श्रीशिवमहापुराणम्

श्रीशिवमहापुराणम्

अथ श्रीशिवमहापुराणं विश्वेश्वरसंहिता प्रारभ्यते

श्रीगणेशाय नमः

श्रीगुरुभ्यो नमः

श्रिसरस्वत्यै नमः

अथ शिवपुराणे प्रथमा विश्वेश्वरसंहिताप्रारभ्यते

आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम्

पंचाननं प्रबलपंचविनोदशीलं संभावये मनसिशंकरमम्बिकेशम्  १

अध्याय १

व्यास उवाच

धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे

प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि  १

मुनयः शंसितात्मानस्सत्यव्रतपरायणाः

महौजसो महाभागा महासत्रं वितेनिरे  २

तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः

आजगाम मुनीन्द्र ष्टुं सूतः पौराणिकोत्तमः  ३

तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा

चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि  ४

ततो विनयसंयुक्ता प्रोचुः सांजलयश्च ते

सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि  ५

रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात्

पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान्  ६

तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम्

रत्नानामुरुसाराणां रत्नाकर इवार्णवः  ७

यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते

न त्वयाऽविदितं किंचित्त्रिषु लोकेषु विद्यते  ८

त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः

कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि  ९

तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम्

न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः  १०

इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते

तद्र हस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत्  ११

प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः

दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः  १२

परापवादनिरताः परद्र व्याभिलाषिणः

परस्त्रीसक्तमनसः परहिंसापरायणाः  १३

देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः

मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः  १४

विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः

धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः  १५

त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः

त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः  १६

अदयाः पंडितं मन्यास्स्वाचारव्रतलोपकाः

कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः  १७

क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः

असत्संगाः पापरता व्यभिचारपरायणाः  १८

अशूरा अरणप्रीताः पलायनपरायणाः

कुचौरवृत्तयः शूद्रा ः! कामकिंकरचेतसः  १९

शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः

शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा  २०

प्रजापालनसद्धर्मविहीना भोगतत्पराः

प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा  २१

वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः

कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः  २२

गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः

अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः  २३

कामिनीजारभावेषु सुरता मलिनाशयाः

लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः  २४

तद्वच्छूद्रा श्च ये केचिद्ब्राह्मणाचारतत्पराः

उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः  २५

कर्तारस्तपसां भूयो द्विजतेजोपहारकाः

शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः  २६

शालिग्रामशिलादीनां पूजकाहोमतत्पराः

प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः  २७

धनवंतः कुकर्म्माणो विद्यावन्तो विवादिनः

आख्यायोपासना धर्मवक्तारो धर्मलोपकाः  २८

सुभूपाकृतयो दंभाः सुदातारो महामदाः

विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम्  २९

स्वधर्मरहिता मूढाः संकराः क्रूरबुद्धयः

महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः  ३०

सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः

सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः  ३१

स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः

श्वशुरद्रो हकारिण्यो निर्भया मलिनाशनाः  ३२

कुहावभावनिरताः कुशीलास्स्मरविह्वलाः

जारसंगरता नित्यं स्वस्वामिविमुखास्तथा  ३३

तनया मातृपित्रोश्च भक्तिहीना दुराशयाः

अविद्यापाठका नित्यं रोगग्रसितदेहकाः  ३४

एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम्

परलोकेपीह लोके कथं सूत गतिर्भवेत्  ३५

इति चिंताकुलं चित्तं जायते सततं हि नः

परोपकारसदृशो नास्ति धर्मो परः खलु  ३६

लघूपायेन येनैषां भवेत्सद्योघनाशनम्

सर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना  ३७

व्यास उवाच

इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम्

मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन्  ३८

इति श्रीशैवेमहापुराणे विश्वेश्वरसंहितायां मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः  १

अध्याय २

सूत उवाच

साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम्

गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात्  १

वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम्

सर्वाघौघोद्धारकरं परत्र परमार्थदम्  २

कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम्

विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम्  ३

तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः

सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम्  ४

तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम्

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो  ५

तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो  ६

तावत्सर्वाणि शास्त्राणि विवदंति परस्परम्

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो  ७

तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि

यावच्छिवपुराणं हि नो देष्यति जगत्यहो  ८

तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो  ९

तावत्सर्वपुराणानि प्रगर्जंति महीतले

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो  १०

तावत्सर्वाणि तीर्थानि विवदंति महीतले

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो  ११

तावत्सर्वाणि मंत्राणि विवदंति महीतले

यावच्छिवपुराणं हि नोदेष्यति महीतले  १२

तावत्सर्वाणि क्षेत्राणि विवदंति महीतले

यावच्छिवपुराणं हि नोदेष्यति महीतले  १३

तावत्सर्वाणि पीठानि विवदंति महीतले

यावच्छिवपुराणं हि नोदेष्यति महीतले  १४

तावत्सर्वाणि दानानि विवदंति महीतले

यावच्छिवपुराणं हि नोदेष्यति महीतले  १५

तावत्सर्वे च ते देवा विवदंति महीतले

यावच्छिवपुराणं हि नोदेष्यति महीतले  १६

तावत्सर्वे च सिद्धान्ता विवदंति महीतले

यावच्छिवपुराणं हि नोदेष्यति महीतले  १७

अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः

फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः  १८

तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः

चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम  १९

एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च

यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात्  २०

एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः

यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते  २१

एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा

दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम्  २२

एतच्छिवपुराणं यस्साधारणपदेच्छया

अन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात्  २३

एतच्छिवपुराणं यो नमस्कुर्याददूरतः

सर्वदेवार्चनफलं स प्राप्नोति न संशयः  २४

एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम्

यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु  २५

अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च

यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत्  २६

एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः

शिवभक्तसभायां यो व्याकरोति स उत्तमः  २७

प्रत्यक्षरं तु गायत्रीपुरश्चर्य्याफलं लभेत्

इह भुक्त्वाखिलान्कामानं ते निर्वाणतां व्रजेत्  २८

उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः

यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम्  २९

कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः

आत्मतुल्यधनं सूर्य्यग्रहणे सर्वतोमुखे  ३०

विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते

तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः  ३१

एतच्छिवपुराणं हि गायते योप्यहर्निशम्

आज्ञां तस्य प्रतीक्षेरन्देवा इन्द्र पुरो गमाः  ३२

एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः

यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत्  ३३

समाहितः पठेद्यस्तु तत्र श्रीरुद्र संहिताम्

स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेवादिनैर्भवेत्  ३४

तां रुद्र संहितां यस्तु भैरवप्रतिमांतिके

त्रिः पठेत्प्रत्यहं मौनी स कामानखिलाँ ल्लभेत्  ३५

तां रुद्र संहितां यस्तु सपठेद्वटबिल्वयोः

प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते  ३६

कैलाससंहिता तत्र ततोऽपि परमस्मृता

ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका  ३७

कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः

कृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः  ३८

तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते

यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात्  ३९

न नाशयति यत्पापं सा रौद्री  संहिता द्विजाः

तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा  ४०

शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा

कुमारायार्पितां तां वै सुधां पीत्वाऽमरो भवेत्  ४१

ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः

मासमात्रं संहितां तां पठित्वा मुच्यते ततः  ४२

दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम्

पापं सकृत्कीर्तनेन संहिता सा विनाशयेत्  ४३

शिवालये बिल्ववने संहितां तां पठेत्तु यः

स तत्फलमवाप्नोति यद्वाचोऽपि न गोचरे  ४४

संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान्

तस्य ये पितरः सर्वे यांति शंभोः परं पदम्  ४५

चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम्

बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते  ४६

अन्यापि संहिता तत्र सर्वकामफलप्रदा

उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते  ४७

तदिदं शैवमाख्यातं पुराणं वेदसंमितम्

निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम्  ४८

विद्येशंच तथारौद्रं  वैनायकमथौमिकम्

मात्रं रुद्रै कादशकं कैलासं शतरुद्र कम्  ४९

कोटिरुद्र सहस्राद्यं कोटिरुद्रं  तथैव च

वायवीयं धर्मसंज्ञं पुराणमिति भेदतः  ५०

संहिता द्वादशमिता महापुण्यतरा मता

तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम्  ५१

विद्येशं दशसाहस्रं रुद्रं  वैनायकं तथा

औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम्  ५२

त्रयोदशसहस्रं हि रुद्रै कादशकं द्विजाः

षट्सहस्रं च कैलासं शतरुद्रं  तदर्द्धकम्  ५३

कोटिरुद्रं  त्रिगुणितमेकादशसहस्रकम्

सहस्रकोटिरुद्रा ख्यमुदितं ग्रंथसंख्यया  ५४

वायवीयं खाब्धिशतं घर्मं रविसहस्रकम्

तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः  ५५

व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम्

शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम्  ५६

शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया

शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम्  ५७

व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु

चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः  ५८

प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम्

श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम्  ५९

विद्येश्वराख्या तत्राद्या रौद्री  ज्ञेया द्वितीयिका

तृतीया शतरुद्रा ख्या कोटिरुद्रा  चतुर्थिका  ६०

पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका

सप्तमी वायवीयाख्या सप्तैवं संहितामताः  ६१

ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम्

वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम्  ६२

एतच्छिवपुराणं हि सप्तसंहितमादरात्

परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते  ६३

श्रुतिस्मृतिपुराणेतिहासागमशतानि च

एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि  ६४

शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न

संगृहीतम्

संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां

हि  ६५

विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः

अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम्  ६६

शैवं पुराणतिलकं खलु सत्पुराणं

वेदांतवेदविलसत्परवस्तुगीतम्

यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां

गतिं वै  ६७

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां द्वितीयोऽध्यायः  २

अध्याय ३

व्यास उवाच

इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः

वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम्  १

इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः

संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान्  २

सूत उवाच

शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम्

पुराणप्रवणं शैवं पुराणं वेदसारजम्  ३

यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम्  ४

वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम्  ५

सूत उवाच

शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम्

पुरा कालेन महता कल्पेऽतीते पुनःपुनः  ६

अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि

मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम्  ७

इदं परमिदं नेति विवादः सुमहानभूत्

तेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम्  ८

वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयोऽब्रुवन्

त्वं हि सर्वजगद्धाता सर्वकारणकारणम्  ९

कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः

ब्रह्मोवाच

यतो वाचो निवर्तंते अप्राप्य मनसा सह  १०

यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रे द्रं! पूर्वकम्

सहभूतेंद्रि यैः सर्वैः प्रथमं संप्रसूयते  ११

एष देवो महादेवः सर्वज्ञो जगदीश्वरः

अयं तु परया भक्त्या दृश्यते नाऽन्यथा क्वचित्  १२

रुद्रो  हरिर्हरश्चैव तथान्ये च सुरेश्वराः

भक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः  १३

बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते

प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः

यथेहांकुरतो बीजं बीजतो वा यथांकुरः  १४

तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः

दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम्  १५

अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः

वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं  १६

मुनय ऊचुः

अथ किं परमं साध्यं किंवा तत्साधनं परम्

साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः  १७

ब्रह्मोवाच

साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम्

साधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः  १८

कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम्

परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः  १९

तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम्

तत्साधनं बहुविधं साक्षादीशेन बोधितम्  २०

संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम्

श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा  २१

मनसा मननं तस्य महासाधनमुच्यते

श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः  २२

इति श्रुतिप्रमाणं नः साधनेनाऽमुना परम्

साध्यं व्रजत सर्वार्थसाधनैकपरायणाः  २३

प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते

अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते  २४

तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः

ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः  २५

क्रमान्मननपर्यंते साधनेऽस्मिन्सुसाधिते

शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः  २६

सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते

अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम्  २७

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां साध्यसाधनखण्डे

तृतीयोऽध्यायः  ३

अध्याय ४

मुनय ऊचुः

मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम्

कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम्  १

ब्रह्मोवच

पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत्

तत्संततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम्  २

गीतात्मना श्रुतिपदेन च भाषया वा शंभुप्रतापगुणरूपविलासनाम्नाम्

वाचा स्फुटं तु रसवत्स्तवनं यदस्य तत्कीर्तनं भवति साधनमत्र मध्यम्  ३

येनापि केन करणेन च शब्दपुंजं यत्र क्वचिच्छिवपरं श्रवणेंद्रि येण

स्त्रीकेलिवद्दृढतरं प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम्  ४

सत्संगमेन भवति श्रवणं पुरस्तात्संकीर्तनं पशुपतेरथ तद्दृढं स्यात्

सर्वोत्तमं भवति तन्मननं तदंते सर्वं हि संभवति शंकरदृष्टिपाते  ५

सूत उवाच

अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः

युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः  ६

पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः

तपश्चचार संभ्रांतः सरस्वत्यास्तटे शुभे  ७

गच्छन्यदृछया तत्र विमानेनार्करोचिषा

सनत्कुमारो भगवान्ददर्श मम देशिकम्  ८

ध्यानारूढः प्रबुद्धोऽसौ ददर्श तमजात्मजम्

प्रणिपत्याह संभ्रांतः परं कौतूहलं मुनिः  ९

दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टिरम् १०ब्

प्रसन्नः प्राह तं प्रह्वं प्रभुर्गंभीरया गिरा  १०

सनत्कुमार उवाच

सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः

स शिवोथासहायोत्र तपश्चरसि किं कृते  ११

एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः

धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः  १२

बहुधा स्थापिता लोके मया त्वत्कृपया तथा

एवं भुतस्य मेप्येवं गुरुभूतस्य सर्वतः  १३

मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम्

तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम्  १४

इत्थं कुमारो भगवान्व्यासेन मुनिनार्थितः

समर्थः प्राह विप्रेंद्रा  निश्चयं मुक्तिकारणम्  १५

श्रवणं कीर्तनं शंभोर्मननं च महत्तरम्

त्रयं साधनमुक्तं च विद्यते वेदसंमतम्  १६

पुराहमथ संभ्रांतो ह्यन्यसाधनसंभ्रमः

अचले मंदरे शैले तपश्चरणमाचरम्  १७

शिवाज्ञया ततः प्राप्तो भगवान्नंदिकेश्वरः

स मे दयालुर्भगवान्सर्वसाक्षी गणेश्वरः  १८

उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम्

श्रवणं कीर्तनं शंभोर्मननं वेदसंमतम्  १९

त्रिकं च साधनं मुक्तौ शिवेन मम भाषितम्

श्रवणादिं त्रिकं ब्रह्मन्कुरुष्वेति मुहुर्मुहुः  २०

एवमुक्त्वा ततो व्यासं सानुगो विधिनंदनः

जगाम स्वविमानेन पदं परमशोभनम्  २१

एवमुक्तं समासेन पूर्ववृत्तांतमुत्तमम्

ऋषय ऊचुः

श्रवणादित्रयं सूत मुक्त्योपायस्त्वयेरितः  २२

श्रवणादित्रिकेऽशक्तः किं कृत्वा मुच्यते जनः

अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना  २३

इति श्रीशिवमहापुराणे प्रथमायां विश्वेश्वरसंहितायं साध्यसाधनखण्डे चतुर्थोऽध्यायः  ४

अध्याय ५

सूत उवाच

श्रवणादित्रिकेऽशक्तो लिंगं बेरं च शांकरम्

संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम्  १

अपि द्र व्यं वहेदेव यथाबलमवंचयन्

अर्पयेल्लिंगबेरार्थमर्चयेदपि संततम्  २

मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम्

वस्त्रं गंधं च माल्यं च धूपं दीपं च भक्तितः  ३

विविधान्नं च नैवेद्यमपूपव्यंजनैर्युतम्

छत्रं ध्वजं च व्यजनं चामरं चापि सांगकम्  ४

राजोपचारवत्सर्वं धारयेल्लिंगबेरयोः

प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा  ५

आवाहनादिसर्गांतं नित्यं कुर्यात्सुभक्तितः

इत्थमभ्यर्च्य यन्देवं लिंगेबेरे च शांकरे  ६

सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम्

लिंगबेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः  ७

मनुय ऊचुः

बेरमात्रे तु सर्वत्र पूज्यंते देवतागणाः

लिंगेबेरे च सर्वत्र कथं संपूज्यते शिवः  ८

सूत उवाच

अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम्

अत्र वक्ता महादेवो नान्योऽस्ति पुरुषः क्वचित्  ९

शिवेनोक्तं प्रवक्ष्यामि क्रमाद्गुरुमुखाच्छ्रुतम्

शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः  १०

रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः

निष्कलत्वान्निराकारं लिंगं तस्य समागतम्  ११

सकलत्वात्तथा बेरं साकारं तस्य संगतम्

सकलाकलरूपत्वाद्ब्रह्मशब्दाभिधः परः  १२

अपि लिंगे च बेरे च नित्यमभ्यर्च्यते जनैः

अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित्  १३

तस्मात्ते निष्कले लिंगे नाराध्यंते सुरेश्वराः

अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः  १४

तूष्णीं सकलमात्रत्वादर्च्यंते बेरमात्रके

जीवत्वं शंकरान्येषां ब्रह्मत्वं शंकरस्य च  १५

वेदांतसारसंसिद्धं प्रणवार्थे प्रकाशनात्

एवमेव पुरा पृष्टो मंदरे नंदिकेश्वरः  १६

सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता  १७ब्

सनत्कुमार उवाच

शिवान्यदेववश्यानां सर्वेषामपि सर्वतः  १७

बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः

शिवमात्रस्य पूजायां लिंगं बेरं च दृश्यते  १८

अतस्तद्ब्रूहि कल्याण तत्त्वं मे साधुबोधनम्

नंदिकेश्वर उवाच

अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम्  १९

कथयामि शिवेनोक्तं भक्तियुक्तस्य तेऽनघ

शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम्  २०

लिंगं तस्यैव पूजायां सर्ववेदेषु संमतम्

तस्यैव सकलत्वाच्च तथा सकलनिष्कलम्  २१

सकलं च तथा बेरं पूजायां लोकसंमतम्

शिवान्येषां च जीवत्वात्सकलत्वाच्च सर्वतः  २२

बेरमात्रं च पूजायां संमतं वेदनिर्णये

स्वाविर्भावे च देवानां सकलं रूपमेव हि  २३

शिवस्य लिंगं बेरं च दर्शने दृश्यते खलु

सनत्कुमार उवाच

उक्तं त्वया महाभाग लिंगबेरप्रचारणम्  २४

शिवस्य च तदन्येषां विभज्य परमार्थतः

तस्मात्तदेव परमं लिंगबेरादिसंभवम्  २५

श्रोतुमिच्छामि योगींद्र  लिंगाविर्भावलक्षणम्

नंदिकेश्वर उवाच

शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः  २६

पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते

आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम्  २७

तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः

निष्कलस्तंभरूपेण स्वरूपं समदर्शयत्  २८

ततः स्वलिंगचिह्नत्वात्स्तंभतो निष्कलं शिवः

स्वलिंगं दर्शयामास जगतां हितकाम्यया  २९

तदाप्रभृति लोकेषु निष्कलं लिंगमैश्वरम्

सकलं च तथा बेरं शिवस्यैव प्रकल्पितम्  ३०

शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम्

तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम्

शिवस्य लिंगबेरत्वं भोगमोक्षप्रदं शुभम्  ३१

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां पंचमोऽध्यायः  ५

अध्याय ६

नंदिकेश्वर उवाच

पुरा कदाचिद्योगींद्र  विष्णुर्विषधरासनः

सुष्वाप परया भूत्या स्वानुगैरपि संवृतः  १

यदृच्छया गतस्तत्र ब्रह्मा ब्रह्मविदांवरः

अपृच्छत्पुंडरीकाक्षं शयनं सर्वसुन्दरम्  २

कस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि दृप्तवत्

उत्तिष्ठ वत्स मां पश्य तव नाथमिहागतम्  ३

आगतं गुरुमाराध्यं दृष्ट्वा यो दृप्तवच्चरेत्

द्रो हिणस्तस्य मूढस्य प्रायश्चित्तं विधीयते  ४

इति श्रुत्वा वचः क्रुद्धो बहिः शांतवदाचरत्

स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश  ५

किमु ते व्याग्रवद्वक्त्रं विभाति विषमेक्षणम्

ब्रह्मोवाच

वत्स विष्णो महामानमागतं कालवेगतः  ६

पितामहश्च जगतः पाता च तव वत्सक

विष्णुरुवाच

मत्स्थं जगदिदं वत्स मनुषे त्वं हि चोरवत्  ७

मन्नाभिकमलाज्जातः पुत्रस्त्वं भाषसे वृथा

नंदिकेश्वर उवाच

एवं हि वदतोस्तत्र मुग्धयोरजयोस्तदा  ८

अहमेव बरो न त्वमहं प्रभुरहं प्रभुः

परस्परं हंतुकामौ चक्रतुः समरोद्यमम्  ९

युयुधातेऽमरौ वीरौ हंसपक्षींद्र वाहनौ

वैरंच्या वैष्णवाश्चैवं मिथो युयुधिरे तदा  १०

तावद्विमानगतयः सर्वा वै देवजातयः

दिदृक्षवः समाजग्मुः समरं तं महाद्भुतम्  ११

क्षिपंतः पुष्पवर्षाणि पश्यंतः स्वैरमंबरे

सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि  १२

मुमोच बाणानसहानस्त्रांश्च विविधान्बहून्

मुमोचाऽथ विधिः क्रुद्धो विष्णोरुरसि दुःसहान्  १३

बाणाननलसंकाशानस्त्रांश्च बहुशस्तदा

तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम्  १४

समीक्ष्य दैवतगणाः शशंसुर्भृशमाकुलाः

ततो विष्णुः सुसंक्रुद्धः श्वसन्व्यसनकर्शितः  १५

माहेश्वरास्त्रं मतिमान् संदधे ब्रह्मणोपरि

ततो ब्रह्मा भृशं क्रुद्धः कंपयन्विश्वमेव हि  १६

अस्त्रं पाशुपतं घोरं संदधे विष्णुवक्षसि

ततस्तदुत्थितं व्योम्नि तपनायुतसन्निभम्  १७

सहस्रमुखमत्युग्रं चंडवातभयंकरम्

अस्त्रद्वयमिदं तत्र ब्रह्मविष्ण्वोर्भयंकरम्  १८

इत्थं बभूव समरो ब्रह्मविष्ण्वोः परस्परम्

ततो देवगणाः सर्वे विषण्णा भृशमाकुलाः

ऊचुः परस्परं तात राजक्षोभे यथा द्विजाः  १९

सृष्टिः स्थितिश्च संहारस्तिरो भावोप्यनुग्रहः

यस्मात्प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने  २०

अशक्यमन्यैर्यदनुग्रहं विना तृणक्षयोप्यत्र यदृच्छया क्वचित्

इति देवाभयं कृत्वा विचिन्वंतः शिवक्षयम्

जग्मुः कैलासशिखरं यत्रास्ते चंद्र शेखरः  २२

दृष्ट्वैवममरा हृष्टाः पदंतत्पारमेश्वरम्

प्रणेमुः प्रणवाकारं प्रविष्टास्तत्र सद्मनि  २३

तेपि तत्र सभामध्ये मंडपे मणिविष्टरे

विराजमानमुमया ददृशुर्देवपुंगवम्  २४

सव्योत्तरेतरपदं तदर्हितकरां बुजम्

स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितम्  २५

वीज्यमानं विशेषजैः स्त्रीजनैस्तीव्रभावनैः

शस्यमानं सदावेदैरनुगृह्णंतमीश्वरम्  २६

दृष्ट्वैवमीशममराः संतोषसलिलेक्षणाः

दंडवद्दूरतो वत्स नमश्चक्रुर्महागणाः  २७

तानवेक्ष्य पतिर्देवान्समीपे चाह्वयद्गणैः

अथ संह्लादयन्देवान्देवो देवशिखामणिः

अवोचदर्थगंभीरं वचनं मधुमंगलम्  २८॑!

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां षष्ठोऽध्यायः  ६

अध्याय ७

ईश्वर उवाच

वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात्

जगच्च देवतावंशः स्वस्वकर्मणि किं नवा  १

प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः

भवतामभितापेन पौनरुक्त्येन भाषितम्  २

इति सस्मितया माध्व्या कुमारपरिभाषया

समतोषयदंबायाः स पतिस्तत्सुरव्रजम्  ३

अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः

आज्ञापयद्गणेशानां शतं तत्रैव संसदि  ४

ततो वाद्यं बहुविधं प्रयाणाय परेशितुः

गणेश्वराश्च संनद्धा नानावाहनभूषणाः  ५

प्रणवाकारमाद्यंतं पंचमंडलमंडितम्

आरुरोह रथं भद्र मंबिकापतिरीश्वरः

ससूनुगणमिंद्रा द्याः सर्वेप्यनुययुः सुराः  ६

चित्रध्वजव्यजनचामरपुष्पवर्षसंगतिनृत्यनिवहैरपि वाद्यवर्गैः

संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः  ७

समीक्ष्यं तु तयोर्युद्धं निगूढोऽभ्रं समास्थितः

समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः  ८

अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम्

माहेश्वरेण चाऽस्त्रेण तथा पाशुपतेन च  ९

अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम्

ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम्  १०

महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः

ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे

निपतेतुः क्षणे नैव ह्याविर्भूते महानले  १२

दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम्

किमेतदद्भुताकारमित्यूचुश्च परस्परम्  १३

अतींद्रि यमिदं स्तंभमग्निरूपं किमुत्थितम्

अस्योर्ध्वमपि चाधश्च आवयोर्लक्ष्यमेव हि  १४

इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ

तत्परौ तत्परीक्षार्थं प्रतस्थातेऽथ सत्वरम्  १५

आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत्

इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान्  १६

तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ

भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः  १७

नाऽप्श्यात्तस्य संस्थानं स्तंभस्यानलवर्चसः

श्रांतः स सूकरहरिः प्राप पूर्वं रणांगणम्  १८

अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव

ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम्  १९

अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा

अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः  २०

परिहासं तु कृतवान्कंपनाच्चलितं शिरः

तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम्  २१

किं त्वं पतसि पुष्पेश पुष्पराट् केन वा धृतम्

आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम्  २२

न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने

अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः  २३

इतः परं सखे मेऽद्य त्वया कर्तव्यमीप्सितम्

मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ  २४

स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत

इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः

असत्यमपि शस्तं स्यादापदीत्यनुशासनम्  २५॑!

