Narayana Hridaya Stotram

नारायणहृदयस्तोत्रम्

विनियोगः
ॐ अस्य श्री नारायणहृदयस्तोत्रमंत्रस्य भार्गव ऋषिः, अनुष्टुप छन्दः, श्रीलक्ष्मीनारायणो देवता, श्री लक्ष्मीनारायण प्रीत्यर्थ जपे विनियोगः।

करन्यास:

ॐ नारायणः परम् ज्योतिरित्यन्गुष्ठाभ्यनमः । ॐ नारायणःपरम् ब्रह्मेति तर्जनीभ्यानमः ।ॐ नारायणः परो देव इति मध्य्माभ्यान्मः ।ॐ नारायणःपरम् धामेति अनामिकाभ्यान्मः ।ॐ नारायणः परो धर्म इति कनिष्टिकाभ्यान्मः ।ॐ विश्वं नारायणःइति करतल पृष्ठाभ्यानमः । एवं हृदयविन्यासः ।

ध्यानम्
उद्ददादित्यसङ्गाक्षं पीतवाससमुच्यतं ।
शङ्ख चक्र गदापाणिं ध्यायेलक्ष्मीपतिं हरिं ॥

ॐ नमो भगवते नारायणाय ‘ इति मन्त्रं जपेत्

श्रीवेदव्यास उवाच
श्रीमन्नारायणो ज्योतिरात्मा नारायणःपरः ।
नारायणः परम्- ब्रह्म नारायण नमोस्तुते ॥

नारायणः परो -देवो दाता नारायणः परः ।
नारायणः परोध्याता नारायणः नमोस्तुते ॥

नारायणः परम् धाम ध्याता नारायणः परः ।
नारायणः परो धर्मो नारायण नमोस्तुते ॥

नारायणपरो बोधो विद्या नारायणः परा ।
विश्वंनारायणः साक्षन्नारायण नमोस्तुते ॥

नारायणादविधिर्जातो जातोनारायणाच्छिवः ।
जातो नारायणादिन्द्रो नारायण नमोस्तुते ॥

रविर्नारायणं तेजश्चन्द्रो नारायणं महः ।
बहिर्नारायणः साक्षन्नारायण नमोस्तु ते ॥

नारायण उपास्यः स्याद् गुरुर्नारायणः परः ।
नारायणः परो बोधो नारायण नमोस्तु ते ॥

नारायणःफलं मुख्यं सिद्धिर्नारायणः सुखं ।
सर्व नारायणः शुद्धो नारायण नमोस्तु ते ॥

नारायण्त्स्वमेवासि नारायण हृदि स्थितः ।
प्रेरकः प्रेर्यमाणानां त्वया प्रेरित मानसः॥

त्वदाज्ञाम् शिरसां धृत्वा जपामिजनपावनं ।
नानोपासनमार्गाणां भावकृद् भावबोधकः ॥

भाव कृद भाव भूतस्वं मम सौख्य प्रदो भव ।
त्वन्माया मोहितं विश्वं त्वयैव परिकल्पितं ॥

त्वदधिस्ठानमात्रेण सैव सर्वार्थकारिणी ।
त्वमेवैतां पुरस्कृत्य मम कामाद समर्पय ॥

न में त्वदन्यःसंत्राता त्वदन्यम् न हि दैवतं ।
त्वदन्यम् न हि जानामि पालकम पुण्यरूपकं ॥

यावत सान्सारिको भावो नमस्ते भावनात्मने ।
तत्सिद्दिदो भवेत् सद्यः सर्वथा सर्वदा विभो ॥

पापिनामहमेकाग्यों दयालूनाम् त्वमग्रणी ।
दयनीयो मदन्योस्ति तव कोत्र जगत्त्रये ॥

त्वयाप्यहम न सृष्टश्चेन्न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेदौषध्स्य वृथोदयः ॥

पापसङघपरिक्रांतः पापात्मा पापरूपधृक ।
त्वदन्यः कोत्र पापेभ्यस्त्राता में जगतीतले॥

त्वमेव माता च पिता त्वमेव,त्वमेव बन्धुश्च सखात्वमेव ।
त्वमेव विद्या च गुरस्त्वमेव त्वमेव सर्वं मम देव देव॥

प्रार्थनादशकं चैव मूलाष्टकमथापि वा ।
यः पठेतशुणुयानित्यं तस्य लक्ष्मीःस्थिरा भवेत्॥

नारायणस्य हृदयं सर्वाभीष्टफलप्रदं ।
लक्ष्मीहृदयकंस्तोत्रं यदि चैतद् विनाशकृत॥

तत्सर्वं निश्फ़लम् प्रोक्तं लक्ष्मीः क्रुधयति सर्वतः ।
एतत् संकलितं स्तोत्रं सर्वाभीष्ट फ़ल् प्रदम्॥

लक्ष्मीहृदयकं स्तोत्रं तथा नारायणात्मकं ।
जपेद् यः संकलिकृत्य सर्वाभीष्टमवाप्नुयात॥

नारायणस्य हृदयमादौ जपत्वा ततः पुरम् ।
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः॥

पुनर्नारायणं जपत्वा पुनर्लक्ष्मीहृदं जपेत् ।
पुनर्नारायणंहृदं संपुष्टिकरणं जपेत् ॥

एवं मध्ये द्विवारेण जपेलक्ष्मीहृदं हि तत् ।
लक्ष्मीहृदयकं स्तोत्रं सर्वमेतत् प्रकाशितं ॥

तद्वज्ज पादिकं कुर्यादेतत् संकलितं शुभम् ।
स सर्वकाममाप्नोति आधि-व्याधि-भयं हरेत्॥

गोप्यमेतत् सदा कुर्यान्न सर्वत्र प्रकाशयेत् ।
इति गुह्यतमं शास्त्रंमुक्तं ब्रह्मादिकैःपुरा॥

तस्मात् सर्व प्रयत्नेन गोपयेत् साधयेत् सुधीः ।
यत्रैतत् पुस्तकं तिष्ठेल्लक्ष्मिनारायणात्मकं॥

भूत-प्रेत-पिशाचान्श्च वेतालन्नाश्येत् सदा ।
लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधीः॥

भृगुवारै च रात्रौ तु पूजयेत् पुस्तकद्वयं ।
सर्वदा सर्वथा सत्यं गोपयेत् साधयेत् सुधीः॥

गोपनात् साधनाल्लोके धन्यो भवति तत्ववित् ।
नारायणहृदं नित्यं नारायण नमोsस्तुते॥

॥ इत्यथर्वणरहस्योत्तरभागे नारायणहृदयस्तोत्रं संपूर्णम् ॥

You cannot copy content of this page