पितृसूक्तम्

हरिः ॐ अ॒ग्नये॑कव्य॒वाह॑नाय॒स्वाहा॑ । सोमा॑यपितृ॒मते॒स्वाहा॑ । अप॑हता॒ऽअसु॑रा॒रक्षाँ॑सिव्वेदि॒षदः॑ ॥
येरू॒पाणि॑प्रतिमु॒ञ्चमा॑ना॒ऽअसु॑राः॒सन्तः॑स्व॒धया॒चर॑न्ति । प॑रा॒पुरो॑नि॒पुरो॒येभर॑न्त्य॒ग्निष्टान्लो॒कात्प्रणु॑दात्य॒स्मात् ॥
अत्र॑पितरोमादयध्वंयथाभा॒गमावृ॑षायध्वम् । अमी॑मदन्तपि॒तरो॑यथाभा॒गमावृ॑षायिषत ॥
आध॑त्तपितरो॒गर्भं॑कुमा॒रंपुष्क॑रस्रजम्। यथे॒हपुरु॒षोस॑त्॥
ऊर्जं॑वहन्तीर॒मृतं॑घृ॒तंपयः॑कि॒लालं॑परि॒स्रुत॑म् । स्व॒धास्थ॑त॒र्पय॑तमेपि॒तॄन् ॥
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒२ऽइभेन। तृ॒ष्वीमनु॒प्रसि॑तिंद्रूणा॒नोऽस्ता॑सि॒विध्य॑र॒क्षस॒स्तपि॑ष्ठैः॥
तत्रभ्र॒मास॑ऽआशु॒याप॑त॒न्त्यनु॑स्पृशधृष॒ताशोशु॑चानः। तपू॑ष्यग्नेजु॒ह्वाड्टपत॒ङ्गानस॑न्दितो॒विसृ॑ज॒विष्व॑गु॒ल्काः॥
प्रति॒स्पशो॒विसृ॑ज॒तूर्णि॑तमो॒भवा॑पा॒युर्वि॒शोऽअ॒स्याऽअद॑ब्धः। योनो॑दू॒रेऽअ॒घश॑ꣳसो॒योऽअन्त्यग्ने॒माकि॑ष्टे॒व्यथि॒राद॑धर्षीत्॥
उद॑ग्नेतिष्ठ॒प्रत्यात॑नुष्व॒न्यमित्राँ॑२ऽओषतात्तिग्महेते। योनो॒ऽअरा॑तिꣳसमिधानच॒क्रेनी॒चातंध॑क्ष्यत॒संनशुष्क॑म्॥
ऊ॒र्ध्वोभ॑व॒प्रति॑वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒दैव्या॑न्यग्ने। अव॑स्थि॒रात॑नुहियातु॒जूनां॑जा॒मिमजा॑मिं॒प्रमृ॑णीहि॒शत्रू॑न्।

अशुद्ध छ

तदे॒वाग्निस्तदा॑दि॒त्यस्तद्वा॒युस्तदु॑ च॒न्द्रमाः॑।तदे॒व शु॒क्रं तद् ब्रह्म॒ ताऽआपः॒ स प्र॒जाप॑तिः॥
सर्वे॑ निमे॒षा ज॑ज्ञिरे वि॒द्युतः॒ पुरु॑षा॒दधि॑।नैन॑मू॒र्द्ध्वं न ति॒र्य्यञ्चं॒ न मध्ये॒ परि॑ जग्रभत्॥
न तस्य॑ प्रति॒माऽअस्ति॒ यस्य॒ नाम॑ म॒हद्यशः॑। हि॒र॒ण्य॒ग॒र्भऽइत्ये॒ष मा मा॑ हिꣳसी॒दित्ये॒षा यस्मा॒न्न जा॒तऽइत्ये॒षः॥
ए॒षो ह॑ दे॒वः प्र॒दिशो नु॒ सर्वाः॒ पूर्वो॑ ह जा॒तः स उ॒ गर्भे॑ अ॒न्तः । स ए॒व जा॒तः स ज॑नि॒ष्यमा॑णः प्र॒त्यङ्जना॑स्तिष्थति स॒र्वतो॑मुखः ।।
यस्मा॑ज्जा॒तं न पु॒रा किं चनै॒व य आ॑ब॒भूव॒ भुव॑नानि॒ विश्वा॑ । प्र॒जाप॑तिः प्र॒जया॑ सँररा॒णस्त्रीणि॒ ज्योतीँ॑षि सचते॒ स ऐ॑ड॒शी ।।
येन द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढा येन॒ स्व॑ स्तभि॒तं येन॒ नाकः॑ । यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।
यदङ्क्रन्द॑सी॒ऽअव॑सातस्तभा॒नेऽअभैक्षेतां॒म्मन॑सा॒रेज॑माने । यत्राधि॒सूर॒ऽउदि॑तोवि॒भाति॒कस्मै॑दे॒वाय॑ह॒विषा॑विधेम । आपो॑ह॒यद्बृ॑ह॒तीर्य्यश्चि॒दापः॑ ।।
व्वे॒नस्तत्प॑श्य॒न्निहि॑तं॒ङ्गुहा॒सद्द्यत्त्र॒व्विश्श्वं॒भव॒त्येक॑नीडम् ।
तस्मि॑न्नि॒दꣳसञ्च॒व्विचै॑ति॒सर्वँ॒ꣳसऽओतः॒प्रोत॑श्चव्वि॒भूःप्र॒जासु॑ ।।
प्रतद्द्वो॑चेद॒मृतं॒ न्नुवि॒द्वान्ग॑न्ध॒र्वोधाम॒व्विभृ॑तं॒ङ्गुहा॒सत् ।
त्रीणि॑प॒दानि॒निहि॑ता॒गुहा॑स्य॒यस्तानि॒व्वेद॒सपि॒तुःपि॒तास॑त् ।।
सनो॒बन्धु॑र्जनि॒तासव्वि॑धा॒ताधामा॑निव्वेद॒भुव॑नानि॒व्विश्श्वा॑ ।
यत्र॑दे॒वाऽअ॒मृत॑मानशा॒नास्तृ॒तीये॒धाम॒न्नद्ध्यैरयन्त ।।
प॒रीत्य॑भू॒तानि॑प॒रीत्य॑लो॒कान्प॒रीत्य॒सर्वाः॑प्र॒दिशो॒दिश॑श्च ।
उ॑प॒स्थाय॑प्रथम॒जामृ॒तस्या॒त्मना॒त्मान॑म॒भिसंव्वि॑वेश ।।
परि॒द्यावा॑पृथि॒वीस॒द्यऽइ॒त्वापरि॑लो॒कान्परि॒दिशः॒परि॒स्वः॑ ।
ऋ॒तस्य॒तन्तुं॒व्वित॑तंव्वि॒चृत्य॒तद॑पश्य॒त्तद॑भव॒त्तदा॑सीत् ।।
सद॑स॒स्पति॒मद्भु॑तंप्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
स॒निम्मे॒धाम॑यासिषँ॒ स्वाहा॑ ।।
याम्मे॒धान्दे॑वग॒णाःपि॒तर॑श्चो॒पास॑ते ।
तया॒माम॒द्यमे॒धयाग्ने॑मे॒धावि॑नङ्कुरु॒स्वाहा॑ ।।
मे॒धाम्मे॒व्वरु॑णोददातुमे॒धाम॒ग्निःप्र॒जाप॑तिः ।
मे॒धामिन्द्रश्श्चव्वा॒युश्च॑मे॒धान्धा॒ताद॑दातुमे॒स्वाहा॑ ।।
इ॒दम्मे॒ब्रह्म॑चक्ष॒त्रञ्चो॒भेश्रिय॑मश्नुताम् ।
मयि॑दे॒वाद॑धतु॒श्रिय॒मुत्त॑मां॒तस्यै॑ते॒स्वाहा॑ ।।१६
अशुद्ध

