश्च स्वतः परप्रेरणया वा कृतानां पापानां परिहारार्थं, आध्यात्मिक-आधिदैविक-आधिभौतिकाख्यतापत्रयनिवृत्यर्थं परकृतैः मन्त्रतन्त्रयन्त्रविषचूर्णकृत्याञ्जनाद्यतर्क तापप्रदैः प्रयोगैश्च जनिष्यमाणपीडा शान्त्यर्थं, स्थावर-जङ्गम-कृत्रिम-आकाश-दन्त-नख-लूताद्युद्भवविषबाधा परिहारार्थं, शीतातपलोभमोहक्षुत्पिपासाख्य षडूर्मिबाधा निरासार्थं, राज-चोर-शत्रु-शस्त्र-वह्नि-वायु-वारि-सरीसृप-दुष्टमृग भयनिरसनार्थं, वातपित्थश्लेष्मवैषम्येण उत्पत्स्यमानानां दुष्टनक्षत्रमृत्युयोग दुष्टतिथिपापवारादिषु च जनिष्यमाणानां, विविधज्वराणां, दुःसहपापप्रदानां व्याधीनां, दुश्चिकित्स्यरूपाणां महारोगाणां च निवृत्तिद्वारा नैरुज्यबल पुष्ट्यतिशयाभिवृद्ध्यर्थं, कामक्रोधादिवशात् जनिष्यमाणानां मनोविकारचित्त चाञ्चल्यादीनां परिहारपूर्वकं मनःशान्तिचित्त स्थैर्यपरमस्वास्थ्यलाभार्थं, सर्वेषां परस्परनिन्दाहिंसाविद्वेषनिवृत्तिपूर्वकं सौहार्द समुत्पत्यर्थं, अपमृत्युकालमृत्यु व्यालमृत्युघोरमृत्युदुष्टमृत्यु-अरिष्टमृत्युक्षुद्रमृत्यु लक्षणसप्तविध मृत्युकण्टकानां निवारणार्थं अन्येषां अकालमृत्युप्रदायकानां कण्टकानां परिहारपूर्वकं आयुरभिवृद्ध्यर्थं, दुःखभयलज्जारोगशोकमरण-अपमानेत्यष्टविध मृत्युदोषाणां अपनोदनार्थं गोभूगृहधनधान्यकनकवस्तुवाहनादि सकलैश्वर्यसिद्ध्यर्थं धर्मार्थ काममोक्षसिद्ध्यर्थं श्रीमृत्युञ्जयरुद्रप्रीत्यर्थं मृत्युञ्जयहोमाख्यं कर्म करिष्ये ॥ इति सङ्कल्प्य, ऋत्विजो वरयेत् ।

अथ जपविधानम् ॥

यजमानेन वृतोऽहं मृत्युञ्जयप्रीत्यर्थं मृत्युञ्जयमन्त्रजपं करिष्यामि ॥ तत्रादौ न्यासाः –

अथ ऋष्यादिन्यासाः ॥

कहोळऋषये नमः । इति शिरसि । देवीगायत्री छन्दसे नमः । इति मुखे । श्रीमृत्युञ्जयरुद्रदेवतायै नमः । इति हृदि । जुं बीजाय नमः । इति नाभौ । सः शक्तये नमः । इति पादयोः । श्रीमृत्युञ्जयरुद्रप्रीत्यर्थे जपे विनियोगाय नमः । इति सर्वाङ्गे ॥ इति ॥

अथ करन्यासः ॥

ॐ सां अङ्गुष्टाभ्यां नमः । ॐ सीं तर्जनीभ्यां नमः । ॐ सूं मध्यमाभ्यां नमः । ॐ सैं अनामिकाभ्यां नमः । ॐ सौं कनिष्ठिकाभ्यां नमः । ॐ सः करतलकरपृष्ठाभ्यां नमः ॥ इति ॥