समीक्ष्य तत्राऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात्

उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततोऽच्युतम्  २६

स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम्

ततोऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके  २७

हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम्

षोडशैरुपचारैश्च पूजयामास तं विधिम्  २८

विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः

समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम्  २९

आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः

स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या  ३०

ईश्वर उवाच

वत्सप्रसन्नोऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम्

ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः  ३१

इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च  ३२

इति देवः पुरा प्रीतः सत्येन हरये परम्

ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति  ३३

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां सप्तमोऽध्यायः  ७

अध्याय ८

नंदिकेश्वर उवाच

ससर्जाथ महादेवः पुरुषं कंचिदद्भुतम्

भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया  १

स वै तदा तत्र पतिं प्रणम्य शिवमंगणे

किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो  २

वत्सयोऽयं विधिः साक्षाज्जगतामाद्यदैवतम्

नूनमर्चय खड्गेन तिग्मेन जवसा परम्  ३

स वै गृहीत्वैककरेण केशं तत्पंचमं दृप्तमसत्यभाषणम्

छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः  ४

पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिः

प्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे  ५

तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम्

निषिच्य बाष्पैरवदत्कृतांजलिर्यथा शिशुः स्वं पितरं कलाक्षरम्  ६

अच्युत उवाच

त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पंचाननमीशचिह्नम्

तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै  ७

इत्यर्थितोऽच्युतेनेशस्तुष्टः सुरगणांगणे

निवर्तयामास तदा भैरवं ब्रह्मदंडतः  ८

अथाह देवः कितवं विधिं विगतकंधरम्

ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः  ९

नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम्

ब्रह्मोवच

स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम्  १०

नमस्तुभ्यं भगवते बंधवे विश्वयोनये

सहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने  ११

ईश्वर उवाच

अराजभयमेतद्वै जगत्सर्वं न शिष्यति

ततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो  १२

वरं ददामि ते तत्र गृहाण दुर्लभं परम्

वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः  १३

निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः

अथाह देवः कितवं केतकं कूटसाक्षिणम्  १४

रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज

ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम्  १५

इत्युक्ते तत्र देवेन केतकं देवजातयः

सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा  १६

केतक उवाच

नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया

सफलं क्रियतां तात क्षम्यतां मम किल्बिषम्  १७

ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः

तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत्  १८

तथा स्तुतस्तु भगवान्केतकेन सभातले

न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः  १९

मदीयास्त्वां धरिष्यंति जन्म ते सफलं ततः

त्वं वै वितानव्याजेन ममोपरि भविष्यसि  २०

इत्यनुगृह्य भगवान्केतकं विधिमाधवौ

विरराज सभामध्ये सर्वदेवैरभिष्टुतः  २१

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायामष्टमोऽध्यायः  ८

अध्याय ९

नंदिकेश्वर उवाच

तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ

बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ  १

तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने

पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः  २

पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम्

हारनूपुरकेयूरकिरीटमणिकुंडलैः  ३

यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः

पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः  ४

धूपदीपसितच्छत्रव्यजनध्वजचामरैः

अन्यैर्दिव्योपहारैश्च वाण्मनोतीतवैभवैः  ५

पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम्

यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे  ६

तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया

सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम्  ७

कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम्

तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा  ८

प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः

ईश्वर उवाच

तुष्टोऽहमद्य वां वत्सौ पूजयाऽस्मिन्महादिने  ९

दिनमेतत्ततः पुण्यं भविष्यति महत्तरम्

शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया  १०

एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः

कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान्  ११

शिवरात्रावहोरात्रं निराहारो जितेंद्रि यः  १२ब्

अर्चयेद्वा यथान्यायं यथाबलमवंचकः  १२

यत्फलं मम पूजायां वर्षमेकं निरंतरम्

तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात्  १३

मद्धर्मवृद्धिकालोऽयं चंद्र काल इवांबुधेः

प्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः  १४

यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा

स कालो मार्गशीर्षे तु स्यादाद्रा र्! ऋक्षमर्भकौ  १५

आद्रा र्यां! मार्गशीर्षे तु यः पश्येन्मामुमासखम्

मद्बेरमपि वा लिंगं स गुहादपि मे प्रियः  १६

अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे

अभ्यर्चनं चेदधिकं फलं वाचामगोचरम्  १७

रणरंगतलेऽमुष्मिन्यदहं लिंगवर्ष्मणा

जृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत्  १८

अनाद्यंतमिदं स्तंभमणुमात्रं भविष्यति

दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको  १९

भोगावहमिदं लिंगं भुक्तिं मुक्त्येकसाधनम्

दर्शनस्पर्शनध्यानाज्जंतूनां जन्ममोचनम्  २०

अनलाचलसंकाशं यदिदं लिंगमुत्थितम्

अरुणाचलमित्येव तदिदं ख्यातिमेष्यति  २१

अत्र तीर्थं च बहुधा भविष्यति महत्तरम्

मुक्तिरप्यत्र जंतूनां वासेन मरणेन च  २२

रथोत्सवादिकल्याणं जनावासं तु सर्वतः

अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत्  २३

मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम्

अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम्  २४

तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम्

सर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम्  २५

अर्चयित्वाऽत्र मामेव लिंगे लिंगिनमीश्वरम्

सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च  २६

सायुज्यमिति पंचैते क्रियादीनां फलं मतम्

सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम्  २७

नंदिकेश्वर उवाच

इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ

यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम्  २८

तदुत्थापयदत्यर्थं स्वशक्त्याऽमृतधारया

तयोर्मौढ्यं च वैरं च व्यपनेतुमुवाच तौ  २९

सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे

नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः  ३०

पुरस्तात्स्तंभरूपेण पश्चाद्रू पेण चार्भकौ

ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा  ३१

द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित्

तस्मादीशत्वमन्येषां युवयोरपि न क्वचित्  ३२

तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम्

तन्निराकर्तुमत्रैवमुत्थितोऽहं रणक्षितौ  ३३

त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम्

मत्प्रसादेन लोकेषु सर्वोप्यर्थः प्रकाशते  ३४

गुरूक्तिर्व्यंजकं तत्र प्रमाणं वा पुनः पुनः

ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम्  ३५

अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम्

ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम्  ३६

बृहत्त्वाद्बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ

समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ  ३७

अनात्मानः परे सर्वे जीवा एव न संशयः

अनुग्रहाद्यं सर्गांतं जगत्कृत्यं च पंकजम्  ३८

ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित्

आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिंगमुत्थितम्  ३९

तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम्

सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात्  ४०

सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम्

यदिदं निष्कलं स्तंभं मम ब्रह्मत्वबोधकम्  ४१

लिंगलक्षणयुक्तत्वान्मम लिंगं भवेदिदम्

तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ  ४२

मदात्मकमिदं नित्यं मम सान्निध्यकारणम्

महत्पूज्यमिदं नित्यमभेदाल्लिंगसिंगिनोः  ४३

यत्रप्रतिष्ठितं येन मदीयं लिंगमीदृशम्

तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ  ४४

मत्साम्यमेकलिंगस्य स्थापने फलमीरितम्

द्वितीये स्थापिते लिंगे मदैक्यं फलमेव हि  ४५

लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम्

लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः  ४६

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां नवमोऽध्यायः  ९

अध्याय १०

ब्रह्मविष्णू ऊचतुः

सर्गादिपंचकृत्यस्य लक्षणं ब्रूहि नौ प्रभो

शिव उवाच

मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम्  १

सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः

पंचैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ  २

सर्गः संसारसंरंभस्तत्प्रतिष्ठा स्थितिर्मता

संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः  ३

तन्मोक्षोऽनुग्रहस्तन्मे कृत्यमेवं हि पंचकम्

कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत्  ४

सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम्

पंचमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम्  ५

तदिदं पंचभूतेषु दृश्यते मामकैर्जनैः

सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा  ६

तिरोभावोऽनिले तद्वदनुग्रह इहाम्बरे

सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्द्धते  ७

अर्द्यते तेजसा सर्वं वायुना चापनीयते

व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः  ८

पंचकृत्यमिदं बोढुं ममास्ति मुखपंचकम्

चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पंचमं मुखम्  ९

युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ

सृष्टिस्थित्यभिधं भाग्यं मत्तः प्रीतादतिप्रियम्  १०

तथा रुद्र महेशाभ्यामन्यत्कृत्यद्वयं परम्

अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते  ११

तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम्

न तद्रुद्र  महेशाभ्यां विस्मृतं कर्म तादृशम्  १२

रूपे वेशे च कृत्ये च वाहने चासने तथा

आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम्  १३

मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम्

मज्ज्ञाने सति नैवं स्यान्मानं रूपे महेशवत्  १४

तस्मान्मज्ज्ञानसिद्ध्यर्थं मंत्रमॐकारनामकम्

इतः परं प्रजपतं मामकं मानभंजनम्  १५

उपादिशं निजं मंत्रमॐकारमुरुमंगलम्

ॐकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः  १६

वाचकोऽयमहं वाच्यो मंत्रोऽयं हि मदात्मकः

तदनुस्मरणं नित्यं ममानुस्मरणं भवेत्  १७

अकार उत्तरात्पूर्वमुकारः पश्चिमाननात्

मकारो दक्षिणमुखाद्बिंदुः प्राण्मुखतस्तथा  १८

नादो मध्यमुखादेवं पंचधाऽसौ विजृंभितः

एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत्  १९

नामरूपात्मकं सर्वं वेदभूतकुलद्वयम्

व्याप्तमेतेन मंत्रेण शिवशक्त्योश्च बोधकः  २०

अस्मात्पंचाक्षरं जज्ञे बोधकं सकलस्यतत्

आकारादिक्रमेणैव नकारादियथाक्रमम्  २१

अस्मात्पंचाक्षराज्जाता मातृकाः पंचभेदतः

तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि  २२

वेदः सर्वस्ततो जज्ञे ततो वै मंत्रकोटयः

तत्तन्मंत्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत्  २३

अनेन मंत्रकंदेन भोगो मोक्षश्च सिद्ध्यति

सकला मंत्रराजानः साक्षाद्भोगप्रदाः शुभाः  २४

नंदिकेश्वर उवाच

पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम्

निधाय तच्छीर्ष्णि करांबुजं शनैरुदण्मुखं संस्थितयोः सहांबिकः  २५

त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम्

शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत्  २६

प्रबद्धहस्तौ किल तौ तदंतिके तमेव देवं जगतुर्जगद्गुरुम्  २७

ब्रह्माच्युतावूचतुः

नमो निष्कलरूपाय नमो निष्कलतेजसे

नमः सकलनाथाय नमस्ते सकलात्मने  २८

नमः प्रणववाच्याय नमः प्रणवलिंगिने

नमः सृष्ट्यादिकर्त्रे च नमः पंचमुखायते  २९

पंचब्रह्मस्वरूपाय पंच कृत्यायते नमः

आत्मने ब्रह्मणे तुभ्यमनंतगुणशक्तये  ३०

सकलाकलरूपाय शंभवे गुरवे नमः

इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश्च नेमतुः  ३१

ईश्वर उवाच

वत्सकौ सर्वतत्त्वं च कथितं दर्शितं च वाम्

जपतं प्रणवं मंत्रं देवीदिष्टं मदात्मकम्  ३२

ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम्

आद्रा र्यां! च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत्  ३३

सूर्यगत्या महाद्रा र्या!मेकं कोटिगुणं भवेत्

मृगशीर्षांतिमो भागः पुनर्वस्वादिमस्तथा  ३४

आद्रा र्स!मः सदा ज्ञेयः पूजाहोमादितर्पणे

दर्शनं तु प्रभाते च प्रातःसंगवकालयोः  ३५

चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत्

प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते  ३६

लिंगं बेरं च मेतुल्यं यजतां लिंगमुत्तमम्

तस्माल्लिंगं परं पूज्यं बेरादपि मुमुक्षुभिः  ३७

लिंगमॐकारमंत्रेण बेरं पंचाक्षरेण तु

स्वयमेव हि सद्द्रव्यैः प्रतिष्ठाप्यं परैरपि  ३८

पूजयेदुपचारैश्च मत्पदं सुलभं भवेत्

इति शास्य तथा शिष्यौ तत्रैवांऽतर्हितः शिवः  ३९

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां दशमोऽध्यायः  १०

अध्याय ११

ऋषय ऊचुः

कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम्

कथं वा तत्समभ्यर्च्यं देशे काले च केन हि  १

सूत उवाच

युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः

अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा  २

यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम्

पार्थिवेन तथाप्येनं तैजसेन यथारुचि  ३

कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत्

सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम्  ४

चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि

सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम्  ५

मंडलं चतुरस्रं वा त्रिकोणमथवा तथा

खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं  ६

प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम्

येन लिंगं तेन पीठं स्थावरे हि विशिष्यते  ७

लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना

लिंगप्रमाणं कर्तृ-णां द्वादशांगुलमुत्तमम्  ८

न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते

कर्तुरेकांगुलन्यूनं चरेपि च तथैव हि  ९

आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम्

तत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभे  १०

भूषिते नवरत्नैश्च दिग्द्वारे च प्रधानकैः

नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा  ११

मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् १२ब्

मध्ये लिंगं महद्द्रव्यं निक्षिपेत्सहवैदिके  १२

संपूज्य लिंगं सद्याद्यैः पंचस्थाने यथाक्रमम्

अग्नौ च हुत्वा बहुधा हविषास कलं च माम्  १३

अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम्

दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा  १४

स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः

सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते  १५

सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम्

उदीर्य च महामंत्रमॐकारं नादघोषितम्  १६

लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत्

लिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत्  १७

एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम्

पंचाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा  १८

बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा

एवं लिंगे च बेरे च पूजा शिवपदप्रदा  १९

पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा

स्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा  २०

जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा

स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम्  २१

तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः

पीठमंबामयं सर्वं शिवलिंगं च चिन्मयम्  २२

यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः

तथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम्  २३

एवं स्थाप्य महालिंगं पूजयेदुपचारकैः

नित्यपूजा यथा शक्तिध्वजादिकरणं तथा  २४

इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम्

अथवा चरलिंगं तु षोडशैरुपचारकैः  २५

पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम्

आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च  २६

तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम्

वस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम्  २७

नीराजनं च तांबूलं नमस्कारो विसर्जनम्

अथवाऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि  २८

अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम्

यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम्  २९

अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि

स्थापितेऽपूर्वके लिंगे सोपचारं यथा तथा  ३०

पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते

प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम्  ३१

लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम्

मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः  ३२

गुडेन नवनीतेन भस्मनान्नैर्यथारुचि

लिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः  ३३

अंगुष्ठादावपि तथा पूजामिच्छंति केचन

लिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित्  ३४

सर्वत्र फलदाता हि प्रयासानुगुणं शिवः

अथवा लिंगदानं वा लिंगमौल्यमथापि वा  ३५

श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम्

अथवा प्रणवं नित्यं जपेद्दशसहस्रकम्  ३६

संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम्

जपकाले मकारांतं मनःशुद्धिकरं भजेत्  ३७

समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम्

समानप्रणवं चेमं बिंदुनादयुतं विदुः  ३८

अथ पंचाक्षरं नित्यं जपेदयुतमादरात्

संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम्  ३९

प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते

दीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये  ४०

कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च

ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते  ४१

द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् ४२ब्

स्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि  ४२

विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन

पंचकोटिजपं कृत्वा सदा शिवसमो भवेत्  ४३

एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत्

जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक्  ४४

अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम्

सहस्रं तु सहस्राणां सहस्रेण दिनेन हि  ४५

जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात्

अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि  ४६

ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान्

वेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः  ४७

एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम्

अयुतं च सहस्रं च शतमेकं विना भवेत्  ४८

वेदपारायणं चैव ज्ञेयं शिवपदप्रदम्

अन्यान्बहुतरान्मंत्राञ्जपेदक्षरलक्षतः  ४९

एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः

ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम्  ५०

एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत्

नित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम्  ५१

जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया

पुष्पारामादिकं वापि तथा संमार्जनादिकम्  ५२

शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत्

शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः  ५३

जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम्

तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः  ५४

लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः

सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके  ५५

दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः

धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि  ५६

पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च

शिवगंगेति विज्ञेयं शिवस्य वचनं यथा  ५७

तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत्

शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा  ५८

दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा

आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा  ५९

सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत्

अथवा सप्तरात्रं वा वसेद्वा पंचरात्रकम्  ६०

त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत्

स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः  ६१

वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः

सर्वं कृतं कामनया सद्यः फलमवाप्नुयात्  ६२

सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम्

प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात्  ६३

प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा

सायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि  ६४

कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि

शिवपूजा विशेषेण तत्कालेऽभीष्टसिद्धिदा  ६५

एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत्

कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा  ६६

उक्तेन केनचिद्वापि अधिकारविभेदतः

सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात्  ६७

ऋषय ऊचुः

अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः

सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत्  ६८

सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा

सूत उवाच

शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान्  ६९

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायांएकदशोऽध्यायः  ११

अध्याय १२

सूत उवाच

शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम्

तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि  १

पंचाशत्कोटिविस्तीर्णा सशैलवनकानना

शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति  २

तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम्

मो-क्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः  ३

परिग्रहादृषीणां च देवानां परिग्रहात्

स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि  ४

तीर्थे क्षेत्रे सदाकार्यं स्नानदानजपादिकम्

अन्यथा रोगदारिद्र य्मूकत्वाद्याप्नुयान्नरः  ५

अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः

स्वयंभूस्थानवासेन पुनर्मानुष्यमाप्नुयात्  ६

क्षेत्रे पापस्य करणं दृढं भवति भूसुराः

पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत्  ७

येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः

सिंधोः शतनदीतीरे संति क्षेत्राण्यनेकशः  ८

सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा

तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत्  ९

हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी

तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः  १०

तत्र तीरं प्रशस्तं हि मृगे मृगबृहस्पतौ

शोणभद्रो  दशमुखः पुण्योभीष्टफलप्रदः  ११

तत्र स्नानोपवासेन पदं वैनायकं लभेत्

चतुर्वींशमुखा पुण्या नर्मदा च महानदी  १२

तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात्

तमसा द्वादशमुखा रेवा दशमुखा नदी  १३

गोदावरी महापुण्या ब्रह्मगोवधनाशिनी

एकविंशमुखा प्रोक्ता रुद्र लोकप्रदायिनी  १४

कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा

साष्टादशमुखाप्रोक्ता विष्णुलोकप्रदायिनी  १५

तुंगभद्रा  दशमुखा ब्रह्मलोकप्रदायिनी

सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा  १६

तत्रैव सुप्रजायंते ब्रह्मलोकच्युतास्तथा

सरस्वती च पंपा च कन्याश्वेतनदी शुभा  १७

एतासां तीरवासेन इंद्र लोकमवाप्नुयात्

सह्याद्रि जा महापुण्या कावेरीति महानदी  १८

सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी

तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः  १९

शिवलोकप्रदा शैवास्तथाऽभीष्टफलप्रदाः

नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ  २०

ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा

सिंधुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ  २१

केदारोदकपानं च स्नानं च ज्ञानदं विदुः

गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ  २२

शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा

यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ  २३

धर्मलोके दंतिलोके महाभोगप्रदं विदुः

कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ  २४

विष्णोर्वचनमाहात्म्यात्सर्वाभीष्टप्रदं विदुः

वृश्चिके मासि संप्राप्ते तथार्के गुरुवृश्चिके  २५

नर्मदायां नदीस्नानाद्विष्णुलोकमवाप्नुयात्

सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ  २६

शिवलोकप्रदमिति ब्राह्मणो वचनं यथा

मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ  २७

शिवलोकप्रदमिति ब्रह्मणो वचनं यथा

ब्रह्मविष्ण्वोः पदे भुक्त्वा तदंते ज्ञानमाप्नुयात्  २८

गंगायां माघमासे तु तथाकुंभगते रवौ

श्राद्धं वा पिंडदानं वा तिलोदकमथापिवा  २९

वंशद्वयपितृ-णां च कुलकोट्युद्धरं विदुः

कृष्णवेण्यां प्रशंसंति मीनगे च गुरौ रवौ  ३०

तत्तत्तीर्थे च तन्मासि स्नानमिंद्र पदप्रदम्

गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः  ३१

तत्कालकृतपापस्य क्षयो भवति निश्चितम्

रुद्र लोकप्रदान्येव संति क्षेत्राण्यनेकशः  ३२

ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे

तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च  ३३

संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः

तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत्  ३४

सदाचारेण सद्वृत्त्या सदा भावनयापि च

वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत्  ३५

पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति

पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते  ३६

तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति

पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा  ३७

मानसं च तथा पापं तादृशं नाशयेद्द्विजाः

मानसं वज्रलेपं तु कल्पकल्पानुगं तथा  ३८

ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति

वाचिकं जपजालेन कायिकं कायशोषणात्  ३९

दानाद्धनकृतं नश्येन्नाऽन्यथाकल्पकोटिभिः

क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति  ४०

बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः

ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः  ४१

भोगांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः

बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते  ४२

देवानां पूजया चैव ब्रह्मणानां च दानतः

तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम्

तस्मात्पापमकृत्वैव वस्तव्यं सुखमिच्छता  ४३

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां द्वादशोऽध्यायः  १२

अध्याय १३

ऋषय ऊचुः

सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः

धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा  १

सूत उवाच

सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः

वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः  २

अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः

किंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया  ३

शूद्र ब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः

असूयालुः परद्रो ही चंडालद्विज उच्यते  ४

पृथिवीपालको राजा इतरेक्षत्रिया मताः

धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते  ५

ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र  उच्यते

कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः  ६

सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान्

धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च  ७

आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च

व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम्  ८

निशांत्यायामोषा ज्ञेया यामार्धं संधिरुच्यते

तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः  ९

गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा

उदण्मुखः समाविश्य प्रतिबंधेऽन्यदिण्मुखः  १०

जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः

लिंगं पिधाय वामेन मुखमन्येन पाणिना  ११

मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम्

उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः  १२

अथवा देवपित्रार्षतीर्थावतरणं विना

सप्त वा पंच वा त्रीन्वा गुदं संशोधयेन्मृदा  १३

लिंगे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते

तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम्  १४

येन केन च पत्रेण काष्ठेन च जलाद्बहिः

कार्यं संत्यज्य तर्ज्जनीं दंतधावनमीरितम्  १५

जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत्

अशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा  १६

आजानु जलमाविश्य मंत्रस्नानं समाचरेत्

देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च  १७

धौतवस्त्रं समादाय पंचकच्छेन धारयेत्

उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु  १८

नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत्

वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः  १९

शिलादार्वादिके वापि जले वापि स्थलेपि वा

संशोध्य पीडयेद्वस्त्रं पितृ-णां तृप्तये द्विजाः  २०

जाबालकोक्तमंत्रेण भस्मना च त्रिपुंड्रकम्

अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति  २१

आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशांतये

यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते  २२

पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च

हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः  २३

ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभयेऽपि च

अत्यागतिकाले च मंत्रस्नानं समाचरेत्  २४

प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः

अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत्  २५

गायत्र्! या जपमंत्रांते त्रिरूर्ध्वं प्राग्विनिक्षिपेत्

मंत्रेण सह चैकं वै मध्येऽर्घ्यं तु रवेर्द्विजा  २६

अथ जाते च सायाह्ने भुवि पश्चिमदिण्मुखः

उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा  २७

अंगुलीनां च रंध्रेण लंबं पश्येद्दिवाकरम्

आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत्  २८

सायं मुहूर्तादर्वाक्तु कृता संध्या वृथा भवेत्

अकालात्काल इत्युक्तो दिनेऽतीते यथाक्रमम्  २९

दिवाऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत्

आदर्शाहात्पराऽतीते गायत्रीं लक्षमभ्यसेत्  ३०

मासातीते तु नित्ये हि पुनश्चोपनयं चरेत्

ईशो गौरीगुहो विष्णुर्ब्रह्मा चेंद्र श्च वै यमः  ३१

एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये

ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत्  ३२

तीर्थदक्षिणतः शस्ते मठे मंत्रालये बुधः

तत्र देवालये वापि गृहे वा नियतस्थले  ३३

सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः

प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः  ३४

जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत्

त्रैलोक्यसृष्टिकर्त्तारं स्थितिकर्तारमच्युतम्  ३५

संहर्तारं तथा रुद्रं  स्वप्रकाशमुपास्महे

ज्ञानकर्मेंद्रि याणां च मनोवृत्तीर्धियस्तथा  ३६

भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा

इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः  ३७

केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये

सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः  ३८

अन्येषां च यथा शक्तिमध्याह्ने च शतं जपेत्

सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम्  ३९

मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा

विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान्  ४०

ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत्

तानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत्  ४१

महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम्

एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः  ४२

परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम्

शतद्विदशकं देहं शिखाष्टकसमन्वितम्  ४३

मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः

सहस्रं ब्राह्मदं विद्याच्छतमैंद्र प्रदं विदुः  ४४

इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते

दिवाकरमुपस्थाय नित्यमित्थं समाचरेत्  ४५

लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः

गायत्र्! या लक्षहीनं तु वेदकार्येन योजयेत्  ४६

आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत्

प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत्  ४७

दिने दिने त्वतिक्रांते नित्यमेवं क्रमाज्जपेत्

मासादौ क्रमशोऽतीते सार्धलक्षजपेन हि  ४८

अत ऊर्ध्वमतिक्रांते पुनः प्रैषं समाचरेत्

एवं कृत्वा दोषशांतिरन्यथा रौरवं व्रजेत्  ४९

धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः

ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत्  ५०

धर्मादर्थोऽर्थतो भोगो भोगाद्वैराग्यसंभवः

धर्मार्जितार्थभोगेन वैराग्यमुपजायते  ५१

विपरीतार्थभोगेन राग एव प्रजायते

धर्मश्च द्विविधः प्रोक्तो द्र व्यदेहद्वयेन च  ५२

द्र व्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम्

धनेन धनमाप्नोति तपसा दिव्यरूपताम्  ५३

निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः

कृतादौ हि तपःश्लोघ्यं द्र व्यधर्मः कलौ युगे  ५४

कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा

द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ  ५५

यादृशं पुण्यं पापं वा तादृशं फलमेव हि

द्र व्यदेहांगभेदेन न्यूनवृद्धिक्षयादिकम्  ५६

अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः

अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते  ५७

विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः

धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये  ५८

सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च

शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम्  ५९

चांद्रा यणसहस्रं तु ब्रह्मलोकप्रदं विदुः

सहस्रस्य कुटुंबस्य प्रतिष्ठां क्षत्रियश्चरेत्  ६०

इंद्र लोकप्रदं विद्यादयुतं ब्रह्मलोकदम्

यां देवतां पुरस्कृत्य दानमाचरते नरः  ६१

तत्तल्लोकमवाप्नोति इति वेदविदो विदुः

अर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा  ६२

तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते

अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः  ६३

कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः

अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत्  ६४

क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः

न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते  ६५

ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात्

मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते  ६६

सत्संगात्सर्वमेतद्वै नराणां जायते द्विजाः

धनधान्यादिकं सर्वं देयं वै गृहमेधिना  ६७

यद्यत्काले वस्तुजातं फलं वा धान्यमेव च

तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता  ६८

जलं चैव सदा देयमन्नं क्षुद्व्याधिशांतये

क्षेत्रं धान्यं तथाऽऽमान्नमन्नमेवं चतुर्विधम्  ६९

यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते

तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः  ७०

ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा

पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत्  ७१

आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः

नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः  ७२

वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः

हितेन मितमे ध्येन भोगं भोगांशतश्चरेत्  ७३

कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये

शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत्  ७४

अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति

वृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः  ७५

शुद्धप्रतिग्रहे देयश्चतुर्थांशो द्विजोत्तमैः

अकस्मादुत्थितेऽर्थे हि देयमर्धं द्विजोत्तमैः  ७६

असत्प्रतिग्रहसर्वं दुर्दानं सागरे क्षिपेत्

आहूय दानं कर्तव्यमात्मभोगसमृद्धये  ७७

पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ७८ब्

जन्मांतरे ऋणी हि स्याददत्ते पृष्टवस्तुनि  ७८

परेषां च तथा दोषं न प्रशंसेद्विचक्षणः

विशेषेण तथा ब्रह्मञ्छ्रुतं दृष्टं च नो वदेत्  ७९

न वदेत्सर्वजंतूनां हृदि रोषकरं बुधः

संध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये  ८०

अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि

तंडुलं धान्यमाज्यं वा फलं कंदं हविस्तथा  ८१

स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि

प्रधानहोममात्रं वा हव्याभावे समाचरेत्  ८२

नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः

अथवा जपमात्रं वा सूर्यवंदनमेव च  ८३

एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि

ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा  ८४

अग्निपूजापरा नित्यं गुरुपूजारतास्तथा

ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः  ८५

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां त्रयोदशोऽध्यायः  १३

अध्याय १४

ऋषय ऊचुः

अग्नियज्ञं देवयज्क्तं ब्रह्मयज्क्तं तथैव च

गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो  १

सूत उवाच

अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते

ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि  २

समिदग्रौ व्रताद्यं च विशेषयजनादिकम्

प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः  ३

आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः

हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः  ४

औपासनाग्निसंधानं समारभ्य सुरक्षितम्

कुंडे वाप्यथ भांडे वा तदजस्रं समीरितम्  ५

अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम्

अग्नित्यागभयादुक्तं समारोपितमुच्यते  ६

संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः

आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा  ७

अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात्

इंद्रा दीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत् ८

देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून्

चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम्  ९

ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत्

ब्रह्मयज्ञ इति प्रोक्तो वेदस्याऽध्ययनं भवेत्  १०

नित्यानंतरमासोयं ततस्तु न विधीयते

अनग्नौ देवयजनं शृणुत श्रद्धयादरात्  ११

आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः

सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः  १२

संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम्

आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः  १३

संपत्कारं स्वमायाया वरं च कृतवांस्ततः

जनने दुर्गतिक्रांते कुमारस्य ततः परम्  १४

आलस्यदुरितक्रांत्यै वारं कल्पितवान्प्रभुः

रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया  १५

पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः

आयुष्करं ततो वारमायुषां कर्तुरेव हि  १६

त्रैलोक्यसृष्टिकर्त्तुर्हि ब्रह्मणः परमेष्ठिनः

जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः  १७

आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते

तयोः कर्त्रोस्ततो वारमिंद्र स्य च यमस्य च  १८

भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम्

आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान्  १९

वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान्

स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा  २०

आरोग्यं संपदश्चैव व्याधीनां शांतिरेव च

पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम्  २१

वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम्

अन्येषामपि देवानां पूजायाः फलदः शिवः  २२

देवानां प्रीतये पूजापंचधैव प्रकल्पिता

तत्तन्मंत्रजपो होमो दानं चैव तपस्तथा  २३

स्थंडिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे

समाराधनमित्येवं षोडशैरुपचारकैः  २४

उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम्

नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शांतये  २५

आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः

दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा  २६

प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रो गजरादिकम्

जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः  २७

पापशांतिर्विशेषेण ह्यादिवारे निवेदयेत्

आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम्  २८

सोमवारे च लक्ष्म्यादीन्संपदर्थं यजेद्बुधः

आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत्  २९

काल्यादीन्भौम वारे तु यजेद्रो गप्रशांतये

माषमुद्गाढकान्नेन ब्रह्मणांश्चैव भोजयेत्  ३०

सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः

पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा  ३१

आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये

उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुधः  ३२

भोगार्थं भृगवारे तु यजेद्देवान्समाहितः

षड्रसोपेतमन्नं च दद्याद्ब्राह्मणतृप्तये  ३३

स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम्

अपमृत्युहरे मंदे रुद्रा द्री श्चं! यजेद्बुधः  ३४

तिलहोमेन दानेन तिलान्नेन च भोजयेत्

इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत्  ३५

देवानां नित्ययजने विशेषयजनेपि च

स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे  ३६

तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने

आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः  ३७

तत्तद्रू पेण सर्वेषामारोग्यादिफलप्रदः

देशकालानुसारेण तथा पात्रानुसारतः  ३८

द्र व्यश्रद्धानुसारेण तथा लोकानुसारतः ३९ब्

तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति  ३९

शुभादावशुभांते च जन्मर्क्षेषु गृहे गृही

आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत्  ४०

तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम्

समंत्रकं ब्राह्मणानामन्येषां चैव तांत्रिकम्  ४१

यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः

सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः  ४२

दरिद्र स्तपसा देवान्यजेदाढ्यो धनेन हि

पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह  ४३

पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते

छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम्  ४४

सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये

कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते  ४५

य इमं शृणुतेऽध्यायं पठते वा नरो द्विजाः

श्रवणस्योपकर्त्ता च देवयज्ञफलं लभेत्  ४६

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां चतुर्दशोऽध्यायः  १४

अध्याय १५

ऋषय ऊचुः

देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम्

सूत उवाच

शुद्धं गृहं समफलं देवयज्ञादिकर्मसु  १

ततो दशगुणं गोष्ठं जलतीरं ततो दश

ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम्  २

ततो देवालयं विद्यात्तीर्थतीरं ततो दश

ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश  ३

सप्तगंगानदीतीरं तस्या दशगुणं भवेत्

गंगा गोदावरी चैव कावेरी ताम्रपर्णिका  ४

सिंधुश्च सरयू रेवा सप्तगंगाः प्रकीर्तिताः

ततोऽब्धितीरं दश च पर्वताग्रे ततो दश  ५

सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः

कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा  ६

त्रेतायुगे त्रिपादं च द्वापरेऽर्धं सदा स्मृतम्

कलौ पादं तु विज्ञेयं तत्पादोनं ततोर्द्धके  ७

शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः

तस्माद्दशगुणं ज्ञेयं रविसंक्रमणे बुधाः  ८

विषुवे तद्दशगुणमयने तद्दश स्मृतम्

तद्दश मृगसंक्रांतौ तच्चंद्र ग्रहणे दश  ९

ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः

जगद्रू पस्य सूर्यस्य विषयोगाच्च रोगदम्  १०

अतस्तद्विषशांत्यर्थं स्नानदानजपांश्चरेत्

विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः  ११

जन्मर्क्षे च व्रतांते च सूर्यरागोपमं विदुः

महतां संगकालश्च कोट्यर्कग्रहणं विदुः  १२

तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा

पूजायाः पात्रमेते हि पापसंक्षयकारणम्  १३

चतुर्विंशतिलक्षं वा गायत्र्! या जपसंयुतः

ब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम्  १४

पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते

दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते  १५

गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा

यथाऽर्थहिनो लोकेऽस्मिन्परस्यार्थं न यच्छति  १६

अर्थवानिह यो लोके परस्यार्थं प्रयच्छति

स्वयं शुद्धो हि पूतात्मा नरान्संत्रातुमर्हति  १७

गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते

तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि  १८

दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति

अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम्  १९

ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम्

तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम्  २०

इच्छावतः प्रदानं च संपूर्णफलदं विदुः

यत्प्रश्नानंतरं दत्तं तदर्धं फलदं विदुः  २१

यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः

जातिमात्रस्य विप्रस्य दीनवृर्त्तेर्द्विजर्षभाः  २२

दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम्

वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम्  २३

गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम्

विष्णुभक्तस्य विप्रस्य दत्तं वैकुंठदं विदुः  २४

शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः

तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते  २५

दशांगमन्नं विप्रस्य भानुवारे ददन्नरः

परजन्मनि चारोग्यं दशवर्षं समश्नुते  २६

बहुमानमथाह्वानमभ्यंगं पादसेवनम्

वासो गंधाद्यर्चनं च घृतापूपरसोत्तरम्  २७

षड्रसं व्यंजनं चैव तांबूलं दक्षिणोत्तरम्

नमश्चानुगमश्चैव स्वन्नदानं दशांगकम्  २८

दशांगमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः

अर्कवारे तथाऽऽरोग्यं शतवर्षं समश्नुते  २९

सोमवारादिवारेषु तत्तद्वारगुणं फलम्

अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि  ३०

सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम्

अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते  ३१

एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः

सहस्रवर्षमारोग्यं शर्वलोके समश्नुते  ३२

सहस्रेभ्यस्तथा दत्त्वाऽयुतवर्षं समश्नुते

एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता  ३३

भानुवारे सहस्राणां गायत्रीपूतचेतसाम्

अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते  ३४

अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते

अन्नं दत्त्वा तु लक्षाणां रुद्र लोके समश्नुते  ३५

बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः

यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः  ३६

वृद्धानां रुद्र बुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः

बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः  ३७

लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः

वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः  ३८

शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम्

शुद्धद्र व्यमिति प्राहुस्तत्पूर्णफलदं विदुः  ३९

शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्र व्यमुच्यते

कृषिवाणिज्यकोपेतमधमं द्र व्यमुच्यते  ४०

क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम्

उत्तमं द्र व्यमित्याहुः शूद्रा णां भृतकार्जितम्  ४१

स्त्रीणां धर्मार्थिनां द्र व्यं पैतृकं भर्तृकं तथा

गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम्  ४२

संभूय वा पुण्यकाले दद्यादिष्टसमृद्धये

गोभूतिलहिरण्याज्यवासोधान्यगुडानि च  ४३

रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा

गोदानाद्दत्तगव्येन गोमयेनोपकारिणा  ४४

धनधान्याद्याश्रितानां दुरितानां निवारणम्

जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः  ४५

कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा

तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता  ४६

भूदानं तु प्रतिष्ठार्थमिह चाऽमुत्र च द्विजाः

तिलदानं बलार्थं हि सदा मृत्युजयं विदुः  ४७

हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा

आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः  ४८

धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम्

रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम्  ४९

सर्वं सर्वसमृद्ध्यर्थं कूष्मांडं पुष्टिदं विदुः

प्राप्तिदं सर्वभोगानामिह चाऽमुत्र च द्विजाः  ५०

यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम्

पनसाम्रकपित्थानां वृक्षाणां फलमेव च  ५१

कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा

माषादीनां च मुद्गानां फलं शाकादिकं तथा  ५२

मरीचिसर्षपाद्यानां शाकोपकरणं तथा

यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता  ५३

श्रोत्रादींद्रि यतृप्तिश्च सदा देया विपश्चिता

शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा  ५४

वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम्

कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते  ५५

बंधुराजभयाद्बुद्धिश्रद्धा सा च कनीयसी

सर्वाभावे दरिद्र स्तु वाचा वा कर्मणा यजेत्  ५६

वाचिकं यजनं विद्यान्मंत्रस्तोत्रजपादिकम्

तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः  ५७

येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु

देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते  ५८

तपश्चर्या च दानं च कर्तव्यमुभयं सदा

प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम्  ५९

देवानां तृप्तयेऽत्यर्थं सर्वभोगप्रदं बुधैः

इहाऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः

ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत्  ६०

य इमं पठतेऽध्यायं यः शृणोति सदा नरः

तस्य वैधर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते  ६१

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां पंचदशोध्यायः  १५

अध्याय १६

ऋषय ऊचुः

पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम

येन पूजाविधानेन सर्वाभिष्टमवाप्यते  १

सूत उवाच

सुसाधुपृष्टं युष्माभिः सदा सर्वार्थदायकम्

सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः  २

अपमृत्युहरं कालमृत्योश्चापि विनाशनम्

सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः  ३

अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः

ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि  ४

पुरुषाणां च नारीणामधिकारोत्र निश्चितम्

नद्यां तडागे कूपे वा जलांतर्मृदमाहरेत्  ५

संशोध्य गंधचूर्णेन पेषयित्वा सुमंडपे

हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम्  ६

अंगप्रत्यंगकोपेतामायुधैश्च समन्विताम्

पद्मासनस्थितां कृत्वा पूजयेदादरेण हि  ७

विघ्नेशादित्यविष्णूनामंबायाश्च शिवस्य च

शिवस्यशिवलिंगं च सर्वदा पूजयेद्द्विज  ८

षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये

पुष्पेण प्रोक्षणं कुर्यादभिषेकं समंत्रकम्  ९

शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः

गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते  १०

दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थपंचकम्

एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम्  ११

सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः

द्वादशांगुलमायामं द्विगुणं च ततोऽधिकम्  १२

प्रमाणमंगुलस्यैकं तदूर्ध्वं पंचकत्रयम्

अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः  १३

तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम्

दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च  १४

जलतैलादिगंधानां यथायोग्यं च मानतः

मानुषार्षस्वयंभूनां महापूजेति कथ्यते  १५

अभिषेकादात्मशुद्धिर्गंधात्पुण्यमवाप्यते

आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते  १६

दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात्

तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत्  १७

नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ

पूजान्ते च सदाकार्यौ भोगमोक्षार्थिभिर्नरैः  १८

संपूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः

देवानां पूजया चैव तत्तल्लोकमवाप्नुयात्  १९

तदवांतरलोके च यथेष्टं भोग्यमाप्यते

तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः  २०

विघ्नेशपूजया सम्यग्भूर्लोकेऽभीष्टमाप्नुयात्

शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्र के  २१

भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत्

शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत्  २२

देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम्

सर्वपापप्रशमनं तत्तद्दुरितनाशनम्  २३

वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः

तिथिनक्षत्रयोगानामाधारं सार्वकामिकम्  २४

तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः

उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम्  २५

तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम्

पूर्वभागः पितृ-णां तु निशि युक्तः प्रशस्यते  २६

परभागस्तु देवानां दिवा युक्तः प्रशस्यते

उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः  २७

देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः

सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम्  २८

पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना

पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा  २९

मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात्

पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः  ३०

नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते

नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम्  ३१

तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात्

महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके  ३२