सुरा॑वन्तं बर्हि॒षदँ॑ सु॒वीरं॑ य॒ज्ञँ हि॑न्वन्ति महि॒षा नमो॑भिः ।
दधा॑नाः॒ सोमं॑ दि॒वि दे॒वता॑सु॒ मदे॒मेन्द्रं॒ यज॑मानाः स्व॒र्काः ।।
यस्ते॒ रसः॒ सम्भृ॑त॒ ओष॑धीषु॒ सोम॑स्य॒ शुष्मः॒ सुर॑या सु॒तस्य॑ ।
तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न॒ सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् ।।
यम॒श्विना॒ नमु॑चेरासु॒रादधि॒ सर॑स्व॒त्यसु॑नोदिन्द्रि॒याय॑ ।
इ॒मं तँ शु॒क्रं मधु॑मन्त॒मिन्दुँ॒ सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।।
यदत्र॑ रि॒प्तँ र॒सिनः॑ सु॒तस्य॒ यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः ।
अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॒ सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।।
पि॒तृभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ ।
पि॑ताम॒हेभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ ।
प्रपि॑तामहेभ्यः स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ ।
अक्ष॑न्न्पि॒तरोमी॑मदन्तपि॒तरोती॑तृपन्तपि॒तरः॑पित॑रःशुन्धध्वम् ।।
पु॒नन्तु॑ मा पि॒तरः॑ सो॒म्यासः॑ पु॒नन्तु॑ मा पिताम॒हाः ।
पु॒नन्तु॒ प्रपि॑तामहाः प॒वित्रे॑ण श॒तायु॑षा ।
पु॒नन्तु॑ मा पिताम॒हाः सो॒म्यासः॑ पु॒नन्तु॒ प्रपि॑तामहाः ।
प॒वित्रे॑ण श॒तायु॑षा॒ विश्व॒मायु॒र्व्य॑श्नवै ।।
अग्न॒ आयूँ॑षि पवस्व॒ आ सु॒वोर्ज॒मिषं॑ च नः ।
आ॒रे बा॑धस्व दु॒च्छुना॑म् ।।
पु॒नन्तु॑ मा देव॒जनाः॑ पु॒नन्तु॒ मन॑सा॒ धियः॑ ।
पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ जात॑वेदः पुनी॒हि मा॑ ।।
प॒वित्रे॑ण पुनीहि मा शु॒क्रेण॑ देव॒ दीद्य॑त् ।
अग्ने॒ क्रत्वा॒ क्रतूँ॒रनु॑ ।।
यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमन्त॒रा ।
ब्रह्म॒ तेन॑ पुनातु मा ।।
पव॑मानः॒ सो अ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः ।
यः पोता॒ स पु॑नातु मा ।।
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च ।
मां पु॑नीहि वि॒श्वतः॑ ।।
वै॑श्वदे॒वी पु॑न॒ती दे॒व्यागा॒द्यस्या॑मि॒मा ब॒ह्व्य॑स्त॒न्वो॑ वी॒तपृ॑ष्ठाः ।
तया॒ मद॑न्तः सध॒मादे॑षु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।।
ये स॑मा॒नाः सम॑नसः पि॒तरो॑ यम॒राज्ये॑ ।
तेषां॑ लो॒कः स्व॒धा नमो॑ य॒ज्ञो दे॒वेषु॑ कल्पताम् ।।
ये स॑मा॒नाः सम॑नसो जी॒वा जी॒वेषु॑ माम॒काः ।
तेषाँ॒ श्रीर्मयि॑ कल्पताम॒स्मिं लो॒के सतँ समाः॑ ।।
द्वे सृ॒ती अ॑शृनवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् ।
ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ।।
इ॒दँ ह॒विः प्र॒जन॑नं मे अस्तु॒ दश॑वीरँ॒ सर्व॑गणँ स्व॒स्तये॑ ।
आ॑त्म॒सनि॑ प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्य॑भय॒सनि॑ ।
अ॒ग्निः प्र॒जां ब॑हु॒लां मे॑ करो॒त्वन्नं॒ पयो॒ रेतो॑ अ॒स्मासु॑ धत्त ।।
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ वन्तु पि॒तरो॒ हवे॑षु ।।
अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ ।
तेषां॑ व॒यँ सु॑मतौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।।
ये नः॒ पूर्वे॑ पि॒तरः॑ सो॒म्यासो॑ नूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः ।
तेभि॑र्य॒मः सँ॑ररा॒णो ह॒वीँष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ।।
त्वँ सो॑म॒ प्र चि॑कितो मनी॒षा त्वँ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् ।
तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः॑ ।।
त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः॑ ।
व॒न्वन्नवा॑तः परि॒धीँरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ।।