अथ हृदयदिन्यासाः ॥

ॐ सां हृदयाय नमः । ॐ सीं शिरसे स्वाहा । ॐ सूं शिखायै वषट् । ॐ सैं कवचाय हुम् । ॐ सौं नेत्रत्रयाय वौषट् । ॐ सः अस्त्राय फट् ॥ इति ॥

अथाक्षरन्यासः ॥

ॐ ॐ नमः । इति नाभौ । ॐ जूं नमः । इति हृदि । ॐ सः नमः । इति भ्रूमध्ये ॥ इति ॥

अथ ध्यानम् ॥

स्फुटितनलिनसंस्थं मौळिबद्धेन्दुरेखा गलदमृतजलार्द्रं चन्द्रवह्न्यर्कनेत्रम् । स्वकरकलितमुद्रापाशवेदाक्षमालं स्फटिकरजतमुक्तागौरमीशं नमामि ॥ इति ॥

चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं,
मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् ।
कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्वलं,
कान्त्याविश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये ॥ इति शारदा तिलके ध्यानान्तरमुक्तम् ॥ मानसो पचारैः सम्पूज्य, मूलं जपेत् ॥

ॐ “ओं जूं सः” इति ॥

ॐ “वं जूं सः” इत्यमृतमृत्युञ्जयमन्त्रः ॥

ॐ जुं सः इत्यनन्तरं पालयपदयुगलयुक्तं साध्यनाम चोक्त्वानन्तरमपि सः जुं ॐ इति प्रतिलोमेन योजयेदिति मन्त्रान्तरमुक्तं प्रपञ्चसारसारसङ्ग्रहे,
ॐ “ओं जूं सः मृत्युञ्जय पालय पालय सः जूं ओं” इत्यपि द्वादशवर्णात्मको मन्त्रः ॥

ॐ “ओं जूं सः सः जूं ओं” इति षडक्षरमृत्युञ्जयमन्त्रः ॥

“ओं जुं सः” इत्यपि पाठान्तरं वर्तते ॥ ॐ “हौं जूं सः” इति प्रासादमृत्युञ्जयमन्त्रः मन्त्रमहार्णवे ॥

अथ त्र्यम्बकमन्त्रः ॥ अस्य श्रीत्र्यम्बकमन्त्रस्य, वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । त्र्यम्बकरुद्रो देवता । ॐ बीजम् । ह्रीं शक्तिः ॥ ॐ त्र्यम्बकम् । ॐ यजामहे । ॐ सुगन्धिं पुष्टिवर्धनम् । ॐ उर्वारुकमिव बन्धनात् । ॐ मृत्योर्मुक्षीय । ॐ मामृतात् ॥ अच्छं स्वच्छारविन्दस्थितमुभयकरे संस्थितौ पूर्णकुम्भौ,
द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौनित्यपूर्णौ ।
द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलां चामृतैः प्लावयन्तम्,
देहं देवो दधानः प्रदिशतु विशदां कल्पजालं श्रियं नः ॥

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ इति ॥

अथ षट्प्रणवमहामृत्युञ्जय मन्त्रः ॥ अस्य श्रीमहामृत्युञ्जयमन्त्रस्य वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । महामृत्युञ्जयत्र्यम्बकरुद्रो देवता ॥ ॐ हौं जूं सः । ॐ भूर्भुवस्स्वः । ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । ॐ उर्वारुकमिव बन्धनात् । ॐ मृत्योर्मुक्षीय मामृतात् । ॐ स्वः भुवः भूः सः जूं हौं ओम् ॥ अरुणकमलकान्तिं स्वर्धुनीराजमानम्,
करकलितकपालं स्वक्षमालां दधानम् ।
कलशममृतपूर्णं शूलहस्तं ज्वलन्तम्,
त्रिणयनमभिवन्दे मृत्युमृत्युं महेशम् ॥ ॐ ओं हौं जूं सः ॐ भूर्भुवस्स्वः ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ ॐ स्वः भुवः भूः ॐ सः जूं हौं ओम् ॥ इति ॥