पक्षपापक्षयकरी पक्षभोगफलप्रदा

चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा  ३३

वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्र के

श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने  ३४

माघशुक्ले च सप्तम्यामादित्ययजनं चरेत्

ज्येष्ठभाद्र कसौम्ये च द्वादश्यां श्रवर्णक्षके  ३५

द्वादश्यां विष्णुयजनमिष्टंसंपत्करं विदुः

श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत्  ३६

गवादीन्द्वादशानर्थान्सांगान्दत्वा तु यत्फलम्

तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात्  ३७

द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः

षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात्  ३८

एवं च सर्वदेवानां तत्तद्द्वादशनामकैः

द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत्  ३९

कर्कटे सोमवारे च नवम्यां मृगशीर्षके

अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम्  ४०

आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा

आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः  ४१

आद्रा र्यां! च महाद्रा र्यां! शिवपूजा विशिष्यते

माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा  ४२

आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम्

ज्येष्ठमासे महाद्रा र्यां! चतुर्दशीदिनेपि च  ४३

मार्गशीर्षार्द्र कायां वा षोडशैरुपचारकैः

तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम्  ४४

शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम्

वारादिदेवयजनं कार्तिके हि विशिष्यते  ४५

कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः

दानेन तपसा होमैर्जपेन नियमेन च  ४६

षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः

ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत्  ४७

कार्तिके देवयजनं सर्वभोगप्रदं भवेत्

व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः  ४८

कार्तिकादित्यवारेषु नृणामादित्यपूजनात्

तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः  ४९

हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः

ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत्  ५०

दीपसर्षपदानाच्च अपस्मारक्षयो भवेत्

कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम्  ५१

महादारिद्र य्शमनं सर्वसंपत्करं भवेत्

गृहक्षेत्रादिदानाच्च गृहोपकरणादिना  ५२

कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम्

दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत्  ५३

कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम्

दध्योदनस्य दानं च सत्संतानकरं भवेत्  ५४

कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः

मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम्  ५५

कृत्तिकाशुक्रवारेषु गजकोमेडयाजनात् १

गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम्  ५६

वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः

कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम्  ५७

दिग्गजानां च नागानां सेतुपानां च पूजनम्

त्र्! यंबकस्य च रुद्र स्य विष्णोः पापहरस्य च  ५८

ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा

रोगापमृत्युहरणं तत्कालव्याधिशांतिदम्  ५९

लवणायसतैलानां माषादीनां च दानतः

त्रिकटुफलगंधानां जलादीनां च दानतः  ६०

द्र वाणां कठिनानां च प्रस्थेन पलमानतः

स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम्  ६१

शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये

शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते  ६२

विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते

मार्गशीर्षेऽन्नदस्यैव सर्वमिष्टफलं भवेत्  ६३

पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च

सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च  ६४

इहामुत्र महाभोगानंते योगं च शाश्वतम्

वेदांतज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत्  ६५

मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा

यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत्  ६६

यावत्संगवकालं तु धनुर्मासो विधीयते

धनुर्मासे निराहारो मासमात्रं जितेंद्रि यः  ६७

आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम्

पंचाक्षरादिकान्मंत्रान्पश्चादासप्तिकं जपेत्  ६८

ज्ञानं लब्ध्वा च देहांते विप्रो मुक्तिमवाप्नुयात्

अन्येषां नरनारीणां त्रिःस्नानेन जपेन च  ६९

सदा पंचाक्षरस्यैव विशुद्धं ज्ञानमाप्यते

इष्टमन्त्रान्सदाजप्त्वा महापापक्षयं लभेत्  ७०

धनुर्मासे विशेषेण महानैवेद्यमाचरेत्

शालितंडुलभारेण मरीचप्रस्थकेन च  ७१

गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि

द्रो णयुक्तेन मुद्गेन द्वादशव्यंजनेन च  ७२

घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः

द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च  ७३

नारिकेलफलादीनां तथा गणनया सह

द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम्  ७४

कर्पूरखुरचूर्णेन पंचसौगंधिकैर्युतम्

तांबूलयुक्तं तु यदा महानैवेद्यलक्षणम्  ७५

महानैवेद्यमेतद्वै देवतार्पणपूर्वकम्

वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत्  ७६

एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत्

महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात्  ७७

महानैवेद्यदानेन सहस्रेण द्विजर्षभाः

सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात्  ७८

सहस्राणां च त्रिंशत्या महानैवेद्यदानतः

तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत्  ७९

सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम्

तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते  ८०

महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते

जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते  ८१

ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत्

संक्रांतिपातजन्मर्क्षपौर्णमास्यादिसंयुते  ८२

अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम्

मासांतरेषु जन्मर्क्षपूर्णयोगदिनेपि च  ८३

मेलने च शनैर्वापि तावत्साहस्रमाचरेत्

जन्मनैवेद्यदानेन जन्मार्पणफलं लभेत्  ८४

जन्मार्पणाच्छिवः प्रीतिः स्वसायुज्यं ददाति हि

इदं तज्जन्मनैवेद्यं शिवस्यैव प्रदापयेत्  ८५

योनिलिंगस्वरूपेण शिवो जन्मनिरूपकः

तस्माज्जन्मनिवृत्त्यर्थं जन्म पूजा शिवस्य हि  ८६

बिंदुनादात्मकं सर्वं जगत्स्थावरजंगमम्

बिंदुः शक्तिः शिवो नादः शिवशक्त्यात्मकं जगत्  ८७

नादाधारमिदं बिंदुर्बिंद्वाधारमिदं जगत्

जगदाधारभूतौ हि बिंदुनादौ व्यवस्थितौ  ८८

विन्दुनादयुतं सर्वं सकलीकरणं भवेत्

सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः  ८९

बिंदुनादात्मकं लिंगं जगत्कारणमुच्यते

बिंदुर्देवीशिवो नादः शिवलिंगं तु कथ्यते  ९०

तस्माज्जन्मनिवृत्त्यर्थं शिवलिंगं प्रपूजयेत्

माता देवी बिंदुरूपा नादरूपः शिवः पिता  ९१

पूजिताभ्यां पितृभ्यां तु परमानंद एव हि

परमानंदलाभार्थं शिवलिंगं प्रपूजयेत्  ९२

सा देवी जगतां माता स शिवो जगतः पिता  ९३ब्

पित्रोः शुश्रूषके नित्यं कृपाधिक्यं हि वर्धते  ९३

कृपयांतर्गतैश्वर्यं पूजकस्य ददाति हि

तस्मादंतर्गतानंदलाभार्थं मुनिपुंगवाः  ९४

पितृमातृस्वरूपेण शिवलिंगं प्रपूजयेत्

भर्गः पुरुषरूपो हि भर्गाप्रकृतिरुच्यते  ९५

अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते

सुव्यक्तांतरधिष्ठानं गर्भः प्रकृतिरुच्यते  ९६

पुरुषत्वादिगर्भो हि गर्भवाञ्जनको यतः

पुरुषात्प्रकृतो युक्तं प्रथमं जन्म कथ्यते  ९७

प्रकृतेर्व्यक्ततां यातं द्वितीयं जन्म कथ्यते

जन्म जंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते  ९८

अन्यतो भाव्यतेऽवश्यं मायया जन्म कथ्यते

जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः  ९९

जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि  १००ब्

जन्मपाशनिवृत्त्यर्थं जन्मलिंगं प्रपूजयेत्  १००

भं वृद्धिं गच्छतीत्यर्थाद्भगः प्रकृतिरुच्यते  १०१ब्

प्राकृतैः शब्दमात्राद्यैः प्राकृतेंद्रि यभोजनात्  १०१

भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः  १०२ब्

मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते  १०२

भगवान्भोगदाता हि नाऽन्यो भोगप्रदायकः  १०३ब्

भगस्वामी च भगवान्भर्ग इत्युच्यते बुधैः  १०३

भगेन सहितं लिंगं भगंलिंगेन संयुतम्  १०४ब्

इहामुत्र च भोगार्थं नित्यभोगार्थमेव च  १०४

भगवंतं महादेवं शिवलिंगं प्रपूजयेत्  १०५ब्

लोकप्रसविता सूर्यस्तच्चिह्नं प्रसवाद्भवेत्  १०५

लिंगेप्रसूतिकर्तारं लिंगिनं पुरुषो यजेत्  १०६ब्

लिंगार्थगमकं चिह्नं लिंगमित्यभिधीयते  १०६

लिंगमर्थं हि पुरुषं शिवं गमयतीत्यदः  १०७ब्

शिवशक्त्योश्च चिह्नस्य मेलनं लिंगमुच्यते  १०७

स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते  १०८ब्

चिह्नकार्यं तु जन्मादिजन्माद्यं विनिवर्तते  १०८

प्राकृतैः पुरुषैश्चापि बाह्याभ्यंतरसंभवैः  १०९ब्

षोडशैरुपचारैश्च शिवलिंगं प्रपूजयेत्  १०९

एवमादित्यवारे हि पूजा जन्मनिवर्तिका  ११०ब्

आदिवारे महालिंगं प्रणवेनैव पूजयेत्  ११०

आदिवारे पंचगव्यैरभिषेको विशिष्यते  १११ब्

गोमयं गोजलं क्षीरं दध्याज्यं पंचगव्यकम्  १११

क्षीराद्यं च पृथक्च्चैव मधुना चेक्षुसारकैः  ११२ब्

गव्यक्षीरान्ननैवेद्यं प्रणवेनैव कारयेत्  ११२

प्रणवं ध्वनिलिंगं तु नादलिंगं स्वयंभुवः  ११३ब्

बिंदुलिंगं तु यंत्रं स्यान्मकारं तु प्रतिष्ठितम्  ११३

उकारं चरलिंगं स्यादकारं गुरुविग्रहम्  ११४ब्

षड्लिंगं पूजया नित्यं जीवन्मुक्तो न संशयः  ११४

शिवस्य भक्त्या पूजा हि जन्ममुक्तिकरी नृणाम्  ११५ब्

रुद्रा क्षधारणात्पादमर्धं वैभूतिधारणात्  ११५

त्रिपादं मंत्रजाप्याच्च पूजया पूर्णभक्तिमान्  ११६ब्

शिवलिंगं च भक्तं च पूज्य मोक्षं लभेन्नरः  ११६

य इमं पठतेऽध्यायं शृणुयाद्वा समाहितः  ११७ब्

तस्यैव शिवभक्तिश्च वर्धते सुदृढा द्विजाः  ११७

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां षोडशोऽध्यायः  १६

अध्याय १७

ऋषय ऊचुः

प्रणवस्य च माहात्म्यं षड्लिंगस्य महामुने

शिवभक्तस्य पूजां च क्रमशो ब्रूहि नःप्रभो  १

सूत उवाच

तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः

अस्योत्तरं महादेवो जानाति स्म न चापरः  २

अथापि वक्ष्ये तमहं शिवस्य कृपयैव हि

शिवोऽस्माकं च युष्माकं रक्षां गृह्णातु भूरिशः  ३

प्रो हि प्रकृतिजातस्य संसारस्य महोदधेः

नवं नावांतरमिति प्रणवं वै विदुर्बुधाः  ४

प्रः प्रपंचो न नास्तिवो युष्माकं प्रणवं विदुः

प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः  ५

स्वजापकानां योगिनां स्वमंत्रपूजकस्य च

सर्वकर्मक्षयं कृत्वा दिव्यज्ञानं तु नूतनम्  ६

तमेव मायारहितं नूतनं परिचक्षते

प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम्  ७

नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः

प्रणवं द्विविधं प्रोक्तं सूक्ष्मस्थूलविभेदतः  ८

सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पंचाक्षरं विदुः

सूक्ष्ममव्यक्तपंचार्णं सुव्यक्तार्णं तथेतरत्  ९

जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्य हि

मंत्रेणार्थानुसंधानं स्वदेहविलयावधि  १०

स्वदेहेगलिते पूर्णं शिवं प्राप्नोति निश्चयः

केवलं मंत्रजापी तु योगं प्राप्नोति निश्चयः  ११

षट्त्रिंशत्कोटिजापी तु निश्चयं योगमाप्नुयात्

सूक्ष्मं च द्विविधं ज्ञेयं ह्रस्वदीर्घविभेदतः  १२

अकारश्च उकारश्च मकारश्च ततः परम्

बिंदुनादयुतं तद्धि शब्दकालकलान्वितम्  १३

दीर्घप्रणवमेवं हि योगिनामेव हृद्गतम्

मकारं तंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते  १४

शिवः शक्तिस्तयोरैक्यं मकारं तु त्रिकात्मकम्

ह्रस्वमेवं हि जाप्यं स्यात्सर्वपापक्षयैषिणाम्  १५

भूवायुकनकार्णोद्योःशब्दाद्याश्च तथा दश

आशान्वयेदशपुनः प्रवृत्ता इति कथ्यते  १६

ह्रस्वमेव प्रवृत्तानां निवृत्तानां तु दीर्घकम्

व्याहृत्यादौ च मंत्रादौ कामं शब्दकलायुतम्  १७

वेदादौ च प्रयोज्यं स्याद्वंदने संध्ययोरपि

नवकौटिजपाञ्जप्त्वा संशुद्धः पुरुषो भवेत्  १८

पुनश्च नवकोट्या तु पृथिवीजयमाप्नुयात्

पुनश्च नवकोट्या तु ह्यपांजयमवाप्नुयात्  १९

पुनश्च नवकोट्या तु तेजसांजयमाप्नुयात्

पुनश्च नवकोट्या तु वायोर्जयमवाप्नुयात्

आकाशजयमाप्नोति नवकोटिजपेन वै  २०

गंधादीनांक्रमेणैवनवकोटिजपेणवै

अहंकारस्य च पुनर्नव कोटिजपेन वै  २१

सहस्रमंत्रजप्तेन नित्यशुद्धो भवेत्पुमान्

ततः परं स्वसिद्ध्यर्थं जपो भवति हि द्विजाः  २२

एवमष्टोत्तरशतकोटिजप्तेन वै पुनः

प्रणवेन प्रबुद्धस्तु शुद्धयोगमवाप्नुयात्  २३

शुद्धयोगेन संयुक्तो जीवन्मुक्तो न संशयः

सदा जपन्सदाध्यायञ्छिवं प्रणवरूपिणम्  २४

समाधिस्थो महायोगीशिव एव न संशयः

ऋषिच्छंदोदेवतादि न्यस्य देहेपुनर्जपेत्  २५

प्रणवं मातृकायुक्तं देहे न्यस्य ऋषिर्भवेत्

दशमातृषडध्वादि सर्वं न्यासफलं लभेत्  २६

प्रवृत्तानां च मिश्राणां स्थूलप्रणवमिष्यते

क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः  २७

धनादिविभवैश्चैव कराद्यंगैर्नमादिभिः

क्रियया पूजया युक्तः क्रियायोगीति कथ्यते  २८

पूजायुक्तश्च मितभुग्बाह्येंद्रि यजयान्वितः

परद्रो हादिरहितस्तपोयोगीति कथ्यते  २९

एतैर्युक्तः सदा क्रुद्धः सर्वकामादिवर्जितः

सदा जपपरः शांतोजपयोगीति तं विदुः  ३०

उपचारैः षोडशभिः पूजया शिवयोगिनाम्

सालोक्यादिक्रमेणैव शुद्धो मुक्तिं लभेन्नरः  ३१

जपयोगमथो वक्ष्ये गदतः शृणुत द्विजाः

तपःकर्तुर्जपः प्रोक्तो यज्जपन्परिमार्जते  ३२

शिवनाम नमःपूर्वं चतुर्थ्यां पंचतत्त्वकम्

स्थूलप्रणवरूपं हि शिवपंचाक्षरं द्विजाः  ३३

पंचाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः

प्रणवेनादिसंयुक्तं सदा पंचाक्षरं जपेत्  ३४

गुरूपदेशं संगम्य सुखवासे सुभूतले

पूर्वपक्षे समारभ्य कृष्णभूतावधि द्विजाः  ३५

माघं भाद्रं  विशिष्टं तु सर्वकालोत्तमोत्तमम्

एकवारं मिताशीतु वाग्यतो नियतेंद्रि यः  ३६

स्वस्य राजपितृ-णां च शुश्रूषणं च नित्यशः

सहस्रजपमात्रेण भवेच्छुद्धोऽन्यथा ऋणी  ३७

पंचाक्षरं पंचलक्षं जपेच्छिवमनुस्मरन्

पद्मासनस्थं शिवदं गंगाचंद्र कलान्वितम्  ३८

वामोरुस्थितशक्त्या च विराजं तं महागणैः

मृगटंकधरं देवं वरदाभयपाणिकम्  ३९

सदानुग्रहकर्त्तारं सदा शिवमनुस्मरन्

संपूज्य मनसा पूर्वं हृदिवासूर्यमंडले  ४०

जपेत्पंचाक्षरीं विद्यां प्राण्मुखः शुद्धकर्मकृत्

प्रातः कृष्णचतुर्दश्यां नित्यकर्मसमाप्य च  ४१

मनोरमे शुचौ देशे नियतः शुद्धमानसः

पंचाक्षरस्य मंत्रस्य सहस्रं द्वादशं जपेत्  ४२

वरयेच्च सपत्नीकाञ्छैवान्वै ब्राह्मणोत्तमान्

एकं गुरुवरं शिष्टं वरयेत्सांबमूर्तिकम्  ४३

ईशानं चाथ पुरुषमघोरं वाममेव च

सद्योजातं च पंचैव शिवभक्तान्द्विजोत्तमान्  ४४

पूजाद्र व्याणि संपाद्य शिवपूजां समारभेत्

शिवपूजां च विधिवत्कृत्वा होमं समारभेत्  ४५

मुखांतं च स्वसूत्रेण कृत्वा होमं समारभेत्

दशैकं वा शतैकं वा सहस्रैकमथापि वा  ४६

कापिलेन घृतेनैव जुहुयात्स्वयमेव हि

कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतं बुधः  ४७

होमान्ते दक्षिणा देया गुरोर्गोमिथुनं तथा

ईशानादिस्वरूपांस्तान्गुरुं सांबं विभाव्य च  ४८

तेषां पत्सिक्ततोयेन स्वशिरः स्नानमाचरेत्

षट्त्रिंशत्कोटितीर्थेषु सद्यः स्नानफलं लभेत्  ४९

दशांगमन्नं तेषां वै दद्याद्वैभक्तिपूर्वकम्

पराबुद्ध्या गुरोः पत्नीमीशानादिक्रमेण तु  ५०

परमान्नेन संपूज्य यथाविभवविस्तरम्

रुद्रा क्षवस्त्रपूर्वं च वटकापूपकैर्युतम्  ५१

बलिदानं ततः कृत्वा भूरिभोजनमाचरेत्

ततः संप्रार्थ्य देवेशं जपं तावत्समापयेत्  ५२

पुरश्चरणमेवं तु कृत्वा मन्त्रीभवेन्नरः

पुनश्च पंचलक्षेण सर्वपापक्षयो भवेत्  ५३

अतलादि समारभ्य सत्यलोकावधिक्रमात्

पंचलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात्  ५४

मध्ये मृतश्चेद्भोगांते भूमौ तज्जापको भवेत्

पुनश्च पंचलक्षेण ब्रह्मसामीप्यमाप्नुयात्  ५५

पुनश्च पंचलक्षेण सारूप्यैश्वर्यमाप्नुयात्

आहत्य शतलक्षेण साक्षाद्ब्रह्मसमो भवेत्  ५६

कार्यब्रह्मण एवं हि सायुज्यं प्रतिपद्य वै

यथेष्टं भोगमाप्नोति तद्ब्रह्मप्रलयावधि  ५७

पुनः कल्पांतरे वृत्ते ब्रह्मपुत्रः सजायते

पुनश्च तपसा दीप्तः क्रमान्मुक्तो भविष्यति  ५८

पृथ्व्यादिकार्यभूतेभ्यो लोका वै निर्मिताः क्रमात्

पातालादि च सत्यांतं ब्रह्मलोकाश्चतुर्दश  ५९

सत्यादूर्ध्वं क्षमांतं वैविष्णुलोकाश्चतुर्दश

क्षमलोके कार्यविष्णुर्वैकुंठे वरपत्तने  ६०

कार्यलक्ष्म्या महाभोगिरक्षां कृत्वाऽधितिष्ठति

तदूर्ध्वगाश्च शुच्यंतां लोकाष्टाविंशतिः स्थिताः  ६१

शुचौ लोके तु कैलासे रुद्रो  वै भूतहृत्स्थितः

षडुत्तराश्च पंचाशदहिंसांतास्तदूर्ध्वगाः  ६२

अहिंसालोकमास्थाय ज्ञानकैलासके पुरे

कार्येश्वरस्तिरोभावं सर्वान्कृत्वाधितिष्ठति  ६३

तदंते कालचक्रं हि कालातीतस्ततः परम्

शिवेनाधिष्ठितस्तत्र कालश्चक्रेश्वराह्वयः  ६४

माहिषं धर्ममास्थाय सर्वान्कालेन युंजति

असत्यश्चाशुचिश्चैव हिंसा चैवाथ निर्घृणा  ६५

असत्यादिचतुष्पादः सर्वांशः कामरूपधृक्

नास्तिक्यलक्ष्मीर्दुःसंगो वेदबाह्यध्वनिः सदा  ६६

क्रोधसंगः कृष्णवर्णो महामहिषवेषवान्

तावन्महेश्वरः प्रोक्तस्तिरोधास्तावदेव हि  ६७

तदर्वाक्कर्मभोगो हि तदूर्ध्वं ज्ञानभोगकम्

तदर्वाक्कर्ममाया हि ज्ञानमाया तदूर्ध्वकम्  ६८

मा लक्ष्मीः कर्मभोगो वै याति मायेति कथ्यते

मा लक्ष्मीर्ज्ञानभोगो वै याति मायेति कथ्यते  ६९

तदूर्ध्वं नित्यभोगो हि तदर्वाण्नश्वरं विदुः

तदर्वाक्च तिरोधानं तदूर्ध्वं न तिरोधनम्  ७०

तदर्वाक्पाशबंधो हि तदूर्ध्वं न हि बंधनम्

तदर्वाक्परिवर्तंते काम्यकर्मानुसारिणः  ७१

निष्कामकर्मभोगस्तु तदूर्ध्वं परिकीर्तितः

तदर्वाक्परिवर्तंते बिंदुपूजापरायणाः  ७२

तदूर्ध्वं हि व्रजंत्येव निष्कामा लिंगपूजकाः

तदर्वाक्परिवर्तंते शिवान्यसुरपूजकाः  ७३

शिवैकनिरता ये च तदूर्ध्वं संप्रयांति ते

तदर्वाग्जीवकोटिः स्यात्तदूर्ध्वं परकोटिकाः  ७४

सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः

तदर्वाक्परिवर्तंते प्राकृतद्र व्यपूजकाः  ७५

तदूर्ध्वं हि व्रजंत्येते पौरुषद्र व्यपूजकाः

तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम्  ७६

तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति

तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम्  ७७

तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम्

तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम्  ७८

तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम्

तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः  ७९

नमस्कारस्तदूर्ध्वं हि मदाहंकारनाशनः

जनिजं वै तिरोधानं नानिषिद्ध्यातते इति  ८०

ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात्

तदर्वाक्परिवर्तंते ह्याधिभौतिकपूजकाः  ८१

आध्यात्मिकार्चका एव तदूर्ध्वं संप्रयांतिवै

तावद्वै वेदिभागं तन्महालोकात्मलिंगके  ८२

प्रकृत्याद्यष्टबंधोपि वेद्यंते संप्रतिष्ठतः

एवमेतादृशं ज्ञेयं सर्वं लौकिकवैदिकम्  ८३

अधर्ममहिषारूढं कालचक्रं तरंति ते

सत्यादिधर्मयुक्ता ये शिवपूजापराश्च ये  ८४

तदूर्ध्वं वृषभो धर्मो ब्रह्मचर्यस्वरूपधृक्

सत्यादिपादयुक्तस्तु शिवलोकाग्रतः स्थितः  ८५

क्षमाशृण्गः शमश्रोत्रो वेदध्वनिविभूषितः

आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः  ८६

क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा

तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति  ८७

ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते

तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम्  ८८

पुनः कारणसत्यांताः कारणब्रह्मणस्तथा

गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा  ८९

सूक्ष्मगंधस्वरूपा हि स्थिता लोकाश्चतुर्दश

पुनः कारणविष्णोर्वै स्थिता लोकाश्चतुर्दश  ९०

पुनःकारणरुद्र स्य लोकाष्टाविंशका मताः

पुनश्च कारणेशस्य षट्पंचाशत्तदूर्ध्वगाः  ९१

ततः परं ब्रह्मचर्यलोकाख्यं शिवसंमतम्

तत्रैव ज्ञानकैलासे पंचावरणसंयुते  ९२

पंचमंडलसंयुक्तं पंचब्रह्मकलान्वितम्

आदिशक्तिसमायुक्तमादिलिंगं तु तत्र वै  ९३

शिवालयमिदं प्रोक्तं शिवस्य परमात्मनः

परशक्त्यासमायुक्तस्तत्रैव परमेश्वरः  ९४

सृष्टिः स्थितिश्च संहारस्तिरोभावोप्यनुग्रहः

पंचकृत्यप्रवीणोऽसौ सच्चिदानंदविग्रहः  ९५

ध्यानधर्मः सदा यस्य सदानुग्रहतत्परः

समाध्यासनमासीनः स्वात्मारामो विराजते  ९६

तस्य संदर्शनं सांध्यं कर्मध्यानादिभिः क्रमात्

नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत्  ९७

क्रियादिशिवकर्मभ्यः शिवज्ञानं प्रसाधयेत्

तद्दर्शनगताः सर्वे मुक्ता एव न संशयः  ९८

मुक्तिरात्मस्वरूपेण स्वात्मारामत्वमेव हि

क्रियातपोजपज्ञानध्यानधर्मेषु सुस्थितः  ९९

शिवस्य दर्शनं लब्धा स्वात्मारामत्वमेव हि

यथा रविः स्वकिरणादशुद्धिमपनेष्यति  १००

कृपाविचक्षणः शंभुरज्ञानमपनेष्यति

अज्ञानविनिवृत्तौ तु शिवज्ञानं प्रवर्तते  १०१

शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति

आत्मारामत्वसंसिद्धौ कृतकृत्यो भवेन्नरः  १०२

पुनश्च शतलक्षेण ब्रह्मणः पदमाप्नुयात्

पुनश्च शतलक्षेण विष्णोः पदमवाप्नुयात्  १०३

पुनश्च शतलक्षेण रुद्र स्य पदमाप्नुयात्

पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात्  १०४

पुनश्चैवंविधेनैव जपेन सुसमाहितः

शिवलोकादिभूतं हि कालचक्रमवाप्नुयात्  १०५

कालचक्रं पंचचक्रमेकैकेन क्रमोत्तरे

सृष्टिमोहौ ब्रह्मचक्रं भोगमोहौ तु वैष्णवम्  १०६

कोपमोहौ रौद्र चक्रं भ्रमणं चैश्वरं विदुः

शिवचक्रं ज्ञानमोहौ पंचचक्रं विदुर्बुधाः  १०७

पुनश्च दशकोट्या हि कारणब्रह्मणः पदम्

पुनश्च दशकोट्या हि तत्पदैश्वर्यमाप्नुयात्  १०८

एवं क्रमेण विष्ण्वादेः पदं लब्ध्वा महौजसः

क्रमेण तत्पदैश्वर्यं लब्ध्वा चैव महात्मनः  १०९

शतकोटिमनुं जप्त्वा पंचोत्तरमतंद्रि तः

शिवलोकमवाप्नोति पंचमावरणाद्बहिः  ११०

राजसं मंडपं तत्र नंदीसंस्थानमुत्तमम्

तपोरूपश्च वृषभस्तत्रैव परिदृश्यते  १११

सद्योजातस्य तत्स्थानं पंचमावरणं परम्

वामदेवस्य च स्थानं चतुर्थावरणं पुनः  ११२

अघोरनिलयं पश्चात्तृतीयावरणं परम्

पुरुषस्यैव सांबस्य द्वितीयावरणं शुभम्  ११३

ईशानस्य परस्यैव प्रथमावरणं ततः

ध्यानधर्मस्य च स्थानं पंचमं मंडपं ततः  ११४

बलिनाथस्य संस्थानं तत्र पूर्णामृतप्रदम्

चतुर्थं मंडपं पश्चाच्चंद्र शेखरमूर्तिमत्  ११५

सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम्

द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः  ११६

प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम्

ततः परं गर्भगृहं लिंगस्थानं परं शुभम्  ११७

नंदिसंस्थानतः पश्चान्न विदुः शिववैभवम्

नंदीश्वरो बहिस्तिष्ठन्पंचाक्षरमुपासते  ११८

एवं गुरुक्रमाल्लब्धं नंदीशाच्च मया पुनः

ततः परं स्वसंवेद्यं शिवे नैवानुभावितम्  ११९

शिवस्य कृपया साक्षाच्छिव लोकस्य वैभवम्

विज्ञातुं शक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः  १२०

एवंक्रमेणमुक्ताः स्युर्ब्राह्मणा वै जितेंद्रि यः

अन्येषां च क्रमं वक्ष्ये गदतः शृणुतादरात्  १२१

गुरूपदेशाज्जाप्यं वै ब्राह्मणानां नमोऽतकम्

पंचाक्षरं पंचलक्षमायुष्यं प्रजपेद्विधिः  १२२

स्त्रीत्वापनयनार्थं तु पंचलक्षं जपेत्पुनः

मंत्रेण पुरुषो भूत्वा क्रमान्मुक्तो भवेद्बुधः  १२३

क्षत्रियः पंचलक्षेण क्षत्त्रत्वमपनेष्यति

पुनश्च पंचलक्षेण क्षत्त्रियो ब्राह्मणो भवेत्  १२४

मंत्रसिद्धिर्जपाच्चैव क्रमान्मुक्तो भवैन्नरः

वैश्यस्तु पंचलक्षेण वैश्यत्वमपनेष्यति  १२५

पुनश्च पंचलक्षेण मंत्रक्षत्त्रिय उच्यते

पुनश्च पंचलक्षेण क्षत्त्रत्वमपनेष्यति  १२६

पुनश्च पंचलक्षेण मंत्रब्राह्मण उच्यते

शूद्र श्चैव नमॐतेन पंचविंशतिलक्षतः  १२७

मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः

नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा  १२८

नमोन्तं वा नमःपूर्वमातुरः सर्वदा जपेत्

ततः स्त्रीणां तथैवोह्यगुरुर्निर्दर्शयेत्क्रमात्  १२९

साधकः पंचलक्षान्ते शिवप्रीत्यर्थमेव हि

महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत्  १३०

पूजया शिवभक्तस्य शिवः प्रीततरो भवेत्

शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः  १३१

शिवस्वरूपमंत्रस्य धारणाच्छिव एव हि

शिवभक्तशरीरे हि शिवे तत्परमो भवेत्  १३२

शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियां विदुः

यावद्यावच्छिवं मंत्रं येन जप्तं भवेत्क्रमात्  १३३

तावद्वै शिवसान्निध्यं तस्मिन्देहे न संशयः

देवीलिंगं भवेद्रू पं शिवभक्तस्त्रियास्तथा  १३४

यावन्मंत्रं जपेद्देव्यास्तावत्सान्निध्यमस्ति हि

शिवं संपूजयेद्धीमान्स्वयं वै शब्दरूपभाक्  १३५

स्वयं चैव शिवो भूत्वा परां शक्तिं प्रपूजयेत्

शक्तिं बेरं च लिंगं च ह्यालेख्या मायया यजेत्  १३६

शिवलिंगं शिवं मत्वा स्वात्मानं शक्तिरूपकम्

शक्तिलिंगं च देवीं च मत्वा स्वं शिवरूपकम्  १३७

शिवलिंगं नादरूपं बिंदुरूपं तु शक्तिकम्

उपप्रधानभावेन अन्योन्यासक्तलिंगकम्  १३८

पूजयेच्च शिवं शक्तिं स शिवो मूलभावनात्

शिवभक्ताञ्छिवमंत्ररूपकाञ्छिवरूपकान्  १३९

षोडशैरुपचारैश्च पूजयेदिष्टमाप्नुयात्

येन शुश्रूषणाद्यैश्च शिवभक्तस्य लिंगिनः  १४०

आनंदं जनयेद्विद्वाञ्छिवः प्रीततरो भवेत्

शिवभक्तान्सपत्नीकान्पत्न्या सह सदैव तत्  १४१

पूजयेद्भोजनाद्यैश्च पंच वा दश वा शतम्

धने देहे च मंत्रे च भावनायामवंचकः  १४२

शिवशक्तिस्वरूपेण न पुनर्जायते भुवि

नाभेरधो ब्रह्मभागमाकंठं विष्णुभागकम्  १४३

मुखं लिंगमिति प्रोक्तं शिवभक्तशरीरकम्

मृतान्दाहादियुक्तान्वा दाहादिरहितान्मृतान्  १४४

उद्दिश्य पूजयेदादिपितरं शिवमेव हि

पूजां कृत्वादिमातुश्च शिवभक्तांश्च पूजयेत्  १४५

पितृलोकं समासाद्यक्रमान्मुक्तो भवेन्मृतः

क्रियायुक्तदशभ्यश्च तपोयुक्तो विशिष्यते  १४६

तपोयुक्तशतेभ्यश्च जपयुक्तो विशिष्यते

जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते  १४७

शिवज्ञानिषु लक्षेषु ध्यानयुक्तो विशिष्यते

ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते  १४८

उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम्

फलं वैशिष्ट्यरूपं च दुर्विज्ञेयं मनीषिभिः  १४९

तस्माद्वै शिवभक्तस्य माहात्म्यं वेत्ति को नरः

शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम्  १५०

कुरुते यो नरो भक्त्या स शिवः शिवमेधते

य इमं पठतेऽध्यायमर्थवद्वेदसंमतम्  १५१

शिवज्ञानी भवेद्विप्रः शिवेन सह मोदते

श्रावयेच्छिवभक्तांश्च विशेषज्ञो मनीश्वराः  १५२

शिवप्रसादशिद्धिः स्याच्छिवस्य कृपया बुधाः  १५३

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां सप्तदशोऽध्यायः  १७

अध्याय १८

ऋष्य ऊचुः

बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम

सूत उवाच

बंधमोक्षं तथोपायं वक्ष्येऽहं शृणुतादरात्  १

प्रकृत्याद्यष्टबंधेन बद्धो जीवः स उच्यते

प्रकृत्याद्यष्टबंधेन निर्मुक्तो मुक्त उच्यते  २

प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः

बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते  ३

प्रकृत्यग्रे ततो बुद्धिरहंकारो गुणात्मकः

पंचतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः  ४

प्रकृट्याद्यष्टजो देहो देहजं कर्म उच्यते

पुनश्च कर्मजो देहो जन्मकर्म पुनः पुनः  ५

शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणम्

स्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिंद्रि यभोगदम्  ६

कारणं त्वात्मभोगार्थं जीवकर्मानुरूपतः

सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते  ७

तस्माद्धि कर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः

शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा  ८

चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत्

प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः  ९

चक्रकर्ता महेशो हि प्रकृतेः परतोयतः

पिबति वाथ वमति जीवन्बालो जलं यथा  १०

शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति

सर्वं वशीकृतं यस्मात्तस्माच्छिव इति स्मृतः

शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः  ११

सर्वज्ञता तृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः

अनंतशक्तिश्च महेश्वरस्य यन्मानसैश्वर्यमवैति वेदः  १२

अतः शिवप्रसादेन प्रकृत्यादिवशं भवेत्

शिवप्रसादलाभार्थं शिवमेव प्रपूजयेत्  १३

निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत्

शिवोद्देशकृतं कर्म प्रसादजनकं भवेत्  १४

लिंगे बेरे भक्तजने शिवमुद्दिश्य पूजयेत्

कायेन मनसा वाचा धनेनापि प्रपूजयेत्  १५

पुजया तु महेशो हि प्रकृतेः परमः शिवः

प्रसादं कुरुते सत्यं पूजकस्य विशेषतः  १६

शिवप्रसादात्कर्माद्यं क्रमेण स्ववशं भवेत्

कर्मारभ्य प्रकृत्यंतं यदासर्वं वशं भवेत्  १७

तदामुक्त इति प्रोक्तः स्वात्मारामो विराजते

प्रसादात्परमेशस्य कर्म देहो यदावशः  १८

तदा वै शिवलोके तु वासः सालोक्यमुच्यते

सामीप्यं याति सांबस्य तन्मात्रे च वशं गते  १९

तदा तु शिवसायुज्यमायुधाद्यैः क्रियादिभिः

महाप्रसादलाभे च बुद्धिश्चापि वशा भवेत्  २०

बुद्धिस्तु कार्यं प्रकृतेस्तत्सृष्टिरिति कथ्यते

पुनर्महाप्रसादेन प्रकृतिर्वशमेष्यति  २१

शिवस्य मानसैश्वर्यं तदाऽयत्नं भविष्यति

सार्वज्ञाद्यं शिवैश्वर्यं लब्ध्वा स्वात्मनि राजते  २२

तत्सायुज्यमिति प्राहुर्वेदागमपरायणाः

एवं क्रमेण मुक्तिः स्याल्लिंगादौ पूजया स्वतः  २३

अतः शिवप्रसादार्थं क्रियाद्यैः पूजयेच्छिवम्

शिवक्रिया शिवतपः शिवमंत्रजपः सदा  २४

शिवज्ञानं शिवध्यानमुत्तरोत्तरमभ्यसेत्

आसुप्तेरामृतेः कालं नयेद्वै शिवचिंतया  २५

सद्यादिभिश्च कुसुमैरर्चयेच्छिवमेष्यति

ऋषय ऊचुः

लिंगादौ शिवपूजाया विधानं ब्रूहि सर्वतः  २६

सूत उवाच

लिंगानां च क्रमं वक्ष्ये यथावच्छृणुत द्विजाः

तदेव लिंगं प्रथमं प्रणवं सार्वकामिकम्  २७

सूक्ष्मप्रणवरूपं हि सूक्ष्मरूपं तु निष्फलम्

स्थूललिंगं हि सकलं तत्पंचाक्षरमुच्यते  २८

तयोः पूजा तपः प्रोक्तं साक्षान्मोक्षप्रदे उभे

पौरुषप्रकृतिभूतानि लिंगानिसुबहूनि च  २९

तानि विस्तरतो वक्तुं शिवो वेत्ति न चापरः

भूविकाराणि लिंगानि ज्ञातानि प्रब्रवीमि वः  ३०

स्वयं भूलिंगं प्रथमं बिंदुलिंगंद्वितीयकम्

प्रतिष्ठितं चरंचैव गुरुलिंगं तु पंचमम्  ३१

देवर्षितपसा तुष्टः सान्निध्यार्थं तु तत्र वै

पृथिव्यन्तर्गतः शर्वो बीजं वै नादरूपतः  ३२

स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सः

स्वयंभूतं जातमिति स्वयंभूरिति तं विदुः  ३३

तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्द्धते

सुवर्णरजतादौ वा पृथिव्यां स्थिंडिलेपि वा  ३४

स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम्

यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत्  ३५

बिंदुनादमयं लिंगं स्थावरं जंगमं च यत्

भावनामयमेतद्धि शिवदृष्टं न संशयः  ३६

यत्र विश्वस्य ते शंभुस्तत्र तस्मै फलप्रदः

स्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे  ३७

आवाह्य पूजयेच्छंभुं षोडशैरुपचारकैः

स्वयमैश्वर्यमाप्नोति ज्ञानमभ्यासतो भवेत्  ३८

देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हि

समंत्रेणात्महस्तेन कृतं यच्छुद्धमंडले  ३९

शुद्धभावनया चैव स्थापितं लिंगमुत्तमम्

तल्लिंगं पौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते  ४०

तल्लिंगपूजया नित्यं पौरुषैश्वर्यमाप्नुयात्

महद्भिर्ब्राह्मणैश्चापि राजभिश्च महाधनैः  ४१

शिल्पिनाकल्पितं लिंगं मंत्रेण स्थापितं च यत्

प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्यभोगदम्  ४२

यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते

यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते  ४३

लिंगं नाभिस्तथा जिह्वा नासाग्रञ्च शिखा क्रमात्

कट्यादिषु त्रिलोकेषु लिंगमाध्यात्मिकं चरम्  ४४

पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुः

वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः  ४५

षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम्

ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम्  ४६

सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः

प्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते  ४७

रसलिंगं ब्राह्मणानां सर्वाभीष्टप्रदं भवेत्

बाणलिंगं क्षत्रियाणां महाराज्यप्रदं शुभम्  ४८

स्वर्णलिंगं तु वैश्यानां महाधनपतित्वदम्

शिलालिंगं तु शूद्रा णां महाशुद्धिकरं शुभम्  ४९

स्फाटिकं बाणलिंगं च सर्वेषांसर्वकामदम्

स्वीयाभावेऽन्यदीयं तु पूजायां न निषिद्ध्यते  ५०

स्त्रीणां तु पार्थिवं लिंगं सभर्तृ-णां विशेषतः

विधवानां प्रवृत्तानां स्फाटिकं परिकीर्तितम्  ५१

विधवानां निवृत्तानां रसलिंगं विशिष्यते

बाल्येवायौवनेवापि वार्द्धकेवापि सुव्रताः  ५२

शुद्धस्फटिकलिंगं तु स्त्रीणां तत्सर्वभोगदम्

प्रवृत्तानां पीठपूजा सर्वाभीष्टप्रदा भुवि  ५३

पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत्

अभिषेकांते नैवेद्यं शाल्यन्नेन समाचरेत्  ५४

पूजांते स्थापयेल्लिंगं संपुटेषु पृथग्गृहे

करपूजानि वृत्तानां स्वभोज्यं तु निवेदयेत्  ५५

निवृत्तानां परं सूक्ष्मलिंगमेव विशिष्यते

विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत्  ५६

पूजां कृत्वाथ तल्लिंगं शिरसा धारयेत्सदा

विभूतिस्त्रिविधा प्रोक्ता लोकवेदशिवाग्निभिः  ५७

लोकाग्निजमथो भस्मद्र व्यशुद्ध्यर्थमावहेत्

मृद्दारुलोहरूपाणां धान्यानां च तथैव च  ५८

तिलादीनां च द्र व्याणां वस्त्रादीनां तथैव च

तथा पर्युषितानां च भस्मना शिद्धिरिष्यते  ५९

श्वादिभिर्दूषितानां च भस्मना शुद्धिरिष्यते

सजलं निर्जलं भस्म यथायोग्यं तु योजयेत्  ६०

वेदाग्निजं तथा भस्म तत्कर्मांतेषु धारयेत्

मंत्रेण क्रियया जन्यं कर्माग्नौ भस्मरूपधृक्  ६१

तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत्

अघोरेणात्ममंत्रेण बिल्वकाष्ठं प्रदाहयेत्  ६२

शिवाग्निरिति संप्रोक्तस्तेन दग्धं शिवाग्निजम्

कपिलागोमयं पूर्वं केवलं गव्यमेव वा  ६३

शम्यस्वत्थपलाशान्वा वटारम्वधबिल्वकान्

शिवाग्निना दहेच्छुद्धं तद्वै भस्म शिवाग्निजम्  ६४

दर्भाग्नौ वा दहेत्काष्ठं शिवमंत्रं समुच्चरन्

सम्यक्संशोध्य वस्त्रेण नवकुंभे निधापयेत्  ६५

दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि च

भस्मशब्दार्थ एवं हि शिवः पूर्वं तथाऽकरोत्  ६६

यथा स्वविषये राजा सारं गृह्णाति यत्करम्

यथा मनुष्याः सस्यादीन्दग्ध्वा सारं भजंति वै  ६७

यथा हि जाठराग्निश्च भक्ष्यादीन्विविधान्बहून्

दग्ध्वा सारतरं सारात्स्वदेहं परिपुष्यति  ६८

तथा प्रपंचकर्तापि स शिवः परमेश्वरः

स्वाधिष्ठेयप्रपंचस्य दग्ध्वा सारं गृहीतवान्  ६९

दग्ध्वा प्रपंचं तद्भस्म् अस्वात्मन्यारोपयच्छिवः

उद्धूलनेन व्याजेन जगत्सारं गृहीतवान्  ७०

स्वरत्नं स्थापयामास स्वकीये हि शरीरके

केशमाकाशसारेण वायुसारेण वै मुखम्  ७१

हृदयं चाग्निसारेण त्वपां सारेण वैकटिम्

जानु चावनिसारेण तद्वत्सर्वं तदंगकम्  ७२

ब्रह्मविष्ण्वोश्च रुद्रा णां सारं चैव त्रिपुंड्रकम्

तथा तिलकरूपेण ललाटान्ते महेश्वरः  ७३

भवृद्ध्या सर्वमेतद्धि मन्यते स्वयमैत्यसौ

प्रपंचसारसर्वस्वमनेनैव वशीकृतम्  ७४

तस्मादस्य वशीकर्ता नास्तीति स शिवः स्मृतः

यथा सर्वमृगाणां च हिंसको मृगहिंसकः  ७५

अस्य हिंसामृगो नास्ति तस्मात्सिंह इतीरितः

शं नित्यं सुखमानंदमिकारः पुरुषः स्मृतः  ७६

वकारः शक्तिरमृतं मेलनं शिव उच्यते

तस्मादेवं स्वमात्मानं शिवं कृत्वार्चयेच्छिवम्  ७७

तस्मादुद्धूलनं पूर्वं त्रिपुंड्रं धारयेत्परम्

पूजाकाले हि सजलं शुद्ध्यर्थं निर्जलं भवेत्  ७८

दिवा वा यदि वारात्रौ नारी वाथ नरोपि वा

पूजार्थं सजलं भस्म त्रिपुंड्रेणैव धारयेत्  ७९

त्रिपुंड्रं सजलं भस्म धृत्वा पूजां करोति यः

शिवपूजां फलं सांगं तस्यैव हि सुनिश्चितम्  ८०

भस्म वै शिवमंत्रेण धृत्वा ह्यत्याश्रमी भवेत्

शिवाश्रमीति संप्रोक्तः शिवैकपरमो यतः  ८१

शिवव्रतैकनिष्ठस्य नाशौचं न च सूतकम्

ललाटेऽग्रे सितं भस्म तिलकं धारयेन्मृदा  ८२

स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्य लक्षणम्

गुणान्रुंध इति प्रोक्तो गुरुशब्दस्य विग्रहः  ८३

सविकारान्राजसादीन्गुणान्रुंधे व्यपोहति

गुणातीतः परशिवो गुरुरूपं समाश्रितः  ८४

गुणत्रयं व्यपोह्याग्रे शिवं बोधयतीति सः

विश्वस्तानां तु शिष्याणां गुरुरित्यभिधीयते  ८५

तस्माद्गुरुशरीरं तु गुरुलिंगं भवेद्बुधः

गुरुलिंगस्य पूजा तु गुरुशुश्रूषणं भवेत्  ८६

श्रुतं करोति शुश्रूषा कायेन मनसा गिरा

उक्तं यद्गुरुणा पूर्वं शक्यं वाऽशक्यमेव वा  ८७

करोत्येव हि पूतात्मा प्राणैरपि धनैरपि

तस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते  ८८

शरीराद्यर्थकं सर्वं गुरोर्दत्त्वा सुशिष्यकः

अग्रपाकं निवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया  ८९

शिष्यः पुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः

जिह्वालिंगान्मंत्रशुक्रं कर्णयोनौ निषिच्यवै  ९०

जातः पुत्रो मंत्रपुत्रः पितरं पूजयेद्गुरुम्

निमज्जयति पुत्रं वै संसारे जनकः पिता  ९१

संतारयति संसाराद्गुरुर्वै बोधकः पिता

उभयोरंतरं ज्ञात्वा पितरं गुरुमर्चयेत्  ९२

अंगशुश्रूषया चापि धनाद्यैः स्वार्जितैर्गुरुम्

पादादिकेशपर्यंतं लिंगान्यंगानि यद्गुरोः  ९३

धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः

स्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत्  ९४

गुरुपूजैव पूजा स्याच्छिवस्य परमात्मनः

गुरुशेषं तु यत्सर्वमात्मशुद्धिकरं भवेत्  ९५

गुरोः शेषः शिवोच्छिष्टं जलमन्नादिनिर्मितम्

शिष्याणां शिवभक्तानां ग्राह्यं भोज्यं भवेद्द्विजाः  ९६

गुर्वनुज्ञाविरहितं चोरवत्सकलं भवेत्

गुरोरपि विशेषज्ञं यत्नाद्गृह्णीत वै गुरुम्  ९७

अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकः

आदौ च विघ्नशमनं कर्तव्यं कर्म पूर्तये  ९८

निर्विघ्नेन कृतं सांगं कर्म वै सफलं भवेत्

तस्मात्सकलकर्मादौ विघ्नेशं पूजयेद् बुधः  ९९

सर्वबाधानिवृत्त्यर्थं सर्वान्देवान्यजेद्बुधः

ज्वरादिग्रंथिरोगाश्च बाधा ह्याध्यात्मिका मता  १००

पिशाचजंबुकादीनां वल्मीकाद्युद्भवे तथा

अकस्मादेव गोधादिजंतूनां पतनेपि च  १०१

गृहे कच्छपसर्पस्त्रीदुर्जनादर्शनेपि च

वृक्षनारीगवादीनां प्रसूतिविषयेपि च  १०२

भाविदुःखं समायाति तस्मात्ते भौतिका मता

अमेध्या शनिपातश्च महामारी तथैव च  १०३

ज्वरमारी विषूचिश्च गोमारी च मसूरिका

जन्मर्क्षग्रहसंक्रांतिग्रहयोगाः स्वराशिके  १०४

दुःस्वप्नदर्शनाद्याश्च मता वै ह्यधिदैविकाः

शवचांडालपतितस्पर्शाद्येंतर्गृहे गते  १०५

एतादृशे समुत्पन्ने भाविदुःखस्य सूचके

शांतियज्ञं तु मतिमान्कुर्यात्तद्दोषशांतये  १०६

देवालयेऽथ गोष्ठे वा चैत्ये वापि गृहांगणे

प्रादेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलंकृते  १०७

भारमात्रव्रीहिधान्यं प्रस्थाप्य परिसृत्य च

मध्ये विलिख्यकमलं तथा दिक्षुविलिख्य वै  १०८

तंतुना वेष्टितं कुंभं नवगुग्गुलधूपितम्

मध्ये स्थाप्य महाकुंभं तथा दिक्ष्वपि विन्यसेत्  १०९

सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु

पूरयेन्मंत्रपूतेन पंचद्र व्ययुतेन हि  ११०

प्रक्षिपेन्नव रत्नानि नीलादीन्क्रमशस्तथा

कर्मज्ञं च सपत्नीकमाचार्यं वरयेद्बुधः  १११

सुवर्णप्रतिमां विष्णोरिंद्रा दीनां च निक्षिपेत्

सशिरस्के मध्यकुंभे विष्णुमाबाह्य पूजयेत्  ११२

प्रागादिषु यथामंत्रमिंद्रा दीन्क्रमशो यजेत्

तत्तन्नाम्ना चतुर्थ्यां च नमोन्ते न यथाक्रमम्  ११३

आवाहनादिकं सर्वमाचार्येणैव कारयेत्

आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम्  ११४

कुंभस्य पश्चिमे भागे जपांते होममाचरेत्

कोटिं लक्षं सहस्रं वा शतमष्टोत्तरं बुधाः  ११५

एकाहं वा नवाहं वा तथा मंडलमेव वा

यथायोग्यं प्रकुर्वीत कालदेशानुसारतः  ११६

शमीहोमश्च शांत्यर्थे वृत्त्यर्थे च पलाशकम्

समिदन्नाज्यकैर्द्र व्यैर्नाम्ना मंत्रेण वा हुनेत्  ११७

प्रारंभे यत्कृतं द्र व्यं तत्क्रियांतं समाचरेत्

पुण्याहं वाचयित्वांते दिने संप्रोक्ष्ययेज्जलैः  ११८

ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया

आचार्यश्च हविष्याशीऋत्विजश्च भवेद्बुधाः  ११९

आदित्यादीन्ग्रहानिष्ट्वा सर्वहोमांत एव हि

ऋत्विभ्यो दक्षिणां दद्यान्नवरत्नं यथाक्रमम्  १२०

दशदानं ततः कुर्याद्भूरिदानं ततः परम्

बालानामुपनीतानां गृहिणां वनिनां धनम्  १२१

कन्यानां च सभर्तृ-णां विधवानां ततः परम्

तंत्रोपकरणं सर्वमाचार्याय निवेदयेत्  १२२

उत्पातानां च मारीणां दुःखस्वामी यमः स्मृतः

तस्माद्यमस्य प्रीत्यर्थं कालदानं प्रदापयेत्  १२३

शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः

पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम्  १२४

तत्स्वर्णप्रतिमादानं कुर्याद्दक्षिणया सह

तिलदानं ततः कुर्यात्पूर्णायुष्यप्रसिद्धये  १२५

आज्यावेक्षणदानं च कुर्याद्व्याधिनिवृत्तये

सहस्रं भोजयेद्विप्रान्दरिद्र ः! शतमेव वा  १२६

वित्ताभावे दरिद्र स्तु यथाशक्ति समाचरेत्

भैरवस्य महापूजां कुर्याद्भूतादिशांतये  १२७

महाभिषेकं नैवेद्यं शिवस्यान्ते तुकारयेत्

ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः  १२८

एवं कृतेन यज्ञेन दोषशांतिमवाप्नुयात्

शांतियज्ञमिमं कुर्याद्वर्षे वर्षे तु फाल्गुने  १२९

दुर्दर्शनादौ सद्यो वै मासमात्रे समाचरेत्

महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम्  १३०

महाव्याधिसमुत्पत्तौ संकल्पं पुनराचरेत्

सर्वभावे दरिद्र स्तु दीपदानमथाचरेत्  १३१

तदप्यशक्तः स्नात्वा वै यत्किंचिद्दानमाचरेत्

दिवाकरं नमस्कुर्यान्मन्त्रेणाष्टोत्तरं शतम्  १३२

सहस्रमयुतं लक्षं कोटिं वा कारयेद् बुधः

नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः  १३३

त्वत्स्वरूपेर्पिता बुद्धिर्नतेऽशून्ये च रोचति

या चास्त्यस्मदहंतेति त्वयि दृष्टे विवर्जिता  १३४

नम्रोऽहं हि स्वदेहेन भो महांस्त्वमसि प्रभो

न शून्यो मत्स्वरूपो वै तव दासोऽस्मि सांप्रतम्  १३५

यथायोग्यं स्वात्मयज्ञं नमस्कारं प्रकल्पयेत्

अथात्र शिवनैवेद्यं दत्त्वा तांबूलमाहरेत्  १३६

शिवप्रदक्षिणं कुर्यात्स्वयमष्टोत्तरं शतम्

सहस्रमयुतं लक्षं कोटिमन्येन कारयेत्  १३७

शिवप्रदक्षिणात्सर्वं पातकं नश्यति क्षणात्

दुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम्  १३८

धर्मेणैव हि पापानामपनोदनमीरितम्

शिवोद्देशकृतो धर्मः क्षमः पापविनोदने  १३९

अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम्

क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम्  १४०

जननं मरणं द्वंद्वं मायाचक्रमितीरितम्

शिवस्य मायाचक्रं हि बलिपीठं तदुच्यते  १४१

बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वै

पदे पदांतरं गत्वा बलिपीठं समाविशेत्  १४२

नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम्

निर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम्  १४३

जननं मरणं द्वंद्वं शिवमायासमर्पितम्

शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत्  १४४

यावद्देहं क्रियाधीनः सजीवो बद्ध उच्यते

देहत्रयवशीकारे मोक्ष इत्युच्यते बुधैः  १४५

मायाचक्रप्रणेता हि शिवः परमकारणम्

शिवमायार्पितद्वंद्वं शिवस्तु परिमार्जति  १४६

शिवेन कल्पितं द्वंद्वं तस्मिन्नेव समर्पयेत्

शिवस्यातिप्रियं विद्यात्प्रदक्षिणं नमो बुधाः  १४७

प्रदक्षिणनमस्काराः शिवस्य परमात्मनः

षोडशैरुपचारैश्च कृतपूजा फलप्रदा  १४८

प्रदक्षिणाऽविनाश्यं हि पातकं नास्ति भूतले

तस्मात्प्रदक्षिणेनैव सर्वपापं विनाशयेत्  १४९

शिवपूजापरो मौनी सत्यादिगुणसंयुतः

क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत्  १५०

ऐश्वर्यं दिव्यदेहश्च ज्ञानमज्ञानसंशयः

शिवसान्निध्यमित्येते क्रियादीनां फलं भवेत्  १५१

करणेन फलं याति तमसः परिहापनात्

जन्मनः परिमार्जित्वाज्ज्ञबुद्ध्या जनितानि च  १५२

यथादेशं यथाकालं यथादेहं यथाधनम्

यथायोग्यं प्रकुर्वीत क्रियादीञ्छिवभक्तिमान्  १५३

न्यायार्जितसुवित्तेन वसेत्प्राज्ञः शिवस्थले

जीवहिंसादिरहितमतिक्लेशविवर्जितम्  १५४

पंचाक्षरेण जप्तं च तोयमन्नं विदुः सुखम्

अथवाऽहुर्दरिद्र स्य भिक्षान्नंज्ञानदं भवेत्  १५५

शिवभक्तस्य भिक्षान्नंशिवभक्तिविवर्धनम्

शंभुसत्रमिति प्राहुर्भिक्षान्नंशिवयोगिनः  १५६

येन केनाप्युपायेन यत्र कुत्रापि भूतले

शुद्धान्नभुक्सदा मौनीरहस्यं न प्रकाशयेत्  १५७

प्रकाशयेत्तु भक्तानां शिवमाहात्म्यमेव हि

रहस्यं शिवमंत्रस्य शिवो जानाति नापरः  १५८

शिवभक्तो वसेन्नित्यं शिवलिंगं समाश्रितः

स्थाणुलिंगाश्रयेणैव स्थाणुर्भवति भूसुराः  १५९

पूजया चरलिंगस्य क्रमान्मुक्तो भवेद्ध्रुवम्

सर्वमुक्तं समासेन साध्यसाधनमुत्तमम्  १६०

व्यासेन यत्पुराप्रोक्तं यच्छ्रुतं हि मया पुरा

भद्र मस्तु हि वोऽस्माकं शिवभक्तिर्दृढाऽस्तुसा  १६१

य इमं पठतेऽध्यायं यः शृणोति नरः सदा

शिवज्ञानं स लभतेशिवस्य कृपया बुधाः  १६२

इति श्रीशैवेमहापुराणे विश्वेश्वरसंहितायां साध्यसाधनखंडे शिवलिंगमहिमावर्णनं नामाष्टादशोऽध्यायः  १८

अध्याय १९

ऋषय ऊचुः

सूत सूत चिरंजीव धन्यस्त्वं शिवभक्तिमान्

सम्यगुक्तस्त्वयाव्लिंगमहिमाव्सत्फलप्रदः  १

यत्र पार्थिवमाहेशलिंगस्य महिमाधुना

सर्वोत्कृष्टश्च कथितो व्यासतो ब्रूहि तं पुनः  २

सूत उवाच

शृणुध्वमृषयः सर्वे सद्भक्त्या हरतो खिलाः

शिवपार्थिवलिंगस्य महिमा प्रोच्यते मया  ३

उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम्

तस्य पूजनतो विप्रा बहवः सिद्धिमागताः  ४

हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा

संपूज्य पार्थिवं लिंगं प्रापुःसर्वेप्सितं द्विजाः  ५

देवासुरमनुष्याश्च गंधर्वोरगराक्षसाः

अन्येपि बहवस्तं संपूज्य सिद्धिं गताः परम्  ६

कृते रत्नमयं लिंगं त्रेतायां हेमसंभवम्

द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे  ७

अष्टमूर्तिषु सर्वासु मूर्तिर्वै पार्थिवी वरा

अनन्यपूजिता विप्रास्तपस्तस्मान्महत्फलम्  ८

यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठो महेश्वरः

एवं सर्वेषु लिंगेषु पार्थिवं श्रेष्टमुच्यते  ९

यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा

तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते  १०

यथा सर्वेषु मंत्रेषु प्रणवो हि महान्स्मृतः

तथेदं पार्थिवं श्रेष्ठमाराध्यं पूज्यमेव हि  ११

यथा सर्वेषु वर्णेषु ब्राह्मणःश्रेष्ठ उच्यते

तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते  १२

यथा पुरीषु सर्वासु काशीश्रेष्ठतमा स्मृता

तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते  १३

यथा व्रतेषु सर्वेषु शिवरात्रिव्रतं परम्

तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्थमुच्यते  १४

यथा देवीषु सर्वासु शैवीशक्तिः परास्मृता

तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते  १५

प्रकृत्यपार्थिवं लिंगं योन्यदेवं प्रपूजयेत्

वृथा भवति सा पूजा स्नानदानादिकं वृथा  १६

पार्थिवाराधनं पुण्यं धन्यमायुर्विवर्धनम्

तुष्टिदं पुष्टिदंश्रीदं कार्यं साधकसत्तमैः  १७

यथा लब्धोपचारैश्च भक्त्या श्रद्धासमन्वितः

पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम्  १८

यः कृत्वा पार्थिवं लिंगे पूजयेच्छुभवेदिकम्

इहैव धनवाञ्छ्रीमानंते रुद्रो  भिजायते  १९

त्रिसंध्यं योर्चयंल्लिंगं कृत्वा बिल्वेन पार्थिवम्

दशैकादशकंयावत्तस्य पुण्यफलं शृणु  २०

अनेनैव स्वदेहेन रुद्र लोके महीयते

पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि  २१

जीवन्मुक्तः स वैज्ञानी शिव एव न संशयः

तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते  २२

शिवं यः पूजयेन्नित्यं कृत्वा लिंगं तु पार्थिवम्

यावज्जीवनपर्यंतं स याति शिवमन्दिरम्  २३

मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति

सकामः पुनरागत्य राजेन्द्रो  भारते भवेत्  २४

निष्कामः पूजयेन्नित्यं पार्थिवंलिंगमुत्तमम्

शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात्  २५

पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत्

स याति नरकं घोरं शूलप्रोतं सुदारुणम्  २६

यथाकथंचिद्विधिना रम्यं लिंगं प्रकारयेत्

पंचसूत्रविधानां च पार्थिवेन विचारयेत्  २७

अखण्डं तद्धि कर्तव्यं न विखण्डं प्रकारयेत्

द्विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत्  २८

रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा

पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत्  २९

अखंडं तु चरं लिंगं द्विखंडमचरं स्मृतम्

खंडाखंडविचारोयं सचराचरयोः स्मृतः  ३०

वेदिका तु महाविद्या लिंगं देवो महेश्वरः

अतो हि स्थावरे लिंगे स्मृता श्रेष्ठादिखंडिता  ३१

द्विखंडं स्थावरं लिंगं कर्तव्यं हि विधानतः

अखंडं जंगमं प्रोक्तंश् ऐवसिद्धान्तवेदिभिः  ३२

द्विखंडं तु चरां लिंगं कुर्वन्त्यज्ञानमोहिताः

नैव सिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः  ३३

अखंडं स्थावरं लिंगं द्विखंडं चरमेव च

येकुर्वन्तिनरामूढानपूजाफलभागिनः  ३४

तस्माच्छास्त्रोक्तविधिना अखंडं चरसंज्ञकम्

द्विखंडं स्थावरं लिंगं कर्तव्यं परया मुदा  ३५

अखंडे तु चरे पूजा सम्पूर्णफलदायिनी

द्विखंडे तु चरे पूजामहाहानिप्रदा स्मृता  ३६

अखंडे स्थावरे पूजा न कामफलदायिनी

प्रत्यवायकरी नित्यमित्युक्तं शास्त्रवेदिभिः  ३७

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां साध्यसाधनखंडे पार्थिवशिवलिंगपूजनमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः  १९

अध्याय २०

सूत उवाच

अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते

वैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी  १

सूत्रोक्तविधिना स्नात्वा संध्यां कृत्वा यथाविधि

ब्रह्मयज्ञं विधायादौ ततस्तर्प्पणमाचरेत्  २

नैत्यिकं सकलं कामं विधायानंतरं पुमान्

शिवस्मरणपूर्वं हि भस्मरुद्रा क्षधारकः  ३

वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये

पूजयेत्परया भक्त्या पार्थिवं लिंगमुत्तमम्  ४

नदीतीरे तडागे च पर्वते काननेऽपि च

शिवालये शुचौ देशे पार्थिवार्चा विधीयते  ५

शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः

शिवलिंगं प्रकल्पेत सावधानतया द्विजाः  ६

विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका

वैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत्  ७

संगृह्य मृत्तिकां लिंगनिर्माणार्थं प्रयत्नतः

अतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम्  ८

संशोध्य च जलेनापि पिंडीकृत्य शनैः शनैः

विधीयेत शुभं लिंगं पार्थिवं वेदमार्गतः  ९

ततः संपूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये

तत्प्रकारमहं वच्मि शृणुध्वं संविधानतः  १०

नमः शिवाय मंत्रेणार्चनद्र व्यं च प्रोक्षयेत्

भूरसीति च मंत्रेण क्षेत्रसिद्धिं प्रकारयेत्  ११

आपोस्मानिति मंत्रेण जलसंस्कारमाचरेत्

नमस्ते रुद्र मंत्रेण फाटिकाबंधमुच्यते  १२

शंभवायेति मंत्रेण क्षेत्रशुद्धिं प्रकारयेत्

नमः पूर्वेण कुर्यात्पंचामृतस्यापि प्रोक्षणम्  १३

नीलग्रीवाय मंत्रेण नमःपूर्वेण भक्तिमान्

चरेच्छंकरलिंगस्य प्रतिष्ठापनमुत्तमम्  १४

भक्तितस्तत एतत्ते रुद्रा येति च मंत्रतः

आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत्  १५

मानो महन्तमिति च मंत्रेणावाहनं चरेत्

याते रुद्रे ण मंत्रेण संचरेदुपवेशनम्  १६

मंत्रेण यामिषुमिति न्यासं कुर्य्याच्छिवस्य च

अध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत्  १७

मनुना सौजीव इति देवतान्यासमाचरेत्

असौ योवसर्पतीति चाचरेदपसर्पणम्  १८

नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत्

अर्घ्यं च रुद्र गायत्र्! याऽचमनं त्र्! यंबकेण च  १९

पयः पृथिव्यामिति च पयसा स्नानमाचरेत्

दधिक्राव्णेतिमंत्रेण दधिस्नानं च कारयेत्  २०

घृटं स्नाने खलु घृतं घृतं यावेति मंत्रतः

मधुवाता मधुनक्तं मधुमान्न इति त्र्! यृचा  २१

मधुखंडस्नपनं प्रोक्तमिति पंचामृतं स्मृतम्

अथवा पाद्यमंत्रेण स्नानं पंचामृतेन च  २२

मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम्

नमो धृष्णवे इति वा उत्तरीयं च धापयेत्  २३

या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः

शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम्  २४

नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः

नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत्  २५

नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत्

नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम्  २६

नमः कपर्दिने चेति धूपं दद्याद्यथाविधि

दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा  २७

नमो ज्येष्ठाय मंत्रेण दद्यान्नैवेद्यमुत्तमम्

मनुना त्र्! यम्बकमिति पुनराचमनं स्मृतम्  २८

इमा रुद्रा येति ऋचा कुर्यात्फलसमर्पणम्

नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत्  २९

मानो महांतमिति च मानस्तोके इति ततः

मंत्रद्वयेनैकदशाक्षतै रुद्रा न्प्रपूजयेत्  ३०

हिरण्यगर्भ इति त्र्! यृचा दक्षिणां हि समर्पयेत्

देवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः  ३१

दीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत्

पुष्पांजलिं चरेद्भक्त्या इमा रुद्रा य च त्र्! यृचा  ३२

मानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम्

मानस्तोकेति मंत्रेण साष्टाण्गं प्रणमेत्सुधीः  ३३

एषते इति मंत्रेण शिवमुद्रा ं! प्रदर्शयेत्

यतोयत इत्यभयां ज्ञानाख्यां त्र्! यंबकेण च  ३४

नमःसेनेति मंत्रेण महामुद्रा ं! प्रदर्शयेत्

दर्शयेद्धेनुमुद्रा ं! च नमो गोभ्य ऋचानया  ३५

पंचमुद्रा ः! प्रदर्श्याथ शिवमंत्रजपं चरेत्

शतरुद्रि यमंत्रेण जपेद्वेदविचक्षणः  ३६

ततः पंचाण्गपाठं च कुर्य्याद्वेदविचक्षणः

देवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम्  ३७

इत्युक्तः शिवपूजाया व्यासतो वैदिकोविधिः

समासतश्च शृणुत वैदिकं विधिमुत्तमम्  ३८

ऋचा सद्योजातमिति मृदाहरणमाचरेत्

वामदेवाय इति च जलप्रक्षेपमाचरेत्  ३९

अघोरेण च मंत्रेण लिंगनिर्माणमाचरेत्

तत्पुरुषाय मंत्रेणाह्वानं कुर्याद्यथाविधि  ४०

संयोजयेद्वेदिकायामीशानमनुना हरम्

अन्यत्सर्वं विधानं च कुर्य्यात्संक्षेपतः सुधीः  ४१

पंचाक्षरेण मंत्रेण गुरुदत्तेन वा तथा

कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः  ४२

भवाय भवनाशाय महादेवाय धीमहि

उग्राय उग्रनाशाय शर्वाय शशिमौलिने  ४३

अनेन मनुना वापि पूजयेच्छंकरं सुधीः

सुभक्त्या च भ्रमं त्यक्त्वा भक्त्यैव फलदः शिवः  ४४

इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम्

प्रोच्यतेन्यविधिः सम्यक्साधारणतया द्विजः  ४५

पूजा पार्थिवलिंगस्य संप्रोक्ता शिवनामभिः

तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम्  ४६

हरो महेश्वरः शंभुः शूलपाणिः पिनाकधृक्

शिवः पशुपतिश्चैव महादेव इति क्रमात्  ४७

मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च

स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम्  ४८

ॐकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात्

कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा  ४९

कृत्वा न्यासविधिं सम्यक्षडण्गकरयोस्तथा

षडक्षरेण मंत्रेण ततो ध्यानं समाचरेत्  ५०

कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम्

भक्तार्तिदावानलमप्रमेयं ध्यायेदुमालिंगितविश्वभूषणम्  ५१

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचंद्रा वतंसं रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम्

पद्मासीनं समंतात्स्थितममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम्  ५२

इति ध्यात्वा च संपूज्य पार्थिवं लिंगमुत्तमम्

जपेत्पंचाक्षरं मंत्रं गुरुदत्तं यथाविधि  ५३

स्तुतिभिश्चैव देवेशं स्तुवीत प्रणमन्सुधीः

नानाभिधाभिर्विप्रेन्द्रा ः! पठेद्वै शतरुद्रि यम्  ५४

ततः साक्षतपुष्पाणि गृहीत्वांजलिना मुदा

प्रार्थयेच्छंकरं भक्त्या मंत्रैरेभिः सुभक्तितः  ५५

तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहं सदा मृड

कृपानिध इति ज्ञात्वा भूतनाथ प्रसीद मे  ५६

अज्ञानाद्यदि वा ज्ञानाज्जप पूजादिकं मया

कृतं तदस्तु सफलं कृपया तव शंकर  ५७

अहं पापी महानद्य पावनश्च भवान्महान्

इति विज्ञाय गौरीश यदिच्छसि तथा कुरु  ५८

वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि

न ज्ञातोसि महादेव कुतोहं त्वं महाशिव  ५९

यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर

रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर  ६०

इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि

प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने  ६१

ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः

पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः  ६२

ततो गलरवं कृत्वा प्रणमेच्छुचिनम्रधीः

कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत्  ६३

इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः

भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी  ६४

इत्यध्यायं सुचित्तेन यः पठेच्छृणुयादपि

सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात्  ६५

आयुरायोग्यदं चैव यशस्यं स्वर्ग्यमेव च

पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम्  ६६

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिंगपूजाविधिवर्णनं नाम विंशोऽध्यायः  २०