त्वँ सो॑म पि॒तृभिः॑ संविदा॒नो नु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।।
बर्हि॑षदः पितर ऊ॒त्य॒र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् ।
त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॑ नः॒ शं योर॑र॒पो द॑धात ।।
आहं पि॒तॄन्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑ ।
ब॑र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ।।
उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।
त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते॑ वन्त्व॒स्मान् ।।
आ य॑न्तु नः पि॒तरः॑ सो॒म्यासो॑ ग्निष्वा॒त्ताः प॒थिभि॑र्देव॒यानैः॑ ।
अ॒स्मिन्य॒ज्ञे स्व॒धया॒ मद॒न्तो धि॑ ब्रुवन्तु॒ ते॑ वन्त्व॒स्मान् ।।
अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।
अ॒त्ता ह॒वीँषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिँ सर्व॑वीरं दधातन ।।
ये अ॑ग्निष्वा॒त्ता ये अन॑ग्निष्वात्ता॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते ।
तेभ्यः॑ स्व॒राडसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॑ कल्पयाति ।।
अ॑ग्निष्वा॒त्ताँ ऋ॑तु॒मतो॑ हवामहे नाराशँ॒से सो॑मपी॒थं य आ॒शुः ।
ते नो॒ विप्रा॑सः सु॒हवा॑ भवन्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।।
आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ ।
मा हिँ॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ।।
आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य ।
पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ।।
यम॑ग्ने कव्यवाहन॒ त्वं चि॒न्मन्य॑से र॒यिम् ।
तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ।।
यो अ॒ग्निः क॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ ।
प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ।।
त्वम॑ग्न ईडि॒तः क॑व्यवाह॒नावा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी ।
प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीँषि॑ ।।
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म ।
त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञँ सुकृ॑तं जुषस्व ।।
इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नँ सु॑वृ॒जना॑सु वि॒क्षु ।।
अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः ।
शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒ क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ।।
उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्तः॒ समि॑धीमहि ।
उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ।।

शुद्ध

हरि ॐ स॒हस्र॑शीर्षा॒ पुरु॑षसहस्रा॒क्षस॒हस्र॑पात् ।
स भूमिᳮ स॒र्वत॑स्पृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ।।१।।
पुरु॑षऽए॒वेदᳮसर्वं॒यद्भू॒तंयच्च॑भा॒व्य॑म् ।
उ॒तामृ॑त॒त्वस्येशा॑नो॒यदन्ने॑नाति॒रोह॑ति ।।२।।
ए॒तावा॑नस्यमहि॒मातो॒ज्यायाँ॑श्च॒पूरु॑ष।
पादो॑स्य॒विश्वा॑भू॒तानि॑त्रि॒पाद॑स्या॒मृतं॑दि॒वि ।।३।।
त्रि॒पादू॒र्द्ध्वऽउदैत्पुरु॑षपादो॑स्ये॒हाभ॑व॒त्पुन॑ ।
ततो॒विष्व॒ङ्व्यक्क्रामत्साशनानश॒नेऽअ॒भि ।।४।।
ततोव्विराड॑जायतवि॒राजो॒अधि॒ पूरु॑ष ।
सजा॒तोऽअत्य॑रिच्यतप॒श्चाद्भूमि॒मथो॑पु॒र ।।५।।
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतसम्भृ॑तंपृषदा॒ज्यम् ।
प॒शूँस्ताँश्च॑क्रेवाय॒व्या॑नार॒ण्याग्रा॒म्याश्च॒ये ।।६।।
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ऋचसामा॑नि जज्ञिरे ।
छन्दासि जज्ञिरे॒तस्मा॒द्यजु॒स्तस्मा॑दजायत ।।७।।
तस्मा॒दश्वा॑अजायन्त॒येकेचो॑भ॒याद॑त ।
गावो॑हजज्ञिरे॒तस्मा॒त्तस्मा॑ज्जा॒ताअ॑जा॒वय ।।८।।