अथ पौराणिको मन्त्रः ॥

मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे ।
अमृतेशाय शर्वाय महादेवाय ते नमः ॥ इति ॥

अथ कलशस्थापनपूजनम् ॥

तत्रादौ यन्त्रलेखनम् –
अष्टदल पद्मपत्रं विलिख्य, तद्बाह्ये चतुर्द्वारं चतुरस्रं वा रचयेत् ॥

बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलवृत्तत्रयभूपुरयुतमिति देवीरहस्ये,
षट्कोणवृत्तभूपुरत्रयमिति मन्त्रमहार्णवे,
षट्कोणभूपुरमिति,अष्टदलभूपुरत्रयमिति विद्यार्णवतन्त्रे,
पञ्चकोणाष्टवृत्ताष्टदलभूपुरत्रयमिति मन्त्रमहार्णवे,

पूजाद्रव्याणि सङ्गृह्य, घण्टानादं कृत्वा, देशकालौ सङ्कीर्त्य, श्रीमृत्युञ्जयरुद्रप्रीत्यर्थं देवता सान्निध्यार्थं कलशस्थापन पूजनं करिष्ये ॥ इति सङ्कल्प्य, पृथिवीपूजादि मण्टपार्चनान्ते द्वारमर्चयेत् ।

अथ द्वारपालपूजा ॥

पूर्वद्वारे, ॐ नन्दिने नमः । ॐ महाकालाय नमः । दक्षिणद्वारे, ॐ गणेशाय नमः । ॐ वृषभध्वजाय नमः । पश्चिमद्वारे, ॐ भृङ्गरिटये नमः । ॐ स्कन्दाय नमः । उत्तरद्वारे, ॐ पार्वतीशाय नमः । ॐ चण्डेश्वराय नमः ॥ इति ॥

अथ पीठपूजा ॥

ॐ गुं गुरुभ्यो नमः । गं गणपतये नमः । ॐ आधारशक्त्यैनमः । मूलप्रकृत्यै नमः । ॐ आदिकूर्माय नमः । ॐ अनन्ताय नमः । ॐ पृथिव्यै नमः । ॐ धर्माय नमः । ॐ ज्ञानाय नमः । ॐ वैराग्याय नमः । ॐ ऐश्वर्याय नमः । ॐ अधर्माय नमः । ॐ अज्ञानाय नमः । ॐ अवैराग्याय नमः । ॐ अनैश्वर्याय नमः । ॐ सं सत्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः । मं मायायै नमः । विं विद्यायै नमः । पं पद्माय नमः ॥ अं अर्कमण्डलाय नमः । उं सोममण्डलाय नमः । मं वह्निमण्डलाय नमः । अं आत्मने नमः । उं अन्तरात्मने नमः । मं परमात्मने नमः । ह्रीं ज्ञानात्मने नमः ॥ इति ॥

अथ नवशक्तिपूजा ॥ ॐ वामायै नमः । ॐ ज्येष्ठायै नमः । ॐ रौद्र्यै नमः । ॐ काल्यै नमः । ॐ कलविकरिण्यै नमः । ॐ बलविकरिण्यै नमः । ॐ बलप्रमथिन्यै नमः । ॐ सर्वभूतदमन्यै नमः । ॐ मनोन्मन्यै नमः ॥ इति ॥

ॐ नमो भगवते सकलगुण शक्तियुक्ताय अनन्ताय योगपीठात्मनेनमः ॥ सुवर्णपीठं कल्पयामि । “ओं जूं सः” ॥ इति मूलेन मूर्तिं प्रकल्प्य,
ॐ नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने ।
चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शम्भवे ॥

चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं,
मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् ।
कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्वलं
कान्त्याविश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये ॥

स्वात्मसंस्थमजं शुद्धं त्वामद्य परमेश्वर । अरण्यामिव हव्याशं मूर्ता वावाहयाम्यहम् ॥