अध्याय २१

ऋषय ऊचुः

सूत सूत महाभाग व्यासशिष्य नमोस्तु ते

सम्यगुक्तं त्वया तात पार्थिवार्चाविधानकम्  १

कामनाभेदमाश्रित्य संख्यां ब्रूहि विधानतः

शिवपार्थिवलिंगानां कृपया दीनवत्सल  २

सूत उवाच

शृणुध्वमृषयः सर्वे पार्थिवार्चाविधानकम्

यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः  ३

अकृत्वा पार्थिवं लिंगं योन्यदेवं प्रपूजयेत्

वृथा भवति सा पूजा दमदानादिकं वृथा  ४

संख्या पार्थिवलिंगानां यथाकामं निगद्यते

संख्या सद्यो मुनिश्रेष्ठ निश्चयेन फलप्रदा  ५

प्रथमावाहनं तत्र प्रतिष्ठा पूजनं पृथक्

लिंगाकारं समं तत्र सर्वं ज्ञेयं पृथक्पृथक्  ६

विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम्

पूजयेच्छिवलिंगं हि निश्चयात्तत्फलप्रदम्  ७

नरः पार्थिवलिंगानां धनार्थी च तदर्द्धकम्

पुत्रार्थी सार्द्धसाहस्रं वस्त्रार्थी शतपंचक्रम्  ८

मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम्

दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम्  ९

सुहृत्कामी त्रिसाहस्रं वश्यार्थी शतमष्टकम्

मारणार्थी सप्तशतं मोहनार्थी शताष्टकम्  १०

उच्चाटनपरश्चैव सहस्रं च यथोक्ततः

स्तंभनार्थी सहस्रं तु द्वेषणार्थी तदर्द्धकम्  ११

निगडान्मुक्तिकामस्तु सहस्रं सर्द्धमुत्तमम्

महाराजभये पंचशतं ज्ञेयं विचक्षणैः  १२

चौरादिसंकटे ज्ञेयं पार्थिवानां शतद्वयम्

डाकिन्यादिभये पंचशतमुक्तं जपार्थिवम्  १३

दारिद्र ये! पंचसाहस्रमयुतं सर्वकामदम्

अथ नित्यविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः  १४

एकं पापहरं प्रोक्तं द्विलिंगं चार्थसिद्धिदम्

त्रिलिंगं सर्वकामानां कारणं परमीरितम्  १५

उत्तरोत्तरमेवं स्यात्पूर्वोक्तगणनाविधि

मतांतरमथो वक्ष्ये संख्यायां मुनिभेदतः  १६

लिंगानामयुतं कृत्वा पार्थिवानां सुबुद्धिमान्

निर्भयो हि भवेन्नूनं महाराजभयं हरेत्  १७

कारागृहादिमुक्त्यर्थमयुतं कारयेद्बुधः

डाकिन्यादिभये सप्तसहस्रं कारयेत्तथा  १८

सहस्राणि पंचपंचाशदपुत्रः प्रकारयेत्

लिंगानामयुतेनैव कन्यकासंततिं लभेत्  १९

लिंगानामयुतेनैव विष्ण्वादैश्वर्यमाप्नुयात्

लिंगानां प्रयुतेनैव ह्यतुलां श्रियमाप्नुयात्  २०

कोटिमेकां तु लिंगानां यः करोति नरो भुवि

शिव एव भवेत्सोपि नात्र कार्य्या विचारणा  २१

अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा

भुक्तिदा मुक्तिदा नित्यं ततः कामर्थिनां नृणाम्  २२

विना लिंगार्चनं यस्य कालो गच्छति नित्यशः

महाहानिर्भवेत्तस्य दुर्वृत्तस्य दुरात्मनः  २३

एकतः सर्वदानानि व्रतानि विविधानि च

तीर्थानि नियमा यज्ञा लिंगार्चा चैकतः स्मृता  २४

कलौ लिंगार्चनं श्रेष्ठं तथा लोके प्रदृश्यते

तथा नास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः  २५

भुक्तिमुक्तिप्रदं लिंगं विविधापन्निवारणम्

पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात्  २६

शिवानाममयं लिंगं नित्यं पूज्यं महर्षिभिः

यतश्च सर्वलिंगेषु तस्मात्पूज्यं विधानतः  २७

उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम्

मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम्  २८

चतुरंगुलमुच्छ्रायं रम्यं वेदिकया युतम्

उत्तमं लिंगमाख्यातं मुनिभिः शास्त्रकोविदैः  २९

तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमघमं स्मृतम्

इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम्  ३०

अनेकलिंगं यो नित्यं भक्तिश्रद्धासमन्वितः

पूजयेत्स लभेत्कामान्मनसा मानसेप्सितान्  ३१

न लिंगाराधनादन्यत्पुण्यं वेदचतुष्टये

विद्यते सर्वशास्त्राणामेष एव विनिश्चयः  ३२

सर्वमेतत्परित्यज्य कर्मजालमशेषतः

भक्त्या परमया विद्वाँ ल्लिंगमेकं प्रपूजयेत्  ३३

लिंगेर्चितेर्चितं सर्वं जगत्स्थावरजंगमम्

संसारांबुधिमग्नानां नान्यत्तारणसाधनम्  ३४

अज्ञानतिमिरांधानां विषयासक्तचेतसाम्

प्लवो नान्योस्ति जगति लिंगाराधनमंतरा  ३५

हरिब्रह्मादयो देवा मुनयो यक्षराक्षसाः

गंधर्वाश्चरणास्सिद्धा दैतेया दानवास्तथा  ३६

नागाः शेषप्रभृतयो गरुडाद्याःखगास्तथा

सप्रजापतयश्चान्ये मनवः किन्नरा नराः  ३७

पूजयित्वा महाभक्त्या लिंगं सर्वार्थसिद्धिदम्

प्राप्ताः कामानभीष्टांश्च तांस्तान्सर्वान्हृदि स्थितान्  ३८

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो  वा प्रतिलोमजः

पूजयेत्सततं लिंगं तत्तन्मंत्रेण सादरम्  ३९

किं बहूक्तेन मुनयः स्त्रीणामपि तथान्यतः

अधिकारोस्ति सर्वेषां शिवलिंगार्चने द्विजाः  ४०

द्विजानां वैदिकेनापि मार्गेणाराधनं वरम्

अन्येषामपि जंतूनां वैदिकेन न संमतम्  ४१

वैदिकानां द्विजानां च पूजा वैदिकमार्गतः

कर्तव्यानान्यमार्गेण इत्याह भगवाञ्छिवः  ४२

दधीचिगौतमादीनां शापेनादग्धचेतसाम्

द्विजानां जायते श्रद्धानैव वैदिककर्मणि  ४३

यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा

अन्यत्समाचरेन्मर्त्यो न संकल्पफलं लभेत्  ४४

इत्थं कृत्वार्चनं शंभोर्नैवेद्यांतं विधानतः

पूजयेदष्टमूर्तीश्च तत्रैव त्रिजगन्मयीः  ४५

क्षितिरापोनलो वायुराकाशः सूर्य्यसोमकौ

यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः  ४६

शर्वो भवश्च रुद्र श्च उग्रोभीम इतीश्वरः

महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत्  ४७

पूजयेत्परिवारं च ततः शंभोः सुभक्तितः

ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः  ४८

ईशानं नंदिनं चंडं महाकालं च भृंगिणम्

वृषं स्कंदं कपर्दीशं सोमं शुक्रं च तत्क्रमात्  ४९

अग्रतो वीरभद्रं  च पृष्ठे कीर्तिमुखं तथा

तत एकादशान्रुद्रा न्पूजयेद्विधिना ततः  ५०

ततः पंचाक्षरं जप्त्वा शतरुद्रि यमेव च

स्तुतीर्नानाविधाः कृत्वा पंचांगपठनं तथा  ५१

ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत्

इति प्रोक्तमशेषं च शिवपूजनमादरात्  ५२

रात्रावुदण्मुखः कुर्याद्देवकार्यं सदैव हि

शिवार्चनं सदाप्येवं शुचिः कुर्यादुदण्मुखः  ५३

न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान्

न प्रतीचीं यतः पृष्ठमतो ग्राह्यं समाश्रयेत्  ५४

विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया

बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः  ५५

भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने

तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुंड्रकम्  ५६

इति श्रीशिवमहापुराणे प्रथमायां विश्वेश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशोऽध्यायः  २१

अध्याय २२

ऋष्य ऊचुः

अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः

ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने  १

सूत उवाच

शृणुध्वं मुनयः सर्वे सावधानतयाधुना

सर्वं वदामि संप्रीत्या धन्या यूयं शिवव्रताः  २

शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः

भक्षयेच्छिवनैवेद्यं त्यजेदग्राह्यभावनाम्  ३

दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः

भक्ते तु शिवनैवेद्ये पुण्यान्या यांति कोटिशः  ४

अलं यागसहस्रेणाप्यलं यागार्बुदैरपि

भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात्  ५

यद्गृहे शिवनैवेद्यप्रचारोपि प्रजायते

तद्गृहं पावनं सर्वमन्यपावनकारणम्  ६

आगतं शिवनैवेद्यं गृहीत्वा शिरसा मुदा

भक्षणीयं प्रयत्ने न शिवस्मरणपूर्वकम्  ७

आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि

विलंबे पापसंबंधो भवत्येव हि मानवे  ८

न यस्य शिवनैवेद्यग्रहणेच्छा प्रजायते

सपापिष्ठो गरिष्ठः स्यान्नरकं यात्यपि ध्रुवम्  ९

हृदये चन्द्र कान्ते च स्वर्णरूप्यादिनिर्मिते

शिवदीक्षावता भक्तेनेदं भक्ष्यमितीर्य्यते  १०

शिवदीक्षान्वितो भक्तो महाप्रसादसंज्ञकम्

सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम्  ११

अन्यदीक्षायुजां नृ-णां शिवभक्तिरतात्मनाम्

शृणुध्वं निर्णयंप्रीत्याशिवनैवेद्यभक्षणे  १२

शालग्रामोद्भवे लिंगे रसलिंगे तथा द्विजाः

पाषाणे राजते स्वर्णे सुरसिद्धप्रतिष्ठिते  १३

काश्मीरे स्फाटिके रात्ने ज्योतिर्लिंगेषु सर्वशः

चान्द्रा यणसमं प्रोक्तं शंभोर्नैवेद्यभक्षणम्  १४

ब्रह्महापि शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत्

भक्षयित्वा द्रुतं तस्य सर्वपापं प्रणश्यति  १५

चंडाधिकारो यत्रास्ति तद्भाक्तव्यं न मानवैः

चंडाधिकारो नो यत्र भोक्तव्यं तच्च भक्तितः  १६

बाणलिंगे च लौहे च सिद्धे लिंगे स्वयंभुवि

प्रतिमासु च सर्वासु न चंडोधिकृतो भवेत्  १७

स्नापयित्वा विधानेन यो लिंगस्नापनोदकम्

त्रिःपिबेत्त्रिविधं पापं तस्येहाशु विनश्यति  १८

अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम्

शालग्रामशिलासंगात्सर्वं याति पवित्रिताम्  १९

लॐगोपरि च यद्द्रव्यं तदग्राह्यं मुनीश्वराः

सुपवित्रं च तज्ज्ञेयं यल्लिंगस्पर्शबाह्यतः  २०

नैवेद्यनिर्णयः प्रोक्त इत्थं वो मुनिसत्तमाः

शृणुध्वं बिल्वमाहात्म्यं सावधानतयाऽदरात्  २१

महादेवस्वरूपोयं बिल्वो देवैरपि स्तुतिः

यथाकथंचिदेतस्य महिमा ज्ञायते कथम्  २२

पुण्यतीर्थानि यावंति लोकेषु प्रथितान्यपि

तानि सर्वाणि तीर्थानिबिल्वमूलेव संति हि  २३

बिल्वमूले महादेवं लिंगरूपिणमव्ययम्

यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम्  २४

बिल्वमूले जलैर्यस्तु मूर्द्धानमभिषिंचति

स सर्वतीर्थस्नातः स्यात्स एव भुवि पावनः  २५

एतस्य बिल्वमूलस्याथालवालमनुत्तमम्

जलाकुलं महादेवो दृष्ट्वा तु ष्टोभवत्यलम्  २६

पूजयेद्बिल्वमूलं यो गंधपुष्पादिभिर्नरः

शिवलोकमवाप्नोति संततिर्वर्द्धते सुखम्  २७

बिल्वमूले दीपमालां यः कल्पयति सादरम्

स तत्त्वज्ञानसंपन्नो महेशांतर्गतो भवेत्  २८

बिल्वशाखां समादाय हस्तेन नवपल्लवम्

गृहीत्वा पूजयेद्बिल्वं स च पापैः प्रमुच्यते  २९

बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः

एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते  ३०

बिल्वमूले क्षीरमुक्तमन्नमाज्येन संयुतम्

यो दद्याच्छिवभक्ताय स दरिद्रो  न जायते  ३१

सांगोपांगमिति प्रोक्तं शिवलिंगप्रपूजनम्

प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः  ३२

प्रवृत्तानां पीठपूजां सर्वपूजां समाचरेत्

अभिषेकान्ते नैवेद्यं शाल्यन्नेन समाचरेत्

पूजान्ते स्थापयेल्लिंगं पुटे शुद्धे पृथग्गृहे  ३४

करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत्

निवृत्तानां परं सूक्ष्मं लिंगमेव विशिष्यते  ३५

विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत्

पूजां कृत्वा तथा लिंगं शिरसाधारयेत्सदा  ३६

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां साध्यसाधनखण्डे शिवनैवेद्यवर्णनोनामद्वाविंशोऽध्यायः  २२

अध्याय २३

ऋषय ऊचुः

सूत सूत महाभाग व्यासशिष्य नमोस्तु ते

तदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम्  १

तथा रुद्रा क्षमाहात्म्यं नाम माहात्म्यमुत्तमम्

त्रितयं ब्रूहि सुप्रीत्या ममानंदयचेतसम्  २

सूत उवाच

साधुपृष्टं भवद्भिश्च लोकानां हितकारकम्

भवंतो वै महाधन्याः पवित्राः कुलभूषणाः  ३

येषां चैव शिवः साक्षाद्दैवतं परमं शुभम्

सदा शिवकथा लोके वल्लभा भवतां सदा  ४

ते धन्याश्च कृतार्थाश्च सफलं देहधारणम्

उद्धृतञ्च कुलं तेषां ये शिवं समुपासते  ५

मुखे यस्य शिवनाम सदाशिवशिवेति च

पापानि न स्पृशंत्येव खदिरांगारंकयथा  ६

श्रीशिवाय नमस्तुभ्यं मुखं व्याहरते यदा

तन्मुखं पावनं तीर्थं सर्वपापविनाशनम्  ७

तन्मुखञ्च तथा यो वै पश्यतिप्रीतिमान्नरः

तीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम्  ८

यत्र त्रयं सदा तिष्ठेदेतच्छुभतरं द्विजा

तस्य दर्शनमात्रेण वेणीस्नानफलंलभेत्  ९

शिवनामविभूतिश्च तथा रुद्रा क्ष एव च

एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम्  १०

एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः

तस्यैव दर्शनं लोके दुर्लभं पापहारकम्  ११

तद्दर्शनं यथा वेणी नोभयोरंतरं मनाक्

एवं योनविजानाति सपापिष्ठो न संशयः  १२

विभूतिर्यस्य नो भाले नांगे रुद्रा क्षधारणम्

नास्ये शिवमयी वाणी तं त्यजेदधमं यथा  १३

शैवं नाम यथा गंगा विभूतिर्यमुना मता

रुद्रा क्षं विधिना प्रोक्ता सर्वपापाविनाशिनी  १४

शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम्

एकतो वेणिकायाश्च स्नानजंतुफलं बुधैः  १५

तदेवं तुलितं पूर्वं ब्रह्मणाहितकारिणा

समानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः  १६

तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सरैः

धार्यते त्रितयं तच्च दर्शनात्पापहारकम्  १७

ऋष्य ऊचुः

ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम्

तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत  १८

सूत उवाच

ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः

तन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः  १९

सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि

भवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना  २०

कस्तत्त्रितयमाहात्म्यं संजानाति द्विजोत्तमाः

महेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम्  २१

वच्म्यहं नाम माहात्म्यं यथाभक्ति समासतः

शृणुत प्रीतितो विप्राः सर्वपापहरं परम्  २२

शिवेति नामदावाग्नेर्महापातकपर्वताः

भस्मीभवंत्यनायासात्सत्यंसत्यं न संशयः  २३

पापमूलानि दुःखानि विविधान्यपि शौनक

शिवनामैकनश्यानि नान्यनश्यानि सर्वथा  २४

स वैदिकः स पुण्यात्मा स धन्यस्स बुधो मतः

शिवनामजपासक्तो यो नित्यं भुवि मानव  २५

भवंति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः

येषां भवति विश्वासः शिवनामजपे मुने  २६

पातकानि विनश्यंति यावंति शिवनामतः

भुवि तावंति पापानि क्रियंते न नरैर्मुने  २७

ब्रह्महत्यादिपापानां राशीनप्रमितान्मुने

शिवनाम द्रुतं प्रोक्तं नाशयत्यखिलान्नरैः  २८

शिवनामतरीं प्राप्य संसाराब्धिं तरंति ये

संसारमूलपापानि तानि नश्यंत्यसंशयम्  २९

संसारमूलभूतानां पातकानां महामुने

शिवनामकुठारेण विनाशो जायते ध्रुवम्  ३०

शिवनामामृतं पेयं पापदावानलार्दितैः

पापदावाग्नितप्तानां शांतिस्तेन विना न हि  ३१

शिवेति नामपीयूषवर्षधारापरिप्लुताः

संसारदवमध्येपि न शोचंति कदाचन  ३२

शिवनाम्नि महद्भक्तिर्जाता येषां महात्मनाम्

तद्विधानां तु सहसा मुक्तिर्भवति सर्वथा  ३३

अनेकजन्मभिर्येन तपस्तप्तं मुनीश्वर

शिवनाम्नि भवेद्भक्तिः सर्वपापापहारिणी  ३४

यस्या साधारणं शंभुनाम्नि भक्तिरखंडिता

तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम  ३५

कृत्वाप्यनेकपापानि शिवनामजपादरः

सर्वपापविनिर्मुक्तो भवत्येव न संशयः  ३६

भवंति भस्मसाद्वृक्षा दवदग्धा यथा वने

तथा तावंति दग्धानि पापानि शिवनामतः  ३७

यो नित्यं भस्मपूतांगः शिवनामजपादरः

संतरत्येव संसारं सघोरमपि शौनक  ३८

ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून्

न लिप्यते नरः पापैः शिवनामजपादरः  ३९

विलोक्य वेदानखिलाञ्छिवनामजपः परम्

संसारतारणोपाय इति पूर्वैर्विनिश्चितः  ४०

किं बहूक्त्या मुनिश्रेष्ठाः श्लोकेनैकेन वच्म्यहम्

शिवनाम्नो महिमानं सर्वपापापहारिणम्  ४१

पापानां हरणे शंभोर्नामः शक्तिर्हि पावनी

शक्नोति पातकं तावत्कर्तुं नापि नरः क्वचित् ४२

शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम्

इन्द्र द्युम्ननृपः पूर्वं महापापः पुरामुने  ४३

तथा काचिद्द्विजायोषा सौ मुने बहुपापिनी

शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम्  ४४

इत्युक्तं वो द्विजश्रेष्ठा नाममाहात्म्यमुत्तमम्

शृणुध्वं भस्ममाहात्म्यं सर्वपावनपावनम्  ४५

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां साध्यसाधनखंडेशिवनममाहात्म्यवर्णनोनामत्रयोविंशोऽध्यायः  २३

अध्याय २४

सूत उवाच

द्विविधं भस्म संप्रोक्तं सर्वमंगलदं परम्

तत्प्रकारमहं वक्ष्ये सावधानतया शृणु  १

एकं ज्ञेयं महाभस्म द्वितीयं स्वल्पसंज्ञकम्

महाभस्म इति प्रोक्तं भस्म नानाविधं परम्  २

तद्भस्म त्रिविधं प्रोक्तं श्रोतं स्मार्तं च लौकिकम्

भस्मैव स्वल्पसंज्ञं हि बहुधा परिकीर्तितम्  ३

श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम्

अन्येषामपि सर्वेषामपरं भस्म लौकिकम्  ४

धारणं मंत्रतः प्रोक्तं द्विजानां मुनिपुंगवैः

केवलं धारणं ज्ञेयमन्येषां मंत्रवर्जितम्  ५

आग्नेयमुच्यते भस्म दग्धगोमयसंभवम्

तदापि द्र व्यमित्युक्तं त्रिपुंड्रस्य महामुने  ६

अग्निहोत्रोत्थितं भस्मसंग्राह्यं वा मनीषिभिः

अन्ययज्ञोत्थितं वापि त्रिपुण्ड्रस्य च धारणे  ७

अग्निरित्यादिभिर्मंत्रैर्जाबालोपनिषद्गतेः

सप्तभिधूलनं कार्यं भस्मना सजलेन च  ८

वर्णानामाश्रमाणां च मंत्रतो मंत्रतोपि च

त्रिपुंड्रोद्धूलनं प्रोक्तजाबालैरादरेण च  ९

भस्मनोद्धूलनं चैव यथा तिर्यक्!त्रिपुंड्रकम्

प्रमादादपि मोक्षार्थी न त्यजेदिति विश्रुतिः  १०

शिवेन विष्णुना चैव तथा तिर्यक्!त्रिपुंड्रकम्

उमादेवी च लक्ष्मींश्च वाचान्याभिश्च नित्यशः  ११

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रै रपि च संस्करैः

अपभ्रंशैर्धृतं भस्मत्रिपुंड्रोद्धूलनात्मना  १२

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये

तेषां नास्ति समाचारो वर्णाश्रमसमन्वितः  १३

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये

तेषां नास्ति विनिर्मुक्तिस्संसाराज्जन्मकोटिभिः  १४

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये

तेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि  १५

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये

ते महापातकैर्युक्ता इति शास्त्रीयनिर्णयः  १६

उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये

तेषामाचरितं सर्वं विपरीतफलाय हि  १७

महापातकयुक्तानां जंतूनां शर्वविद्विषाम्

त्रिपुंड्रोद्धूलनद्वेषो जायते सुदृढं मुने  १८

शिवाग्निकार्यं यः कृत्वा कुर्यात्त्रियायुषात्मवित्

मुच्यते सर्वपापैस्तु स्पृष्टेन भस्मना नरः  १९

सितेन भस्मना कुर्य्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम्

सर्वपापविनिर्मुक्तः शिवेन सह मोदते  २०

सितेन भस्मना कुर्याल्लाटे तु त्रिपुण्ड्रकम्

यो सावनादिभूतान्हि लोकानाप्तो मृतो भवेत्  २१

अकृत्वा भस्मना स्नानं न जपेद्वै षडक्षरम्

त्रिपुंड्रं च रचित्वा तु विधिना भस्मना जपेत्  २२

अदयो वाधमो वापि सर्वपापान्वितोपि वा

उषःपापान्वितो वापि मूर्खो वा पतितोपि वा  २३

यस्मिन्देशेव सेन्नित्यं भूतिशासनसंयुतः

सर्वतीर्थैश्च क्रतुभिः सांनिध्यं क्रियते सदा  २४

त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः

पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः  २५

यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः

गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः  २६

बहुनात्र किमुक्तेन धार्यं भस्म सदा बुधैः

लिंगार्चनं सदा कार्यं जप्यो मंत्रः षडक्षरः  २७

ब्रह्मणा विष्णुना वापि रुद्रे ण मुनिभिः सुरैः

भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम्  २८

इति वर्णाश्रमाचारो लुप्तवर्णक्रियोपि च

पापात्सकृत्त्रिपुंड्रस्य धारणात्सोपि मुच्यते  २९

ये भस्मधारिणं त्यक्त्वा कर्म कुर्वंति मानवाः

तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः  ३०

ते नाधीतं गुरोः सर्वं ते न सर्वमनुष्ठितम्

येन विप्रेण शिरसि त्रिपुंड्रं भस्मना कृतम्  ३१

ये भस्मधारिणं दृष्ट्वा नराः कुर्वंति ताडनम्

तेषां चंडालतो जन्म ब्रह्मन्नूह्यं विपश्चिता  ३२

मानस्तोकेन मंत्रेण मंत्रितं भस्म धारयेत्

ब्राह्मणः क्षत्रियश्चैव प्रोक्तेष्वंगेषु भक्तिमान्  ३३

वैश्यस्त्रियं बकेनैव शूद्र ः! पंचाक्षरेण तु

अन्यासां विधवास्त्रीणां विधिः प्रोक्तश्च शूद्र वत्  ३४

पंचब्रह्मादिमनुभिर्गृहस्थस्य विधीयते

त्रियंबकेन मनुना विधिर्वै ब्रह्मचारिणः  ३५

अघोरेणाथ मनुना विपिनस्थविधिः स्मृतः

यतिस्तु प्रणवेनैव त्रिपुंड्रादीनि कारयेत्  ३६

अतिवर्णाश्रमी नित्यं शिवोहं भावनात्परात्

शिवयोगी च नियतमीशानेनापि धारयेत्  ३७

न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम्

अन्यैरपि यथाजीवैस्सदेति शिवशासनम्  ३८

भस्मस्नानेन यावंतः कणाः स्वाण्गे प्रतिष्ठिताः

तावंति शिवलिंगानि तनौ धत्ते हि धारकः  ३९

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा श्चापि च संकराः

स्त्रियोथ विधवा बालाः प्राप्ताः पाखंडिकास्तथा  ४०

ब्रह्मचारी गृही वन्यः संन्यासी वा व्रती तथा

नार्यो भस्म त्रिपुंड्रांका मुक्ता एव न संशयः  ४१

ज्ञानाज्ञानधृतो वापि वह्निदाहसमो यथा

ज्ञानाज्ञानधृतं भस्म पावयेत्सकलं नरम्  ४२

नाश्नीयाज्जलमन्नमल्पमपि वा भस्माक्षधृत्या विना

भुक्त्वावाथ गृही वनीपतियतिर्वर्णी तथा संकरः

एनोभुण्नरकं प्रयाति सत दागायत्रिजापेन तद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तंभवेत्  ४३

त्रिपुंड्रं ये विनिंदंति निन्दन्ति शिवमेव ते

धारयंति च ये भक्त्या धारयन्ति तमेव ते  ४४

धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम्

धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम्  ४५

ये निंदंति महेश्वरं त्रिजगतामाधारभूतं हरं ये निन्दंति त्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने

ते वै संकरसूकरासुरखरश्वक्रोष्टुकीटोपमा जाता एव भवंति पापपरमास्तेनारकाः केवलम्  ४६

ते दृष्ट्वा शशिभास्करौ निशि दिने स्वप्नेपि नो केवलं पश्यंतु श्रुतिरुद्र सूक्तजपतो मुच्येत तेनादृताः

सत्संभाषणतो भवेद्धि नरकं निस्तारवानास्थितं ये भस्मादिविधारणं हि पुरुषं निंदंति मंदा हि ते  ४७

न तांत्रिकस्त्वधिकृतो नोर्द्ध्वपुंड्रधरो मुने

संतप्तचक्रचिह्नोत्र शिवयज्ञे बहिष्कृतः  ४८

तत्रैते बहवो लोका बृहज्जाबालचोदिताः

ते विचार्याः प्रयत्नेन ततो भस्मरतो भवेत्  ४९

यच्चंदनैश्चंदनकेपि मिश्रं धार्यं हि भस्मैव त्रिपुंड्रभस्मना

विभूतिभालोपरि किंचनापि धार्यं सदा नो यदि संतिबुद्धयः  ५०

स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्म द्विजादिभिरथो विधवाभिरेवम्

तद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदा सकलाघहन्त्री  ५१

त्रिपुण्ड्रं कुरुते यस्तु भस्मना विधिपूर्वकम्

महापातकसंघातैर्मुच्यते चोपपातकैः  ५२

ब्रह्मचारी गृहस्थो वा वानप्रस्थोथ वा यतिः

ब्रह्मक्षत्त्राश्च विट्शूद्रा स्तथान्ये पतिताधमाः  ५३

उद्धूलनं त्रिपुंड्रं च धृत्वा शुद्धा भवंति च

भस्मनो विधिना सम्यक्पापराशिं विहाय च  ५४

भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः

वीरहत्याश्वहत्याभ्यां मुच्यते नात्र संशयः  ५५

परद्र व्यापहरणं परदाराभिमर्शनम्

परनिन्दा परक्षेत्रहरणं परपीडनम्  ५६

सस्यारामादिहरणं गृहदाहादिकर्म च

गोहिरण्यमहिष्यादितिलकम्बलवाससाम्  ५७

अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः

दशवेश्यामतंगीषु वृषलीषु नटीषु च  ५८

रजस्वलासु कन्यासु विधवासु च मैथुनम्

मांसचर्मरसादीनां लवणस्य च विक्रयः  ५९

पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम्

एवमादीन्यसंख्यानि पापानि विविधानि च

सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात्  ६०

शिवद्र व्यापहरणं शिवनिंदा च कुत्रचित्

निंदा च शिवभक्तानां प्रायश्चित्तैर्न शुद्ध्यति  ६१

रुद्रा क्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम्

सचांडालोपि संपूज्यस्सर्ववर्णोत्तमोत्तमः  ६२

यानि तीर्थानि लोकेस्मिन्गंगाद्यास्सरितश्च याः

स्नातो भवति सर्वत्र ललाटे यस्त्रिपुंड्रकम्  ६३

सप्तकोटि महामंत्राः पंचाक्षरपुरस्सराः

तथान्ये कोटिशो मंत्राः शैवकैवल्यहेतवः  ६४

अन्ये मंत्राश्च देवानां सर्वसौख्यकरा मुने

ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुंड्रकम्  ६५

सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम्

स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुंड्रकृत्  ६६

इह भुक्त्वा खिलान्भोगान्दीर्घायुर्व्याधिवर्जितः

जीवितांते च मरणं सुखेनैव प्रपद्यते  ६७

अष्टैश्वर्यगुणोपेतं प्राप्य दिव्यवपुः शिवम्

दिव्यं विमानमारुह्य दिव्यत्रिदशसेवितम्  ६८

विद्याधराणां सर्वेषां गंधर्वाणां महौजसाम्

इंद्रा दिलोकपालानां लोकेषु च यथाक्रमम्  ६९

भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च

ब्रह्मणः पदमासाद्य तत्र कन्याशतं रमेत्  ७०

तत्र ब्रह्मायुषो मानं भुक्त्वा भोगाननेकशः

विष्णोर्लोके लभेद्भोगं यावद्ब्रह्मशतात्ययः  ७१

शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम्

शिवसायुज्यमाप्नोति संशयो नात्र जायते  ७२

सर्वोपनिषदां सारं समालोक्य मुहुर्मुहुः

इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम्  ७३

विभूतिं निंदते यो वै ब्राह्मणः सोन्यजातकः

याति च नरके घोरे यावद्ब्रह्मा चतुर्मुखः  ७४

श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने

धृतत्रिपुंड्रः पूतात्मा मृत्युं जयति मानवः  ७५

जलस्नानं मलत्यागे भस्मस्नानं सदा शुचि

मंत्रस्नानं हरेत्पापं ज्ञानस्नाने परं पदम्  ७६

सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्

तत्फलं समवाप्नोति भस्मस्नानकरो नरः  ७७

भस्मस्नानं परं तीर्थं गंगास्नानं दिने दिने

भस्मरूपी शिवः साक्षाद्भस्म त्रैलोक्यपावनम्  ७८

न तदूनं न तद्ध्यानं न तद्दानं जपो न सः

त्रिपुंड्रेण विनायेन विप्रेण यदनुष्ठितम्  ७९

वानप्रस्थस्य कन्यानां दीक्षाहीननृणां तथा

मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम्  ८०

एवं त्रिपुंड्रं यः कुर्य्यान्नित्यं नियतमानसः

शिवभक्तः सविज्ञेयो भुक्तिं मुक्तिं च विंदति  ८१

यस्यांगेनैव रुद्रा क्ष एकोपि बहुपुण्यदः

तस्य जन्मनिरर्थं स्यात्त्रिपुंड्ररहितो यदि  ८२

एवं त्रिपुंड्रमाहात्म्यं समासात्कथितं मया

रहस्यं सर्वजंतूनां गोपनीयमिदं त्वया  ८३

तिस्रो रेखा भवंत्येव स्थानेषु मुनिपुंगवाः

ललाटादिषु सर्वेषु यथोक्तेषु बुधैर्मुने  ८४

भ्रुवोर्मध्यं समारभ्य यावदंतो भवेद्भ्रुवोः

तावत्प्रमाणं संधार्यं ललाटे च त्रिपुंड्रकम्  ८५

मध्यमानामिकांगुल्या मध्ये तु प्रतिलोमतः

अंगुष्ठेन कृता रेखा त्रिपुंड्राख्या भिधीयते  ८६

मध्येंगुलिभिरादाय तिसृभिर्भस्म यत्नतः

त्रिपुण्ड्रधारयेद्भक्त्या भुक्तिमुक्तिप्रदं परम्  ८७

तिसृणामपि रेखानां प्रत्येकं नवदेवताः

सर्वत्रांगेषु ता वक्ष्ये सावधानतया शृणु  ८८

अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः

ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च  ८९

महदेवश्च रेखायाः प्रथमायाश्च देवता

विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः  ९०

उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा

मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ  ९१

महेश्वरश्च रेखाया द्वितीयायाश्च देवता

विज्ञेया मुनिशार्दूल शिवदीक्षापरायणैः  ९२

मकाराहवनीयौ च परमात्मा तमोदिवौ

ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा  ९३

शिवश्चैव च रेखायास्तृतियायाश्च देवता

विज्ञेया मुनिशार्दूल शिवदीक्षापरायणौ  ९४

एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः

त्रिपुंड्रं धारयेच्छुद्धो भुक्तिं मुक्तिं च विंदति  ९५

इत्युक्ताः स्थानदेवाश्च सर्वांगेषु मुनीश्वरः

तेषां संबंधिनो भक्त्या स्थानानि शृणु सांप्रतम्  ९६

द्वात्रिंशत्स्थानके वार्द्धषोडशस्थानकेपि च

अष्टस्थाने तथा चैव पंचस्थानेपि नान्यसेत्  ९७

उत्तमांगे ललाटे च कर्णयोर्नेत्रयोस्तथा

नासावक्त्रगलेष्वेवं हस्तद्वय अतः परम्  ९८

कूर्परे मणिबंधे च हृदये पार्श्वयोर्द्वयोः

नाभौ मुष्कद्वये चैवमूर्वोर्गुल्फे च जानुनि  ९९

जंघाद्वयेपदद्वन्द्वे द्वात्रिंशत्स्थानमुत्तमम् १००ब्

अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह  १००

धरा ध्रुवश्च सोमश्च अपश्चेवानिलोनलः  १०१ब्

प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः  १०१

एतेषां नाममात्रेण त्रिपुंड्रं धारयेद्बुधाः  १०२ब्

कुर्याद्वा षोडशस्थाने त्रिपुण्ड्रं तु समाहितः  १०२

शीर्षके च ललाटेच कंठे चांसद्वये भुजे  १०३ब्

कूर्परे मणिबंधे च हृदये नाभिपार्श्वके  १०३

पृष्ठे चैवं प्रतिष्ठाय यजेत्तत्राश्विदैवते  १०४ब्

शिवशक्तिं तथा रुद्र मीशं नारदमेव च  १०४

वामादिनवशक्तीश्च एताः षोडशदेवताः  १०५ब्

नासत्यो दस्रकश्चैव अश्विनौ द्वौ प्रकीर्तितौ  १०५

अथवा मूर्द्ध्नि केशे च कर्मयोर्वदने तथा  १०६ब्

बाहुद्वये च हृदये नाभ्यामूरुयुगे तथा  १०६

जानुद्वये च पदयोः पृष्ठभागे च षोडश  १०७ब्

शिवश्चन्द्र श्च रुद्र ः! को विघ्नेशो विष्णुरेव वा  १०७

श्रीश्चैव हृदये शम्भुस्तथा नाभौ प्रजापतिः  १०८ब्

नागश्च नागकन्याश्च उभयोरृषिकन्यकाः  १०८

पादयोश्च समुद्रा श्च तीर्थाः पृष्ठे विशालतः  १०९ब्

इत्येव षोडशस्थानमष्टस्थानमथोच्यते  १०९

गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम्  ११०ब्

अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम्  ११०

ब्रह्मा च ऋषयः सप्तदेवताश्च प्रकीर्तिताः  १११ब्

इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः  १११

अथ वा मस्तकं बाहूहृदयं नाभिरेव च  ११२ब्

पंचस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः  ११२

यथासंभवनं कुर्य्याद्देशकालाद्यपेक्षया  ११३ब्

उद्धूलनेप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत्  ११३

त्रिनेत्रं त्रिगुणाधारं त्रिवेदजनकं शिवम्  ११४ब्

स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम्  ११४

ईशाभ्यां नम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम्  ११५ब्

बीजाभ्यां नम इत्युक्त्वा धारयेत्तु प्रकोष्ठयोः  ११५

कुर्यादधः पितृभ्यां च उमेशाभ्यां तथोपरि  ११६ब्

भीमायेति ततः पृष्ठे शिरसः पश्चिमे तथा  ११६

इति श्रीशिवमहापुराणे विश्वेश्वरसंहितायां भस्मधारणवर्णनोनाम चतुर्विंशोऽध्यायः  २४

अध्याय २५

सूत उवाच

शैनकर्षे महाप्राज्ञ शिवरूपमहापते

शृणु रुद्रा क्षमाहात्म्यं समासात्कथयाम्यहम्  १

शिवप्रियतमो ज्ञेयो रुद्रा क्षः परपावनः

दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरः स्मृतः  २

पुरा रुद्रा क्षमहिमा देव्यग्रे कथितो मुने

लोकोपकरणार्थाय शिवेन परमात्मना  ३

शिव उवाच

शृणु देविमहेशानि रुद्रा क्षमहिमा शिवे

कथयामि तवप्रीत्या भक्तानां हितकाम्यया  ४

दिव्यवर्षसहस्राणि महेशानि पुनः पुरा

तपः प्रकुर्वतस्त्रस्तं मनः संयम्य वै मम  ५

स्वतंत्रेण परेशेन लोकोपकृतिकारिणा

लीलया परमेशानि चक्षुरुन्मीलितं मया  ६

पुटाभ्यां चारुचक्षुर्भ्यां पतिता जलबिंदवः

तत्राश्रुबिन्दवो जाता वृक्षा रुद्रा क्षसंज्ञकाः  ७

स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात्

ते दत्ता विष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च  ८

भूमौ गौडोद्भवांश्चक्रे रुद्रा क्षाञ्छिववल्लभान्

मथुरायामयोध्यायां लंकायां मलये तथा  ९

सह्याद्रौ  च तथा काश्यां दशेष्वन्येषु वा तथा

परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात्  १०

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा  जाता ममाज्ञया

रुद्रा क्षास्ते पृथिव्यां तु तज्जातीयाः शुभाक्षकाः  ११

श्वेतरक्ताः पीतकृष्णा वर्णाज्ञेयाः क्रमाद्बुधैः

स्वजातीयं नृभिर्धार्यं रुद्रा क्षं वर्णतः क्रमात्  १२

वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः

शिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा  १३

धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम्

बदरीफलमात्रं तु मध्यमं संप्रकीर्त्तितम्  १४

अधमं चणमात्रं स्यात्प्रक्रियैषा परोच्यते

शृणु पार्वति सुप्रीत्या भक्तानां हितकाम्यया  १५

बदरीफलमात्रं च यत्स्यात्किल महेश्वरि

तथापि फलदं लोके सुखसौभाग्यवर्द्धनम्  १६

धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम्

गुंजया सदृशं यत्स्यात्सर्वार्थफलसाधनम्  १७

यथा यथा लघुः स्याद्वै तथाधिकफलप्रदम्

एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः  १८

रुद्रा क्षधारणं प्रोक्तं पापनाशनहेतवे

तस्माच्च धारणी यो वै सर्वार्थसाधनो ध्रुवम्  १९

यथा च दृश्यते लोके रुद्रा क्षफलदः शुभः

न तथा दृश्यतेऽन्या च मालिका परमेश्वरि  २०

समाः स्निग्धा दृढाः स्थूलाः कंटकैः संयुताः शुभाः

रुद्रा क्षाः कामदा देवि भुक्तिमुक्तिप्रदाः सदा  २१

क्रिमिदुष्टं छिन्नभिन्नं कंटकैर्हीनमेव च

व्रणयुक्तमवृत्तं च रुद्रा क्षान्षड्विवर्जयेत्  २२

स्वयमेव कृतद्वारं रुद्रा क्षं स्यादिहोत्तमम्

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत्  २३

रुद्रा क्षधारणं प्राप्तं महापातकनाशनम्

रुद्र संख्याशतं धृत्वा रुद्र रूपो भवेन्नरः  २४

एकादशशतानीह धृत्वा यत्फलमाप्यते

तत्फलं शक्यते नैव वक्तुं वर्षशतैरपि  २५

शतार्द्धेन युतैः पंचशतैर्वै मुकुटं मतम्

रुद्रा क्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः  २६

त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः

रुद्रा क्षैरुपवीतं व निर्मीयाद्भक्तितत्परः  २७

शिखायां च त्रयं प्रोक्तं रुद्र क्षाणां महेश्वरि

कर्णयोः षट् च षट्चैव वामदक्षिणयोस्तथा  २८

शतमेकोत्तरं कंठे बाह्वोर्वै रुद्र संख्यया

कूर्परद्वारयोस्तत्र मणिबंधे तथा पुनः  २९

उपवीते त्रयं धार्यं शिवभक्तिरतैर्नरैः

शेषानुर्वरितान्पंच सम्मितान्धारयेत्कटौ  ३०

एतत्संख्या धृता येन रुद्रा क्षाः परमेश्वरि

तद्रू पं तु प्रणम्यं हि स्तुत्यं सर्वैर्महेशवत्  ३१

एवंभूतं स्थितं ध्याने यदा कृत्वासनैर्जनम्

शिवेति व्याहरंश्चैव दृष्ट्वा पापैः प्रमुच्यते  ३२

शतादिकसहस्रस्य विधिरेष प्रकीर्तितः

तदभावे प्रकारोन्यः शुभः संप्रोच्यते मया  ३३

शिखायामेकरुद्रा क्षं शिरसा त्रिंशतं वहेत्

पंचाशच्च गले दध्याद्बाह्वोः षोडश षोडश  ३४

मणिबंधे द्वादशद्विस्कंधे पंचशतं वहेत्

अष्टोत्तरशतैर्माल्यमुपवीतं प्रकल्पयेत्  ३५

एवं सहस्ररुद्रा क्षान्धारयेद्यो दृढव्रतः

तं नमंति सुराः सर्वे यथा रुद्र स्तथैव सः  ३६

एकं शिखायां रुद्रा क्षं चत्वारिंशत्तु मस्तके

द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम्  ३७

एकैकं कर्णयोः षट्षड्बाह्वोः षोडश षोडश

करयोरविमानेन द्विगुणेन मुनीश्वर  ३८

संख्या प्रीतिर्धृता येन सोपि शैवजनः परः

शिववत्पूजनीयो हि वंद्यस्सर्वैरभीक्ष्णशः  ३९

शिरसीशानमंत्रेण कर्णे तत्पुरुषेण च

अघोरेण गले धार्यं तेनैव हृदयेपि च  ४०

अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः

पंचदशाक्षग्रथितां वामदेवेन चोदरे  ४१

पंच ब्रह्मभिरंगश्च त्रिमालां पंचसप्त च

अथवा मूलमंत्रेण सर्वानक्षांस्तुधारयेत्  ४२

मद्यं मांसं तु लशुनं पलाण्डुं शिग्रुमेव च

श्लेष्मांतकं विड्वराहं भक्षणे वर्जयेत्ततः  ४३

वलक्षं रुद्रा क्षं द्विजतनुभिरेवेह विहितं सुरक्तं क्षत्त्राणां प्रमुदितमुमे पीतमसकृत्  ४४

छिन्नं खंडितं भिन्नं विदीर्ण

ततो वैश्यैर्धार्यं प्रतिदिवसभावश्यकमहो तथा कृष्णं शूद्रै ः! श्रुतिगदितमार्गोयमगजे  ४४

वर्णी वनी गृहयतीर्नियमेन दध्यादेतद्र हस्यपरमो न हि जातु तिष्ठेत्

रुद्रा क्षधारणमिदं सुकृतैश्च लभ्यं त्यक्त्वेदमेतदखिलान्नरकान्प्रयांति  ४५

आदावामलकात्स्वतो लघुतरा रुग्णास्ततः कंटकैः संदष्टाः कृमिभिस्तनूपकरणच्छिद्रे ण हीनास्तथा

धार्या नैव शुभेप्सुभिश्चणकवद्रुद्रा क्षमप्यंततो रुद्रा क्षोमम लिंगमंगलमुमे सूक्ष्मं प्रशस्तं सदा  ४६

सर्वाश्रमाणां वर्णानां स्त्रीशूद्रा णां शिवाज्ञया

धार्याः सदैव रुद्रा क्षा यतीनां प्रणवेन हि  ४७

दिवा बिभ्रद्रा त्रिकृतै रात्रौ विभ्रद्दिवाकृतैः

प्रातर्मध्याह्नसायाह्ने मुच्यते सर्वपातकैः  ४८

ये त्रिपुण्ड्रधरा लोके जटाधारिण एव ये

ये रुद्रा क्षधरास्ते वै यमलोकं प्रयांति न  ४९

रुद्रा क्षमेकं शिरसा बिभर्ति तथा त्रिपुण्ड्रं च ललाटमध्ये

पंचाक्षरं ये हि जपंति मंत्रं पूज्या भवद्भिः खलु ते हि साधवः  ५०

यस्याण्गे नास्ति रुद्रा क्षस्त्रिपुण्ड्रं भालपट्टके

मुखे पंचाक्षरं नास्ति तमानय यमालयम्  ५१

ज्ञात्वा ज्ञात्वा तत्प्रभावं भस्मरुद्रा क्षधारिणः

ते पूज्याः सर्वदास्माकं नो नेतव्याः कदाचन  ५२

एवमाज्ञापयामास कालोपि निजकिण्करान्

तथेति मत्त्वा ते सर्वे तूष्णीमासन्सुविस्मिताः  ५३

अत एव महादेवि रुद्रा क्षोत्यघनाशनः

तद्धरो मत्प्रियः शुद्धोऽत्यघवानपि पार्वति  ५४

हस्ते बाहौ तथा मूर्ध्नि रुद्रा क्षं धारयेत्तु यः

अवध्यः सर्वभूतानां रुद्र रूपी चरेद्भुवि  ५५

सुरासुराणां सर्वेषां वंदनीयः सदा स वै

पूजनीयो हि दृष्टस्य पापहा च यथा शिवः  ५६

ध्यानज्ञानावमुक्तोपि रुद्रा क्षं धारयेत्तु यः

सर्वपापविनिर्मुक्तः स याति परमां गतिम्  ५७

रुद्रा क्षेण जपन्मन्त्रं पुण्यं कोटिगुणं भवेत्

दशकोटिगुणं पुण्यं धारणाल्लभते नरः  ५८

यावत्कालं हि जीवस्य शरीरस्थो भवेत्स वै

तावत्कालं स्वल्पमृत्युर्न तं देवि विबाधते  ५९

त्रिपुंड्रेण च संयुक्तं रुद्रा क्षाविलसांगकम्

मृत्युंजयं जपंतं च दृष्ट्वा रुद्र फलं लभेत्  ६०

पंचदेवप्रियश्चैव सर्वदेवप्रियस्तथा

सर्वमन्त्राञ्जपेद्भक्तो रुद्रा क्षमालया प्रिये  ६१

विष्ण्वादिदेवभक्ताश्च धारयेयुर्न संशयः

रुद्र भक्तो विशेषेण रुद्रा क्षान्धारयेत्सदा  ६२

रुद्रा क्षा विविधाः प्रोक्तास्तेषां भेदान्वदाम्यहम्

शृणु पार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान्  ६३

एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः

तस्य दर्शनमात्रेण ब्रह्महत्या व्यपोहति  ६४

यत्र संपूजितस्तत्र लक्ष्मीर्दूरतरा न हि

नश्यंत्युपद्र वाः सर्वे सर्वकामा भवंति हि  ६५

द्विवक्त्रो देवदेवेशस्सर्वकामफलप्रदः

विशेषतः स रुद्रा क्षो गोवधं नाशयेद्द्रुतम्  ६६

त्रिवक्त्रो यो हि रुद्रा क्षः साक्षात्साधनदस्सदा

तत्प्रभावाद्भवेयुर्वै विद्याः सर्वाः प्रतिष्ठिताः  ६७

चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति

दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः  ६८

पंचवक्त्रः स्वयं रुद्र ः! कालाग्निर्नामतः प्रभुः

सर्वमुक्तिप्रदश्चैव सर्वकामफलप्रदः  ६९

अगम्यागमनं पापमभक्ष्यस्य च भक्षणम्

इत्यादिसर्वपापानि पंचवक्त्रो व्यपोहति  ७०

षड्वक्त्रः कार्तिकेयस्तुधारणाद्दक्षिणे भुजे

ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः  ७१

सप्तवक्त्रो महेशानि ह्यनंगो नाम नामतः

धारणात्तस्य देवेशिदरिद्रो पीश्वरो भवेत्  ७२

रुद्रा क्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः

धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत्  ७३

भैरवो नववक्त्रश्च कपिलश्च मुनिः स्मृतः

दुर्गा वात दधिष्ठात्री नवरूपा महेश्वरी  ७४

तं धारयेद्वामहस्ते रुद्रा क्षं भक्तितत्परः

सर्वेश्वरो भवेन्नूनं मम तुल्यो न संशयः  ७५

दशवक्त्रो महेशानि स्वयं देवो जनार्दनः

धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात्  ७६

एकादशमुखो यस्तु रुद्रा क्षः परमेश्वरि

स रुद्रो  धारणात्तस्य सर्वत्र विजयी भवेत्  ७७

द्वादशास्यं तु रुद्रा क्षं धारयेत्केशदेशके

आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा  ७८

त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः

सर्वान्कामानवाप्नोति सौभाग्यं मंगलंलभेत्  ७९

चतुर्दशमुखो यो हि रुद्रा क्षः परमः शिवः

धारयेन्मूर्ध्नि तं भक्त्या सर्वपापं प्रणश्यति  ८०

इति रुद्रा क्षभेदा हि प्रोक्ता वै मुखभेदतः

तत्तन्मंत्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे  ८१

ॐ ह्रीं नमः १ ॐ नमः २ ॐ क्लीं नमः ३ ॐ ह्रीं नमः ४ ॐ ह्रीं नमः ५ ॐ ह्रीं हुं नमः ६ ॐ हुंनमः ७ ॐ हुं नमः ८ ॐ ह्रीं हुं नमः ९ ॐ ह्रीं नमः नमः १० ॐ ह्रीं हुं नमः ११ ॐ क्रौं क्षौं रौं नमः १२ ॐ ह्रीं नमः १३ ॐ नम १४

भक्तिश्रद्धा युतश्चैव सर्वकामार्थसिद्धये

रुद्रा क्षान्धारयेन्मंत्रैर्देवनालस्य वर्जितः  ८२

विना मंत्रेण हो धत्ते रुद्रा क्षं भुवि मानवः

स याति नरकं घोरं यावदिन्द्रा श्चतुर्दश  ८३

रुद्रा क्षमालिनं दृष्ट्वा भूतप्रेतपिशाचकाः

डाकिनीशाकिनी चैव ये चान्ये द्रो हकारकाः  ८४

कृत्रिमं चैव यत्किंचिदभिचारादिकं च यत्

तत्सर्वं दूरतो याति दृष्ट्वा शंकितविग्रहम्  ८५

रुद्रा क्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति

देवीगणपतिस्सूर्यः सुराश्चान्येपि पार्वति  ८६

एवं ज्ञात्वा तु माहात्म्यं रुद्रा क्षस्य महेश्वरि

सम्यग्धार्यास्समंत्राश्च भक्त्याधर्मविवृद्धये  ८७

इत्युक्तं गिरिजाग्रे हि शिवेन परमात्मना

भस्मरूद्रा क्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम्  ८८

शिवस्यातिप्रियौ ज्ञेयौ भस्मरुद्रा क्षधारिणौ

तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः  ८९

भस्मरुद्रा क्षधारी यः शिवभक्तस्स उच्यते

पंचाक्षरजपासक्तः परिपूर्णश्च सन्मुखे  ९०

विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया

पूजितोपि महादेवो नाभीष्टफलदायकः  ९१

तत्सर्वं च समाख्यातं यत्पृष्टं हि मुनीश्वर

भस्मरुद्रा क्षमाहात्म्यं सर्वकामसमृद्धिदम्  ९२

एतद्यः शृणुयान्नित्यं माहात्म्यपरमं शुभम्

रुद्रा क्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात्  ९३

इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः

लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत्  ९४

विश्वेश्वरसंहितेयं कथिता वो मुनीश्वराः

सर्वसिद्धिप्रदा नित्यं मुक्तिदा शिवशासनात्  ९५

इति श्रीशिवमहापुराणे प्रथमायां विश्वेश्वरसंहितायां साध्यसाधनखण्डे रुद्रा क्षमहात्म्यवर्णनोनाम पञ्चविंशोऽध्यायः  २५

इति श्रीशिवमहापुराणे प्रथमा विश्वेश्वरसंहिता समाप्ता

Credits

Source: Siva-Purana, Book 1, (Bombay: Venkateshvara Steam Press, 1920).

