नित्यानुसन्धेय श्लोका:

श्रीमते रामानुजाय नमः
नित्यानुसन्धेय श्लोका:

श्रीवरवरमुनि स्वामीजीको स्तुति
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम्।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम्।।

श्रीगुरुपरम्परा तनियन्
लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्।।

श्रीरामानुजस्वामीजी को स्तुति
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्तदितराणि तृणाय मेने।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः-
रामानुजस्य चरणौ शरणं प्रपद्ये।।

श्रीशठकोपस्वामीजीको स्तुति
मातापितायुवतयस्तनया विभूतिः
सर्वं यदेव नियमेन मदन्वयानाम्।
आद्यस्य नः कुलपतेर्वकुळाभिरामं-
श्रीमत्तदंघ्रियुगळं प्रणमामि मूर्ध्ना ।।

दिव्यसूरि  स्तुति
भूतं सरश्च महदाह्वयभट्टनाथ-
श्रीभक्तिसार कुलशेखर योगिवाहान्।
भक्ताङ्घ्रिरेणु परकाल यतीन्द्रमिश्रान्
श्रीमत्पराकुशमुनिं प्रणतोऽस्मि नित्यम्।।

You cannot copy content of this page