पितृस्तोत्रम्

।। पितृस्तोत्रम् ।।
• जो व्यक्ति पितृ दोष से मुक्ति चाहता है उसे इस पितृ स्तोत्र का रोज पाठ करना चाहिये।
• श्राद्धपक्ष, अमावस्या, पूर्णिमा या पितरों की पुण्य तिथि पर ब्राह्मण भोजन या संध्या के समय तेल का दीपक जलाकर पितृ स्तोत्र का पाठ करने से पितृदोष की शांति एवं सभी प्रकार की बाधायें दूर होकर उन्नति की प्राप्ति होती है।
रुचिरुवाच
अर्चिता नाम मूर्तानां पितृणां दीप्त तेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्य चक्षुषाम् ॥ ॥१॥
इन्द्रादीनां च नेतारो दक्ष-मारीच-योस्तथा ।
सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान् ।। ॥ २॥
मन्वादीनां च नेतारः सूर्या-चन्द-मसोस्तथा ।
तान् नमस्यामहं सर्वान् पितृ-नप्यु-दधावपि ॥ ३ ॥
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावा-पृथिवोव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ ॥ ४॥
 देवर्षीणां जनितंश्च सर्वलोक-नमस्कृतान् ।
अक्षय्यस्य सदा दातृन् नमस्येह कृताञ्जलिः ।। ॥ ५॥
प्रजापतेः कश्पाय सोमाय वरुणाय च।
योगे-श्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ ॥ ६॥
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तमु ।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ ॥ ७॥
सोमाधारान् पितृ-गणान् योगमूर्ति-धरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ।। ॥ ८॥
अग्रिरूपांस्-तथैवान्यान् नमस्यामि पितृनहम् ।
अग्रीषोम-मयं विश्वं यत एतदशेषतः ॥ ९  ॥
ये तु तेजसि ये चैते सोम-सूर्याग्रि-मूर्तय : ।
जगत्-स्वरूपिणश्चैव तथा ब्रह्म-स्वरूपिणः ॥ ॥ १०॥
तेभ्योखिलेभ्यो योगिभ्यः पितृभ्यो यतामनसः ।
नमो नमो नमस्तेस्तु प्रसीदन्तु स्वधाभुज ।। ॥११॥  मा.पु. ९४/३/१३
॥ मार्कण्डेय पुराण महात्मा रुचि द्वारा विरचीत पितृस्तोत्रम् सम्पूर्णम् ॥

You cannot copy content of this page