Data Entry and Proofing by Jun Takashima et al.

File conversion using Vedapad software by Ralph Bunker.

Formatted for Maharishi University of Management Vedic Literature Collection.

अथ शिवमहापुराणे द्वितीया रुद्र संहिता प्रारभ्यते

श्रीगणेशाय नमः

श्रीगौरीशंकराभ्यां नमः

विश्वोद्भवस्थितिलयादिषु हेतुमेकं

गौरीपतिं विदिततत्त्वमनन्तकीर्तिम्  ।

मायाश्रयम्विगतमायमचिंत्यरूपम्

बोधस्वरूपममलं हि शिवन्नमामि  १

वन्दे शिवन्तम्प्रकृतेरनादिम्प्रशान्तमेकम्पुरुषोत्तमं हि

स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः  २

वन्देतरस्थं निजगूढरूपं शिवंस्वतस्स्रष्टुमिदम्विचष्टे

जगन्ति नित्यम्परितो भ्रमंति यत्सन्निधौ चुम्बकलोहवत्तम्  ३

व्यास उवाच

जगतः पितरं शम्भुञ्जगतो मातरं शिवाम्

तत्पुत्रञ्च गणाधीशन्नत्वैतद्वर्णयामहे  ४

एकदा मुनयस्सर्वे नैमिषारण्य वासिनः

पप्रच्छुर्वरया भक्त्या सूतन्ते शौनकादयः  ५

ऋषय ऊचुः

विश्वेश्वरसंहितायाः श्रुता सा सत्कथा शुभा

साध्यसाधनखंडा ख्यारम्याद्या भक्तवत्सला  ६

सूत सूत महाभाग चिरञ्जीव सुखीभव

यच्छ्रावयसि नस्तात शांकरीं परमां कथाम्  ७

पिबन्तस्त्वन्मुखाम्भोजच्युतं ज्ञानामृतम्वयम्

अवितृप्ताः पुनः किंचित्प्रष्टुमिच्छामहेऽनघ  ८

व्यासप्रसादात्सर्वज्ञो प्राप्तोऽसि कृतकृत्यताम्

नाज्ञातम्विद्यते किंचिद्भूतं भव्यं भवच्च यत्  ९

गुरोर्व्यासस्य सद्भक्त्या समासाद्य कृपां पराम्

सर्वं ज्ञातं विशेषेण सर्वं सार्थं कृतं जनुः  १०

इदानीं कथय प्राज्ञ शिवरूपमनुत्तमम्

दिव्यानि वै चरित्राणि शिवयोरप्यशेषतः  ११

अगुणोगुणतां याति कथं लोके महेश्वरः

शिवतत्त्वं वयं सर्वे न जानीमो विचारतः  १२

सृष्टेः पूर्वं कथं शंभुस्स्वरूपेणावतिष्ठते

सृष्टिमध्ये स हि कथं क्रीडन्संवर्त्तते प्रभुः  १३

तदन्ते च कथन्देवस्स तिष्ठति महेश्वरः

कथम्प्रसन्नतां याति शंकरो लोकशंकरः  १४

स प्रसन्नोमहेशानः किं प्रयच्छति सत्फलम्

स्वभक्तेभ्यः परेभ्यश्च तत्सर्वं कथयस्व नः  १५

सद्यः प्रसन्नो भगवान्भवतीत्यनुशुश्रुम

भक्तप्रयासं स महान्न पश्यति दयापरः  १६

ब्रह्मा विष्णुर्महेशश्च त्रयो देवाश्शिवांगजाः

महेशस्तत्र पूर्णांशस्स्वयमेव शिवोऽपरः  १७

तस्याविर्भावमाख्याहि चरितानि विशेषतः

उमाविर्भावमाख्याहि तद्विवाहं तथा प्रभो  १८

तद्गार्हस्थ्यं विशेषेण तथालीलाः परा अपि

एतत्सर्वं तदन्यच्च कथनीयं त्वयाऽनघ  १९

व्यास उवाच

इति पृष्टस्तदा तैस्तु सूतो हर्षसमन्वितः

स्मृत्वा शंभुपदां भोजम्प्रत्युवाच मुनीश्वरान्  २०

सूत उवाच

सम्यक्पृष्टं भवद्भिश्च धन्या यूयं मुनीश्वराः

सदाशिवकथायां वो यज्जाता नैष्ठिकी मतिः  २१

सदाशिवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि

वक्तारं पृच्छकं श्रोतॄञ्जाह्नवीसलिलं यथा  २२

शंभोर्गुणानुवादात्कोविरज्येत पुमान्द्विजाः

विना पशुघ्नं त्रिविधजनानन्दकरात्सदा  २३

गीयमानो वितृष्णैश्च भवरोगौषधोऽपि हि

मनःश्रोत्राभिरामश्च यत्तस्सर्वार्थदस्स वै  २४

कथयामि यथाबुद्धि भवत्प्रश्नानुसारतः

शिवलीलां प्रयत्नेन द्विजास्तां शृणुतादरात्  २५

भवद्भिः पृच्छ्यते यद्वत्तत्तथा नारदेन वै

पृष्टं पित्रे प्रेरितेन हरिणा शिवरूपिणा  २६

ब्रह्मा श्रुत्वा सुतवचश्शिवभक्तः प्रसन्नधीः

जगौ शिवयशः प्रीत्या हर्षयन्मुनिसत्तमम्  २७

व्यास

सूतोक्तमिति तद्वाक्यमाकर्ण्य द्विजसत्तमाः

पप्रच्छुस्तत्सुसंवादं कुतूहलसमन्विताः  २८

ऋषय ऊचुः

सूत सूत महाभाग शैवोत्तम महामते

श्रुत्वा तव वचो रम्यं चेतो नस्सकुतूहलम्  २९

कदा बभूव सुखकृद्विधिनारदयोर्महान्

संवादो यत्र गिरिशसुलीला भवमोचिनी  ३०

विधिनारदसंवादपूर्वकं शांकरं यशः

ब्रूहि नस्तात तत्प्रीत्या तत्तत्प्रश्नानुसारतः  ३१

इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम्

सूतः प्रोवाच सुप्रीतस्तत्संवादानुसारतः  ३२

इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखंडे सृष्ट्युपाख्याने मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः  १

सूत उवाच

एवस्मिन्समये विप्रा नारदो मुनिसत्तमः

ब्रह्मपुत्रो विनीतात्मा तपोर्थंमन आदधे  १

हिमशैलगुहा काचिदेका परमशोभना

यत्समी पेसुरनदी सदा वहति वेगतः  २

तत्राश्रमो महादिव्यो नानाशोभासमन्वितः

तपोर्थं स ययौ तत्र नारदो दिव्यदर्शनः  ३

तां दृष्ट्वा मुनिशार्दूलस्तेपे स सुचिरं तपः

बध्वासनं दृढं मौनी प्राणानायम्य शुद्धधीः  ४

चक्रे मुनिस्समाधिं तमहम्ब्रह्मेति यत्र ह

विज्ञानं भवति ब्रह्मसाक्षात्कारकरं द्विजाः  ५

इत्थं तपति तस्मिन्वै नारदे मुनिसत्तमे

चकंपेऽथ शुनासीरो मनस्संतापविह्वलः  ६

मनसीति विचिंत्यासौ मुनिर्मे राज्यमिच्छति

तद्विघ्नकरणार्थं हि हरिर्यत्नमियेष सः  ७

सस्मार स्मरं शक्रश्चेतसा देवनायकः

आजगाम द्रुतं कामस्समधीर्महिषीसुतः  ८

अथागतं स्मरं दृष्ट्वा संबोध्य सुरराट् प्रभुः

उवाच तं प्रपश्याशु स्वार्थे कुटिलशेमुषिः  ९

इन्द्र  उवाच

मित्रवर्य्य महावीर सर्वदा हितकारक

शृणु प्रीत्या वचो मे त्वं कुरु साहाय्यमात्मना  १०

त्वद्बलान्मे बहूनाञ्च तपोगर्वो विनाशितः

मद्रा ज्यस्थिरता मित्र त्वदनुग्रहतस्सदा  ११

हिमशैलगुहायां हि मुनिस्तपति नारदः

मनसोद्दिश्य विश्वेशं महासंयमवान्दृढः  १२

याचेन्न विधितो राज्यं स ममेति विशंकितः

अद्यैव गच्छ तत्र त्वं तत्तपोविघ्नमाचर  १३

इत्याज्ञप्तो महेन्द्रे ण स कामस्समधु प्रियः

जगाम तत्स्थलं गर्वादुपायं स्वञ्चकार ह  १४

रचयामास तत्राशु स्वकलास्सकला अपि

वसंतोपि स्वप्रभावं चकार विविधं मदात्  १५

न बभूव मुनेश्चेतो विकृतं मुनिसत्तमाः

भ्रष्टो बभूव तद्गर्वो महेशानुग्रहेण ह  १६

शृणुतादरतस्तत्र कारणं शौनकादयः

ईश्वरानुग्रहेणात्र न प्रभावः स्मरस्य हि  १७

अत्रैव शम्भुनाऽकारि सुतपश्च स्मरारिणा

अत्रैव दग्धस्ते नाशु कामो मुनितपोपहः  १८

कामजीवनहेतोर्हि रत्या संप्रार्थितैस्सुरैः

सम्प्रार्थित उवाचेदं शंकरो लोकशंकरः  १९

कंचित्समयमासाद्य जीविष्यति सुराः स्मरः

परंत्विह स्मरोपायश्चरिष्यति न कश्चन  २०

इह यावद्दृश्यते भूर्जनैः स्थित्वाऽमरास्सदा

कामबाणप्रभावोत्र न च लिष्यत्यसंशयम्  २१

इति शंभूक्तितः कामो मिथ्यात्मगतिकस्तदा

नारदे स जगामाशु दिवमिन्द्र समीपतः  २२

आचख्यौ सर्ववृत्तांतं प्रभावं च मुनेः स्मरः

तदाज्ञया ययौ स्थानं स्वकीयं स मधुप्रियः  २३

विस्मितोभूत्सुराधीशः प्रशशंसाथ नारदम्

तद्वृत्तां तानभिज्ञो हि मोहितश्शिवमायया  २४

दुर्ज्ञेया शांभवी माया सर्वेषां प्राणिनामिह

भक्तं विनार्पितात्मानं तया संमोह्यते जगत्  २५

नारदोऽपि चिरं तस्थौ तत्रेशानुग्रहेण ह

पूर्णं मत्वा तपस्तत्स्वं विरराम ततो मुनिः  २६

कामाज्जयं निजं मत्वा गर्वितोऽभून्मुनीश्वरः

वृथैव विगतज्ञानश्शिवमायाविमोहितः  २७

धन्या धन्या महामाया शांभवी मुनिसत्तमाः

तद्गतिं न हि पश्यंति विष्णुब्रह्मादयोपि हि  २८

तया संमोहितोतीव नारदो मुनिसत्तमः

कैलासं प्रययौ शीघ्रं स्ववृत्तं गदितुंमदी  २९

रुद्रं  नत्वाब्रवीत्सर्वं स्ववृत्तङ्गर्ववान्मुनिः

मत्वात्मानं महात्मानं स्वप्रभुञ्चस्मरञ्जयम्  ३०

तच्छ्रुत्वाशंकरः प्राह नारदं भक्तवत्सलः

स्वमायामोहितं हेत्वनभिज्ञं भ्रष्टचेतसम्  ३१

रुद्र  उवाच

हे तातनारद प्राज्ञधन्यस्त्वं शृणु मद्वचः

वाच्यमेवं नकुत्रापि हरेरग्रेविशेषतः  ३२

पृच्छमानोऽपि न ब्रूयाः स्ववृत्तं मे यदुक्तवान्

गोप्यंगोप्यं सर्वथाहि नैववाच्यं कदाचन  ३३

शास्म्यहं त्वांविशेषेण मम प्रियतमोभवान्

विष्णुभक्तो यतस्त्वं हि तद्भक्तो तीवमेऽनुगः  ३४

शास्तिस्मेत्थञ्च बहुशो रुद्र स्सूतिकरः प्रभुः

नारदोनहितं मेनेशिवमायाविमोहितः  ३५

प्रबलाभाविनी कर्मगतिर्ज्ञेयाविचक्षणैः

ननिवार्याजनैः कैश्चिदपीच्छासैवशांकरी  ३६

ततस्स मुनिवर्यो हि ब्रह्मलोकं जगामह

विधिं नत्वाऽब्रवीत्कामजयं स्वस्य तपोबलात्  ३७

तदाकर्ण्य विधिस्सोथ स्मृत्वा शम्भुपदाम्बुजम्

ज्ञात्वा सर्वं कारणं तन्निषिषेध सुतं तदा  ३८

मेने हितन्न विध्युक्तं नारदो ज्ञानिसत्तमः

शिवमायामो हि तश्च रूढचित्तमदांकुरः  ३९

शिवेच्छा यादृशी लोके भवत्येव हि सा तदा

तदधीनं जगत्सर्वं वचस्तंत्यांत स्थितं यतः  ४०

नारदोऽथ ययौ शीघ्रं विष्णुलोकं विनष्टधीः

मदांकुरमना वृत्तं गदितुं स्वं तदग्रतः  ४१

आगच्छंतं मुनिन्दृष्ट्वा नारदं विष्णुरादरात्

उत्थित्वाग्रे गतोऽरं तं शिश्लेषज्ञातहेतुकः  ४२

स्वासने समुपावेश्य स्मृत्वा शिवपदाम्बुजम्

हरिः प्राह वचस्तथ्यं नारदं मदनाशनम्  ४३

विष्णुरुवाच

कुत आगम्यते तात किमर्थमिह चागतः

धन्यस्त्वं मुनिशार्दूल तीर्थोऽहं तु तवागमात्  ४४

विष्णुवाक्यमिति श्रुत्वा नारदो गर्वितो मुनिः

स्ववृत्तं सर्वमाचष्ट समदं मदमोहितः  ४५

श्रुत्वा मुनिवचो विष्णुस्स मदं कारणं ततः

ज्ञातवानखिलं स्मृत्वा शिवपादाम्बुजं हृदि  ४६

तुष्टाव गिरिशं भक्त्या शिवात्मा शैवराड् हरिः

सांजलिर्विसुधीर्नम्रमस्तकः परमेश्वरम्  ४७

विष्णुरुवाच

देवदेव महादेव प्रसीद परमेश्वर

धन्यस्त्वं शिव धन्या ते माया सर्व विमोहिनी  ४८

इत्यादि स स्तुतिं कृत्वा शिवस्य परमात्मनः

निमील्य नयने ध्यात्वा विरराम पदाम्बुजम्  ४९

यत्कर्तव्यं शंकरस्य स ज्ञात्वा विश्वपालकः

शिवशासनतः प्राह हृदाथ मुनिसत्तमम्  ५०

विष्णुरुवाच

धन्यस्त्वं मुनिशार्दूल तपोनिधिरुदारधीः

भक्तित्रिकं न यस्यास्ति काममोहादयो मुने  ५१

विकारास्तस्य सद्यो वै भवंत्यखिलदुःखदाः

नैष्ठिको ब्रह्मचारी त्वं ज्ञानवैराग्यवान्सदा  ५२

कथं कामविकारीस्या जन्मनाविकृतस्सुधीः

इत्याद्युक्तं वचो भूरि श्रुत्वा स मुनिसत्तमः  ५३

विजहास हृदा नत्वा प्रत्युवाच वचो हरिम्

नारद उवाच

किंप्रभावः स्मरः स्वामिन्कृपा यद्यस्ति ते मयि  ५४

इत्युक्त्वा हरिमानम्य ययौ यादृच्छिको मुनिः  ५५

इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं नाम द्वितीयोऽध्यायः  २

ऋषय ऊचुः

सूतसूत महाभाग व्यासशिष्य नमोऽस्तु ते

अद्भुतेयं कथा तात वर्णिता कृपया हि नः  १

मुनौ गते हरिस्तात किं चकार ततः परम्

नारदोऽपि गतः कुत्र तन्मे व्याख्यातुमर्हसि  २

व्यास उवाच

इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः

प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः  ३

सूत उवाच

मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे

शिवेच्छया चकाराशु माया मायाविशारदः  ४

मुनिमार्गस्य मध्ये तु विरेचे नगरं महत्

शतयोजनविस्तारमद्भुतं सुमनो हरम्  ५

स्वलोकादधिकं रम्यं नानावस्तु विराजितम्

नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम्  ६

तत्र राजा शीलनिधिर्नामैश्वर्यसमन्वितः

सुतास्वयम्वरोद्युक्तो महोत्सवसमन्वितः  ७

चतुर्दिग्भ्यः समायातैस्संयुतं नृपनन्दनैः

नानावेषैस्सुशोभैश्च तत्कन्यावरणोत्सुकैः  ८

एतादृशम्पुरं दृष्ट्वा मोहम्प्राप्तोऽथ नारदः

कौतुकी तन्नृपद्वारं जगाम मदनैधितः  ९

आगतं मुनिवर्यं तं दृष्ट्वा शीलनिधिर्नृपः

उपवेश्यार्चयांचक्रे रत्नसिंहासने वरे  १०

अथ राजा स्वतनयां नामतश्श्रीमतीं वराम्

समानीय नारदस्य पादयोस्समपातयत्  ११

तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः

केयं राजन्महाभागा कन्या सुरसुतोपमा  १२

तस्य तद्वचनं श्रुत्वा राजा प्राह कृतांजलिः

दुहितेयं मम मुने श्रीमती नाम नामतः  १३

प्रदानसमयं प्राप्ता वरमन्वेषती शुभम्

सा स्वयंवरसंप्राप्ता सर्वलक्षणलक्षिता  १४

अस्या भाग्यं वद मुने सर्वं जातकमादरात्

कीदृशं तनयेयं मे वरमाप्स्यति तद्वद  १५

इत्युक्तो मुनिशार्दूलस्तामिच्छुः कामविह्वलः

समाभाष्य स राजानं नारदो वाक्यमब्रवीत्  १६

सुतेयं तव भूपालसर्वलक्षणलक्षिता

महाभाग्यवती धन्यालक्ष्मीरिव गुणालया  १७

सर्वेश्वरोऽजितो वीरो गिरिशसदृशो विभुः

अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः  १८

इत्युक्त्वा नृपमामंत्र्! य ययौ यादृच्छिको मुनिः

बभूव कामविवशश्शिवमाया विमोहितः  १९

चित्ते विचिन्त्यसमुनिराप्नुयांकथमेनकाम्

स्वयंवरे नृपालानामेकं मांवृणुयात्कथम्  २०

सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा

तद्दृष्ट्वैव प्रसन्ना सा स्ववशानात्र संशयः  २१

विधायेत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः

विष्णुलोकं जगामाशु नारदः स्मर विह्वलः  २२

प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह

रहसित्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः  २३

तथेत्युक्ते तथाभूते शिवेच्छाकार्यकर्तहि

ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम्  २४

नारद उवाच

त्वदीयो भूपतिः शीलनिधिस्स वृषतत्परः

तस्य कन्या विशालाक्षी श्रीमतीवरवर्णिनी  २५

जगन्मोहिन्यभिख्याता त्रैलोक्येप्यति सुन्दरी

परिणेतुमहं विष्णोतामिच्छाम्यद्यमाचिरम्  २६

स्वयंवरं चकरासौ भूपतिस्तनयेच्छया

चतुर्दिग्भ्यसमायाता राजपुत्रास्सहस्रशः  २७

यदि दास्यसि रूपं मे तदा तां प्राप्नुयां ध्रुवम्

त्वद्रू पं सा विना कंठे जयमालां न धास्यति  २८

स्वरूपं देहि मे नाथ सेवकोऽहं प्रियस्तव

वृणुयान्मां यथा सा वै श्रीमती क्षितिपात्मजा  २९

सूत उवाच

वचः श्रुत्वा मुनेरित्थं विहस्य मधुसूदनः

शांकरीं प्रभुतां बुद्ध्वा प्रत्युवाच दयापरः  ३०

विष्णुरुवाच

स्वेष्टदेशं मुने गच्छ करिष्यामि हितं तव

भिषग्वरो यथार्त्तस्य यतः प्रियतरोऽसिमे  ३१

इत्युक्त्वा मुनये तस्मै ददौ विष्णुर्मुखं हरे

स्वरूपमनुगृह्यास्य तिरोधानं जगाम सः  ३२

एवमुक्तो मुनिर्हृष्टः स्वरूपं प्राप्य वै हरेः

मेने कृतार्थमात्मानं तद्यत्नं न बुबोध सः  ३३

अथ तत्र गतः शीघ्रन्नारदो मुनिसत्तमः

चक्रे स्वयम्वरं यत्र राजपुत्रैस्समाकुलम्  ३४

स्वयम्वरसभा दिव्या राजपुत्रसमावृता

शुशुभेऽतीव विप्रेन्द्रा  यथा शक्रसभापरा  ३५

तस्यां नृपसभायां वै नारदः समुपाविशत्

स्थित्वा तत्र विचिन्त्येति प्रीतियुक्तेन चेतसा  ३६

मां वरिष्यति नान्यं सा विष्णुरूपधरन्ध्रुवम्

आननस्य कुरूपत्वं न वेद मुनिसत्तमः  ३७

पूर्वरूपं मुनिं सर्वे ददृशुस्तत्र मानवाः

तद्भेदं बुबुधुस्ते न राजपुत्रादयो द्विजाः  ३८

तत्र रुद्र गणौ द्वौ तद्र क्षणार्थं समागतौ

विप्ररूपधरौ गूढौ तद्भेदं जज्ञतुः परम्  ३९

मूढं मत्वा मुनिं तौ तन्निकटं जग्मतुर्गणौ

कुरुतस्तत्प्रहासं वै भाषमाणौ परस्परम्  ४०

पश्य नारद रूपं हि विष्णोरिव महोत्तमम्

मुखं तु वानरस्येव विकटं च भयंकरम्  ४१

इच्छत्ययं नृपसुतां वृथैव स्मरमोहितः

इत्युक्त्वा सच्छलं वाक्यमुपहासं प्रचक्रतुः  ४२

न शुश्राव यथार्थं तु तद्वाक्यं स्मरविह्वलः

पर्यैक्षच्छ्रीमतीं तां वै तल्लिप्सुर्मोहितो मुनिः  ४३

एतस्मिन्नंतरे भूपकन्या चांतः पुरात्तु सा

स्त्रीभिस्समावृता तत्राजगाम वरवर्णिनी  ४४

मालां हिरण्मयीं रम्यामादाय शुभलक्षणा

तत्र स्वयम्वरे रेजे स्थिता मध्ये रमेव सा  ४५

बभ्राम सा सभां सर्वां मालामादाय सुव्रता

वरमन्वेषती तत्र स्वात्माभीष्टं नृपात्मजा  ४६

वानरास्यं विष्णुतनुं मुनिं दृष्ट्वा चुकोप सा

दृष्टिं निवार्य च ततः प्रस्थिता प्रीतमानसा  ४७

न दृष्ट्वा स्ववरं तत्र त्रस्तासीन्मनसेप्सितम्

अंतस्सभास्थिता कस्मिन्नर्पयामास न स्रजम्  ४८

एतस्मिन्नंतरे विष्णुराजगाम नृपाकृतिः

न दृष्टः कैश्चिदपरैः केवलं सा ददर्श हि  ४९

अथ सा तं समालोक्य प्रसन्नवदनाम्बुजा

अर्पयामास तत्कण्ठे तां मालां वरवर्णिनी  ५०

तामादाय ततो विष्णू राजरूपधरः प्रभुः

अंतर्धानमगात्सद्यस्स्वस्थानं प्रययौ किल  ५१

सर्वे राजकुमाराश्च निराशाः श्रीमतीम्प्रति

मुनिस्तु विह्वलोऽतीव बभूव मदनातुरः  ५२

तदा तावूचतुस्सद्यो नारदं स्वरविह्वलम्

विप्ररूपधरौ रुद्र गणौ ज्ञानविशारदौ  ५३

गणावूचतुः

हे नारदमुनेत्वं हि वृथामदनमोहितः

तल्लिप्सुस्स्वमुखं पश्य वानरस्येव गर्हितम्  ५४

सूत उवाच

इत्याकर्ण्यतयोर्वाक्यं नारदो विस्मितोऽभवत्

मुखं ददर्श मुकुरे शिवमायाविमोहितः  ५५

स्वमुखं वानरस्येव दृष्ट्वा चुक्रोधसत्वरम्

शापन्ददौ तयोस्तत्र गणयोर्मोहितो मुनिः  ५६

युवां ममोपहासं वै चक्रतुर्ब्राह्मणस्य हि

भवेतां राक्षसौ विप्रवीर्यजौ वै तदाकृती  ५७

श्रुत्वा हरगणावित्थं स्वशापं ज्ञानिसत्तमौ

न किंचिदूचतुस्तौ हि मुनिमाज्ञाय मोहितम्  ५८

स्वस्थानं जग्मतुर्विप्रा उदासीनौ शिवस्तुतिम्

चक्रतुर्मन्यमानौ वै शिवेच्छां सकलां सदा  ५९

इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदमोहवर्णनं नाम तृतीयोऽध्यायः  ३

ऋषय ऊचुः

सूत सूत महाप्राज्ञ वर्णिता ह्यद्भुता कथा

धन्या तु शांभवी माया तदधीनं चराचरम्  १

गतयोर्गणयोश्शंभोस्स्वयमात्मेच्छया विभोः

किं चकार मुनिः क्रुद्धो नारदः स्मरविह्वलः  २

सूत उवाच

विमोहितो मुनिर्दत्त्वा तयोश्शापं यथोचितम्

जले मुखं निरीक्ष्याथ स्वरूपं गिरिशेच्छया  ३

शिवेच्छया न प्रवुद्धः स्मृत्वा हरिकृतच्छलम्

क्रोधं दुर्विषहं कृत्वा विष्णुलोकं जगाम ह  ४

उवाच वचनं क्रुद्धस्समिद्ध इव पावकः

दुरुक्तिगर्भितं व्यङ्गं नष्टज्ञानश्शिवेच्छया  ५

नारद उवाच

हे हरे त्वं महादुष्टः कपटी विश्वमोहनः

परोत्साहं न सहसे मायावीमलिनाशयः  ६

मोहिनीरूपमादाय कपटं कृतवान्पुरा

असुरेभ्योऽपाययस्त्वं वारुणीममृतं न हि  ७

चेत्पिबेन्न विषं रुद्रो दयां कृत्वा महेश्वरः

भवेन्नष्टाऽखिला माया तव व्याजरते हरे  ८

गतिस्सकपटा तेऽतिप्रिया विष्णोविशेषतः

साधुस्वभावो नभवान्स्वतंत्रः प्रभुणा कृतः  ९

कृतं समुचितन्नैव शिवेन परमात्मना

तत्प्रभावबलं ध्यात्वा स्वतंत्रकृतिकारकः  १०

त्वद्गतिं सुसमाज्ञाय पश्चात्तापमवाप सः

विप्रं सर्वोपरिप्राह स्वोक्तवेदप्रमाणकृत्  ११

तज्ज्ञात्वाहं हरे त्वाद्य शिक्षयिष्यामि तद्बलात्

यथा न कुर्याः कुत्रापीदृशं कर्म कदाचन  १२

अद्यापि निर्भयस्त्वं हि संगं नापस्तरस्विना

इदानीं लप्स्यसे विष्णो फलं स्वकृतकर्मणः  १३

इत्थमुक्त्वा हरिं सोथ मुनिर्माया विमोहितः

शशापक्रोधनिर्विणो ब्रह्मतेजः प्रदर्शयन्  १४

स्त्रीकृते व्याकुलं विष्णो मामकार्षीर्विमोहकः

अन्वकार्षीस्स्वरूपेण येन कापट्यकार्यकृत्  १५

तद्रू पेण मनुष्यस्त्वं भव तद्दुःखभुग्घरे

यन्मुखं कृतवान्मेत्वं ते भवंतु सहायिनः  १६

त्वं स्त्रीवियोगजं दुःखं लभस्व परदुःखदः

मनुष्यगतिकः प्रायो भवाज्ञानविमोहितः  १७

इति शप्त्वा हरिं मोहान्नारदोऽज्ञानमोहितः

विष्णुर्जग्राह तं शापं प्रशंसञ्शांभवीमजाम्  १८

अथ शंभुर्महालीलो निश्चकर्ष विमोहिनीं

स्वमायां मोहितो ज्ञानी नारदोप्यभवद्यया  १९

अंतर्हितायां मायायां पूर्ववन्मतिमानभूत्

नारदो विस्मितमनाः प्राप्तबोधो निराकुलः  २०

पश्चात्तापमवाप्याति निनिन्द स्वं मुहुर्मुहुः

प्रशशंस तदा मायां शांभवीं ज्ञानिमोहिनीम्  २१

अथ ज्ञात्वा मुनिस्सर्वं मायाविभ्रममात्मनः

अपतत्पादयोर्विष्णोर्नारदो वैष्णवोत्तमः  २२

हर्य्युपस्थापितः प्राह वचनं नष्टदुर्मतिः

मया दुरक्तयः प्रोक्ता मोहितेन कुबुद्धिना  २३

दत्तश्शापोऽपि तेनाथ वितथं कुरु तं प्रभो

महत्पापमकार्षं हि यास्यामि निरयं ध्रुवम्  २४

कमुपायं हरे कुर्यां दासोऽहं ते तमादिश

येन पापकुलं नश्येन्निरयो न भवेन्मम  २५

इत्युक्त्वा स पुनर्विष्णोः पादयोर्मुनिसत्तमः

पपात सुमतिर्भक्त्या पश्चात्तापमुपागतः  २६

अथ विष्णुस्तमुत्थाप्य बभाषे सूनृतं वचः

विष्णुरुवाच

न खेदं कुरु मे भक्त वरस्त्वं नात्र संशयः  २७

शृणु तात प्रवक्ष्यामि सुहितं तव निश्चयात्

निरयस्ते न भविता शिवश्शं ते विधास्यति  २८

यदकार्षीश्शिववचो वितथं मदमोहितः

स दत्तवानीदृशं ते फलं कर्म फलप्रदः  २९

शिवेच्छाऽखिलं जातं कुर्वित्थं निश्चितां मतिम्

गर्वापहर्ता स स्वामी शंकरः परमेश्वरः  ३०

परं ब्रह्म परात्मा स सच्चिदानंदबोधनः

निर्गुणो निर्विकारो च रजस्सत्वतमः पर  ३१

स एवमादाय मायां स्वां त्रिधा भवति रूपतः

ब्रह्मविष्णुमहेशात्मानिर्गुणोऽनिर्गुणोऽपि सः  ३२

निर्गुणत्वे शिवाह्वो हि परमात्मा महेश्वरः

परं ब्रह्माव्ययोऽनंतो महादेवेति गीयते  ३३

तत्सेवया विधिस्स्रष्टा पालको जगतामहम्

स्वयं सर्वस्य संहारी रुद्र रूपेण सर्वदा  ३४

साक्षी शिवस्वरूपेण मायाभिन्नस्स निर्गुणः

स्वेच्छाचारी संविहारी भक्तानुग्रहकारकः  ३५

शृणु त्वं नारद मुने सदुपायं सुखप्रदम्

सर्वपापापहर्त्तारं भुक्तिमुक्तिप्रदं सदा  ३६

त्युक्त्वा स्त्वसंशयं सर्वं शंकरसद्यशः

शतनामशिवस्तोत्रं सदानन्यमतिर्जप  ३७

यज्जपित्वा द्रुतं सर्वं तव पापं विनश्यति

इत्युक्त्वा नारदं विष्णुः पुनः प्राह दयान्वितः  ३८

मुने न कुरु शोकं त्वं त्वया किंचित्कृतं नहि

स्वेच्छया कृतवान्शंभुरिदं सर्वं न संशयः  ३९

अहार्षित्त्वन्मतिं दिव्यां काम क्लेशमदात्स ते

त्वन्मुखाद्दापयांचक्रे शापं मे स महेश्वरः  ४०

इत्थं स्वचरितं लोके प्रकटीकृतवान् स्वयम्

मृत्युंजयः कालकालो भक्तोद्धारपरायणः  ४१

न मे शिवसमानोस्ति प्रियः स्वामी सुखप्रदः

सर्वशक्तिप्रदो मेऽस्ति स एव परमेश्वरः  ४२

तस्योपास्यां कुरु मुने तमेव सततं भज

तद्यशः शृणु गाय त्वं कुरु नित्यं तदर्चनम्  ४३

कायेन मनसा वाचा यश्शंकरमुपैति भो

स पण्डित इति ज्ञेयस्स जीवन्मुक्ते उच्यते  ४४

शिवेति नामदावाग्नेर्महापातकपर्वताः

भस्मीभवन्त्यनायासात्सत्यं सत्यं न संशयः  ४५

पापमूलानि दुःखानि विविधान्यपि तान्यतः

शिवार्चनैकनश्यानि नान्य नश्यानि सर्वथा  ४६

स वैदिकस्स पुण्यात्मा स धन्यस्स बुधो मुने

यस्सदा कायवाक्चित्तैश्शरणं याति शंकरम्  ४७

भवंति विविधा धर्मा येषां सद्यः फलोन्मुखाः

तेषां भवति विश्वासस्त्रिपुरांतकपूजने  ४८

पातकानि विनश्यंति यावंति शिवपूजया

भुवि तावंति पापानि न संत्येव महामुने  ४९

ब्रह्महत्यादिपापानां राशयोप्यमिता मुने

शिवस्मृत्या विनश्यंति सत्यं सत्यं वदाम्यहम्  ५०

शिवनामतरीं प्राप्य संसाराब्धिं तरंति ते

संसारमूलपापानि तस्य नश्यंत्यसंशयम्  ५१

संसारमूलभूतनां पातकानां महामुने

शिवनामकुठारेण विनाशो जायते ध्रुवम्  ५२

शिवनामामृतं पेयं पापदावानलार्दितैः

पापदावाग्नितप्तानां शांतिस्तेन विना न हि  ५३

शिवेति नामपीयूषवर्षधारापरिप्लुतः

संसारदवमध्यपि न शोचति न संशयः  ५४

न भक्तिश्शंकरे पुंसां रागद्वेषरतात्मनाम्

तद्विधानां हि सहसा मुक्तिर्भवति सर्वथा  ५५

अनंतजन्मभिर्येन तपस्तप्तं भविष्यति

तस्यैवभक्तिर्भवति भवानी प्राणवल्लभे  ५६

जातापि शंकरे भक्तिरन्यसाधारणी वृथा

परंत्वव्यभिचारेणशिवभक्तिरपेक्षिता  ५७

यस्यासाधारणीशंभौ भक्तिरव्यभिचार्रिणी

तस्यैवमोक्षस्सुलभोनास्येतिन्य मतिर्मम  ५८

कृत्वाप्यनंतपापानियदि भक्तिर्महेश्वरे

सर्वपापविनिर्मुक्तो भवत्येव न संशयः  ५९

भवंति भस्मसाद्वृक्षादवदग्धा यथावने

तथा भवन्ति दग्धानि शांकराणामघान्यपि  ६०

योनित्यं भस्मपूतांगो शिवपूजोन्मुखो भवेत्

स तरत्येव संसारमपारमतिदारुणम्  ६१

ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून्

लिप्यते नरः पापैर्विरूपाक्षस्य सेवकः  ६२

विलोक्य वेदानखिलाञ्छिवस्यैवार्चनम्परम्

संसारनाशनोपाय इति पूर्वैर्विनिश्चितम्  ६३

अद्यप्रभृति यत्नेन सावधानो यथाविधि

साम्बं सदाशिवं भक्त्या भज नित्यं महेश्वरम्  ६४

आपादमस्तकं सम्यक् भस्मनोद्धूल्य सादरम्

सर्वश्रुतिश्रुतं शैवम्मंत्रञ्जप षडक्षरम्  ६५

सर्वाङ्गेषु प्रयत्नेन रुद्रा क्षाञ्छिववल्लभान्

धारयस्वातिसद्भक्त्या समन्त्रम्विधिपूर्वकम्  ६६

शृणु शैवीं कथां नित्यं वद शैवीं कथां सदा

पूजयस्वातियत्नेन शिवभक्तान्पुनः पुनः  ६७

अप्रमादेन सततं शिवैकशरणो भव

शिवार्चनेन सततमानन्दः प्राप्यते यतः  ६८

उरस्याधाय विशदे शिवस्य चरणाम्बुजौ

शिवतीर्थानि विचर प्रथमं मुनिसत्तम  ६९

पश्यन्माहात्म्यमतुलं शंकरस्य परात्मनः

गच्छानन्दवनं पश्चाच्छंभुप्रियतमं मुने  ७०

तत्र विश्वेश्वरं दृष्ट्वा पूजनं कुरु भक्तितः

नत्वा स्तुत्वा विशेषेण निर्विकल्पो भविष्यसि  ७१

ततश्च भवता नूनं विधेयं गमनं मुने

ब्रह्मलोके स्वकामार्थं शासनान्मम भक्तितः  ७२

नत्वा स्तुत्वा विशेषेण विधिं स्वजनकं मुने

प्रष्टव्यं शिवमाहात्म्यं बहुशः प्रीतचेतसा  ७३

स शैवप्रवरो ब्रह्मा माहात्म्यं शंकरस्य ते

श्रावयिष्यति सुप्रीत्या शतनामस्तवं च हि  ७४

अद्यतस्त्वं भव मुने शैवश्शिवपरायणः

मुक्तिं भागी विशेषेण शिवस्ते शंविधास्यति  ७५

इत्थं विष्णुर्मुनिं प्रीत्या ह्युपदिश्य प्रसन्नधीः

स्मृत्वा नुत्वा शिवं स्तुत्वा ततस्त्वंतरधीयत  ७६

इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदस्य विष्णूपदेशवर्णनो नाम चतुर्थोऽध्यायः  ४

सूत उवाच

अंतर्हिते हरौ विप्रा नारदो मुनिसत्तमः

विचचार महीं पश्यञ्छिवलिंगानि भक्तितः  १

पृथिव्या अटनं कृत्वा शिवरूपाण्यनेकशः

ददर्श प्रीतितो  विप्रा भुक्तिमुक्तिप्रदानि सः  २

अथ तं विचरंतं कौ नारदं दिव्यदर्शनम्

ज्ञात्वा शंभुगणौ तौ तु सुचित्तमुपजग्मतुः  ३

शिरसा सुप्रणम्याशु गणावूचतुरादरात्

गृहीत्वा चरणौ तस्य शापोद्धारेच्छया चतौ  ४

शिवगणावूचतुः

ब्रह्मपुत्र सुरर्षे हि शृणु प्रीत्यावयोर्वचः

तवापराधकर्तारावावां विप्रौ न वस्तुतः  ५

आवां हरगणौ विप्र तवागस्कारिणौ मुने

स्वयम्वरे राजपुत्र्! या मायामोहितचेतसा  ६

त्वया दत्तश्च नौ शापः परेशप्रेरितेन ह

ज्ञात्वा कुसमयं तत्र मौनमेव हि जीवनम्  ७

स्वकर्मणः फलं प्राप्तं कस्यापि न हि दूषणम्

सुप्रसन्नो भव विभो कुर्वनुग्रहमद्यनौ  ८

सूत उवाच

वच आकर्ण्य गणयोरिति भक्त्युक्तमादरात्

प्रत्युवाच मुनिः प्रीत्या पश्चात्तापमवाप्य सः  ९

नारद उवाच

शृणुतं मे महादेव गणौ मान्यतमौ सताम्

वचनं सुखदं मोहनिर्मुक्तं च यथार्थकम्  १०

पुरा मम मतिर्भ्रष्टा सीच्छिवेच्छावशात् ध्रुवम्

सर्वथा मोहमापन्नश्शप्तवान्वां कुशेमुषिः  ११

यदुक्तं तत्तथा भावि तथापि शृणुतां गणौ

शापोद्धारमहं वच्मि क्षमेथा मघमद्य मे  १२

वीर्यान्मुनिवरस्याप्त्वा राक्षसेशत्वमादिशम्

स्यातां विभवसंयुक्तौ बलिनो सुप्रतापिनौ  १३

सर्वब्रह्मांडराजानौ शिवभक्तौ जितेन्द्रि यौ

शिवापरतनोर्मृत्यु प्राप्य स्वं पदमाप्स्यथः  १४

सूत उवाच

इत्याकर्ण्य मुनेर्वाक्यं नारदस्य महात्मनः

उभौ हरगणौ प्रीतौ स्वं पदं जग्मतुर्मुदा  १५

नारदोऽपि परं प्रीतो ध्यायच्छिवमनन्यधीः

विचचार महीं पश्यञ्छिवतीर्थान्यभीक्ष्णशः  १६

काशीं प्राप्याथ स मुनिः सर्वोपरि विराजिताम्

शिवप्रियां शंभुसुखप्रदां शम्भुस्वरूपिणीम्  १७

दृष्ट्वा काशीं कृताऽर्थोभूत्काशीनाथं ददर्श ह

आनर्च परम प्रीत्या परमानन्दसंयुतः  १८

स मुदः सेव्यतां काशीं कृतार्थो मुनिसत्तमः

नमन्संवर्णयन्भक्त्या संस्मरन्प्रेमविह्वलः  १९

ब्रह्मलोकं जगामाथ शिवस्मरणसन्मतिः

शिवतत्त्वं विशेषेण ज्ञातुमिच्छुस्स नारदः  २०

नत्वा तत्र विधिं भक्त्या स्तुत्वा च विविधैस्तवैः

पप्रच्छ शिवत्तत्वं शिवसंभक्तमानसः  २१

नारद उवाच

ब्रह्मन्ब्रह्मस्वरूपज्ञ पितामह जगत्प्रभो

त्वत्प्रसादान्मया सर्वं विष्णोर्माहात्म्यमुत्तमम्  २२

भक्तिमार्गं ज्ञानमार्गं तपोमार्गं सुदुस्तरम्

दानमार्गञ्च तीर्थानां मार्गं च श्रुतवाहनम्  २३

न ज्ञातं शिवतत्त्वं च पूजाविधिमतः क्रमात्

चरित्रं विविधं तस्य निवेदय मम प्रभो  २४

निर्गुणोऽपि शिवस्तात सगुणश्शंकरः कथम्

शिवतत्त्वं न जानामि मोहितश्शिवमायया  २५

सृष्टेः पूर्वं कथं शंभुस्स्वरूपेण प्रतिष्ठितः

सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः  २६

तदन्ते च कथं देवस्स तिष्ठति महेश्वरः

कथं प्रसन्नतां याति शंकरो लोकशंकरः  २७

संतुष्टश्च स्वभक्तेभ्यः परेभ्यश्च महेश्वरः

किं फलं यच्छति विधे तत्सर्वं कथयस्व मे  २८

सद्यः प्रसन्नो भगवान्भवतीत्यनुसंश्रुतम्

भक्तप्रयासं स महान्न पश्यति दयापरः  २९

ब्रह्मा विष्णुर्महेशश्च त्रयो देवाश्शिवांशजाः

महेशस्तत्र पूर्णांशस्स्वयमेव शिवः परः  ३०

तस्याविर्भावमाख्याहि चरितानि विशेषतः

उमाविर्भावमाख्याहि तद्विवाहं तथा विभो  ३१

तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि

एतत्सर्वं तथान्यच्च कथनीयंत्वयानघ  ३२

तदुत्पत्तिं विवाहं च शिवायास्तुविशेषतः

प्रब्रूहि प्रे प्रजानाथ गुहजन्मतथैव च  ३३

बहुभ्यश्च श्रुतं पूर्वं न तृप्तोऽस्मिजगत्प्रभो

अतस्त्वांशरणं प्राप्तः कृपां कुरु ममो परि  ३४

इति श्रुत्वा वचस्तस्य नारदस्यांगजस्य हि

उवाच वचनं तत्र ब्रह्मालोकपितामहः  ३५

इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदप्रश्नवर्णनो नाम पञ्चमोऽध्यायः  ५