तंय॒ज्ञंब॒र्हिषिप्रौक्ष॒न्पुरु॑षञ्जातम॑ग्र॒त ।
तेन॑दे॒वाअ॑यजन्तसा॒द्ध्याऋष॑यश्च॒ॺे ।।९।।
ॺत्पुरु॑षं॒व्यद॑धुकति॒धाव्य॑कल्पयन् ।
मुखॖङ्कीम॑स्यासीत्किम्बा॒हूकिमूरूपादा॑उच्येते ।।१०।।
ब्रा॑ह्म॒णो॑स्य॒मुख॑मासीद्बा॒हूरा॑ज॒न्यकृ॒त ।
ऊ॒रूतद॑स्य॒ॺद्वै॑श्यप॒द्भ्याशू॒द्रोअ॑जायत ।।११।।
च॒न्द्रमा॒मन॑सोजा॒तश्चक्षोसूर्यो॑अजायत ।
श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ।।१२।।
नाभ्या॑आसीद॒न्तरि॑क्षशी॒र्ष्णोद्यौसम॑वर्तत ।
प॒द्भ्याम्भूमि॒र्दिशश्रोत्रा॒त्तथा॑लो॒काँ२अ॑कल्पयन् ।।१३।।
यत्पुरु॑षेणह॒विषा॑दे॒वाय॒ज्ञमत॑न्वत ।
व॑स॒न्तो॑स्यासी॒दाज्यङ्ग्री॒ष्मइ॒ध्मश॒रद्ध॒वि ।।१४।।
स॒प्तास्या॑सन्परि॒धय॒स्त्रिस॒प्तस॒मिधकृ॒ता ।
दे॒वाॺद्य॒ज्ञन्त॑न्वा॒नाअब॑ध्न॒न्पुरु॑षम्प॒शुम् ।।१५।।
ॺज्ञेन॑ॺज्ञम॑यजन्तदे॒वास्तानि॒धर्मा॑णिप्रथ॒मान्या॑सन् ।
तेह॒नाकम्महि॒मानसचन्त॒ॺत्र॒पूर्वे॑सा॒द्ध्यासन्ति॑दे॒वा ।।१६।।
अ॒द्भ्यसम्भृ॑तपृथिव्यै॒रसा॑च्चवि॒श्वक॑र्म्मणसम॑वर्त्तताग्रे॑ ।
तस्य॒त्वष्टा॑व्वदध॑द्रू॒पमे॑ति॒तन्मर्त्य॑स्यदेव॒त्वमा॒जान॒मग्रे॑ ।।१७।।
वेदा॒हमे॒तम्पुरु॑षम्म॒हान्त॑मादि॒त्यव॑र्णन्तम॑सप॒रस्ता॑त् ।
तमे॒वव्विदि॒त्वाति॑मृ॒त्युमे॑ति॒नान्यपन्था॑विद्य॒तेय॑नाय ।।१८।।
प्र॒जाप॑तिश्चरति॒गर्भे॑अ॒न्तरजा॑यमानोबहु॒धाविजा॑यते ।
तस्य॒ॺोनिं॒परि॑पश्यन्ति॒धीरा॒स्तस्मि॑न्हतस्थु॒र्भुव॑नानि॒व्विश्वा॑ ।।१९।।
योदे॒वेभ्य॑आ॒तप॑ति॒ॺोदे॒वानाम्पु॒रोहि॑त ।
पूर्वो॒ॺोदे॒वेभ्यो॑जा॒तोनमो॑रु॒चाय॒ब्राह्म॑ये ।।२०।।
रु॒चम्ब्रा॒ह्म्यञ्ज॒नय॑न्तोदे॒वाअग्रे॒तद॑ब्रुवन् ।
ॺस्त्वै॒वम्ब्रा॑ह्म॒णोव्विद्यात्तस्य॑दे॒वाअ॑स॒न्वशे॑ ।।२१।।
श्रीश्च॑तेल॒क्ष्मीश्च॒पक्त्न्या॑वहोरा॒त्रेपा॒र्श्वेनक्ष॑त्राणिरू॒पम॒श्विनौ॒व्यात्ता॑म् ।
इ॒ष्णन्नि॑षाणा॒मुम्म॑इषाणसर्वलो॒कम्मइषाण ।।२२।।
अशुद्ध

नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ ।
बा॒हुभ्या॑मु॒त ते॒ नमः॑ ।।
या ते॑ रुद्र शि॒वा त॒नूरघो॒रापा॑पकाशिनी ।
तया॑ नस्त॒न्वा॒ शंत॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ।।
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे ।
शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिँ॑सीः॒ पुरु॑षं॒ जग॑त् ।।
शि॒वेन॒ वच॑सा त्वा गिरि॒शाच्छा॑ वदामसि ।
यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मँ सु॒मना॒ अस॑त् ।।
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दै॑व्यो भि॒षक् ।
अहीँ॑श्च॒ सर्वा॑न्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॑ ध॒राचीः॒ परा॑ सुव ।।
असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ ।
ये चै॑नँ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शो वै॑षाँ॒ हेड॑ ईमहे ।।
असौ॒ यो॑ व॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।
उतैनं गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः॒ स दृ॒ष्तो मृ॑डयाति नः ।।
नमो॑ स्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ हं तेभ्यो॑ करं॒ नमः॑ ।।
प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ।।
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ वाण॑वाँ उ॒त ।
अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ।।
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
तया॒स्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ भुज ।।
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ ।
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ।।
अ॑व॒तत्य॒ धनु॒ष्ट्वँ सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ।।
नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ।।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
मा नो॑ वी॒रान्रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे ।।
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नम्परि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑ ।।
नमो॑ बभ्लु॒शाय॑ व्या॒धिने न्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑ सू॒तायाह॑न्त्यै॒वना॑नां॒ पत॑ये॒ नमः॑ ।।
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौ॑षधीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उच्चैर्घोषायाक्र॒न्दय�॑ते पत्ती॒नां पत॑ये॒ नमः॑ ।।
नमः॑ कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नम्नि॑चे॒रवे॑ परिच॒रायारण्यानां॒ पत॑ये॒ नमः॑ ।।
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒यिभ्यो॒ जिघाँ॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ सि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नमः॑ ।।
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मध्ब्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो स्य॑द्भ्यश्च वो॒ नमः॑ ।।
नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नमः॒ शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमः॑ ।।
नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो श्वे॒भ्यो श्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृँह॒तीभ्य॑श्च वो॒ नमः॑ ।।
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नम्गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमः॑ ।।
नमः॒ सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒तेभ्य॑श्च वो॒ नमो॒ नमः॑ क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नमः॑ ।।
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः कु॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नमः॑ श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नमः॑ ।।
नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ।।
नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ।।
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमो ग्र्या॑य च प्रथ॒माय॑ च ।।
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नमः॒ शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॑य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ।।
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च बु॒ध्न्या॑य च ।।
नमः॒ सोम्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नमः॒ श्लोक्या॑य चावसा॒न्या॑य च॒ नम॑ उर्व॒र्या॑य च॒ खल्या॑य च ।।
नमो॒ वन्या॑य च॒ कक्ष्ण्या॑य च॒ नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभे॒दिने॑ च ।।
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्याय॑ चाहन॒न्या॑य च ।।
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च ।।
नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॒ काट्या॑य च॒ नीप्या॑य च॒ नमः॒ कुल्या॑य च सर॒स्या॑य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ।।
नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॑य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॑य॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।।
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च॒ नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ।।
नमः॑ शं॒गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ।।
नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ।।
