॥ पुरुषसूक्तम् ॥
हरि ॐ स॒हस्र॑शीर्षा॒ पुरु॑षसहस्रा॒क्षस॒हस्र॑पात् ।
स भूमिᳮ स॒र्वत॑स्पृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥१॥
पुरु॑षऽए॒वेदᳮसर्वं॒यद्भू॒तंयच्च॑भा॒व्य॑म् ।
उ॒तामृ॑त॒त्वस्येशा॑नो॒यदन्ने॑नाति॒रोह॑ति ॥२॥
ए॒तावा॑नस्यमहि॒मातो॒ज्यायाँ॑श्च॒पूरु॑ष।
पादो॑स्य॒विश्वा॑भू॒तानि॑त्रि॒पाद॑स्या॒मृतं॑दि॒वि ॥३॥
त्रि॒पादू॒र्द्ध्वऽउदैत्पुरु॑षपादो॑स्ये॒हाभ॑व॒त्पुन॑ ।
ततो॒विष्व॒ङ्व्यक्क्रामत्साशनानश॒नेऽअ॒भि ॥४॥
ततोव्विराड॑जायतवि॒राजो॒अधि॒ पूरु॑ष ।
सजा॒तोऽअत्य॑रिच्यतप॒श्चाद्भूमि॒मथो॑पु॒र ॥५॥
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतसम्भृ॑तंपृषदा॒ज्यम् ।
प॒शूँस्ताँश्च॑क्रेवाय॒व्या॑नार॒ण्याग्रा॒म्याश्च॒ये ॥६॥
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ऋचसामा॑नि जज्ञिरे ।
छन्दासि जज्ञिरे॒तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥७॥
तस्मा॒दश्वा॑अजायन्त॒येकेचो॑भ॒याद॑त ।
गावो॑हजज्ञिरे॒तस्मा॒त्तस्मा॑ज्जा॒ताअ॑जा॒वय ॥८॥
तंय॒ज्ञंब॒र्हिषिप्रौक्ष॒न्पुरु॑षञ्जातम॑ग्र॒त ।
तेन॑दे॒वाअ॑यजन्तसा॒द्ध्याऋष॑यश्च॒ॺे ॥९॥
ॺत्पुरु॑षं॒व्यद॑धुकति॒धाव्य॑कल्पयन् ।
मुखॖङ्कीम॑स्यासीत्किम्बा॒हूकिमूरूपादा॑उच्येते ॥१०॥
ब्रा॑ह्म॒णो॑स्य॒मुख॑मासीद्बा॒हूरा॑ज॒न्यकृ॒त ।
ऊ॒रूतद॑स्य॒ॺद्वै॑श्यप॒द्भ्याशू॒द्रोअ॑जायत ॥११॥
च॒न्द्रमा॒मन॑सोजा॒तश्चक्षोसूर्यो॑अजायत ।
श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ॥१२॥
नाभ्या॑आसीद॒न्तरि॑क्षशी॒र्ष्णोद्यौसम॑वर्तत ।
प॒द्भ्याम्भूमि॒र्दिशश्रोत्रा॒त्तथा॑लो॒काँ२अ॑कल्पयन् ॥१३॥
यत्पुरु॑षेणह॒विषा॑दे॒वाय॒ज्ञमत॑न्वत ।
व॑स॒न्तो॑स्यासी॒दाज्यङ्ग्री॒ष्मइ॒ध्मश॒रद्ध॒वि ॥१४॥
स॒प्तास्या॑सन्परि॒धय॒स्त्रिस॒प्तस॒मिधकृ॒ता ।
दे॒वाॺद्य॒ज्ञन्त॑न्वा॒नाअब॑ध्न॒न्पुरु॑षम्प॒शुम् ॥१५॥
ॺज्ञेन॑ॺज्ञम॑यजन्तदे॒वास्तानि॒धर्मा॑णिप्रथ॒मान्या॑सन् ।
तेह॒नाकम्महि॒मानसचन्त॒ॺत्र॒पूर्वे॑सा॒द्ध्यासन्ति॑दे॒वा ॥१६॥
अ॒द्भ्यसम्भृ॑तपृथिव्यै॒रसा॑च्चवि॒श्वक॑र्म्मणसम॑वर्त्तताग्रे॑ ।
तस्य॒त्वष्टा॑व्वदध॑द्रू॒पमे॑ति॒तन्मर्त्य॑स्यदेव॒त्वमा॒जान॒मग्रे॑ ॥१७॥
वेदा॒हमे॒तम्पुरु॑षम्म॒हान्त॑मादि॒त्यव॑र्णन्तम॑सप॒रस्ता॑त् ।
तमे॒वव्विदि॒त्वाति॑मृ॒त्युमे॑ति॒नान्यपन्था॑विद्य॒तेय॑नाय ॥१८॥
प्र॒जाप॑तिश्चरति॒गर्भे॑अ॒न्तरजा॑यमानोबहु॒धाविजा॑यते ।
तस्य॒ॺोनिं॒परि॑पश्यन्ति॒धीरा॒स्तस्मि॑न्हतस्थु॒र्भुव॑नानि॒व्विश्वा॑ ॥१९॥
योदे॒वेभ्य॑आ॒तप॑ति॒ॺोदे॒वानाम्पु॒रोहि॑त ।
पूर्वो॒ॺोदे॒वेभ्यो॑जा॒तोनमो॑रु॒चाय॒ब्राह्म॑ये ॥२०॥
रु॒चम्ब्रा॒ह्म्यञ्ज॒नय॑न्तोदे॒वाअग्रे॒तद॑ब्रुवन् ।
ॺस्त्वै॒वम्ब्रा॑ह्म॒णोव्विद्यात्तस्य॑दे॒वाअ॑स॒न्वशे॑ ॥२१॥
श्रीश्च॑तेल॒क्ष्मीश्च॒पक्त्न्या॑वहोरा॒त्रेपा॒र्श्वेनक्ष॑त्राणिरू॒पम॒श्विनौ॒व्यात्ता॑म् ।
इ॒ष्णन्नि॑षाणा॒मुम्म॑इषाणसर्वलो॒कम्मइषाण ॥२२॥ हरि ॐ