ब्रह्मोवाच

भो ब्रह्मन्साधु पृष्टोऽहंत्वया विबुधसत्तम

लोकोपकारिणा नित्यं लोकानां हितकाम्यया  १

यच्छ्रुत्वा सर्वलोकानां सर्वपापक्षयो भवेत्

तदहं ते प्रवक्ष्यामि शिवतत्त्वमनामयम्  २

शिवतत्त्वं मया नैव विष्णुनापि यथार्थतः

ज्ञातञ्च परमं रूपमद्भुतं च परेण न  ३

महाप्रलयकाले च नष्टे स्थावरजंगमे

आसीत्तमोमयं सर्वमनर्कग्रहतारकम्  ४

अचन्द्र मनहोरात्रमनग्न्यनिलभूजलम्

अप्रधानं वियच्छून्यमन्यतेजो विवर्जितम्  ५

अदृष्टत्वादिरहितं शब्दस्पर्शसमुज्झितम्

अव्यक्तगंधरूपं च रसत्यक्तमदिङ्मुखम्  ६

इत्थं सत्यं धतमसे सूचीभेद्ये निरंतरे

तत्सद्ब्रह्मेति यच्छ्रुत्वा सदेकं प्रतिपद्यते  ७

इतीदृशं यदा नासीद्यत्तत्सदसदात्मकम्

योगिनॐतर्हिताकाशे यत्पश्यंति निरंतरम्  ८

अमनोगोचरम्वाचां विषयन्न कदाचन

अनामरूपवर्णं च न च स्थूलं न यत्कृशम्  ९

अह्रस्वदीर्घमलघुगुरुत्वपरिवर्जितम्

न यत्रोपचयः कश्चित्तथा नापचयोऽपि च  १०

अभिधत्ते स चकितं यदस्तीति श्रुतिः पुनः

सत्यं ज्ञानमनंतं च परानंदम्परम्महः  ११

अप्रमेयमनाधारमविकारमनाकृति

निर्गुणं योगिगम्यञ्च सर्वव्याप्येककारकम्  १२

निर्विकल्पं निरारंभं निर्मायं निरुपद्र वम्

अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम्  १३

यस्येत्थं संविकल्पंते संज्ञासंज्ञोक्तितः स्म वै

कियता चैव कालेन द्वितीयेच्छाऽभवत्किल  १४

अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया

सर्वेश्वर्यगुणोपेता सर्वज्ञानमयी शुभा  १५

सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी

सर्वैकवंद्या सर्वाद्या सर्वदा सर्वसंस्कृतिः  १६

परिकल्येति तां मूर्तिमैश्वरीं शुद्धरूपिणीम्

अद्वितीयमनाद्यंतं सर्वाभासं चिदात्मकम्

अंतर्दधे पराख्यं यद्ब्रह्म सर्वगमव्ययम्  १७

अमूर्ते यत्पराख्यं वै तस्य मूर्तिस्सदाशिवः

अर्वाचीनाः पराचीना ईश्वरं तं जगुर्बुधाः  १८

शक्तिस्तदैकलेनापि स्वैरं विहरता तनुः

स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी  १९

प्रधानं प्रकृति तां च मायां गुणवतीं पराम्

बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम्  २०

सा शक्तिरम्बिका प्रोक्ता प्रकृतिस्सकलेश्वरी

त्रिदेवजननी नित्या मूलकारणमित्युत  २१

अस्या अष्टौ भुजाश्चासन्विचित्रवदना शुभा

राकाचन्द्र सहस्रस्य वदने भाश्च नित्यशः  २२

नानाभरणसंयुक्ता नानागतिसमन्विता

नानायुधधरा देवी फुल्लपंकजलोचना  २३

अचिंत्यतेजसा युक्ता सर्वयोनिस्समुद्यता

एकाकिनी यदा माया संयोगाच्चाप्यनेकिका  २४

परः पुमानीश्वरस्स शिवश्शंभुरनीश्वरः

शीर्षे मन्दाकिनीधारी भालचन्द्र स्त्रिलोचनः  २५

पंचवक्त्रः प्रसन्नात्मा दशबाहुस्त्रिशूलधृक्

कर्पूरगौरसुसितो भस्मोद्धूलितविग्रहः  २६

युगपच्च तया शक्त्या साकं कालस्वरूपिणा

शिवलोकाभिधं क्षेत्रं निर्मितं तेन ब्रह्मणा  २७

तदेव काशिकेत्येतत्प्रोच्यते क्षेत्रमुत्तमम्

परं निर्वाणसंख्यानं सर्वोपरि विराजितम्  २८

ताभ्यां च रमाणाभ्यां च तस्मिन्क्षेत्रे मनोरमे

परमानं दरूपाभ्यां परमानन्दरूपिणी  २९

मुने प्रलयकालेपि न तत्क्षेत्रं कदाचन

विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः  ३०

अस्यानन्दवनं नाम पुराकारि पिनाकिना

क्षेत्रस्यानंदहेतुत्वादविमुक्तमनंतरम्  ३१

अथानन्दवने तस्मिञ्च्छिवयो रममाणयोः

इच्छेत्यभूत्सुरर्षे हि सृज्यः कोप्यपरः किल  ३२

यस्मिन्यस्य महाभारमावां स्वस्वैरचारिणौ

निर्वाणधारणं कुर्वः केवलं काशिशायिनौ  ३३

सएव सर्वं कुरुतां स एव परिपातु च

स एव संवृणोत्वं ते मदनुग्रहतस्सदा  ३४

चेतस्समुद्र माकुंच्य चिंताकल्लोललोलितम्

सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम्  ३५

यस्य प्रसादात्तिष्ठावस्सुखमानंदकानने

परिक्षिप्तमनोवृत्तौ बहिश्चिंतातुरे सुखम्  ३६

संप्रधार्य्येति स विभुस्तया शक्त्या परेश्वरः

सव्ये व्यापारयांचक्रे दशमेंऽगेसुधासवम्  ३७

ततः पुमानाविरासीदेकस्त्रैलोक्यसुंदरः

शांतस्सत्त्वगुणोद्रि क्तोगांभीर्य्यामितसागरः  ३८

तथा च क्षमया युक्तोमुनेऽलब्धोपमोऽभवत्

इन्द्र नीलद्युतिः श्रीमान्पुण्डरीकोत्तमेक्षणः  ३९

सुवर्णकृतिभृच्छ्रेष्ठदुकूलयुगलावृतः

लसत्प्रचंडदोर्दण्डयुगलोह्यपरा जितः  ४०

ततस्सपुरुष श्शंभुं प्रणम्य परमेश्वरम्

नामानि कुरु मे स्वामिन्वद कर्म जगाविति  ४१

तच्छ्रुत्वा वचनम्प्राह शंकरः प्रहसन्प्रभुः

पुरुषं तं महेशात्तो वाचा मेघगभीरया  ४२

शिव उवाच

विष्ण्वितिव्यापकत्वात्ते नाम ख्यातं भविष्यति

बहून्यन्यानि नामानि भक्तसौख्यकराणि ह  ४३

तपः कुरु दृढो भूत्वा परमं कार्यसाधनम्

इत्युक्त्वा श्वासमार्गेण ददौ च निगमं ततः  ४४

ततोऽच्युतश्शिवं नत्वा चकार विपुलं तपः

अंतर्द्धानं गतश्शक्त्या सलोकः परमेश्वरः  ४५

दिव्यं द्वादश साहस्रं वर्षं तप्त्वापि चाच्युतः

न प्राप स्वाभिलषितं सर्वदं शंभुदर्शनम्  ४६

तत्तत्संशयमापन्नश्चिंतितं हृदि सादरम्

मयाद्य किं प्रकर्त्तव्यमिति विष्णुश्शिवं स्मरन्  ४७

एतस्मिन्नंतरे वाणी समुत्पन्ना शिवाच्छुभा

तपः पुनः प्रकर्त्तव्यं संशयस्यापनुत्तये  ४८

ततस्तेन च तच्छ्रुत्वा तपस्तप्त सुदारुणम्

बहुकालं तदा ब्रह्मध्यानमार्गपरेण हि  ४९

ततस्स पुरुषो विष्णुः प्रबुद्धोः ध्यानमार्गतः

सुप्रीतो विस्मयं प्राप्तः किं यत्तव महा इति  ५०

परिश्रमवतस्तस्य विष्णोः स्वाङ्गेभ्य एव च

जलधारा हि संयाता विविधाश्शिवमायया  ५१

अभिव्याप्तं च सकलं शून्यं यत्तन्महामुने

ब्रह्मरूपं जलमभूत्स्पर्शनात्पापनाशनम्  ५२

तदा श्रांतश्च पुरुषो विष्णुस्तस्मिञ्जले स्वयम्

सुष्वाप परम प्रीतो बहुकालं विमोहितः  ५३

नारायणेति नामापि तस्यसीच्छ्रुतिसंमतम्

नान्यत्किंचित्तदा ह्यासीत्प्राकृतं पुरुषं विना  ५४

एतस्मिन्नन्तरे काले तत्त्वान्यासन्महात्मनः

तत्प्रकारं शृणु प्राज्ञ गदतो मे महामते  ५५

प्रकृतेश्च महानासीन्महतश्च गुणास्त्रयः

अहंकारस्ततो जातस्त्रिविधो गुणभेदतः  ५६

तन्मात्राश्च ततो जातः पञ्चभूतानि वै तताः

तदैव तानीन्द्रि याणि ज्ञानकर्ममयानि च  ५७

तत्त्वानामिति संख्यानमुक्तं ते ऋषिसत्तम

जडात्मकञ्च तत्सर्वं प्रकृतेः पुरुषं विना  ५८

तत्तदैकीकृतं तत्त्वं चतुर्विंशतिसंख्यकम्

शिवेच्छया गृहीत्वा स सुष्वाप ब्रह्मरूपके  ५९

इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां सृष्टिव्याख्याने प्रथमखंडे विष्णूत्पत्तिवर्णनो नाम षष्ठोऽध्यायः  ६

ब्राह्मोवाच

सुप्ते नारायणे देवे नाभौ पंकजमुत्तमम्

आविर्बभूव सहसा वृहवै सकरेच्छया  १

अनंतयष्टिकायुक्तं कर्णिकारसमप्रभम्

अनंतयोजनायाममनंतोच्छ्रायसंयुतम्  २

कोटिसूर्यप्रतीकाशं सुंदर वचसयुतम्

अत्यद्भुतं महारम्यं दर्शनीयमनुत्तमम्  ३

कृत्वा यत्नं पूर्ववत्स शंकरः परमेश्वरः

दक्षिणांगान्निजान्मां कैसाशीश्शंभुरजीजनत्  ४

स मायामोहितं कृत्वा मां महेशो द्रुतं मुने

तन्नाभिपंकजादाविर्भा वयामास लीलया  ५

एपमाद्मात्ततो जज्ञे पुत्रोऽहं हेमगर्भकः

चतुर्मुखो रक्तवर्णस्त्रिपुंड्रांकितमस्तकः  ६

तन्मायामोहितश्चाहं नाविदं कमलं विना

स्वदेहजनकं तात पितरं ज्ञानदुर्बलः  ७

कोहं वा कुत आयातः किं कार्यं तु मदीयकम्

कस्य पुत्रोऽहमुत्पन्नः केनैव निर्मितोऽधुना  ८

इति संशयमापन्नं बुद्धिर्मॐ समपद्यत

किमर्थं मोहमायामि तज्ज्ञानं सुकरं खलु  ९

एतत्कमलपुष्पस्य पत्रारोहस्थलं ह्यधः

मत्कर्ता च स वै तत्र भविष्यति न संशयः  १०

इति बुद्धिं समास्थाय कमलादवरो हयन्

नाले नाले गतस्तत्र वर्षाणां शतकं मुने  ११

न लब्धं तु मया तत्र कमलस्थानमुत्तमम्

संशयं च पुनः प्राप्तः कमले गन्तुमुत्सुकः  १२

आरुरोहाथ कमलं नालमार्गेण वै मुने

कुड्मलं कमलस्याथ लब्धवान्न विमोहिताः  १३

नालमार्गेण भ्रमतो गतं वर्षशतं पुनः

क्षणमात्र तदा तत्र ततस्तिष्ठन्विमोहितः  १४

तदा वाणी समुत्पन्ना तपेति परमा शुभा

शिवेच्छया परा व्योम्नो मोहविध्वंसिनी मुने  १५

तच्छ्रुत्वा व्योमवचनं द्वादशाब्दं प्रयत्नतः

पुनस्तप्तं तपो घोरं द्र ष्टुं स्वजनकं तदा  १६

तदा हि भगवान्विष्णुश्चतुर्बाहुस्सुलोचनः

मय्येवानुग्रहं कर्तुं द्रुतमाविर्बभूव ह  १७

शंखचक्रायुधकरो गदापद्मधरः परः

घनश्यामलसर्वांगः पीताम्बरधरः परः  १८

मुकुटादिमहाभूषः प्रसन्नमुखपंकजः

कोटिकंदर्पसंकाशस्सन्दृष्टो मोहितेन सः  १९

तद्दृष्ट्वा सुन्दरं रूपं विस्मयं परमं गतः

कालाभं कांचनाभं च सर्वात्मानं चतुर्भुजम्  २०

तथाभूतमहं दृष्ट्वा सदसन्मयमात्मना

नारायणं महाबाहु हर्षितो ह्यभवं तदा  २१

मायया मोहितश्शम्भोस्तदा लीलात्मनः प्रभोः

अविज्ञाय स्वजनकं तमवोचं प्रहर्षितः  २२

ब्रह्मोवाच

कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम्

तदा हस्तप्रहारेण तीव्रेण सुदृढेन तु  २३

प्रबुद्ध्योत्थाय शयनात्समासीनः क्षणं वशी

ददर्श निद्रा विक्लिन्ननीरजामललोचनः  २४

मामत्र सस्थितं भासाध्यासितो भगवान्हरिः

आह चोत्थाय ब्रह्माणं हसन्मां मधुरं सकृत्  २५

विष्णुरुवाच

स्वागतं स्वागतं वत्स पितामह महाद्युते

निर्भयो भव दास्येऽहं सर्वान्कामान्न संशयः  २६

तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभः

रजसा बद्धवैरश्च तमवोचं जनार्दनम्  २७

ब्रह्मोवाच

भाषसे वत्स वत्सेति सर्वसंहारकारणम्

मामिहाति स्मितं कृत्वा गुरुश्शिष्यमिवानघ  २८

कर्तारं जगतां साक्षात्प्रकृतेश्च प्रवर्तकम्

सनातनमजं विष्णुं विरिंचिं विष्णुसंभवम्  २९

विश्वात्मानं विधातारं धातारम्पंकजेक्षणम्

किमर्थं भाषसे मोहाद्वक्तुमर्हसि सत्वरम्  ३०

वेदोमां वक्ति नियमात्स्वयंभुवमजं विभुम्

पितामहं स्वराजं च परमेष्ठिनमुत्तमम्  ३१

इत्याकर्ण्य हरिर्वाक्यं मम क्रुद्धोरमापतिः

सोऽपि मामाह जाने त्वां कर्तारमिति लोकतः  ३२

विष्णुरुवाच

कर्तुं धर्त्तुं भवानंगादवतीर्णो ममाव्ययात्

विस्मृतोऽसि जगन्नाथं नारायणमनामयम्  ३३

पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम्

विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम्  ३४

नारायणं महाबाहुं सर्वव्यापकमीश्वरम्

मन्नाभिपद्मतस्त्वं हि प्रसूतो नात्र संशयः  ३५

तवापराधो नास्त्यत्र त्वयिमायाकृतं मम

शृणु सत्यं चतुर्वक्त्रसर्वदेवेश्वरो ह्यहम्  ३६

कर्ता हर्ता च भर्ता च न मयास्ति समो विभुः

अहमेव परं ब्रह्मपरं तत्त्वं पितामह  ३७

अहमेव परं ज्योतिः परमात्मा त्वहं विभुः

अद्य दृष्टं श्रुतं सर्वं जगत्यस्मिँ श्चराचरम्  ३८

तत्तद्विद्धिचतुर्वक्त्र सर्वं मन्मयमित्यथ

मया सृष्टं पुराव्यक्तं चतुर्विंशतितत्त्वकम्  ३९

नित्यं तेष्वणवो बद्धास्सृष्टक्रोधभयादयः

प्रभावाच्चभवानंगान्यनेकानीह लीलया  ४०

सृष्टा बुद्धिर्मया तस्यामहंकारस्त्रिधा ततः

तन्मात्रं पंकजं तस्मान्मनोदेहेन्द्रि याणि च  ४१

आकाशादीनि भूतानि भौतिकानि च लीलया

इति बुद्ध्वा प्रजानाथ शरणं व्रज मे विधे  ४२

अहं त्वां सर्वदुःखेभ्यो रक्षिष्यामि न संशयः

ब्रह्मोवाच

इति श्रुत्वा वचस्तस्य ब्रह्मा क्रोधसमन्वितः

को वा त्वमिति संभर्त्स्माब्रुवं मायाविमोहितः  ४३

किमर्थं भाषसे भूरि बह्वनर्थकरं वचः

नेश्वरस्त्वं परब्रह्म कश्चित्कर्ता भवेत्तव  ४४

मायया मोहितश्चाहं युद्धं चक्रे सुदारुणम्

हरिणा तेन वै सार्द्धं शंकरस्य महाप्रभोः  ४५

एवं मम हरेश्चासीत्संगरो रोमहर्षणः

प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः  ४६

एतस्मिन्नंतरे लिंगमभवच्चावयोः पुरः

विवादशमनार्थं हि प्रबोधार्थं तथाऽऽवयोः  ४७

ज्वालामालासहस्राढ्यं कालान लशतोपमम्

क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम्  ४८

अनौपम्यमनिर्देश्यमव्यक्तं विश्वसंभवम्

तस्य ज्वालासहस्रेणमोहितो भगवान्हरिः  ४९

मोहितं चाह मामत्र किमर्थं स्पर्द्धसेऽधुना

आगतस्तु तृतीयोऽत्र तिष्ठतां युद्धमावयोः  ५०

कुत एवात्र संभूतः परीक्षावोऽग्निसंभवम्

अधो गमिष्याम्यनलस्तंभस्यानुपमस्य च  ५१

परीक्षार्थं प्रजानाथ तस्य वै वायुवेगतः

भवानूर्द्ध्वं प्रयत्नेन गंतुमर्हतिसत्वरम्  ५२

ब्रह्मोवाच

एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा

वाराहमहमप्याशु हंसत्वं प्राप्तवान्मुने  ५३

तदा प्रभृति मामाहुर्हंसहंसो विराडिति

हंसहंसेति यो ब्रूयात्स हंसोऽथ भविष्यति  ५४

सुश्वे ह्यनलप्रख्यो विश्वतः पक्षसंयुतः

मनो निलजवो भूत्वा गत्वोर्द्ध्व चोर्द्ध्वतः पुरा  ५५

नारायणोऽपि विश्वात्मा सुश्वेतो ह्यभवत्तदा

दशयोजनविस्तीर्णं शतयोजनमायतम्  ५६

मेरुपर्तववर्ष्माणं गौरतीक्ष्णोग्रदंष्ट्रिणम्

कालादित्यसमाभासं दीर्घघोणं महास्वनम्  ५७

ह्रस्वपादं विचित्रांगंजैत्रं दृढमनौपमम्

वाराहाकारमास्थाय गतवांस्तदधौ जवात्  ५८

एवम्वर्षसहस्रं चरन्विष्णुरधो गतः

तथाप्रभृति लोकेषु श्वेतवाराहसंज्ञकः  ५९

कल्पो बभूव देवर्षे नराणां कालसंज्ञकः

बभ्राम बहुधा विष्णुः प्रभविष्णुरधोगतः  ६०

नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः

तावत्कालं गतश्चोर्द्ध्वमहमप्यरिसूदन  ६१

सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया

श्रान्तो न दृष्ट्वा तस्यांतमहं कालादधोगतः  ६२

तथैव भगवान्विष्णुश्चांतं कमललोचनः

सर्वदेवनिभस्तूर्णमुत्थितस्समहावपुः  ६३

समागतो मया सार्द्धं प्रणिपत्य भवं मुहुः

मायया मोहितश्शंभोस्तस्थौ संविग्नमानसः  ६४

पृष्ठतः पार्श्वतश्चैव ह्यग्रतः परमेश्वरम्

प्रणिपत्य मया सार्धं सस्मार किमिदं त्विति  ६५

अनिर्देश्यं च तद्रू पमनाम कर्मवर्जितम्

अलिंगं लिंगतां प्राप्तं ध्यानमार्गेप्यगोचरम्  ६६

स्वस्थं चित्तं तदाकृत्वा नमस्कार परायणो

बभूवतुरुभावावामहं हरिरपि ध्रुवम्  ६७

जानीवो न हि ते रूपं योऽसियोऽसि महाप्रभो

नमोऽस्तुते महेशान रूपं दर्शयनौत्वरन्  ६८

एवं शरच्छतान्यासन्नमस्कारं प्रकुर्वतोः

आवयोर्मुनिशार्दूलमदमास्थितयोस्तदा  ६९

इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखंडे विष्णुब्रह्मविवादवर्णनो नाम सप्तमोऽध्यायः  ७

ब्रह्मोवाच

एवं तयोर्मुनिश्रेष्ठ दर्शनं कांक्षमाणयोः

विगर्वयोश्च सुरयोः सदा नौ स्थितयोर्मुने  १

दयालु रभवच्छंभुर्दीनानां प्रतिपालकः

गर्विणां गर्वहर्ता च सर्वेषां प्रभुरव्ययः  २

तदा समभवत्तत्र नादो वै शब्दलक्षणः

ओमोमिति सुरश्रेष्ठात्सुव्यक्तः प्लुतलक्षणः  ३

किमिदं त्विति संचिंत्य मया तिष्ठन्महास्वनः

विष्णुस्सर्वसुराराध्यो निर्वैरस्तुष्टचेतसा  ४

लिंगस्य दक्षिणे भागे तथापश्यत्सनातनम्

आद्यं वर्णमकाराख्यमुकारं चोत्तरं ततः  ५

मकारं मध्यतश्चैव नादमंतेऽस्य चोमिति

सूर्यमंडलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे  ६

उत्तरे पावकप्रख्यमुकारमृषि सत्तम

शीतांशुमण्डलप्रख्यं मकारं तस्य मध्यतः  ७

तस्योपरि तदाऽपश्यच्छुद्धस्फटिकसुप्रभम्

तुरीयातीतममलं निष्कलं निरुपद्र वम्  ८

निर्द्वंद्वं केवलं शून्यं बाह्याभ्यंतरवर्जितम्

स बाह्यभ्यंतरे चैव बाह्याभ्यंतरसंस्थितम्  ९

आदिमध्यांतरहितमानंदस्यापिकारणम्

सत्यमानन्दममृतं परं ब्रह्म परायणम्  १०

कुत एवात्र संभूतः परीक्षावोऽग्निसंभवम्

अधोगमिष्याम्यनलस्तंभस्यानुपमस्य च  ११

वेदशब्दोभयावेशं विश्वात्मानं व्यचिंतयत्

तदाऽभवदृषिस्तत्र ऋषेस्सारतमं स्मृतम्  १२

तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम्

महादेवं परं ब्रह्म शब्दब्रह्मतनुं परम्  १३

चिंतया रहितो रुद्रो  वाचो यन्मनसा सह

अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः  १४

एकाक्षरेण तद्वाक्यमृतं परमकारणम्

सत्यमानन्दममृतं परं ब्रह्म परात्परम्  १५

एकाक्षरादकाराख्याद्भगवान्बीजकोण्डजः

एकाक्षरादुकाराख्याद्धरिः परमकारणम्  १६

एकाक्षरान्मकाराख्याद्भगवान्नीललोहितः

सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः  १७

मकाराख्यस्तु यो नित्यमनुग्रहकरोऽभवत्

मकाराख्यो विभुर्बीजी ह्यकारो बीज उच्यते  १८

उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः

बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः  १९

बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः

अस्य लिंगादभूद्बीजमकारो बीजिनः प्रभोः  २०

उकारयोनौ निःक्षिप्तमवर्द्धत समं ततः

सौवर्णमभवच्चांडमावेद्यं तदलक्षणम्  २१

अनेकाब्दं तथा चाप्सु दिव्यमंडं व्यवस्थितम्

ततो वर्षसहस्रांते द्विधाकृतमजोद्भवम्  २२

अंडमप्सु स्थितं साक्षाद्व्याघातेनेश्वरेण तु

तथास्यसुशुभं हिमं कपालं चोर्द्ध्वसंस्थितम्  २३

जज्ञे सा द्यौस्तदपरं पृथिवी पंचलक्षणा

तस्मादंडाद्भवो जज्ञे ककाराख्यश्चतुर्मुखः  २४

अ स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः

एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः  २५

यजुषां वचनं श्रुत्वा ऋचः समानि सादरम्

एवमेव हरे ब्रह्मन्नित्याहुश्चावयोस्तदा  २६

ततो विज्ञाय देवेशं यथावच्छक्तिसंभवैः

मंत्रं महेश्वरं देवं तुष्टाव सुमहोदयम्  २७

एतस्मिन्नंतरेऽन्यच्च रूपमद्भुतसुन्दरम्

ददर्श च मया सार्द्धं भगवान्विश्वपालकः  २८

पंचवक्त्रं दशभुजंगौरकर्पूरवन्मुने

नानाकांति समायुक्तं नानाभूषणभूषितम्  २९

महोदारं महावीर्यं महापुरुषलणम्

तं दृष्ट्वा परमं रूपं कृतार्थोऽभून्मया हरिः  ३०

अथ प्रसन्नो भगवान्महेशः परमेश्वरः

दिव्यं शब्दमयं रूपमाख्याय प्रहसन्स्थितः  ३१

अकारस्तस्य मूर्द्धा हि ललाटो दीर्घ उच्यते

इकारो दक्षिणं नेत्रमीकारो वामलोचनम्  ३२

उकारो दक्षिणं श्रोत्रमूकारो वाम उच्यते

ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः  ३३

वामं कपोलमूकारो लृ लॄ नासापुटे उभे

एकारश्चोष्ठ ऊर्द्ध्वश्च ह्यैकारस्त्वधरो विभोः  ३४

ओकारश्च तथौकारो दन्तपंक्तिद्वयं क्रमात्

अमस्तु तालुनी तस्य देवदेवस्य शूलिनः  ३५

कादिपंचाक्षराण्यस्य पञ्च हस्ताश्च दक्षिणे

चादिपंचाक्षराण्येवं पंच हस्तास्तु वामतः  ३६

टादिपंचाक्षरं पादास्तादिपंचाक्षरं तथा

पकार उदरं तस्य फकारः पार्श्व उच्यते  ३७

बकारो वामपार्श्वस्तु भकारः स्कंध उच्यते

मकारो हृदयं शंभोर्महादेवस्य योगिनः  ३८

यकारादिसकारान्ता विभोर्वै सप्तधातवः

हकारो नाभिरूपो हि क्षकारो घ्राण उच्यते  ३९

एवं शब्दमयं रूपमगुणस्य गुणात्मनः

दृष्ट्वा तमुमया सार्द्धं कृतार्थोऽभून्मया हरिः  ४०

एवं दृष्ट्वा महेशानं शब्दब्रहम तनुं शिवम्

प्रणम्य च मया विष्णुः पुनश्चापश्यदूर्द्ध्वतः  ४१

ॐकारप्रभवं मंत्रं कलापंचकसंयुतम्

शुद्धस्फटिकसंकाशं शुभाष्टत्रिंशदक्षरम्  ४२

मेधाकारमभूद्भूयस्सर्वधर्मार्थसाधकम्

गायत्रीप्रभवं मंत्रं सहितं वश्यकारकम्  ४३

चतुर्विंशतिवर्णाढ्यं चतुष्कालमनुत्तमम्

अथ पंचसितं मंत्रं कलाष्टकसमायुतम्  ४४

आभिचारिकमत्यर्थं प्रायस्त्रिंशच्छुभाक्षरम्

यजुर्वेदसमायुक्तं पञ्चविंशच्छुभाक्षरम्  ४५

कलाष्टकसमा युक्तं सुश्वेतं शांतिकं तथा

त्रयोदशकलायुक्तं बालाद्यैस्सह लेहितम्  ४६

बभूवुरस्य चोत्पत्तिवृद्धिसंहारकारणम्

वर्णा एकाधिकाः षष्टिरस्य मंत्रवरस्य तु  ४७

पुनर्मृत्युंजयं मन्त्रं पञ्चाक्षरमतः परम्

चिंतामणिं तथा मंत्रं दक्षिणामूर्ति संज्ञकम्  ४८

ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च

पञ्चमंत्रांस्तथा लब्ध्वा जजाप भगवान्हरिः  ४९

अथ दृष्ट्वा कलावर्णमृग्यजुस्सामरूपिणम्

ईशानमीशमुकुटं पुरुषाख्यं पुरातनम्  ५०

अघोरहृदयं हृद्यं सर्वगुह्यं सदाशिवम्

वामपादं महादेवं महाभोगीन्द्र भूषणम्  ५१

विश्वतः पादवन्तं तं विश्वतोक्षिकरं शिवम्

ब्रह्मणोऽधिपति सर्गस्थितिसंहारकारणम्  ५२

तुष्टाव वाग्भिरिष्टाभिस्साम्बं वरदमीश्वरम्

मया च सहितो विष्णुर्भगवांस्तुष्टचेतसा  ५३

Credits

Source:  The êivamahŒpurŒöam, (Delhi: Nag Publishers, 1986).इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनो नामाष्टमोऽध्यायः  ८
श्रीशिवमहापुराणम्

अथ श्रीशिवमहापुराणे सप्तमी वायवीयसंहिता प्रारभ्यते

श्रीगणेशाय नमः

श्रीगौरीशंकराभ्यां नमः

अथ सप्तमी वायवीयसंहिता प्रारभ्यते

अध्याय १

व्यास उवाच

नमश्शिवाय सोमाय सगणाय ससूनवे

प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे  १

शक्तिरप्रतिमा यस्य ह्यैश्वर्य्यं चापि सर्वगम्

स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते  २

तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम्

महादेवं महात्मानं व्रजामि शरणं शिवम्  ३

धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे

प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि  ४

मुनयश्शंसितात्मानः सत्यव्रतपरायणाः

महौजसो महाभागा महासत्रं वितेनिरे  ५

तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम्

साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः  ६

शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः

पंचावयवयुक्तस्य वाक्यस्य गुणदोषवित्  ७

उत्तरोत्तरवक्ता च ब्रुवतोऽपि बृहस्पतेः

मधुरः श्रवणानां च मनोज्ञपदपर्वणाम्  ८

कथानां निपुणो वक्ता कालविन्नयवित्कविः

आजगाम स तं देशं सूतः पौराणिकोत्तमः  ९

तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः

तस्मै साम च पूजां च यथावत्प्रत्यपादयन्  १०

प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम्

उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः  ११

ततस्तत्संगमादेव मुनीनां भावितात्मनाम्

सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम्  १२

तदा तमनुकूलाभिर्वाग्भिः पूज्य १ महर्षयः

अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् १३

ऋषय ऊचुः

रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात्

संप्राप्तोद्य महाभाग शैवराज महामते  १४

पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान्

तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम्  १५

रत्नानामुरुसाराणां रत्नाकर इवार्णवः

यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते  १६

न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते

त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः

अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि  १७

तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम्

वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः  १८

एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः

श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम्  १९

सूत उवाच

पूजितोऽनुगृहीतश्च भवद्भिरिति चोदितः

कस्मात्सम्यण्न विब्रूयां पुराणमृषिपूजितम्  २०

अभिवंद्य महादेवं देवीं स्कंदं विनायकम्

नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम्  २१

वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम्

शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम्  २२

शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम्

श्वेतकल्पप्रसंगेन वायुना कथितं पुरा  २३

विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा

तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत  २४

अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः

पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश  २५

आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात्

अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः  २६

अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम्

आदिकर्त्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः  २७

स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत्

ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम्  २८

तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये

विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः  २९

पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः

मध्यमं तनयं विष्णुं पातारं ब्रह्मणोऽपि हि  ३०

लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता

प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम्  ३१

अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः

प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः  ३२

यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि

तदा विद्यासमासार्थं विश्वेश्वरनियोगतः  ३३

द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः

व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले  ३४

एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः

निर्मितानि पुराणानि अन्यानि च ततः परम्  ३५

स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया

अरण्यामिव हव्याशी सत्यवत्यामजायत  ३६

संक्षिप्य स पुनर्वेदांश्चतुर्द्धा कृतवान्मुनिः

व्यस्तवेदतया लोके वेदव्यास इति श्रुतः  ३७

पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः

अद्यापि देवलोके तच्छतकोटिप्रविस्तरम्  ३८

यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः

न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः  ३९

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्

बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति  ४०

सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च

वंशानुचरितं चैव पुराणं पंचलक्षणम्  ४१

दशधा चाष्टधा चैतत्पुराणमुपदिश्यते

बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः  ४२

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा

भविष्यं नारदीयं च मार्कंडेयमतः परम्  ४३

आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च

स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम्  ४४

ब्रह्मांडं चेति पुण्योऽयं पुराणानामनुक्रमः

तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम्  ४५

ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम्

निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः  ४६

तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः

तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत्  ४७

तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा  ४८

यदिदं शैवमाख्यातं पुराणं वेदसंमितम्

तस्य भेदान्समासेन ब्रुवतो मे निबोधत  ४९

विद्येश्वरं तथा रौद्रं  वैनायकमनुत्तमम्

औमं मातृपुराणं च रुद्रै कादशकं तथा  ५०

कैलासं शतरुद्रं  च शतरुद्रा ख्यमेव च

सहस्रकोटिरुद्रा ख्यं वायवीयं ततःपरम्  ५१

धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः

विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया  ५२

रौद्रं  वैनायकं चौमं मातृकाख्यं ततः परम्

प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम्  ५३

रौद्र कादशकाख्यं यत्कैलासं षट्सहस्रकम्

शतरुद्रं  त्रिसाहस्रं कोटिरुद्रं  ततः परम्  ५४

सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम्

सहस्रकोटिरुद्रा ख्यमेकादशसहस्रकम्  ५५

चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम्

धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम्  ५६

तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः

पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम्  ५७

व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम्

शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम्  ५८

विद्येश्वराख्या तत्राद्या द्वितीया रुद्र संहिता

तृतीया शतरुद्रा ख्या कोटिरुद्रा  चतुर्थिका  ५९

पंचमी कथिता चोमा षष्ठी कैलाससंहिता

सप्तमी वायवीयाख्या सप्तैवं संहिता इह  ६०

विद्येश्वरं द्विसाहस्रं रौद्रं  पंचशतायुतम्

त्रिंशत्तथा द्विसाहस्रं सार्द्धैकशतमीरितम्  ६१

शतरुद्र न्तथा कोटिरुद्रं  व्योमयुगाधिकम्

द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम्  ६२

चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम्

चत्वारिंशच्च द्विशतं वायवीयमतः परम्  ६३

चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः

श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम्  ६४

चतुःसाहस्रकं यत्तु वायवीयमुदीरितम्

तदिदं वर्त्तयिष्यामि भागद्वयसमन्वितम्  ६५

नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम्

न चैवाश्रद्धधानाय नापुराणविदे तथा  ६६

परीक्षिताय शिष्याय धार्मिकायानसूयवे

प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे  ६७

पुराणसंहिता यस्य प्रसादान्मयि वर्त्तते

नमो भगवते तस्मै व्यासायामिततेजसे  ६८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नामप्रथमोऽध्यायः  १

अध्याय २

सूत उवाच

पुरा कालेन महता कल्पेतीते पुनःपुनः

अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि  १

प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च

मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम्  २

इदं परमिदं नेति विवादस्सुमहानभूत्

परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः  ३

तेऽभिजग्मुर्विधातारं द्र ष्टुं ब्रह्माणमव्ययम्

यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः  ४

मेरुशृंगे शुभे रम्ये देवदानवसंकुले

सिद्धचारणसंवादे यक्षगंधर्वसेविते  ५

विहंगसंघसंघुष्टे मणिविद्रुमभूषिते

निकुंजकंदरदरीगृहानिर्झरशोभिते  ६

तत्र ब्रह्मवनं नाम नानामृगसमाकुलम्

दशयोजनविस्तीर्णं शतयोजनमायतम्  ७

सुरसामलपानीयपूर्णरम्यसरोवरम्

मत्तभ्रमरसंछन्नरम्यपुष्पितपादपम्  ८

तरुणादित्यसंकाशं तत्र चारु महत्पुरम्

दुर्द्धर्षबलदृप्तानां दैत्यदानवरक्षसाम्  ९

तप्तजांबूनदमयं प्रांशुप्राकारतोरणम्

निर्व्यूहवलभीकूटप्रतोलीशतमंडितम्  १०

महार्हमणिचित्राभिर्लेलिहानमिवांबरम्

महाभवनकोटीभिरनेकाभिरलंकृतम्  ११

तस्मिन्निवसति ब्रह्मा सभ्यैः सार्द्धं प्रजापतिः

तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम्  १२

दद्दशुर्मुनयो देवा देवर्षिगणसेवितम्

शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम्  १३

प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम्

दिव्यकांतिसमायुक्तं दिव्यगंधानुलेपनम्  १४

दिव्यशुक्लांबरधरं दिव्यमालाविभूषितम्

सुरासुरेन्द्र योगींद्र वंद्यमानपदांबुजम्  १५

सर्वलक्षणयुक्तांग्या लब्धचामरहस्तया

भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम्  १६

तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः

शिरस्यंजलिमाधाय तुष्टुवुस्सुरपुंगवम्  १७

मुनय ऊचुः

नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यंतहेतवे

पुरुषाय पुराणाय ब्रह्मणे परमात्मने  १८

नमः प्रधानदेहाय प्रधानक्षोभकारिणे

त्रयोविंशतिभेदेन विकृतायाविकारिणे  १९

नमो ब्रह्माण्डदेहाय ब्रह्मांडोदरवर्तिने

तत्र संसिद्धकार्याय संसिद्धकरणाय च  २०

नमोस्तु सर्वलोकाय सर्वलोकविधायिने

सर्वात्मदेहसंयोग वियोगविधिहेतवे  २१

त्वयैव निखिलं सृष्टं संहृतं पालितं जगत्

तथापि मायया नाथ न विद्मस्त्वां पितामह  २२

सूत उवाच

एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः

प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव  २३

ब्रह्मोवाच

ऋषयो हे महाभागा महासत्त्वा महौजसः

किमर्थं सहितास्सर्वे यूयमत्र समागताः  २४

तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः

वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयोऽब्रुवन्  २५

मुनय ऊचुः

भगवन्नंधकारेण महता वयमावृताः

खिन्ना विवदमानाश्च न पश्यामोऽत्र यत्परम्  २६

त्वं हि सर्वजगद्धाता सर्वकारणकारणम्

त्वया ह्यविदितं नाथ नेह किंचन विद्यते  २७

कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः

विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः  २८

केनैव चित्रकृत्येन प्रथमं सृज्यते जगत्

तत्त्वं वद महाप्राज्ञ स्वसंदेहापनुत्तये  २९

एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः

देवानां दानवानां च मुनीनामपि सन्निधौ  ३०

उत्थाय सुचिरं ध्यात्वा रुद्र  इत्युद्धरन् गिरिम्

आनंदक्लिन्नसर्वांगः कृतांजलिरभाषत  ३१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयोऽध्यायः  २

अध्याय ३

ब्रहमोवाच

यतो वाचो निवर्तंते अप्राप्य मनसा सह

आनंदं यस्य वै विद्वान्न बिभेति कुतश्चन  १

यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रे न्द्र पूर्वकम्

सह भूतेन्द्रि यैः सर्वैः प्रथमं संप्रसूयते  २

कारणानां च यो धाता ध्याता परमकारणम्

न संप्रसूयतेऽन्यस्मात्कुतश्चन कदाचन  ३

सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम्

सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगः  ४

योऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे

तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम्  ५

ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति

येनेदमखिलं पूर्णं पुरुषेण महात्मना  ६

एको बहूनां जंतूनां निष्क्रियाणां च सक्रियः

य एको बहुधा बीजं करोति स महेश्वरः  ७

जीवैरेभिरिमाँ ल्लोकान्सर्वानीशो य ईशते १

य एको भागवान्रुद्रो  न द्वितीयोऽस्ति कश्चन  ८

सदा जनानां हृदये संनिविष्टोऽपि यः परैः

अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा  ९

यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि

अनन्तशक्तिरेवैको भगवानधितिष्ठति  १०

न यस्य दिवसो रात्रिर्न समानो न चाधिकः

स्वभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि  ११

यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम्

तावुभावक्षरात्मानावेको देवः स्वयं हरः  १२

ईशते तदभिध्यानाद्योजनासत्त्वभावनः

भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्त्तते  १३

यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्र माः

यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः  १४

एको देवो महादेवो विज्ञेयस्तु महेश्वरः

न तस्य परमं किंचित्पदं समधिगम्यते  १५

अयमादिरनाद्यन्तस्स्वभावादेव निर्मलः

स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः  १६

अप्राकृतवपुः श्रीमाँ ल्लक्ष्यलक्षणवर्जितः

अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः  १७

सर्वोपरिकृतावासस्सर्वावासश्च सर्ववित्

षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः  १८

उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः

अनन्तानन्तसन्दोहमकरंदमधुव्रतः  १९

अखंडजगदंडानां पिंडीकरणपंडितः

औदार्यवीर्यगांभीर्य्यमाधुर्य्यमकरालयः  २०

नैवास्य सदृशं वस्तु नाधिकं चापि किंचन

अतुलः सर्वभूतानां राजराजश्च तिष्ठति  २१

अनेन चित्रकृत्येन प्रथमं सृज्यते जगत्

अंतकाले पुनश्चेदं तस्मिन्प्रलयमेष्यते  २२

अस्य भूतानि वश्यानि अयं सर्वनियोजकः

अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित्  २३

व्रतानि सर्वदानानि तपांसि नियमास्तथा

कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः  २४

हरिश्चाहं च रुद्र श्च तथान्ये च सुरासुराः

तपोभिरुग्रैरद्यापि तस्य दर्शनकांक्षिणः  २५

अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः

भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च  २६

तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम्

अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः  २७

ततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम्

तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः  २८

बहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम्

शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते  २९

प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः

यथा चांकुरतो बीजं बीजतो वा यथांकुरः  ३०

प्रसादपूर्विका एव पशोस्सर्वत्र सिद्धयः

स एव साधनैरन्ते सर्वैरपि च साध्यते  ३१

प्रसादसाधनं धर्मस्स च वेदेन दर्शितः

तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः  ३२

साम्यात्प्रसादसंपर्को धर्मस्यातिशयस्ततः

धर्मातिशयमासाद्य पशोः पापपरिक्षयः  ३३

एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात्

सांबे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते  ३४

भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते

प्रसादात्कर्मसंत्यागः फलतो न स्वरूपतः  ३५

तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः

स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा  ३६

तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः

शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः  ३७

ज्ञनान्वयवशात्पुंसः संसारे दोषदर्शनम्

ततो विषयवैराग्यं वैराग्याद्भावसाधनम्  ३८

भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि

ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते  ३९

योगेन तु परा भक्तिः प्रसादस्तदनंतरम्

प्रसादान्मुच्यते जंतुर्मुक्तः शिवसमो भवेत्  ४०

अनुग्रहप्रकारस्य क्रमोऽयमविवक्षितः

यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः  ४१

गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः

बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः  ४२

तिर्यग्योनिगतः कश्चिन्मुच्यते नारकोऽपरः

अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये  ४३

कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते

कश्चिदध्वगतस्तस्मिन् स्थित्वास्थित्वा विमुच्यते  ४४

तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते

ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः  ४५

तस्मादस्य प्रसादार्थं वाण्मनोदोषवर्जिताः

ध्यायंतश्शिवमेवैकं सदारतनयाग्नयः  ४६

तन्निष्ठास्तत्परास्सर्वे तद्युक्तास्तदुपाश्रयाः

सर्वक्रियाः प्रकुर्वाणास्तमेव मनसागताः  ४७

दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम्

सत्रांते मंत्रयोगेन वायुस्तत्र गमिष्यति  ४८

स एव भवतः श्रेयः सोपायं कथयिष्यति

ततो वाराणसी पुण्या पुरी परमशोभना  ४९

गंतव्या यत्र विश्वेशो देव्या सह पिनाकधृक्

सदा विहरति श्रीमान् भक्तानुग्रहकारणात्  ५०

तत्राश्चर्यं महद्दृष्ट्वा मत्समीपं गमिष्यथ

ततो वः कथयिष्यामि मोक्षोपाय द्विजोत्तमाः  ५१

येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता

अनेकजन्मसंसारबंधनिर्मोक्षकारिणी  ५२

एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते

यत्रास्य शीर्यते नेमिः स देशस्तपसश्शुभः  ५३

इत्युक्त्वा सूर्यसंकाशं चक्रं दृष्ट्वा मनोमयम्

प्रणिपत्य महादेवं विससर्ज पितामहः  ५४

तेऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम्

प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत  ५५

चक्रं तदपि संक्षिप्तं श्लक्ष्णं चारुशिलातले

विमलस्वादुपानीये निजपात वने क्वचित्  ५६

तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम्

अनेकयक्षगंधर्वविद्याधरसमाकुलम्  ५७

अष्टादश समुद्र स्य द्वीपानश्नन्पुरूरवाः

विलासवशमुर्वश्या यातो दैवेन चोदितः  ५८

अक्रमेण हरन्मोहाद्यज्ञवाटं हिरण्मयम्

मुनिभिर्यत्र संक्रुद्धैः कुशवज्रैर्निपातितः  ५९

विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा

सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः  ६०

ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः

शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः  ६१

यत्र वेदविदो नित्यं वेदवादबहिष्कृतान्

वादजल्पबलैर्घ्नंति वचोभिरतिवादिनः  ६२

स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्स्वच्छपानीयरम्यम्

अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम्  ६३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं नाम तृतीयोऽध्यायः  ३

