॥ श्रीहयग्रीवाष्टोत्तरशतनामस्तोत्रम् ॥

हयग्रीवो महाविष्णुः केशवो मधुसूदनः।
गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वम्भरो हरिः॥१॥

आदित्यः सर्ववागीशः सर्वाधारः सनातनः।
निराधारो निराकारो निरीशो निरुपद्रवः॥२॥

निरञ्जनो निष्कलङ्को नित्यतृप्तो निरामयः।
चिदानन्दमयः साक्षी शरण्यः सर्वदायकः॥३॥

श्रीमान् लोकत्रयाधीशः शिवः सारस्वतप्रदः।
वेदोद्धर्त्ता वेदनिधिर्वेदवेद्यः प्रभूतनः ॥४॥

पूर्णः पूरयिता पुण्य़ः पुण्यकीर्तिः परात्परः।
परमात्मा परञ्ज्योतिः परेशः पारगः परः॥५॥

सर्ववेदात्मको विद्वान् वेदवेदाङ्गपारगः।
सकलोपनिषद्वेद्यो निष्कलः सर्वशा स्त्रकृत्॥६॥

अक्षमालाज्ञानमुद्रायुक्तहस्तो वरप्रदः।
पुराणपुरुषः श्रेष्ठः शरण्यः परमेश्वरः ॥७॥

शान्तो दान्तो जितक्रोधो जितामित्रो जगन्मयः।
जगन्मृत्युहरो जीवो जयदो जाड्यनाशनः॥८॥

जनप्रियो जनस्तुत्यो जापकप्रियकृत्प्रभुः।
विमलो विश्वरूपश्च विश्वगोप्ता विधिस्तुतः॥९॥

विधीन्द्रशिवसंस्तुत्यः शान्तिदः क्षान्तिपारगः।
श्रेयप्रदः श्रुतिमयः श्रेयसां पतिरीश्वरः ॥१०॥

अच्युतोऽनन्तरूपश्च प्राणदः पृथिवीपतिः।
अव्यक्तो व्यक्तरूपश्च सर्वसाक्षी तमोहरः॥११॥

अज्ञाननाशको ज्ञानी पूर्णचन्द्रसमप्रभः।
ज्ञानदो वाक्पतिर्योगी योगीशः सर्वकामदः॥१२॥

महायोगी महामौनी मौनीशः श्रेयसां पतिः।
हंसः परमहंसश्च विश्वगोप्ता विराट् स्वराट्॥१३॥

शुद्धस्फटिकसङ्काशो जटामण्डलसंयुतः।
आदिमध्यान्तरहितः सर्ववागीश्वरेश्वरः॥१४॥

॥ इति श्री हयग्रीवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page