नमः॒ पार्या॑य चावा॒र्या॑य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॒ शष्प्या॑य च॒ पेन्या॑य च ।।
नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च॒ नमः॑ किँशि॒लाय॑ च क्षय॒णाय॑ च॒ नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च ।।
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॑य च निवे॒ष्या॑य च॒ नमः॒ काट्या॑य च गह्वरे॒ष्ठाय॑ च ।।
नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒ नमः॑ पाँस॒व्या॑य च रज॒स्या॑य च॒ नमो॒ लोप्या॑य चोल॒प्या॑य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ।।
नमः॑ प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्यस्च॑ वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वानाँ॒ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यः॑ ।।
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित ।
आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ नः॒ किं च॒नाम॑मत् ।।
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।।
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी ।
शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।।
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ।।
मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव ।
प॑र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ।।
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।
यास्ते॑ स॒हस्रँ॑ हे॒तयो॒ न्यम॒स्मन्नि व॑पन्तु॒ ताः ।।
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तयः॑ ।
तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।।
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् ।
तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।।
अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे॒ न्तरि॑क्षे भ॒वा अधि॑ ।
तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिवँ॑ रु॒द्रा उपा॑श्रिताः ।
तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।।
नील॑ग्रीवाः शिति॒कण्ठाः॑ श॒र्वा अ॒धः क्ष॑माच॒राः ।
तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।।
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः ।
तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।।
ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ ।
तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।।
ये प॒थां प॑थि॒रक्ष॑स ऐलबृ॒दा आ॑यु॒र्युधः॑ ।
तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिणः॑ ।
तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।।
ये न्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् ।
तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।।
ये ए॒ताव॑न्तश्च॒ भूयाँ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।।
नमो॑ स्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः ।
तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ वन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।।
नमो॑ स्तु रु॒द्रेभ्यो॒ ये॒ न्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः ।
तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ वन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।।
नमो॑ स्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः ।
तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ वन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।।६६

इति पितृसूक्तम्

You cannot copy content of this page