अध्याय ४

सूत उवाच

तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः

अर्चयंतो महादेवं सत्रमारेभिरे तदा  १

तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् १

विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव  २

अथ काले गते सत्रे समाप्ते भूरिदक्षिणे

पितामहनियोगेन वायुस्तत्रागमत्स्वयम्  ३

शिष्यस्स्वयंभुवो देवस्सर्वप्रत्यक्षदृग्वशी

आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः  ४

प्रेरयञ्छश्वदंगानि प्राणाद्याभिः स्ववृत्तिभिः

सर्वभूतशरीराणां कुरुते यश्च धारणम्  ५

अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः

तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः  ६

आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात्

तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिंतकाः  ७

तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः

पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः  ८

अभ्युत्थाय ततस्सर्वे प्रणम्यांबरसंभवम्

चामीकरमयं तस्मै विष्टरं समकल्पयन्  ९

सोपि तत्र समासीनो मुनिभिस्सम्यगर्चितः

प्रतिनंद्य च तान् सर्वान् पप्रच्छ कुशलं ततः  १०

वायुरुवाच

अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ

कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः  ११

प्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत

स्तोत्रशस्त्रगृहैर्देवान् पितृ-न् पित्र्! यैश्च कर्मभिः  १२

कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः

निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम्  १३

इत्युक्ता मुनयः सर्वे वायुना शिवभाविना

प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः  १४

मुनय ऊचुः

अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः

अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः  १५

शृणु चेदं पुरावृत्तं तमसाक्रांतमानसैः

उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः  १६

सोप्यस्माननुगृह्याह शरण्यश्शरणागतान्

सर्वस्मादधिको रुद्रो  विप्राः परमकारणम्  १७

तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति

भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः  १८

तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः

यजध्वं दीर्घसत्रेण रुद्रं  परमकारणम्  १९

तत्प्रसादेन सत्रांते वायुस्तत्रागमिष्यति

तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति  २०

इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना

अस्मिन्देशे महाभाग तवागमनकांक्षिणः  २१

दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम्

अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किंचन  २२

इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम्

वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः  २३

ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये

सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः  २४

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थोऽध्यायः  ४

अध्याय ५

सूत उवाच

तत्र पूर्वं महाभागा नैमिषारण्यवासिनः

प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम्  १

नैमिषीया ऊचुः

भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम्

कथं च शिवभावस्ते ब्रह्मणोऽव्यक्तजन्मनः  २

वायुरुवाच

एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः

तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामोऽतपत्तपः  ३

तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम्

दिव्यं कौमारमास्थाय रूपं रूपवतां वरः  ४

श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन्

दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः  ५

तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणोऽधिपतिं पतिम्

प्रणम्य परमज्ञानं गायत्र्! या सह लब्धवान्  ६

ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः

असृजत्सर्वभूतानि स्थावराणि चराणि च  ७

यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात्

ततस्तद्वदनादेव मया लब्धं तपोबलात्  ८

मुनय ऊचुः

किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम्

यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति  ९

वयुरुवाच

पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा

तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना  १०

अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्त्तते

ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम्  ११

अजडं च जडं चैव नियंतृ च तयोरपि

पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात्  १२

अक्षरं च क्षरं चैव क्षराक्षरपरं तथा

तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः  १३

अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः

क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते  १४

मुनय ऊचुः

किं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम्

तयोश्च परमं किं वा तदेतद् ब्रूहि मारुत  १५

वायुरुवाच

प्रकृतिः क्षरमित्युक्तं पुरुषोऽक्षर उच्यते

ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः  १६

मुनय ऊचुः

कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः

अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः  १७

वायुरुवाच

माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः

संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः  १८

मुनय ऊचुः

केयं माया समा ख्याता किंरूपो मायया वृतः

मूलं कीदृक् कुतो वास्य किं शिवत्वं कुतश्शिवः  १९

वायुरुवाच

माया माहेश्वरी शक्तिश्चिद्रू पो मायया वृतः

मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः  २०

मुनय ऊचुः

आवृणोति कथं माया व्यापिनं केन हेतुना

किमर्थं चावृतिः पुंसः केन वा विनिवर्तते  २१

वायुरुवाच

आवृतिर्व्यपिनोऽपि स्याद्व्यापि यस्मात्कलाद्यपि

हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात्  २२

मुनय ऊचुः

कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम्

तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम्  २३

कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम्

मलक्षयस्य को हेतुः कीदृक् क्षीणमलः पुमान्  २४

वायुरुवाच

कला विद्या च रागश्च कालो नियतिरेव च

कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत्  २५

पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत्

अनादिमलभोगान्तमज्ञानात्मसमाश्रयम्  २६

भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते

बाह्यांतःकरणद्वारं शरीरं भोगसाधनम्  २७

भावातिशयलब्धेन प्रसादेन मलक्षयः

क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत्  २८

मुनय ऊचुः

कलादिपंचतत्त्वानां किं कर्म पृथगुच्यते

भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते  २९

किमात्मकं तदव्यक्तं केनाकारेण भुज्यते

किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते  ३०

वायुरुवाच

दिक्क्रियाव्यंजका विद्या कालो रागः प्रवर्तकः

कालोऽवच्छेदकस्तत्र नियतिस्तु नियामिका  ३१

अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम्

प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिंतकाः  ३२

कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम्

सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा  ३३

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः

प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः  ३४

सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम्

राजसं तद्विपर्यासात्स्तंभमोहौ तु तामसौ  ३५

सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः

मध्यमा तु गतिर्या सा राजसी परिपठ्यते  ३६

तन्मात्रापञ्चकं चैव भूतपंचकमेव च

ज्ञानेंद्रि याणि पंचैक्यं पंच कर्मेन्द्रि याणि च  ३७

प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम्

समासादेवमव्यक्तं सविकारमुदाहृतम्  ३८

तत्कारणदशापन्नमव्यक्तमिति कथ्यते

व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत्  ३९

यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते

शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते  ४०

तस्मादव्यक्तमेवैक्यकारणं करणानि च

शरीरं च तदाधारं तद्भोग्यं चापि नेतरत्  ४१

मुनय ऊचुः

बुद्धीन्द्रि यशरीरेभ्यो व्यतिरेकस्य कस्यचित्

आत्मशब्दाभिधेयस्य वस्तुतोऽपि कुतः स्थितिः  ४२

वायुरुवाच

बुद्धीन्द्रि यशरीरेभ्यो व्यतिरेको विभोर्द्ध्रुवम्

अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः  ४३

बुद्धीन्द्रि यशरीराणां नात्मता सद्भिरिष्यते

स्मृतेरनियतज्ञानादयावद्देहवेदनात्  ४४

अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः

अन्तर्य्यामीति वेदेषु वेदांतेषु च गीयते  ४५

सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः

तथापि क्वापि केनापि व्यक्तमेष न दृश्यते  ४६

नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रि यैरपि

मनसैव प्रदीप्तेन महानात्मावसीयते १  ४७

न च स्त्री न पुमानेष नैव चापि नपुंसकः

नैवोर्द्ध्वं नापि तिर्यक् नाधस्तान्न कुतश्चन  ४८

अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम्

सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात्  ४९

किमत्र बहुनोक्तेन पुरुषो देहतः पृथक्

अपृथग्ये तु पश्यंति ह्यसम्यक्तेषु दर्शनम्  ५०

यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम्

अशुद्धमवशं दुःखमध्रुवं न च विद्यते  ५१

विपदां वीजभूतेन पुरुषस्तेन संयुतः

सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा  ५२

अद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा

आज्ञानात्प्लावितं कर्म देहं जनयते तथा  ५३

अत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः

अनागता अतीताश्च तनवोऽस्य सहस्रशः  ५४

आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः

अत्यंतवसतिः क्वापि न केनापि च लभ्यते  ५५

छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते

चंद्र बिंबवदाकाशे तरलैरभ्रसंचयैः  ५६

अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः

अष्टापदपरिक्षेपे ह्यक्षमुद्रे व लक्ष्यते  ५७

नैवास्य भविता कश्चिन्नासौ भवति कस्यचित्

पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः  ५८

यथा काष्ठं च काष्ठं च समेयातां महोदधौ

समेत्य च व्यपेयातां तद्वद्भूतसमागमः  ५९

स पश्यति शरीरं तच्छरीरं तन्न पश्यति

तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः  ६०

ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः

पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम्  ६१

स एष बध्यते पाशैः सुखदुःखाशनः पशुः

लीलासाधनभूतो य ईश्वरस्येति सूरयः  ६२

अज्ञो जंतुरनीशोऽयमात्मनस्सुखदुःखयोः

ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा  ६३

सूत उवाच

इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः

प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम्  ६४

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पंचमोऽध्यायः  ५

अध्याय ६

मुनय ऊचुः

योऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः

अभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः  १

  वायुरुवाच

अस्ति कश्चिदपर्यंतरमणीयगुणाश्रयः

पतिर्विश्वस्य निर्माता पशुपाशविमोचनः  २

अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत्

अचेतनत्वादज्ञानादनयोः पशुपाशयोः  ३

प्रधानपरमाण्वादि यावत्किंचिदचेतनम्

तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना  ४

जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः

तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः  ५

पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम्

अयथाकरणज्ञानमंधस्य गमनं यथा  ६

आत्मानं च पृथण्मत्वा प्रेरितारं ततः पृथक्

असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते  ७

पशोः पाशस्य पत्युश्च तत्त्वतोऽस्ति पदं परम्

ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति  ८

संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च

व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः  ९

भोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम्

नातः परं विजानद्भिर्वेदितव्यं हि किंचनः  १०

तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम्

यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः  ११

एवमेव महात्मानमात्मन्यात्मविलक्षणम्

सत्येन तपसा चैव नित्ययुक्तोऽनुपश्यति  १२

य एको जालवानीश ईशानीभिस्स्वशक्तिभिः

सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते १  १३

एक एव तदा रुद्रो  न द्वितीयोऽस्ति कश्चन

संसृज्य विश्वभुवनं गोप्ता ते संचुकोच यः  १४

विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः

तथैव विश्वतोबाहुविश्वतः पादसंयुतः  १५

द्यावाभूमी च जनयन् देव एको महेश्वरः

स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा  १६

हिरण्यगर्भं देवानां प्रथमं जनयेदयम्

विश्वस्मादधिको रुद्रो  महर्षिरिति हि श्रुतिः  १७

वेदाहमेतं पुरुषं महांतममृतं ध्रुवम्

आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम्  १८

अस्मान्नास्ति परं किंचिदपरं परमात्मनः

नाणीयोऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत्  १९

सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः

सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः  २०

सर्वतः पाणिपादोऽयं सर्वतोऽक्षिशिरोमुखः

सर्वतः श्रुतिमाँ ल्लोके सर्वमावृत्य तिष्ठति  २१

सर्वेन्द्रि यगुणाभासस्सर्वेन्द्रि यविवर्जितः

सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत्  २२

अचक्षुरपि यः पश्यत्यकर्णोऽपि शृणोति यः

सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम्  २३

अणोरणीयान्महतो महीयानयमव्ययः

गुहायां निहितश्चापि जंतोरस्य महेश्वरः  २४

तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम्

धातुः प्रसादादीशानं वीतशोकः प्रपश्यति  २५

वेदाहमेनमजरं पुराणं सर्वगं विभुम्

निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः  २६

एकोऽपि त्रीनिमाँ ल्लोकान् बहुधा शक्तियोगतः

विदधाति विचेत्यंते १ विश्वमादौ महेश्वरः  २७

विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा

तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम्  २८

जनित्रीमनुशेतेऽन्योजुषमाणस्स्वरूपिणीम्

तामेवाजामजोऽन्यस्तु भक्तभोगा जहाति च  २९

द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ

एकोऽत्ति पिप्पलं स्वादु परोऽनश्नन् प्रपश्यति  ३०

वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति

जुष्टमन्यं यदा पश्येदीशं परमकारणम्  ३१

तदास्य महिमानं च वीतशोकस्सुखी भवेत्

छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च  ३२

मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्  ३३

तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत्

सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः  ३४

स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु

शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति  ३५

स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः

तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते  ३६

घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम्

सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते  ३७

एष एव परो देवो विश्वकर्मा महेश्वरः

हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते  ३८

यदा समस्तं न दिवा न रात्रिर्न सदप्यसत्

केवलश्शिव एवैको यतः प्रज्ञा पुरातनी  ३९

नैनमूर्द्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत्

न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः  ४०

अजातमिममेवैके बुद्धा जन्मनि भीरवः

रुद्र स्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम्  ४१

द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते

विद्याविद्ये समाख्याते निहिते यत्र गूढवत्  ४२

क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते

ते उभे ईशते यस्तु सोऽन्यः खलु महेश्वरः  ४३

एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः

सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान्  ४४

दिश ऊर्ध्वमधस्तिर्यक् भासयन् भ्राजते स्वयम्

यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति  ४५

स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन्

गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति  ४६

ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम्

ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः  ४७

भावग्राह्यमनीहाख्यं भावाभावकरं शिवम्

कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम्  ४८

स्वभावमेके मन्यंते कालमेके विमोहिताः

देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत्  ४९

येनेदमावृतं नित्यं कालकालात्मना यतः

तेनेरितमिदं कर्म भूतैः सह विवर्तते  ५०

तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः

तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै  ५१

अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः

कालेनात्मगुणैश्चापि कृत्स्नमेव जगत् स्वयम्  ५२

गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत्

तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः  ५३

कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः

स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः  ५४

परस्त्रिकालादकलस्स एव परमेश्वरः

सर्ववित् त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः  ५५

तं विश्वरूपमभवं भवमीड्यं प्रजापतिम्

देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे  ५६

कालादिभिः परो यस्मात्प्रपंचः परिवर्तते

धर्मावहं पापनुदं भोगेशं विश्वधाम च  ५७

तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम्

पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम्  ५८

न तस्य विद्येत कार्यं कारणं च न विद्यते

न तत्समोऽधिकश्चापि क्वचिज्जगति दृश्यते  ५९

परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता

ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम्  ६०

तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता

कारणं कारणानां च स तेषामधिपाधिपः  ६१

न चास्य जनिता कश्चिन्न च जन्म कुतश्चन

न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः  ६२

स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः

सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते  ६३

सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः

एको वशी निष्क्रियाणां बहूनां विवशात्मनाम्  ६४

नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः

एको बहूनां चाकामः कामानीशः प्रयच्छति  ६५

सांख्ययोगाधिगम्यं यत्कारणं जगतां पतिम्

ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते  ६६

विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी

प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः  ६७

ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम्

यो देवस्तमहं बुद्ध्वास्वात्मबुद्धिप्रसादतः  ६८

मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम्

निष्फलं निष्क्रियं शांतं निरवद्यं निरंजनम्  ६९

अमृतस्य परं सेतुं दग्धेंधनमिवानिलम्

यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः  ७०

तदा शिवमविज्ञाय दुःखस्यांतो भविष्यति  ७१

तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः

अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम्  ७२

वेदांते परमं गुह्यं पुराकल्पप्रचोदितम्

ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात्  ७३

नाप्रशांताय दातव्यमेतज्ज्ञानमनुत्तमम्

न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा  ७४

यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ

तस्यैते कथिताह्यर्थाः प्रकाशंते महात्मनः  ७५

अतश्च संक्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः

स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति  ७६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्ववर्णनं नाम षष्ठोऽध्यायः  ६

अध्याय ७

मुनय ऊचुः

कालादुत्पद्यते सर्वं कालदेव विपद्यते

न कालनिरपेक्षं हि क्वचित्किंचन विद्यते  १

यदास्यांतर्गतं विश्वं शश्वत्संसारमण्डलम्

सर्गसंहृतिमुद्रा भ्यां चक्रवत्परिवर्तते  २

ब्रह्मा हरिश्च रुद्र श्च तथान्ये च सुरासुराः

यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम्  ३

भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः

अतिप्रभुरिति स्वैरं वर्ततेऽतिभयंकरः  ४

क एष भगवान् कालः कस्य वा वशवर्त्ययम्

क एवास्य वशे न स्यात्कथयैतद्विचक्षण  ५

वायुरुवाच

कालकाष्ठानिमेषादिकलाकलितविग्रहम्

कालात्मेति समाख्यातं तेजो माहेश्वरं परम्  ६

यदलंघ्यमशेषस्य स्थावरस्य चरस्य च

नियोगरूपमीशस्य बलं विश्वनियामकम्  ७

तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि

ततो निष्क्रम्य संक्रांता विसृष्टाग्रेरिवायसी  ८

तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः

शिवस्य तु वशे कालो न कालस्य वशे शिवः  ९

यतोऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम्

महती तेन कालस्य मर्यादा हि दुरत्यया  १०

कालं प्रज्ञाविशेषेण कोऽतिवर्तितुमर्हति

कालेन तु कृतं कर्म न कश्चिदतिवर्तते  ११

एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति

तेऽपि नैवातिवर्तंते कालवेलामिवाब्धयः  १२

ये निगृह्येंद्रि यग्रामं जयंति सकलं जगत्

न जयंत्यपि ते कालं कालो जयति तानपि  १३

आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः

न मृत्युमतिवर्तंते कालो हि दुरतिक्रमः  १४

श्रिया रूपेण शीलेन बलेन च कुलेन च

अन्यच्चिंतयते जंतुः कालोऽन्यत्कुरुते बलात्  १५

अप्रियैश्च प्रियैश्चैव ह्यचिंतितगमागमैः

संयोजयति भूतानि वियोजयति चेश्वरः  १६

यदैव दुःखितः कश्चित्तदैव सुखितः परः

दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता  १७

यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः

यः श्रीमान्सोऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा  १८

नाभिजात्यं न वै शीलं न बलं न च नैपुणम्

भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः  १९

ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः

ये चानाथाः परान्नादाः कालस्तेषु समक्रियः  २०

फलंत्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि

तान्येव कालेन समाहृतानि सिद्धिं प्रयांत्याशु सुखं दिशंति  २१

नाकालतोऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति

नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित्  २२

कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति

कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति  २३

कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवंति नित्यम्

कालेन सस्यानि लयं प्रयांति कालेन संजीवति जीवलोकः  २४

इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः

कालात्मानमतिक्रम्य कालातीतं स पश्यति  २५

न यस्य कालो न च बंधमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम्

विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय  २६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमोऽध्यायः  ७

अध्याय ८

ऋषय ऊचुः

केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते

संख्यारूपस्य कालस्य कः पुनः परमोऽवधिः  १

वायुरुवाच

आयुषोऽत्र निमेषाख्यमाद्यमानं प्रचक्षते

संख्यारूपस्य कालस्य शांत्त्वतीतकलावधि  २

अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः

तादृशानां निमेषाणां काष्ठा दश च पंच च  ३

काष्ठांस्त्रिंशत्कला नाम कलांस्त्रिंशन्मुहूर्तकः

मुहूर्त्तानामपि त्रिंशदहोरात्रं प्रचक्षते  ४

त्रिंशत्संख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः  ५

ज्ञेयं पित्र्! यमहोरात्रं मासः कृष्णसितात्मकः  ६

मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम्

लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः  ७

एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः

दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम्  ८

मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः

संवत्सरोऽपि देवानां मासैर्द्वादशभिस्तथा  ९

त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि

दिव्यस्संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः  १०

दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते

चत्वारि भारते वर्षे युगानि कवयो विदुः  ११

पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते

द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः  १२

चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम्

तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः  १३

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु

एकापायेन वर्तंते सहस्राणि शतानि च  १४

एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम्

चतुर्युगसहस्रं यत्संकल्प इति कथ्यते  १५

चतुर्युगैकसप्तत्या मनोरंतरमुच्यते

कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः  १६

एतेन क्रमयोगेन कल्पमन्वंतराणि च

सप्रजानि व्यतीतानि शतशोऽथ सहस्रशः  १७

अज्ञेयत्वाच्च सर्वेषामसंख्येयतया पुनः

शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः  १८

कल्पो नाम दिवा प्रोक्तो ब्रह्मणोऽव्यक्तजन्मनः

कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते  १९

वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम्

सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः  २०

सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा

कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः  २१

तस्य वै दिवसे यांति चतुर्दश पुरंदराः

शतानि मासे चत्वारि विंशत्या सहितानि च  २२

अब्दे पंच सहस्राणि चत्वारिंशद्युतानि च

चत्वारिंशत्सहस्राणि पंच लक्षाणि चायुषि  २३

ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्र दिने तथा

ईश्वरस्य दिने रुद्र स्सदाख्यस्य तथेश्वरः  २४

साक्षाच्छिवस्य तत्संख्यस्तथा सोऽपि सदाशिवः

चत्वारिंशत्सहस्राणि पंचलक्षाणि चायुषि  २५

तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते

यत्तत्सृष्टेस्समाख्यातं कालान्तरमिह द्विजाः

एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम्  २६

रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः  २६  २६घ्

अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः

अहर्न विद्यते तस्य न रात्रिरिति धारयेत्  २७

एषोपचारः क्रियते लोकानां हितकाम्यया

प्रजाः प्रजानां पतयो मूर्त्तयश्च सुरासुराः  २८

इन्द्रि याणीन्द्रि यार्थाश्च महाभूतानि पंच च

तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः  २९

अहस्तिष्ठंति सर्वाणि पारमेशस्य धीमतः

अहरंते प्रलीयन्ते रात्र्! यन्ते विश्वसंभवः  ३०

यो विश्वात्मा कर्मकालस्वभावाद्यर्थे शक्तिर्यस्य नोल्लंघनीया

यस्यैवाज्ञाधीनमेतत्समस्तं नमस्तस्मै महते शंकराय  ३१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमोऽध्यायः  ८

अध्याय ९

मुनय ऊचुः

कथं जगदिदं कृत्स्नं विधाय च निधाय च

आज्ञया परमां क्रीडां करोति परमेश्वरः  १

किं तत्प्रथमसंभूतं केनेदमखिलं ततम्

केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा  २

वायुरुवाच

शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा

ततो माया ततोऽव्यक्तं शिवाच्छक्तिमतः प्रभोः  ३

शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात्

ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः  ४

निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात्

एवमुक्ता समासेन सृष्टिरीश्वरचोदिता  ५

आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः

अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते  ६

कलाभिः पंचभिर्व्याप्तं तस्माद्विश्वमिदं जगत्

अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम्  ७

महदादिविशेषांतं सृजतीत्यपि संमतम्

किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः  ८

अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च

प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम्  ९

तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना

जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः  १०

तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित्

अनादिनिधनश्चायं महदैश्वर्यसंयुतः  ११

स एव जगतः कर्ता महादेवो महेश्वराः

पाता हर्ता च सर्वस्य ततः पृथगनन्वयः  १२

परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च

सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते  १३

इतीयं शाश्वती निष्ठा सतां मनसि वर्तते

न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः  १४

यावदादिसमारंभो यावद्यः प्रलयो महान्

तावदप्येति सकलं ब्रह्मणः शारदां शतम्  १५

परमित्यायुषो नाम ब्रह्मणोऽव्यक्तजन्मनः

तत्पराख्यं तदर्द्धं च परार्द्धमभिधीयते  १६

परार्द्धद्वयकालांते प्रलये समुपस्थिते

अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति  १७

आत्मन्यवस्थितेऽव्यक्ते विकारे प्रतिसंहृते

साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ  १८

तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ

अनुद्रि क्तावनन्तौ तावोतप्रोतौ परस्परम्  १९

गुणसाम्ये तदा तस्मिन्नविभागे तमोदये

शांतवातैकनीरे च न प्राज्ञायत किंचन  २०

अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः

उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः  २१

प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ

प्रविश्य क्षोभयामास मायायोगान्महेश्वरः  २२

ततः पुनरशेषाणां भूतानां प्रभवाप्ययात्

अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः  २३

विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः

आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय  २४

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमोऽध्यायः  ९

अध्याय १०

वायुरुवाच

पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया

बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात्  १

ततस्तेभ्यो विकारेभ्यो रुद्रो  विष्णुः पितामहः

कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे  २

सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित्

ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम्  ३

सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम्

प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः  ४

कल्पान्तरे पुनस्तेषामस्पर्द्धा बुद्धिमोहिनाम्

सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः  ५

एते परस्परोत्पन्ना धारयन्ति परस्परम्

परस्परेण वर्धंते परस्परमनुव्रताः  ६

क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्र ः! प्रशस्यते

नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते  ७

मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः

यातुधाना भवंत्येव पिशाचाश्च न संशयः  ८

देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः

सकलस्सकलाधारशक्तेरुत्पत्तिकारणम्  ९

सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च

लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः  १०

यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः

स एव च तदाधारस्तदात्मा तदधिष्ठितः  ११

तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा

सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम्  १२

प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान्

महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधाऽभवत्  १३

अहंकारश्च भूतानि तन्मात्रानींद्रि याणि च

वैकारिकादहंकारात्सत्त्वोद्रि क्तात्तु सात्त्विकः  १४

वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते

बुद्धीन्द्रि याणि पंचैव पंचकर्मेंद्रि याणि च  १५

एकादशं मनस्तत्र स्वगुणेनोभयात्मकम्

तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः  १६

भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः

भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः  १७

आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः

वायो रूपं ततस्तेजस्तेजसो रससंभवः  १८

रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः

गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम्  १९

पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च

महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते  २०

तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा

तदंडे सुप्रवृद्धोऽभूत् क्षेत्रज्ञो ब्रह्मसंज्ञितः  २१

स वै शरीरी प्रथमः स वै पुरुष उच्यते

आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत  २२

तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा

धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञेऽभिमानिनः  २३

अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम्

वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः  २४

त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्त्तते

सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम्  २५

चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः

सहस्रमूर्द्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः  २६

सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः

विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ  २७

ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि

पुरुषत्वेऽत्युदासीनः कर्म च त्रिविधं विभोः  २८

एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते

चतुर्द्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः  २९

आदित्वादादिदेवोऽसावजातत्वादजः स्मृतः

पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः  ३०

हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः

गर्भोदकं समुद्रा श्च जरायुश्चाऽपि पर्वताः  ३१

तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत्

चंद्रा दित्यौ सनक्षत्रौ सग्रहौ सह वायुना  ३२

अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम्

आपो दशगुणेनैव तेजसा बहिरावृताः  ३३

तेजो दशगुणेनैव वायुना बहिरावृतम्

आकाशेनावृतो वायुः खं च भूतादिनावृतम्  ३४

भूतादिर्महता तद्वदव्यक्तेनावृतो महान्

एतैरावरणैरण्डं सप्तभिर्बहिरावृतम्  ३५

एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः

सृष्टिपालनविध्वंसकर्मकत्र्! र्यो द्विजोत्तमाः  ३६

एवं परस्परोत्पन्ना धारयंति परस्परम्

आधाराधेयभावेन विकारास्तु विकारिषु  ३७

कूर्मॐगानि यथा पूर्वं प्रसार्य्य विनियच्छति

विकारांश्च तथाऽव्यक्तं सृष्ट्वा भूयो नियच्छति  ३८

अव्यक्तप्रभवं सर्वमानुलोम्येन जायते

प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते  ३९

गुणाः कालवशादेव भवंति विषमाः समाः

गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते  ४०

तदिदं ब्रह्मणो योनिरेतदंडं घनं महत्

ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते  ४१

इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः

सर्वगत्वात्प्रधानस्य तिर्य्यगूर्ध्वमधः स्थिताः  ४२

तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः

सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम्  ४३

महेश्वरः परोव्यक्तादंडमव्यक्तसंभवम्

अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे  ४४

अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः

आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य  ४५

यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः

अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम्  ४६

उत्पादकत्वाद्र जसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून्

अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले  ४७

प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः

तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य  ४८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां ब्रह्मांडस्थितिवर्णनं नाम दशमोऽध्यायः  १०

अध्याय ११

मुनय ऊचुः

मन्वंतराणि सर्वाणि कल्पभेदांश्च सर्वशः

तेष्वेवांतरसर्गं च प्रतिसर्गं च नो वद  १

वायुरुवाच

कालसंख्याविवृत्तस्य परार्द्धो ब्रह्मणस्स्मृतः

तावांश्चैवास्य कालोन्यस्तस्यांते प्रतिसृज्यते  २

दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः

चतुर्दशमहाभागा मनूनां परिवृत्तयः  ३

अनादित्वादनंतत्वादज्ञेयत्वाच्च कृत्स्नशः

मन्वंतराणि कल्पाश्च न शक्या वचनात्पृथक्  ४

उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम

किमिहास्ति फलं तस्मान्न पृथक् वक्तुमुत्सहे  ५

य एव खलु कल्पेषु कल्पः संप्रति वर्तते

तत्र संक्षिप्य वर्तंते सृष्टयः प्रतिसृष्टयः  ६

यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः

अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश  ७

स्वायंभुवादयस्सप्त सप्त सावर्णिकादयः

तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः  ८

मन्वंतरेषु सर्वेषु सर्गसंहारवृत्तयः

प्रायः समाभवंतीति तर्कः कार्यो विजानता  ९

पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते

समुन्मूलितमूलेषु वृक्षेषु च वनेषु च  १०

जगंति तृणवक्त्रीणि देवे दहति पावके

वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च  ११

दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि

तदद्भिश्चटुलाक्षेपैस्तरंगभुजमण्डलैः  १२

प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु

ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम्  १३

इमं चोदाहरन्मंत्रं श्लोकं नारायणं प्रति

तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम्  १४

आपो नारा इति प्रोक्ता आपो वै नरसूनवः

अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः  १५

शिवयोगमयीं निद्रा ं! कुर्वन्तं त्रिदशेश्वरम्

बद्धांजलि पुटास्सिद्धा जनलोकनिवासिनः  १६

स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः

यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा  १७

ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात्

उदैक्षत दिशः सर्वा योगनिद्रा लसेक्षणः  १८

नापश्यत्स तदा किंचित्स्वात्मनो व्यतिरेकि यत्

सविस्मय इवासीनः परां चिंतामुपागमत्  १९

क्व सा भगवती या तु मनोज्ञा महती मही

नानाविधमहाशैलनदीनगरकानना  २०

एवं संचिंतयन्ब्रह्मा बुबुधे नैव भूस्थितिम्

तदा सस्मार पितरं भगवंतं त्रिलोचनम्  २१

स्मरणाद्देवदेवस्य भवस्यामिततेजसः

ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः  २२

ततो भूमेस्समुद्धारं कर्तुकामः प्रजापतिः

जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत्  २३

महापर्वतवर्ष्माणं महाजलदनिःस्वनम्

नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम्  २४

पीनवृत्तघनस्कंधपीनोन्नतकटीतटम्

ह्रस्ववृत्तोरुजंघाग्रं सुतीक्ष्णपुरमण्डलम्  २५

पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम्

वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम्  २६

उदीर्णोच्छ्वासनिश्वासघूर्णितप्रलयार्णवम्

विस्फुरत्सुसटाच्छन्नकपोलस्कंधबंधुरम्  २७

मणिभिर्भूषणैश्चित्रैर्महारत्नैःपरिष्कृतम्

विराजमानं विद्युद्भिर्मेघसंघमिवोन्नतम्  २८

आस्थाय विपुलं रूपं वाराहममितं विधिः

पृथिव्युद्धरणार्थाय प्रविवेश रसातलम्  २९

स तदा शुशुभेऽतीव सूकरो गिरिसंनिभः

लिंगाकृतेर्महेशस्य पादमूलं गतो यथा  ३०

ततस्स सलिले मग्नां पृथिवीं पृथिवींधरः

उद्धृत्यालिंग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात्  ३१

तं दृष्ट्वा मुनयस्सिद्धा जनलोकनिवासिनः

मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन्  ३२

वपुर्महावराहस्य शुशुभे पुष्पसंवृतम्

पतद्भिरिव खद्योतैः प्राशुरंजनपर्वतः  ३३

ततः संस्थानमानीय वराहो महतीं महीम्

स्वमेव रूपमास्थाय स्थापयामास वै विभुः  ३४

पृथिवीं च समीकृत्य पृथिव्यां स्थापयन्गिरीन्

भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत्  ३५

इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात्

उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः  ३६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां सृष्ट्यादिवर्णनं नामैकादशोऽध्यायः  ११

अध्याय १२

वायुरुवाच

सर्गं चिंतयतस्तस्य तदा वै बुद्धिपूर्वकम्

प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः  १

तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः

अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः  २

पंचधाऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः

सर्व्वतस्तमसातीव बीजकुम्भवदावृतः  ३

बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च

तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च  ४

तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः

तं दृष्ट्वाऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम्  ५

अप्रसन्नमना भूत्वा द्वितीयं सोऽभ्यमन्यत

तस्याभिधायतः सर्गं तिर्य्यक्स्रोतोऽभ्यवर्त्तत  ६

अन्तःप्रकाशास्तिर्य्यंच आवृताश्च बहिः पुनः

पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते  ७

तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत

तदोर्द्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः  ८

ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः

प्रकाशा बहिरन्तश्चस्वभावादेव संज्ञिताः  ९

ततोऽभिध्यायतोव्यक्तादर्व्वाक्स्रोतस्तु साधकः

मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः  १०

प्रकाशाबहिरन्तस्ते तमोद्रि क्ता रजोऽधिकाः

पंचमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः  ११

विपर्य्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च

तेऽपरिग्राहिणः सर्व्वे संविभागरताः पुनः  १२

खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्त्तिताः

प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः  १३

तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते

वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रि यकः स्मृतः  १४

इत्येष प्रकृतेः सर्गः सम्भृतोऽबुद्धिपूर्वकः

मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः  १५

तिर्य्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पचमः

तदूर्द्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः  १६

ततोऽर्वाक् स्रोतसां सर्गः सप्तमः स तु मानुषः

अष्टमोऽनुग्रहः सर्गः कौमारो नवमः स्मृतः  १७

प्राकृताश्च त्रयः पूर्व्वे सर्गास्तेऽबुद्धिपूर्वकाः

बुद्धिपूर्व्वं प्रवर्त्तन्ते मुख्याद्याः पञ्च वैकृताः  १८

अग्रे ससर्ज्ज वै ब्रह्मा मानसानात्मनः समान्

सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम्  १९

ऋभुं सनत्कुमारञ्च पूर्व्वमेव प्रजापतिः

सर्व्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः  २०

इश्वरासक्तमनसो न चक्रुः सृष्टये मतिम्

तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु  २१

स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः

तस्यैवं तप्यमानस्य न किंचित्समवर्त्तत  २२

ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत

क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः  २३

ततस्तेभ्योऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन्

सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत  २४

तस्य तीव्राऽभवन्मूर्च्छा क्रोधामर्षसमुद्भवा

मूर्च्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः  २५

ततः प्राणेश्वरो रुद्रो  भगवान्नीललोहितः

प्रसादमतुलं कर्त्तुं प्रादुरासीत्प्रभोर्मुखात्  २६

दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः

ते तेनोक्ता महात्मानो दशधा चैकधा कृताः  २७

यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात्

तस्मात्सर्व्वस्य लोकस्य स्थापनाय हिताय च  २८

प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रि ताः

एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः  २९

रोदनाद्द्रावणाच्चैव ते रुद्रा  नामतः स्मृताः

ये रुद्रा स्ते खलु प्राणा ये प्राणास्ते महात्मकाः  ३०

ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः

घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः  ३१

प्रहृष्टवदनो रुद्र ः! प्राणप्रत्यागमाद्विभोः

अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः  ३२

माभैर्माभैर्महाभाग विरिंच जगतां गुरो

मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत  ३३

स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम्

हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः  ३४

तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा

उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः  ३५

त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः

को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः  ३६

तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः

स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः  ३७

मां विद्धि परमात्मानं तव पुत्रत्वमागतम्

एते चैकादश रुद्रा स्त्वां सुरक्षितुमागताः  ३८

तस्मात्तीव्रामिमाम्मूर्च्छां विधूय मदनुग्रहात्

प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि  ३९

एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत्

नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम्  ४०

ब्रह्मोवाच

नमस्ते भगवन् रुद्र  भास्करामिततेजसे

नमो भवाय देवाय रसायाम्बुमयात्मने

शर्वाय क्षितिरूपाय नन्दीसुरभये नमः  ४१

ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने

पशूनां पतये चैव पावकायातितेजसे

भीमाय व्योमरूपाय शब्दमात्राय ते नमः  ४२

उग्रायोग्रस्वरूपाय यजमानात्मने नमः

महादेवाय सोमाय नमोस्त्वमृतमूर्तये  ४३

एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः

प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया  ४४

भगवन् भूतभव्येश मम पुत्र महेश्वर

सृष्टिहेतोस्त्वमुत्पन्नो ममांगेऽनंगनाशनः  ४५

तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो

सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः  ४६

तेनैषां पावितो देवो रुद्र स्त्रिपुरमर्दनः

बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः  ४७

ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च

स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः  ४८

मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम्

दक्षमत्रिं वसिष्ठं च सोऽसृजन्मनसैव च

पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च  ४९

इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः

सह रुद्रे ण संभूताः पुराणा गृहमेधिनः  ५०

तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः

प्रजावन्तः क्रियावन्तो महर्षिभिरलंकृताः  ५१

अथ देवासुरपितृ-न् मनुष्यांश्च चतुष्टयम्

सह रुद्रे ण सिसृक्षुरंभस्येतानि वै विधिः  ५२

स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत्

मुखादजनयद्देवान् पितृ-श्चैवोपपक्षतः  ५३

जघनादसुरान् सर्वान् प्रजनादपि मानुषान्

अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे  ५४

पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः

सर्पा यक्षास्तथा भूता गंधर्वाः संप्रजज्ञिरे  ५५

वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसोऽसृजत्

मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे  ५६

पद्भ्यां चाश्वान्समातंगान् शरभान् गवयान् मृगान्

उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः १  ५७

औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे

गायत्रीं च ऋचं चैव त्रिवृत्साम रथंतरम्  ५८

अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्

यजूंषि त्रैष्टुभं छंदःस्तोमं पंचदशं तथा  ५९

बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात्

सामानि जगतीछंदः स्तोमं सप्तदशं तथा  ६०

वैरूप्यमतिरात्रं च पश्चिमादसृजन् मुखात्

एकविंशमथर्वाणमाप्तोर्यामाणमेव च  ६१

अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात्

उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे  ६२

यक्षाः पिशाचा गंधर्वास्तथैवाप्सरसां गणाः

नरकिन्नररक्षांसि वयःपशुमृगोरगाः  ६३

अव्ययं चैव यदिदं स्थाणुस्थावरजंगमम्

तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे  ६४

तान्येव ते प्रपद्यंते सृज्यमानाः पुनः पुनः

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते  ६५

तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते

महाभूतेषु नानात्वमिंद्रि यार्थेषु मुक्तिषु  ६६

विनियोगं च भूतानां धातैव व्यदधत्स्वयम्

नाम रूपं च भूतानां प्राकृतानां प्रपंचनम्  ६७

वेदशब्देभ्य एवादौ निर्ममेऽसौ पितामहः

आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः  ६८

शर्वर्य्यंते प्रसूतानां तान्येवैभ्यो ददावजः

यथर्तावृतुलिंगानि नानारूपाणि पर्य्यये  ६९

दृश्यंते तानि तान्येव तथा भावा युगादिषु

इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः  ७०

महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम्

चंद्र सूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः  ७१

नदीभिश्च समुद्रै श्च पर्वतैश्च स मंडितः

परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा  ७२

तस्मिन् ब्रह्मवनेऽव्यक्तो ब्रह्मा चरति सर्ववित्

अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः  ७३

बुद्धिस्कंधमहाशाख इन्द्रि यांतरकोटरः

महाभूतप्रमाणश्च विशेषामलपल्लवः  ७४

धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः

आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः  ७५

द्यां मूर्द्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्र सूर्यौ च नेत्रे

दिशः श्रोत्रे चरणौ च क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता  ७६

वक्त्रात्तस्य ब्रह्मणास्संप्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात्

वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्रा ः! सर्वे वर्णा गात्रतः संप्रसूताः  ७७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशोऽध्यायः  १२

अध्याय १३

ऋषय ऊचुः

भवता कथिता सृष्टिर्भवस्य परमात्मनः

चतुर्मुखमुखात्तस्य संशयो नः प्रजायते  १

देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः

कालात्मा भगवान् रुद्र ः! कपर्दी नीललोहितः  २

सब्रह्मकमिमं लोकं सविष्णुमपि पावकम्

यः संहरति संक्रुद्धो युगांते समुपस्थिते  ३

यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात्

लोकसंकोचकस्यास्य यस्य तौ वशवर्तिनौ  ४

योऽयं देवः स्वकादंगाद्ब्रह्मविष्णू पुरासृजत्

स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः  ५

स कथं भगवान् रुद्र  आदिदेवः पुरातनः

पुत्रत्वमगमच्छंभुर्ब्रह्मणोऽव्यक्तजन्मनः  ६

प्रजापतिश्च विष्णुश्च रुद्र स्यैतौ परस्परम्

सृष्टौ परस्परस्यांगादिति प्रागपि शुश्रुम  ७

कथं पुनरशेषाणां भूतानां हेतुभूतयोः

गुणप्रधानभावेन प्रादुर्भावः परस्परात्  ८

नापृष्टं भवता किंचिन्नाश्रुतं च कथंचन

भगवच्छिष्यभूतेन भवता सकलं स्मृतम्  ९

तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः

वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः  १०

वायुरुवाच

स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः

इदमेव पुरा पृष्टो मम प्राह पितामहः  ११

तदहं सम्प्रवक्ष्यामि यथा रुद्र समुद्भवः

यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम्  १२

त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात्

चराचरस्य विश्वस्य सर्गस्थित्यंतहेतवः  १३

परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः

तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः  १४

पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु

ब्रह्मा सर्गे हरिस्त्राणे रुद्र ः! संहरणे तथा  १५

तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः

तपसा तोषयित्वा स्वं पितरं परमेश्वरम्  १६

लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः

ब्रह्मनारायणौ पूर्वं रुद्र ः! कल्पान्तरेऽसृजत्  १७

कल्पान्तरे पुनर्ब्रह्मा रुद्र विष्णू जगन्मयः

विष्णुश्च भगवान्रुद्रं  ब्रह्माणमसृजत्पुनः  १८

नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः

एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः  १९

परस्परेण जायंते परस्परहितैषिणः

तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः  २०

प्रभावः कथ्यते तेषां परस्परसमुद्भवात्

शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम्  २१

कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः

पुरा नारायणो नाम कल्पे वै मेघवाहने  २२

दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम्

तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः  २३

सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम्

शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा  २४

ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह

विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः  २५

ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत्

गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम्

आवयोरधिकश्चास्ति स रुद्रो  नात्र संशयः  २६

तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः

स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः  २७

अहं च तपसाराध्य रुद्रं  त्रिदशनायकम्

त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः  २८

एवं विष्णुमुपालभ्य भगवानब्जसम्भवः

एवं विज्ञापयामास तपसा प्राप्य शंकरम्  २९

भगवन् देवदेवेश विश्वेश्वर महेश्वर

तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम्  ३०

मया सह जगत्सर्वं तथाप्यसृजदच्युतः

स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया  ३१

मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे

त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः  ३२

तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि

तथा ममापि तत्सर्वं दातुमर्हसि शंकर  ३३

इति विज्ञापितस्तेन भगवान् भगनेत्रहा

न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः  ३४

लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात्

त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम्  ३५

क्षीरार्णवालये शुभ्रे विमाने सूर्यसंनिभे

हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते  ३६

अनंतभोगशय्यायां शयानं पंकजेक्षणम्

चतुर्भुजमुदारांगं सर्वाभरणभूषितम्  ३७

शंखचक्रधरं सौम्यं चन्द्र बिंबसमाननम्

श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम्  ३८

धरामृदुकरांभोजस्पर्शरक्तपदांबुजम्

क्षीरार्णवामृतमिव शयानं योगनिद्र या  ३९

तमसा कालरुद्रा ख्यं रजसा कनकांडजम्

सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम्  ४०

तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत्

ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा  ४१

तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम्

उदैक्षत महाबाहुस्स्मितमीषच्चकार च  ४२

तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना

सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः  ४३

तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः

शक्तिं तयोरपि द्र ष्टुमरूपो रूपमास्थितः  ४४

प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः

आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ  ४५

अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात्

प्रणेमतुश्च बहुशो बहुमानेन दूरतः  ४६

भवोपि भगवानेतावनुगृह्य पिनाकधृक्

सादरं पश्यतोरेव तयोरंतरधीयत  ४७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशोऽध्यायः  १३

अध्याय १४

वायुरुवाच

प्रतिकल्पं प्रवक्ष्यामि रुद्रा विर्भावकारणम्

यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते  १

कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः

अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः  २

तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये

तत्तत्कल्पेषु कालात्मा रुद्रो  रुद्र गणाधिपः  ३

निर्दिष्टः पममेशेन महेशो नीललोहितः

पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः  ४

स एव भगवानीशस्तेजोराशिरनामयः

अनादिनिधनोधाता भूतसंकोचको विभुः  ५

परमैश्वर्यसंयुक्तः परमेश्वरभावितः

तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः  ६

तन्नामनामा तद्रू पस्तत्कार्यकरणक्षमः

तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः  ७

सहस्रादित्यसंकाशश्चन्द्रा वयवभूषणः

भुजंगहारकेयूरवलयो मुंजमेखलः  ८

जलंधरविरिंचेन्द्र कपालशकलोज्ज्वलः

गण्गातुंगतरंगार्द्धपिंगलाननमूर्द्धजः  ९

भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः

सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः  १०

महावृषभनिर्याणो महाजलदनिःस्वनः

महानलसमप्रख्यो महाबलपराक्रमः  ११

एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः

विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च  १२

तस्माद्रुद्र प्रसादेन प्रतिकल्पं प्रजापतेः

प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते  १३

कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः

स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः  १४

कपर्द्दिनो निरातंकान्नीलग्रीवाँ स्त्रिलोचनान्

जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान्  १५

तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत्

तान्दृष्टा विविधान्रुद्रा न् रुद्र माह पितामहः  १६

नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः

अन्याः सृज त्वं भद्रं  ते प्रजा मृत्युसमन्विताः  १७

इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः

नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः  १८

ये त्विमे मनसा सृष्टा महात्मानो महाबलाः

चरिष्यंति मया सार्द्धं सर्व एव हि याज्ञिकाः  १९

इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः

सह रुद्रै ः! प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत  २०

ततः प्रभृति देवोऽसौ न प्रसूते प्रजाः शुभाः

ऊर्द्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम्  २१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्रा विर्भाववर्णनं नाम चतुर्दशोऽध्यायः  १४

अध्याय १५

वायुरुवाच

यदा पुनः प्रजाः सृष्टा न व्यवर्द्धन्त वेधसः

तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत  १

न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात्

तेन मैथुनजां सृष्टिं न शशाक पितामहः  २

ततस्स विदधे बुद्धिमर्थनिश्चयगामिनीम्

प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर  ३

प्रसादेन विना तस्य न वर्द्धेरन्निमाः प्रजाः

एवं संचिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे  ४

तदाद्या परमा शक्तिरनंता लोकभाविनी

आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा  ५

निर्गुणा निष्प्रपंचा च निष्कला निरुपप्लवा

निरंतरतरा नित्या नित्यमीश्वरपार्श्वगा  ६

तया परमया शक्त्या भगवंतं त्रियम्बकम्

संचिन्त्य हृदये ब्रह्मा तताप परमं तपः  ७

तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः

अचिरेणैव कालेन पिता संप्रतुतोष ह  ८

ततः केनचिदंशेन मूर्तिमाविश्य कामपि

अर्द्धनारीश्वरो भूत्वा ययौ देवस्स्वयं हरः  ९

तं दृष्ट्वा परमं देवं तमसः परमव्ययम्

अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः  १०

सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम्

सर्वलोकविधायिन्या शक्त्या परमया युतम्  ११

अप्रतर्क्यमनाभासममेयमजरं ध्रुवम्

अचलं निर्गुणं शांतमनंतमहिमास्पदम्  १२

सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम्

सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम्  १३

प्रणम्य दंडवद्ब्रह्मा समुत्थाय कृतांजलिः

श्रद्धाविनयसंपन्नैः श्राव्यैः संस्करसंयुतैः  १४

यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः

तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः  १५

ब्रह्मोवाच

जय देव महादेव जयेश्वर महेश्वर

जय सर्वगुण श्रेष्ठ जय सर्वसुराधिप  १६

जय प्रकृति कल्याणि जय प्रकृतिनायिके

जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि  १७

जयामोघमहामाय जयामोघ मनोरथ

जयामोघमहालील जयामोघमहाबल  १८

जय विश्वजगन्मातर्जय विश्वजगन्मये

जय विश्वजगद्धात्रि जय विश्वजगत्सखि  १९

जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय

जय शाश्वतिकाकार जय शाश्वतिकानुग  २०

जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि

जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके  २१

जयावलोकनायत्तजगत्कारणबृंहण

जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक  २२

जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले

जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे  २३

जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय

जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक  २४

जयोपाश्रितसंरक्षासंविधानपटीयसि

जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे  २५

जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण

जय विश्वबहिर्भूत निरस्तपरवैभव  २६

जय प्रणीतपंचार्थप्रयोगपरमामृत

जय पंचार्थविज्ञानसुधास्तोत्रस्वरूपिणि  २७

जयति घोरसंसारमहारोगभिषग्वर

जयानादिमलाज्ञानतमःपटलचंद्रि के  २८

जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि

जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि  २९

जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक

जय प्रचुरदिव्यांग जय प्रार्थितदायिनि  ३०

क्व देव ते परं धाम क्व च तुच्छं च नो वचः

तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम्  ३१

विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः

नमश्चकार रुद्रा य रद्रा ण्यै च मुहुर्मुहुः  ३२

इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम्

अर्द्धनारीश्वरं नाम शिवयोर्हर्षवर्द्धनम्  ३३

य इदं कीर्त्तयेद्भक्त्या यस्य कस्यापि शिक्षया

स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात्  ३४

सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम्

नरवरयुवतीवपुर्द्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम्  ३५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पू॥॥ शिवशिवास्तुतिवर्णनं नाम पंचदशोऽध्यायः  १५