“ओं जूं सः” ॥ इति मूलमुच्चार्य, व्याहृत्या आवाहयेत् ।
आवाहनादि मुद्राः प्रदर्श्य, गन्धलिप्तकरद्वयेन मूलेन त्रिर्व्याप्य, सङ्कलीकृत्य, मूलं यथाशक्ति जपेत् ॥ ततः पञ्चोपचारैरभ्यर्च्य, षोडशोपचारान्समाचरेत् ॥

अथोपचाराः ॥

सर्वान्तर्यामिणे देव सर्वबीजमयं शुभम् । स्वात्मस्थाय परं शुद्धं आसनं कल्पयाम्यहम् ॥ श्री मृत्युञ्जयरुद्राय नमः । आसनं समर्पयामि ॥

यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये । तस्मै ते परमेशाय स्वागतं स्वागतं च मे ॥ श्री मृत्युञ्जयरुद्राय नमः । स्वागतं समर्पयामि ॥

यद्भक्तिलेशसम्पर्कात् परमानन्दसम्भवः । तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥ श्री मृत्युञ्जयरुद्राय नमः । पाद्यं समर्पयामि ॥

तापत्रयहरं दिव्यं परमानन्दलक्षणम् । तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् ॥ श्री मृत्युञ्जयरुद्राय नमः । अर्घ्यं समर्पयामि ॥

वेदानामपि वेदाय देवानां देवतात्मने । आचमं कल्पयामीश शुद्धानां शुद्धि हेतवे ॥ श्री मृत्युञ्जय रुद्राय नमः । आचमनं समर्पयामि ॥

सर्वकालुष्य हीनाय परिपूर्णसुखात्मकम् । मधुपर्कमिदं देव कल्पयामि प्रसीद मे ॥ श्री मृत्युञ्जयरुद्राय नमः । मधुपर्कं समर्पयामि ॥

परमानन्दबोधाब्धि निमग्ननिजमूर्तये । साङ्गोपाङ्गमिदं स्नानं कल्पयामीश ते पुनः ॥ श्री मृत्युञ्जयरुद्राय नमः । स्नानं समर्पयामि ॥

मया चित्रपटाच्छन्ननिजगुह्योरुतेजसे । निरावरणविज्ञानवस्त्रं ते कल्पयाम्यहम् ॥ श्री मृत्युञ्जयरुद्राय नमः । वस्त्रं समर्पयामि ॥

यामाश्रित्य महामाया जगत्सम्मोहिनी सदा । तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ॥ श्री मृत्युञ्जयरुद्राय नमः । उपवस्त्रं समर्पयामि ॥

यस्य शक्तित्रयेणेदं संप्रोतमखिलं जगत् । यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये ॥ श्री मृत्युञ्जयरुद्राय नमः । यज्ञोपवीतं समर्पयामि ॥

परमानन्दसौरभ्यपरिपूर्णदिगन्तरम् । गृहाण परमं गन्धं कृपया परमेश्वर ॥ श्री मृत्युञ्जयरुद्राय नमः । गन्धं समर्पयामि ॥

तुरीय वनसम्भूतं नानागुणमनोहरम् । आनन्दसौरभं पुष्पं गृह्यतामिदमुत्तमम् ॥ श्री मृत्युञ्जयरुद्राय नमः । पुष्पाणि समर्पयामि ॥

अथावरण पूजा ॥

१) ॐ सां हृदयाय नमः । ॐ सीं शिरसे स्वाहा नमः । ॐ सूं शिखायै वषण्णमः । ॐ सैं कवचाय हुं नमः । ॐ सौं नेत्रत्रयाय वषण्णमः । ॐ सः अस्त्रायफण्णमः ॥

अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्यासमर्पये तुभ्यं प्रथमावरणार्चनम् ॥ १॥

