श्रीमन्त्रराजपदस्तोत्रम्
श्रीमते रामानुजाय नमः
श्री मन्त्रराजपदस्तोत्रम् ॥
श्री ईश्वर उवाच
वृत्तोत्फुल्ल विशालाक्षं विपक्षक्षयदीक्षितम्।
निनादत्रस्तविश्वाण्डं विष्णुं उग्रं नमाम्यहम् ॥ १ ॥
सर्वैरवध्यतां प्राप्तं सबलौघं दितेः सुतम्।
नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम् ॥ २ ॥
पदावष्टव्यपाताळं मूर्धाविष्टत्रिविष्टपम्।
भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम् ॥ ३ ॥
ज्योतींष्यकॅन्दु नक्षत्रज्वलनादीन्यनुक्रमात्।
ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम् ॥ ४ ॥
सर्वेन्द्रियैरपि विना सर्व सर्वत्र सर्वदा।
यो जानाति नमाम्याद्यं तमहं सर्वतोमुखम् ॥ ५ ॥
नरवत् सिंहवच्चैव यस्य रूपं महात्मनः।
महासटं महादंष्ट्रम् तं नृसिंहं नमाम्यहम् ॥ ६ ॥
यन्नामस्मरणाद् भीताः भूतवेताळराक्षसाः।
रोगाद्याश्च प्रणश्यन्ति भीषणं तं नमाम्यहम् ॥ ७ ॥
सर्वोऽपि यं समाश्रित्य सकलं भद्रमश्रुते।
श्रिया च भद्रया जुष्टः यस्तं भद्रं नमाम्यहम् ॥ ८ ॥
साक्षात् स्वकाले संप्राप्तं मृत्युं शत्रुगणान्वितम्।
भक्तानां नाशयेद् यस्तु मृत्युमृत्युं नमाम्यहम् ॥ ९ ॥
नमस्कारात्मकं यस्मै विधायाऽऽत्मनिवेदनम्।
त्यक्तदुःखोऽखिलान् कामान् अश्नन्तं तं नमाम्यहम् ॥ १० ॥
दासभूताः स्वतस्सर्वे ह्यात्मानः परमात्मनः।
अतोऽहमपि ते दासः इति मत्वा नमाम्यहम् ॥ ११ ॥
शङ्करेणाऽऽदात् प्रोक्तं पदानां तत्त्वनिर्णयम्।
त्रिसन्ध्यं यः पठेत् तस्य श्रीर्विद्याऽऽयुश्च वर्धते ॥ १२ ॥
॥ श्री मन्त्रराजपदस्तोत्रं समाप्तम् ॥