२) ॐ लं इन्द्राय सुराधिपतये नमः । ॐ रं अग्नये तेजोधिपतये नमः । ॐ हं यमाय प्रेताधिपतये नमः । ॐ षं निरृतये रक्षोधिपतये नमः । ॐ वं वरुणाय जलाधिपतये नमः । ॐ यं वायवे प्राणाधिपतये नमः । ॐ सं सोमाय नक्षत्राधिपतये नमः । ॐ शं ईशानाय विद्याधिपतये नमः । ॐ ह्रीं शेषाय नागाधिपतये नमः । ॐ आं ब्रह्मणे लोकाधिपतये नमः ॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्यासमर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ २॥

३) ॐ वज्राय नमः । ॐ शक्तये नमः । ॐ दण्डाय नमः । ॐ खड्गाय नमः । ॐ पाशाय नमः । ॐ अङ्कुशाय नमः । ॐ गदायै नमः । ॐ त्रिशूलाय नमः । ॐ चक्राय नमः । ॐ पद्माय नमः ॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्यासमर्पये तुभ्यं तृतीयावरणार्चनम् ॥ ३॥

त्र्यम्बकावरणम् ॥ अङ्गैः प्रथमावृतिः ॥ १॥ ईशानायार्कमूर्तये । महादेवायेन्दुमूर्तये । भवाय क्षितिमूर्तये । शर्वाय जलमूर्तये । रुद्रायाग्निमूर्तये । उग्राय वायुमूर्तये । भीमायाकाशमूर्तये । पशुपतये यजमानमूर्तये ॥ २ ॥ रमायै । राकायै । प्रभायै । ज्योत्स्नायै । पूर्णायै । उषायै । पूरण्यै । सुधायै ॥ ३ ॥ विश्वायै । विद्यायै । सितायै । प्रह्वायै । सारायै । सन्ध्यायै । शिवायै । निशायै ॥ ४ ॥ आर्यायै । प्रज्ञायै । प्रभायै । मेधायै । शान्त्यै । कान्त्यै । धृत्यै । मत्यै ॥ ५ ॥ धरायै । मायायै । अवन्यै । पद्मायै । शान्तायै । अमोघायै । अजयायै । अमलायै ॥ ६ ॥ इन्द्रादिभिः सप्तमावृतिः ॥ ७ ॥ वज्रादिभिरष्टमावृतिः ॥ ८ ॥

महामृत्युञ्जयत्र्यम्बकरुद्रावरणम् ॥ ईशानाय । तत्पुरुषाय । अघोराय । वामदेवाय । सद्योजाताय । निवृत्तिकलायै । प्रतिष्ठाकलायै । विद्याकलायै । शान्तिकलायै । शान्त्यतीतकलायै ॥ १॥ अङ्गैर्द्वितीया ॥ २ ॥ अष्टमूर्तिभिस्तृतीया ॥ ३ ॥ रमाद्यष्टभिश्चतुर्थी ॥ ४ ॥ विश्वाद्यष्टभिः पञ्चमी ॥ ५ ॥ आर्याद्यष्टभिः षष्ठी ॥ ६ ॥ धराद्यष्टभिस्सप्तमी ॥ ७ ॥ अनन्ताय । सूक्ष्माय । शिवोत्तमाय । एकनेत्राय । एकरुद्राय । त्रिमूर्तये । श्रीकण्ठाय । शिखण्डिने ॥ ८ ॥ उमायै । चण्डेश्वराय । नन्दिने । महाकालाय । गणेशाय । वृषभाय । भृङ्गिरिटये । स्कन्दाय ॥ ९ ॥ ब्राह्म्यै । माहेश्वर्यै । कौमार्यै । वैष्णव्यै । वाराह्यै । इन्द्राण्यै । चामुण्डायै । महालक्ष्म्यै ॥ १० ॥ इन्द्रादिभिः ॥ ११ ॥ वज्राद्यन्ते… वृषभाय । चण्डेश्वराय ॥ १२

 


॥ इति  मृत्युञ्जयाराधनम् ॥ 

You cannot copy content of this page