अध्याय १६

वायुरुवाच

अथ देवो महादेवो महाजलदनादया

वाचा मधुरगंभीरशिवदश्लक्ष्णवर्णया  १

अर्थसंपन्नपदया राजलक्षणयुक्तया

अशेषविषयारंभरक्षाविमलदक्षया  २

मनोहरतरोदारमधुरस्मितपूर्वया

संबभाषे सुसंपीतो विश्वकर्माणमीश्वरः  ३

ईश्वर उवाच

वत्स वत्स महाभाग मम पुत्र पितामह

ज्ञातमेव मया सर्वं तव वाक्यस्य गौरवम्  ४

प्रजानामेव बृद्ध्यर्थं तपस्तप्तं त्वयाधुना

तपसाऽनेन तुष्टोस्मि ददामि च तवेप्सितम्  ५

इत्युक्त्वा परमोदारं स्वभावमधुरं वचः

ससर्ज वपुषो भागाद्देवीं देववरो हरः  ६

यामाहुर्ब्रह्मविद्वांसो देवीं दिव्यगुणान्विताम्

परस्य परमां शक्तिं भवस्य परमात्मनः  ७

यस्यां न खलु विद्यंते जन्म मृत्युजरादयः

या भवानी भवस्यांगात्समाविरभवत्किल  ८

यस्या वाचो निवर्तन्ते मनसा चेंद्रि यैः सह

सा भर्तुर्वपुषो भागाज्जातेव समदृश्यत  ९

या सा जगदिदं कृत्स्नं महिम्ना व्याप्य तिष्ठति

शरीरिणीव स देवी विचित्रं समलक्ष्यत  १०

सर्वं जगदिदं चैषा संमोहयति मायया

ईश्वरात्सैव जाताभूदजाता परमार्थतः  ११

न यस्या परमो भावः सुराणामपि गोचरः

विश्वामरेश्वरी चैव विभक्ता भर्तुरंगतः  १२

तां दृष्ट्वा परमेशानीं सर्वलोकमहेश्वरीम्

सर्वज्ञां सर्वगां सूक्ष्मां सदसद्व्यक्तिवर्जिताम्  १३

परमां निखिलं भासा भासयन्तीमिदं जगत्

प्रणिपत्य महादेवीं प्रार्थयामास वै विराट्  १४

ब्रह्मोवाच

देवि देवेन सृष्टोऽहमादौ सर्वजगन्मयि

प्रजासर्गे नियुक्तश्च सृजामि सकलं जगत्  १५

मनसा निर्मिताः सर्वे देवि देवादयो मया

न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनः पुनः  १६

मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम्

संवर्धयितुमिच्छामि सर्वा एव मम प्रजाः  १७

न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम्

तेन नारीकुलं स्रष्टुं शक्तिर्मम न विद्यते  १८

सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः

तस्मात्सर्वत्र सर्वेषां सर्वशक्तिप्रदायिनीम्  १९

त्वामेव वरदां मायां प्रार्थयामि सुरेश्वरीम्

चराचरविवृद्ध्यर्थमंशेनैकेन सर्वगे  २०

दक्षस्य मम पुत्रस्य पुत्री भव भवार्दिनि

एवं सा याचिता देवी ब्रह्मणा ब्रह्मयोनिना  २१

शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम्

तामाह प्रहसन्प्रेक्ष्य देवदेववरो हरः  २२

ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम्

तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा  २३

ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत्

दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम्  २४

विवेश देहं देवस्य देवश्चांतरधीयत

तदा प्रभृति लोकेऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः  २५

प्रजासृष्टिश्च विप्रेंद्रा  मैथुनेन प्रवर्तते

ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुंगवाः  २६

एतद्वस्सर्वमाख्यातं देव्याः शक्तिसमुद्भवम्

पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुपंगतः  २७

य इदं कीर्तयेन्नित्यं देव्याः शक्तिसमुद्भवम्

पुण्यं सर्वमवाप्नोति पुत्रांश्च लभते शुभान्  २८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीशक्त्युद्भवो नाम षोडशोऽध्यायः  १६

अध्याय १७

वायुरुवाच

एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम्

मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः  १

स्वयमप्यद्भुतो नारी चार्द्धेन पुरुषोऽभवत्

यार्द्धेन नारी सा तस्माच्छतरूपा व्यजायत  २

विराजमसृजद्ब्रह्मा सोऽर्द्धन पुरुषोऽभवत्

स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते  ३

सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम्

भर्त्तारं दीप्तयशसं मनुमेवान्वपद्यत  ४

तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत

प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ  ५

कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः

आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता  ६

स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः

रुचेः प्रजापतिश्चैव चाकूतिं समपादयत्  ७

आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम्

यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत्  ८

स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः १

चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः  ९

श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा

बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी  १०

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः

ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः  ११

ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा

सन्नतिश्चानसूया च ऊर्ज्जा स्वाहा स्वधा तथा  १२

भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः

पुलस्त्योऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा  १३

ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः

कामाद्यास्तु यशॐता ये ते त्रयोदश सूनवः  १४

धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः

दुःखोत्तराश्च हिंसायामधर्मस्य च संततौ  १५

निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः

नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः  १६

स एष तामसस्सर्गो जज्ञे धर्मनियामकः

या सा दक्षस्य दुहिता रुद्र स्य दयिता सती  १७

भर्तृनिन्दाप्रसंगेन त्यक्त्वा दाक्षायिणीं तनुम्

दक्षं च दक्षभार्य्यां च विनिंद्य सह बन्धुभिः  १८

सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः

रुद्र स्तु तां सतीं दृष्ट्वा रुद्रा स्त्वां!त्मसमप्रभान्  १९

यथासृजदसंख्यातांस्तथा कथितमेव च

भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया  २०

देवौ धातृविधातारौ मन्वंतरविधारिणौ

तयोर्वै पुत्रपौत्राद्याश्शतशोऽथ सहस्रशः  २१

स्वायंभुवेऽतरे नीताः सर्वे ते भार्गवा मताः

मरीचेरपि संभूतिः पौर्णमासमसूयत  २२

कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः

येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः  २३

स्मृतिश्चांगिरसः पत्नी जनयामास वै सुतौ

आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम्  २४

तदीयाः पुत्रपौत्राश्च येतीतास्ते सहस्रशः

प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः

पूर्वजन्मनि योगस्त्यस्स्मृतः स्वायंभुवेऽतरे  २५

तत्संततीया बहवः पौलस्त्या इति विश्रुताः

क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः  २६

कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः

त्रेताग्निवर्चसस्सर्वे येषां वंशः प्रतिष्ठितः  २७

क्रतोः क्रतुसमान्भार्या सन्नतिस्सुषुवे सुतान्

नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः  २८

षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः

अनूरोरग्रतो यांति परिवार्य्य दिवाकरम्  २९

अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत

कन्यकां च श्रुतिं नाम माता शंखपदस्य च  ३०

सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्शनैश्चरः

सोमश्च पंचमस्त्वेते पंचात्रेयाः प्रकीर्तिताः  ३१

तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम्

स्वायंभुवेऽतरेऽतीताः शतशोऽथ सहस्रशः  ३२

ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे

ज्यायसी च स्वसा तेषां पुंडरीका सुमध्यमा  ३३

रजो गात्रोर्द्ध्वबाहू च सवनश्चानयश्च यः

सुतपाश्शुक्र इत्येते सप्त सप्तर्षयः स्मृताः  ३४

गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम्

स्वायंभुवेऽतरेऽतीतान्यर्बुदानि शतानि च  ३५

इत्येष ऋषिसर्गस्तु सानुबंधः प्रकीर्तितः

समासाद्विस्तराद्वक्तुमशक्योऽयमिति द्विजाः  ३६

योऽसौ रुद्रा त्मको बह्निब्रह्मणो मानसस्सुतः

स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः  ३७

पावकः पवमानश्च शुचिरित्येष ते त्रयः

निर्मंथ्यः पवमानस्स्याद्वैद्युतः पावकस्स्मृतः  ३८

सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः

हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः  ३९

त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते

एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते  ४०

काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः

सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा  ४१

सर्वे रुद्रा त्मकश्चैव सर्वे रुद्र परायणाः

तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित्  ४२

तत्सर्वं रुद्र मुद्दिश्य दत्तं स्यान्नात्र संशयः

इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम्  ४३

नातिविस्तरतो विप्राः पितृ-न्वक्ष्याम्यतः परम्

यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम्  ४४

ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः

युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा  ४५

तस्मादेते पितर आर्तवा इति च श्रुतम्

एवं पितृ-णामेतेषामृतुकालाभिमानिनाम्  ४६

आत्मैश्वर्या महात्मानस्तिष्ठंतीहाब्भ्रसंगमात्

आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः  ४७

अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः

स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते  ४८

मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम्

अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता  ४९

मेना हिमवतः पत्नी मैनाकं क्रौंचमेव च

गौरीं गंगां च सुषुवे भवांगाश्लेषपावनीम्  ५०

मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम्

मंदरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम्  ५१

स एव मंदरः श्रीमान्मेरुपुत्रस्तपोबलात्

साक्षाच्छ्रीकंठनाथस्य शिवस्यावसथं गतः  ५२

सासूता धरणी भूयस्त्रिंशत्कन्याश्च विश्रुताः

वेलां च नियतिं चैव तृतीयामपि चायतिम्  ५३

आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः

स्वायंभुवेऽतरे पूर्वं कथितस्ते तदन्वयः  ५४

सुषुवे सागराद्वेला कन्यामेकामनिंदिताम्

सवर्णां नाम सामुद्री ं! पत्नीं प्राचीनबर्हिषः  ५५

सामुद्री  सुषुवे पुत्रान्दश प्राचीनबर्हिषः

सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः  ५६

येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा

त्रियम्बकस्य शापेन चाक्षुषस्यांतरे मनोः  ५७

इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम्

नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात्  ५८

वर्णिता वै मया वंशा दिव्या देवगणान्विताः

क्रियावंतः प्रजावंतो महर्द्धिभिरलंकृताः  ५९

प्रजानां संनिवेशोऽयं प्रजापतिसमुद्भवः

न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि  ६०

राज्ञामपि च यो वंशो द्विधा सोऽपि प्रवर्तते

सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ  ६१

इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः

पुण्यश्लोकाः श्रुता येऽत्र ते पि तद्वंशसंभवाः  ६२

अन्ये च राजऋषयो नानावीर्यसमन्विता

किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः  ६३

किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम्

न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम्  ६४

प्रसंगादीश्वरस्यैव प्रभावद्योतनादपि

सर्गादयोऽपि कथिता इत्यत्र तत्प्रविस्तरैः  ६५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशोऽध्यायः  १७

अध्याय १८

ऋषय ऊचुः

देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम्

कथं हिमवतः पुत्री मेनायामभवत्पुरा  १

कथं च निन्दितो रुद्रो  दक्षेण च महात्मना

निमित्तमपि किं तत्र येन स्यान्निंदितो भवः  २

उत्पन्नश्च कथं दक्षो अभिशापाद्भवस्य तु

चाक्षुषस्यांतरे पूर्वं मनोः प्रब्रूहि मारुत  ३

वायुरुवाव

शृण्वंतु कथयिष्यामि दक्षस्य लघुचेतसः

वृत्तं पापात्प्रमादाच्च विश्वामरविदूषणम्  ४

पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः

कदाचिद्द्रष्टुमीशानं हिमवच्छिखरं ययुः  ५

तदा देवश्च देवी च दिव्यासनगतावुभौ

दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः  ६

तदानीमेव दक्षोऽपि गतस्तत्र सहामरैः

जामातरं हरं द्र ष्टुं द्र ष्टुं चात्मसुतां सतीम्  ७

तदात्मगौरवाद्देवो देव्या दक्षे समागते

देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः  ८

तस्य तस्याः परं भावमज्ञातुश्चापि केवलम्

पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत  ९

ततस्तेनैव वैरेण विधिना च प्रचोदितः

नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन्  १०

अन्याञ् १जामातरस्सर्वानाहूय स यथाक्रमम्

शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक्  ११

तथा तान्संगताञ्छ्रुत्वा नारदस्य मुखात्तदा

ययौ रुद्रा य रुद्रा णी विज्ञाप्य भवनं पितुः  १२

अथ संनिहितं दिव्यं विमानं विश्वतोमुखम्

लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम्  १३

तप्तजांबूनदप्रख्यं चित्ररत्नपरिष्कृतम्

मुक्तामयवितानाग्न्यं स्रग्दामसमलंकृतम्  १४

तप्तकंचननिर्व्यूहं रत्नस्तंभशतावृतम्

वज्रकल्पितसोपानं विद्रुमस्तंभतोरणम्  १५

पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम्

वज्रजालकिरच्छिद्र मच्छिद्र मणिकुट्टिमम्  १६

मणिदंडमनोज्ञेन महावृषभलक्ष्मणा

अलंकृतपुरोभागमब्भ्रशुब्भ्रेण केतुना  १७

रत्नकंचुकगुप्तांगैश्चित्रवेत्रकपाणिभिः

अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः  १८

मृदंगतालगीतादिवेणुवीणाविशारदैः

विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम्  १९

आरुरोह महादेवी सह प्रियसखीजनैः

चामारव्यञ्जनं तस्या वज्रदंडमनोहरे  २०

गृहीत्वा रुद्र कन्ये द्वे विवीजतुरुभे शुभे

तदाचामरयोर्मध्ये देव्या वदनमाबभौ  २१

अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पंकजम्

छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी  २२

धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा

तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि  २३

उपर्यमृतभांडस्य मंडलं शशिनो यथा

अथ चाग्रे समासीना सुस्मितास्या शुभावती  २४

अक्षद्यूतविनोदेन रमयामास वै सतीम्

सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते  २५

स्तनयोरंतरे कृत्वा तदा देवीमसेवतः

अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम्  २६

अपरा तालवृन्तं च परा तांबूलपेटिकाम्

काचित्क्रीडाशुकं चारु करेऽकुरुत भामिनी  २७

काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च

काचिदाभरणाधारं बभार कमलेक्षणा  २८

काचिच्च पुनरालेपं सुप्रसूतं शुभांजनम्

अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः  २९

आवृत्त्या तां महादेवीमसेवंत समंततः

अतीव शुशुभे तासामंतरे परमेश्वरी  ३०

तारापरिषदो मध्ये चंद्र लेखेव शारदी

ततः शंखसमुत्थस्य नादस्य समनंतरम्  ३१

प्रास्थानिको महानादः पटहः समताड्यत

ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः  ३२

अनाहतानि सन्नेदुः काहलानां शतानि च

सायुधानां गणेशानां महेशसमतेजसाम्  ३३

सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः

तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः  ३४

जगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः

देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः  ३५

ननृतुर्मुनयस्सर्वे मुमुदुः सिद्धयोगिनः

ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः  ३६

तदा देवगणैश्चान्यैः पथि सर्वत्र संगता

क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी  ३७

तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात्

तस्या यवीयसीभ्योऽपि चक्रे पूजाम सत्कृताम्  ३८

तदा शशिमुखी देवी पितरं सदसि स्थितम्

अंबिका युक्तमव्यग्रमुवाचाकृपणं वचः  ३९

देव्युवाच

ब्रह्मादयः पिशाचांता यस्याज्ञावशवर्तिनः

स देवस्सांप्रतं तात विधिना नार्चितः किल  ४०

तदास्तां मम ज्यायस्याः पुत्र्! याः पूजां किमीदृशीम्

असत्कृतामवज्ञाय कृतवानसि गर्हितम्  ४१

एवमुक्तोऽब्रवीदेनां दक्षः क्रोधादमर्षितः

त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम  ४२

तासां तु ये च भर्त्तारस्ते मे बहुमता मुदा

गुनैश्चाप्यधिकास्सर्वैर्भर्तुस्ते त्र्! यंबकादपि  ४३

स्तब्धात्मा तामसश्शर्वस्त्वमिमं समुपाश्रिता

तेन त्वामवमन्येऽहं प्रतिकूलो हि मे भवः  ४४

तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत्

शृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः  ४५

अकस्मान्मम भर्तारमजाताशेषदूषणम्

वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम्  ४६

विद्याचौरो गुरुद्रो ही वेदेश्वरविदूषकः

त एते बहुपाप्मानस्सर्वे दंड्या इति श्रुतिः  ४७

तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम्

सहसा दारुणो दंडस्तव दैवाद्भविष्यति  ४८

त्वया न पूजितो यस्माद्देवदेवस्त्रियंबकः

तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय  ४९

इत्युक्त्वा पितरं रुष्टा सती संत्यक्तसाध्वसा

तदीयां च तनुं त्यक्त्वा हिमवंतं ययौ गिरिम्  ५०

स पर्वतपरः श्रीमाँ ल्लब्धपुण्यफलोदयः

तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः  ५१

तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी

स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया  ५२

यदा गता सती दक्षं विनिंद्य भयविह्वला

तदा तिरोहिता मंत्रा विहतश्च ततोऽध्वरः  ५३

तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः

दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान्  ५४

यस्मादवमता दक्षमत्कृतेऽनागसा सती

पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह  ५५

वैवस्वतेऽतरे तस्मात्तव जामातरस्त्वमी

उत्पत्स्यंते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः  ५६

भविता मानुषो राजा चाक्षुषस्य त्वमन्वये

प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः  ५७

अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते

धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः  ५८

तेनैवं व्याहृतो दक्षो रुद्रे णामिततेजसा

स्वायंभुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः  ५९

ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे

प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम्  ६०

भृग्वादयोऽपि जाता वै मनोर्वैवस्वतस्य तु

अंतरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम्  ६१

तदा दक्षस्य धर्मार्थं यज्ञे तस्य दुरात्मनः

महेशः कृतवान्विघ्नं मना ववस्वते सति  ६२

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सतीदेहत्यागो नामाष्टादशोऽध्यायः  १८

अध्याय १९

ऋषय ऊचुः

कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः

महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम्  १

वायुरुवाच

विश्वस्य जगतो मातुरपि देव्यास्तपोबलात्

पितृभावमुपागम्य मुदिते हिमवद्गिरौ  २

देवेऽपि तत्कृतोद्वाहे हिमवच्छिखरालये

संकीडति तया सार्द्धं काले बहुतरे गते  ३

वैवस्वतेऽतरे प्राप्ते दक्षः प्राचेतसः स्वयम्

अश्वमेधेन यज्ञेन यक्ष्यमाणोऽन्वपद्यत  ४

ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत्

गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते  ५

तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः

गमनाय समागम्य बुद्धिमापेदिरे तदा  ६

आदित्या वसवो रुद्रा स्साध्यास्सह मरुद्गणैः

ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा  ७

अश्विनौ पितरश्चैव तथा चान्ये महर्षयः

विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः  ८

दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम्

दधीचो मन्युनाविष्टो दक्षमेवमभाषत  ९

दधीच उवाच

अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने

नरः पापमवाप्नोति महद्वै नात्र संशयः  १०

असतां संमतिर्यत्र सतामवमतिस्तथा

दंडो देवकृतस्तत्र सद्यः पतति दारुणः  ११

एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत

पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम्  १२

दक्ष उवाच

संति मे बहवो रुद्रा ः! शूलहस्ताः कपर्दिनः

एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम्  १३

दधीच उवाच

किमेभिरमरैरन्यैः पूजितैरध्वरे फलम्

राजा चेदध्वरस्यास्य न रुद्र ः! पूज्यते त्वया  १४

ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः

ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः  १५

प्रकृतीनां परश्चैव पुरुषस्य च यः परः

चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः  १६

अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत्

अनादिमध्यनिधनमप्रतर्क्यं सनातनम्  १७

यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः

तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे  १८

दक्ष उवाच

एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम्

विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य  १९

दधीच उवाच

यस्मान्नाराधितो रुद्र स्सर्वदेवेश्वरेश्वरः

तस्माद्दक्ष तवाशेषो यज्ञोऽयं न भविष्यति  २०

इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः

निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम्  २१

निर्गतेऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः

अवश्यमनुभावित्वादनर्थस्य तु भाविनः  २२

एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात्

दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत्  २३

देव्या संचोदितो देवो दक्षाध्वरजिघांसया

ससर्ज सहसा वीरं वीरभद्रं  गणेश्वरम्  २४

सहस्रवदनं देवं सहस्रकमलेक्षणम्

सहस्रमुद्गरधरं सहस्रशरपाणिकम्  २५

शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम्

चक्रवज्रधरं घोरं चंद्रा र्द्धकृतशेखरम्  २६

कुलिशोद्योतितकरं तडिज्ज्वलितमूर्द्धजम्

दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम्  २७

विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम्

वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम्  २८

गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम्

वरामरशिरोमालावलीकलितशेखरम्  २९

रणन्नूपुरकेयूरमहाकनकभूषितम्

रत्नसंचयसंदीप्तं तारहारावृतोरसम्  ३०

महाशरभशार्दूलसिंहैः सदृशविक्रमम्

प्रशस्तमत्तमातंगसमानगमनालसम्  ३१

शंखचामरकुंदेन्दुमृणालसदृशप्रभम्

सतुषारमिवाद्री न्द्रं  साक्षाज्जंगमतां गतम्  ३२

ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम्

तेजसा चैव दीव्यंतं युगांत इव पावकम्  ३३

स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः

पार्श्वतो देवदेवस्य पर्य्यतिष्ठद्गणेश्वरः  ३४

मन्युना चासृजद्भद्रा ं! भद्र कालीं महेश्वरीम्

आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु  ३५

तं दृष्ट्वावस्थितं वीरभद्रं  कालाग्निसन्निभम्

भद्र या सहितं प्राह भद्र मस्त्विति शंकरः  ३६

स च विज्ञापयामास सह देव्या महेश्वरम्

आज्ञापय महादेव किं कार्यं करवाण्यहम्  ३७

ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया

वीरभद्रं  महाबाहुं वाचा विपुलनादया  ३८

देवदेव उवाच

प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय

भद्र काल्या सहासि त्वमेतत्कृत्यं गणेश्वर  ३९

अहमप्यनया सार्द्धं रैभ्याश्रमसपीपतः

स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम्  ४०

वृक्षा कनखले ये तु गंगाद्वारसमीपगाः

सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः  ४१

तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते

सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम्  ४२

इत्युक्ते सति देवेन देवी हिमगिरीन्द्र जा

भद्रं  भद्रं  च संप्रेक्ष्य वत्सं धेनुरिवौरसम्  ४३

आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा

सस्मिता वचनं प्राह मधुरं मधुरं स्वयम्  ४४

देव्युवाच

वत्स भद्र  महाभाग महाबलपराक्रम

मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक  ४५

यज्ञेश्वरमनाहूय यज्ञकर्मरतोऽभवत्

दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर  ४६

यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र  कृत्वा ममाज्ञया

यजमानं च तं हत्वा वत्स हिंसय भद्र या  ४७

अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः

मूर्ध्नि कृत्वा नमस्कृत्य भद्रो  गंतुं प्रचक्रमे  ४८

अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः

वीरभद्रो  महादेवो देव्या मन्युप्रमार्जकः  ४९

ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान्

दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान्  ५०

पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात्

गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात्  ५१

तदा गणेश्वरैर्भद्रै र्भद्र तुल्यपराक्रमैः

संछादितमभूत्सर्वं साकाशविवरं जगत्  ५२

सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः

रुद्र स्यानुचरास्सर्वे सर्वे रुद्र समप्रभाः  ५३

शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः

कालाग्निरुद्र सदृशास्त्रिनेत्राश्च जटाधराः  ५४

निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः

विनेदुश्च महानादाञ्जलदा इव भद्र जाः  ५५

तैर्भद्रै र्भगवान्मद्र स्तथा परिवृतो बभौ

कालानलशतैर्युक्तो यथांते कालभैरवः  ५६

तेषां मध्ये समारुह्य वृषेंद्रं  वृषभध्वजः

जगाम भगवान्भद्र श्शुभमभ्रं यथा भवः  ५७

तस्मिन्वृषभमारूढे भद्रे  तु भसितप्रभः

बभार मौक्तिकं छत्रं गृहीतसितचामरः  ५८

स तदा शुशुभे पार्श्वे भद्र स्य भसितप्रभः

भगवानिव शैलेन्द्र ः! पार्श्वे विश्वजगद्गुरोः  ५९

सोऽपि तेन बभौ भद्र ः! श्वेतचामरपाणिना

बालसोमेन सौम्येन यथा शूलवरायुधः  ६०

दध्मौ शंखं सितं भद्रं  भद्र स्य पुरतः शुभम्

भानुकंपो महातेजा हेमरत्नैरलंकृतः  ६१

देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः

ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः  ६२

फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः

मार्गानुकूलसंवाहा वबुश्च पथि मारुताः  ६३

ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः

ननृतुर्मुमुदुर् १नेदुर्जहसुर्जगदुर्जगुः  ६४

तदा भद्र गणांतःस्थो बभौ भद्र ः! स भद्र या

यथा रुद्र गणांतः स्थस्त्र्! यम्बकॐबिकया सह  ६५

तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम्

प्रविवेश महाबाहुर्वीरभद्रो  महानुगः  ६६

ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः

प्रयोगभूमिं प्रविवेश भद्रो  रुद्रो  यथांते भुवनं दिधक्षुः  ६७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रो त्पत्तिवर्णनं नामैकोनविंशोऽध्यायः  १९

अध्याय २०

वायुरुवाच

ततो विष्णुप्रधानानां सुराणाममितौजसाम्

ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम्  १

सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम्

कांचनैर्यज्ञभांडैश्च भ्राजिष्णुभिरलंकृतम्  २

ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः

विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम्  ३

देवांगनासहस्राढ्यमप्सरोगणसेवितम्

वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम्  ४

दृष्ट्वा दक्षाध्वरे वीरो वीरभद्र ः! प्रतापवान्

सिंहनादं तदा चक्रे गंभीरो जलदो यथा  ५

ततः किलकिलाशब्द आकाशं पूरयन्निव

गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः  ६

तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः

दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः  ७

किंस्विद्भग्नो महामेरुः किंस्वित्संदीर्यते मही

किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम्  ८

मृगेन्द्रा णां यथा नादं गजेंद्रा  गहने वने

श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात्  ९

पर्वताश्च व्यशीर्यंत चकम्पे च वसुंधरा

मरुतश्च व्यघूर्णंत चुक्षुभे मकरालयः  १०

अग्नयो नैव दीप्यंते न च दीप्यति भास्करः

ग्रहाश्च न प्रकाशंते नक्षत्राणि च तारकाः  ११

एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम्

संप्राप भगवान्भद्रो  भद्रै श्च सह भद्र या  १२

तं दृष्ट्वा भीतभीतोऽपि दक्षो दृढ इव स्थितः

क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि  १३

तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः

वीरभद्रो  महातेजा मेघसंभीरनिस्स्वनः  १४

स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः

अर्थगर्भमसंभ्रान्तमवोचदुचितं वचः  १५

वीरभद्र  उवाच

वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः

भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम्  १६

अथ चेदध्वरेऽस्माकं न भागः परिकल्पितः

कथ्यतां कारणं तत्र युध्यतां वा मयामरैः  १७

इत्युक्तास्ते गणेंद्रे ण देवा दक्षपुरोगमाः

ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति  १८

मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः

येन प्रथमभागार्हं न यजध्वं महेश्वरम्  १९

मंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः

भद्रा य न ददुर्भागं तत्प्रहाणमभीप्सवः  २०

यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथाऽभवत्

तदा ततो ययुर्मंदा ब्रह्मलोकं सनातनम्  २१

अथोवाच गणाध्यक्षो देवान्विष्णुपुरोगमान्

मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः  २२

यस्मादस्मिन् मखे देवैरित्थं वयमसत्कृताः

तस्माद्वो जीवितैस्सार्द्धमपनेष्यामि गर्वितम्  २३

इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना

यक्षवाटं महाकूटं यथातिस्रः पुरो हरः  २४

ततो गणेश्वरास्सर्वे पर्वतोदग्रविग्रहाः

यूपानुत्पाट्य होतृ-णां कंठेष्वाबध्य रज्जुभिः  २५

यज्ञपात्राणि चित्राणि भित्त्वा संचूर्ण्य वारिणि

गृहीत्वा चैव यज्ञांगं गंगास्रोतसि चिक्षिपुः  २६

तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः

क्षीरनद्योऽमृतस्रावाः सुस्निग्धदधिकर्दमाः  २७

उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च

रसवन्ति च पानानि लेह्यचोष्याणि तानि वै  २८

वीरास्तद्भुजते वक्त्रैर्विलुंपंति क्षिपंति च

वज्रैश्चक्रैर्महाशूलैश्शक्तिभिः पाशपट्टिशैः  २९

मुसलैरसिभिष्टंकैर्भिधिपालैः परश्वधैः

उद्धतांस्त्रिदशान्सर्वाँ ल्लोकपालपुरस्सरान्  ३०

बिभिदुर्बलिनो वीरा वीरभद्रा गं!संभवाः

छिंधि भिंधि क्षिप क्षिप्रं मार्यतां दार्यतामिति  ३१

हरस्व प्रहरस्वेति पाटयोत्पाटयेति च

संरंभप्रभवाः क्रूराश्शब्दाः श्रवणशंकवः  ३२

यत्रतत्र गणेशानां जज्ञिरे समरोचिताः

विवृत्तनयनाः केचिद्दष्टदंष्ट्रोष्ठतालवः  ३३

आश्रमस्थान्समाकृष्य मारयन्ति तपोधनात्

स्रुवानपहरन्तश्च क्षिपन्तोग्निं जलेषु च  ३४

कलशानपि भिन्दंतश्छिंदंतो मणिवेदिकाः

गायंतश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः  ३५

रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः

निर्मथ्य सेंद्रा नमरान् गणेन्द्रा न्वृषेन्द्र नागेन्द्र मृगेन्द्र साराः  ३६

चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि

नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित्  ३७

नृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन  ३८

केचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति

केचित्प्रसर्तुं पवनेन सार्द्धमिच्छंति भीमाः प्रमथा वियत्स्थाः  ३९

आक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः

भ्रमंति देवानपि विद्र वंतः खमंडले पर्वतकूटकल्पाः  ४०

उत्पाट्य चोत्पाट्यगृहाणि केचित्सजालवातायनवेदिकानि

विक्षिप्य विक्षिप्य जलस्य मध्ये कालांबुदाभाः प्रमथा निनेदुः  ४१

उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम्

अहो बताभज्यत यज्ञवाटमनाथवद्वाक्यमिवायथार्थम्  ४२

हा नाथ तातेति पितुः सुतेति भ्रतर्ममाम्बेति च मातुलेति

उत्पाट्यमानेषु गृहेषु नार्यो ह्यानाथशब्दान्बहुशः प्रचक्रुः  ४३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशोऽध्यायः  २०

अध्याय २१

वायुरुवाच

ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः

सर्वे भयपरित्रस्तादुद्रुवुर्भयविह्वलाः  १

निजैरदूषितैरंगैर्दृष्ट्वा देवानुपद्रुतान्

दंड्यानदंडितान्मत्वा चुकोप गणपुंगवः  २

ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम्

ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन्  ३

अमरानपि दुद्रा व द्विरदानिव केसरी

तानभिद्र वतस्तस्य गमनं सुमनोहरम्  ४

वाराणस्येव मत्तस्य जगाम प्रेक्षणीयताम्

ततस्तत्क्षोभयामास महत्सुरबलं बली  ५

महासरोवरं यद्वन्मत्तो वारणयूथपः

विकुर्वन्बहुधावर्णान्नीलपांडुरलोहितान्  ६

विभ्रद्व्याघ्राजिनं वासो हेमप्रवरतारकम्

छिन्दन्भिन्दन्नुद १क्लिन्दन्दारयन्प्रमथन्नपि  ७

व्यचरद्देवसंघेषु भद्रो ऽग्निरिव कक्षगः

तत्र तत्र महावेगाच्चरंतं शूलधारिणम्  ८

तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे

भद्र काली च संक्रुद्धा युद्धवृद्धमदोद्धता  ९

मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान्

स तया रुरुचे भद्रो  रुद्र कोपसमुद्भवः  १०

प्रभयेव युगांताग्निश्चलया धूमधूम्रया

भद्र काली तदायुद्धे विद्रुतत्रिदशाबभौ  ११

कल्पे शेषानलज्वालादग्धाविश्वजगद्यथा

तदा सवाजिनं सूर्यं रुद्रा न्रुद्र गणाग्रणीः  १२

भद्रो  मूर्ध्नि जघानाशु वामपादेन लीलया

असिभिः पावकं भद्र ः! पट्टिशैस्तु यमं यमी  १३

रुद्रा न्दृढेन शूलेन मुद्गरैर्वरुणं दृढैः

परिघैर्निरृतिं वायुं टंकैष्टंकधरः स्वयम्  १४

निर्बिभेद रणे वीरो लीलयैव गणेश्वरः

सर्वान्देवगणान्सद्यो मुनीञ्छंभोर्विरोधिनः  १५

ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम्

चिच्छेद करजाग्रेण देवमातुस्तथैव च  १६

चिच्छेद च कुठारेण बाहुदंडं विभावसोः

अग्रतो द्व्यंगुलां जिह्वां मातुर्देव्या लुलाव च  १७

स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम्

चकर्त करजाग्रेण वामं च स्तनचूचुकम्  १८

भगस्य विपुले नेत्रे शतपत्रसमप्रभे

प्रसह्योत्पाटयामास भद्र ः! परमवेगवान्  १९

पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव

जघान धनुषः कोट्या स तेनास्पष्टवागभूत्  २०

ततश्चंद्र मसं देवः पादांगुष्ठेन लीलया

क्षणं कृमिवदाक्रम्य घर्षयामास भूतले  २१

शिरश्चिच्छेद दक्षस्य भद्र ः! परमकोपतः

क्रोशंत्यामेव वैरिण्यां भद्र काल्यै ददौ च तत्  २२

तत्प्रहृष्टा समादाय शिरस्तालफलोपमम्

सा देवी कंडुकक्रीडां चकार समरांगणे  २३

ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा

पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः  २४

अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम्

बहुपुत्रं चांगिरसं कृशाश्वं कश्यपं तथा  २५

गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः

भर्त्सयंतो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः  २६

धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः

यथा कलियुगे जारैर्बलेन कुलयोषितः  २७

तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम्

प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम्  २८

उत्पाटितसुरानीकं हन्यमानं तपोधनम्

प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसंचयम्  २९

क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम्

शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम्  ३०

शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः

विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः  ३१

हतेषु तेषु देवेषु पतितेषुः सहस्रशः

प्रविवेश गणेशानः क्षणादाहवनीयकम्  ३२

प्रविष्टमथ तं दृष्ट्वा भद्रं  कालाग्निसंनिभम्

दुद्रा व मरणाद्भीतो यज्ञो मृगवपुर्धरः  ३३

स विस्फार्य्य महच्चापं दृढज्याघोषणभीषणम्

भद्र स्तमभिदुद्रा व विक्षिपन्नेव सायकान्  ३४

आकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम्

नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः  ३५

तमुपश्रित्य सन्नादं हतोऽस्मीत्येव विह्वलम्

शरणार्धेन वक्रेण स वीरोऽध्वरपूरुषम्  ३६

महाभयस्खलत्पादं वेपन्तं विगतत्विषम्

मृगरूपेण धावन्तं विशिरस्कं तदाकरोत्  ३७

तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम्

विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः  ३८

तमुवाह महावेगात्स्कन्धेन नतसंधिना

सर्वेषां वयसां राजा गरुडः पन्नगाशनः  ३९

देवाश्च हतशिष्टा ये देवराजपुरोगमाः

प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः  ४०

विष्णुना सहितान्देवान्मृगेन्द्र ः! क्रोष्टुकानिव

दृष्ट्वा जहास भूतेन्द्रो  मृगेन्द्र  इव विव्यथः  ४१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदंडवर्णनं नामैकविंशोऽध्यायः  २१

अध्याय २२

तस्मिन्नवसरे व्योम्नि समाविरभवद्र थः

सहस्रसूर्यसंकाशश्चारुचीरवृषध्वजः  १

अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः

सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः  २

तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः

यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः  ३

स तं रथवरं ब्रह्मा शासनादेव शूलिनः

हरेस्समीपमानीय कृताञ्जलिरभाषत  ४

भगवन्भद्र  भद्रा गं! भगवानिन्दुभूषणः

आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः  ५

रेभ्याश्रमसमीपस्थस्त्र्! यंबकोऽबिकया सह

सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम्  ६

तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः

आरुरोह रथं दिव्यमनुगृह्य पितामहम्  ७

तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ

भद्र स्य ववृधे लक्ष्मी रुद्र स्येव पुरद्विषः  ८

ततः शंखवरं दीप्तं पूर्णचंद्र समप्रभम्

प्रदध्मौ वदने कृत्वा भानुकंपो महाबलः  ९

तस्य शंखस्य तं नादं भिन्नसारससन्निभम्

श्रुत्वा भयेन देवानां जज्वाल जठरानलः  १०

यक्षविद्याधराहीन्द्रै ः! सिद्धैर्युद्धदिदृक्षुभिः

क्षणेन निबडीभूताः साकाशविवरा दिशाः  ११

ततः शार्ण्गेण चापाण्कात्स नारायणनीरदः

महता बाणवर्षेण तुतोद गणगोवृषम्  १२

तं दृष्ट्वा विष्णुमायांतं शतधा बाणवर्षिणम्

स चाददे धनुर्जैत्रं भद्रो  बाणसहस्रमुक्  १३

समादाय च तद्दिव्यं धनुस्समरभैरवम्

शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः  १४

तस्य विस्फार्य्यमाणस्य धनुषोऽभून्महास्वनः

तेन स्वनेन महता पृथिवीं समकंपयत्  १५

ततः शरवरं घोरं दीप्तमाशीविषोपमम्

जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः  १६

बाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः

प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः  १७

समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः

महाभुजंगसंदष्टो यथा बालभुजण्गमः  १८

शरेण घनतीव्रेण भद्रो  रुद्र पराक्रमः

विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम्  १९

ललाटेऽभिहितो विष्णुः पूर्वमेवावमानितः

चुकोप गणपेंद्रा य मृगेंद्रा येव गोवृषः  २०

ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा

विव्याध गणराजस्य भुजे भुजगसन्निभे  २१

सोऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम्

विससर्ज शरं वेगाद्वीरभद्रो  महाबलः  २२

स च विष्णुः पुनर्भद्रं  भद्रो  विष्णुं तथा पुनः

स च तं स च तं विप्राश्शरैस्तावनुजघ्नतुः  २३

तयोः परस्परं वेगाच्छरानाशु विमुंचतोः

द्वयोस्समभवद्युद्धं तुमुलं रोमहर्षणम्  २४

तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम्

हाहाकारो महानासीदाकाशे खेचरेरितः  २५

ततस्त्वनलतुंडेन शरेणादित्यवर्चसा

विव्याध सुदृढं भद्रो  विष्णोर्महति वक्षसि  २६

स तु तीव्रप्रपातेन शरेण दृढमाहतः

महतीं रुजमासाद्य निपपात विमोहितः  २७

पुनः क्षणादिवोत्थाय लब्धसंज्ञस्तदा हरिः

सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत्  २८

स च विष्णुर्धनुर्मुक्तान्सर्वाञ्छर्वचमूपतिः

सहसा वारयामास घोरैः प्रतिशरैः शरान्  २९

ततो विष्णुस्स्वनामांकं बाणमव्याहतं क्वचित्

ससर्ज क्रोधरक्ता क्षस्तमुद्दिश्य गणेश्वरम्

तं बाणं बाणवर्येण भद्रो  भद्रा ह्वयेण तु  ३०

अप्राप्तमेव भगवाञ्चिच्छेद शतधा पथि

अथैकेनेषुणा शार्ण्गं द्वाभ्यां पक्षौ गरुत्मतः  ३१

निमेषादेव चिच्छेद तदद्भुतमिवाभवत्

ततो योगबलाद्विष्णुर्देहाद्देवान्सुदारुणान्  ३२

शंखचक्रगदाहस्तान् विससर्ज सहस्रशः

सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शंकरः  ३३

निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना

ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः  ३४

तस्मिन्वीरो समुत्स्रष्टुं तदानीमुद्यतोऽभवत्

तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम्  ३५

स्मयन्निव गणेशानो व्यष्टंभयदयत्नतः

स्तंभितांगस्तु तच्चक्रं घोरमप्रतिमं क्वचित्  ३६

इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः

श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम्  ३७

अतिष्ठदलसो भूत्वा पाषाण इव निश्चलः

विशरीरो यथाजीवो विशृण्गो वा यथा वृषः  ३८

विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः

तं दृष्ट्वा दुर्दशापन्नं विष्णुमिंद्रा दयः सुराः

समुन्नद्धा गणेन्द्रे ण मृगेंद्रे णेव गोवृषाः  ३९

प्रगृहीतायुधा यौद्धुंक्रुद्धाः समुपतस्थिरे

तान्दृष्ट्वा समरे भद्र क्षुःद्रा निव हरिर्मृगान्  ४०

साक्षाद्रुद्र तनुर्वीरो वरवीरगणावृतः

अट्टहासेन घोरेण व्यष्टं भयदनिंदितः  ४१

तथा शतमखस्यापि सवज्रो दक्षिणः करः

सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत्  ४२

अन्येषामपि सर्वेषां सरक्ता अपि बाहवः

अलसानामिवारंभास्तादृशाः प्रतियांत्युत  ४३

एवं भगवता तेन व्याहताशेषवैभवात्

अमराः समरे तस्य पुरतः स्थातुमक्षमाः  ४४

स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः

स्थितिं च चक्रिरे युद्धे वीरतेजोभयाकुलाः  ४५

विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो  महाभुजः  ४६ब्

विव्याध निशितैर्बाणैर्मघो वर्षैरिवाचलान्  ४६

बहवस्तस्य वीरस्य बाहवः परिघोपमाः

शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः  ४७

अस्त्रशस्त्राण्यनेकानिसवीरो विसृजन्बभौ

विसृजन्सर्वभूतानि यथादौ विश्वसंभवः  ४८

यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम्

तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः  ४९

खमंडले गणेन्द्र स्य शराः कनकभूषिताः

उत्पतंतस्तडिद्रू पैरुपमानपदं ययुः  ५०

महांतस्ते सुरगणान् मंडूकानिवडुंडुभाः

प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम्  ५१

निकृत्तबाहवः केचित्केचिल्लूनवराननाः

पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि  ५२

विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः

विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः

गां प्रवेष्टुमिवेच्छंतः खं गंतुमिव लिप्सवः  ५३

अलब्धात्मनिरोधानां व्यलीयंतः परस्परम्

भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे  ५४

अपरे जग्मुराकाशं परे च विविशुर्जलम्

तथा संछिन्नसर्वांगैस्स वीरस्त्रिदशैर्बभौ  ५५

परिग्रस्तप्रजावर्गो भगवानिव भैरवः

दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाभवत्  ५६

एवं देवबलं सर्वं दीनं बीभत्सदर्शनम्

गणेश्वरसमुत्पन्नं कृपणं वपुराददे  ५७

तदा त्रिदशवीराणामसृक्सलिलवाहिनी

प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी  ५८

रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ

रक्तार्द्र वसना श्यामा हतशुंभेव कैशिकी  ५९

तस्मिन्महति संवृत्ते समरे भृशदारुणे

भयेनेव परित्रस्ता प्रचचाल वसुन्धरा  ६०

महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः

पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः  ६१

अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ

अहो विधिविपर्यासस्त्वश्वमेधोयमध्वरः

यजमानस्स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः  ६२

धर्मादयस्सदस्याश्च रक्षिता गरुडध्वजः

भागांश्च प्रतिगृह्णंति साक्षादिंद्रा दयः सुराः  ६३

तथापि यजमानस्य यज्ञस्य च सहर्त्विजः

सद्य एव शिरश्छेदस्साधु संपद्यते फलम्  ६४

तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम्

नासत्परिगृहीतं च कर्म कुर्यात्कदाचन  ६५

कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि

न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे  ६६

कृत्वापि सुमहत्पापं भक्त्या यजति यश्शिवम्

मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा  ६७

बहुनात्र किमुक्तेन वृथा दानं वृथा तपः

वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु  ६८

ततः सनारायणकास्सरुद्रा ः! सलोकपालास्समरे सुरौघाः

गणेंद्र चापच्युतबाणविद्धाः प्रदुद्रुवुर्गाढरुजाभिभूताः  ६९

चेलुः क्वचित्केचन शीर्णकेशाः सेदुः क्वचित्केचन दीर्घगात्राः

पेतुः क्वचित्केचन भिन्नवक्त्रा नेशुः क्वचित्केचन देववीराः  ७०

केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः

निपेतुरुद्भासितदीनमुद्रा  मदं च दर्पं च बलं च हित्वा  ७१

सस्मुत्पथप्रस्थितमप्रधृष्यो विक्षिप्य दक्षाध्वरमक्षतास्त्रैः

बभौ गणेशस्स गणेश्वराणां मध्ये स्थितः सिंह इवर्षभाणाम्  ७२

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्खण्डे दक्षयज्ञविध्वंसवर्णनं नाम द्वाविंशोऽध्यायः  २२

अध्याय २३

वायुरुवाच

इति सञ्छिन्नभिन्नांगा देवा विष्णुपुरोगमाः

क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता  १

त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः

प्रमथाः परमक्रुद्धा वीरभद्र प्रणोदिताः  २

प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः

बबन्धुः पाणिपादेषु कंधरेषूदरेषु च  ३

तस्मिन्नवसरे ब्रह्मा भद्र मद्री न्द्र जानुतम्

सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतोऽब्रवीत्  ४

अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः

प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत  ५

एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना

शमं जगाम संप्रीतो गणपस्तस्य गौरवात्  ६

देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः

धारयन्तोऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः  ७

देवा ऊचुः

नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने

रुद्र भद्रा य रुद्रा णां पतये रुद्र भूतये  ८

कालाग्निरुद्र रूपाय कालकामांगहारिणे

देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः  ९

संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः

शासिताः समरे वीर त्वया वयमनिन्दिता  १०

दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो

त्वमेव गतिरस्माकं त्राहि नश्शरणागतान्  ११

वायुरुवाच

तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः

आनयद्देवदेवस्य समीपममरानिह  १२

देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः

सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः  १३

तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः

प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम्  १४

दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः

इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम्  १५

महादेव उवाच

माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः

अनुग्रहार्थमेवेह धृतो दंडः कृपालुना  १६

भवतां निर्ज्जराणां हि क्षान्तोऽस्माभिर्व्यतिक्रमः

क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम्  १७

वायुरुवाच

इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा

सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा  १८

प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः

स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः  १९

देवा ऊचुः

त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरोऽसि

कविष्णुरुद्रा ख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्त्ते  २०

सर्वमूर्त्ते नमस्तेऽस्तु विश्वभावन पावन

अमूर्त्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद  २१

चंद्रो ऽगदो हि देवेश कृपातस्तव शंकर

निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः  २२

सीमन्तिनी हतधवा तव पूजनतः प्रभो

सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान्  २३

श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम्

सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः  २४

मेदुरं तारयामास सदारं च घृणानिधिः

शारदां विधवां चक्रे सधवां क्रियया भवान्  २५

भद्रा युषो विपत्तिं च विच्छिद्य त्वमदाः सुखम्

सौमिनी भवबन्धाद्वै मुक्ताऽभूत्तव सेवनात्  २६

विष्णुरुवाच

त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः

कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया  २७

सर्वगर्वापहारी च सर्वतेजोविलासकः

सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः  २८

त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर

त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि  २९

अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः

एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने  ३०

ब्रह्मोवाच

जय देव महादेव प्रणतार्तिविभंजन

ईदृशेष्वपराधेषु कोऽन्यस्त्वत्तः प्रसीदति  ३१

लब्धमानो भविष्यंति ये पुरा निहिता मृधे

प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे  ३२

यदिदं देवदेवानां कृतमन्तुषु दूषणम्

तदिदं भूषणं मन्येत अंगीकारगौरवात्  ३३

इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना

विलोक्य वदनं देव्या देवदेवस्स्मयन्निव  ३४

पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः

देवादीनां यथापूर्वमंगानि प्रददौ प्रभुः  ३५

प्रथमाद्यैश्च या देव्यो दंडिता देवमातरः

तासामपि यथापूर्वाण्यंगानि गिरिशो ददौ  ३६

दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः

तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम्  ३७

सोऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी

भीतः कृताञ्जलिः शंभुं तुष्टाव प्रलपन्बहु  ३८

दक्ष उवाच

जय देव जगन्नाथ लोकानुग्रहकारक

कृपां कुरु महेशानापराधं मे क्षमस्व ह  ३९

कर्त्ता भर्त्ता च हर्ता च त्वमेव जगतां प्रभो

मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः  ४०

त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम्

न हि त्वदधिकाः केचिदीशास्तेऽच्युतकादयः  ४१

वायुरुवाच

तं तथा व्याकुलं भीतं प्रलपंतं कृतागसम्

स्मयन्निवावदत्प्रेक्ष्य मा भैरिति १ घृणानिधिः  ४२

तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया

गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः  ४३

ततो ब्रह्मादयो देवा अभिवंद्य कृत २जं!लिः

तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम्  ४४

ब्रह्मादय ऊचुः

जय शंकर देवेश दीनानाथ महाप्रभो

कृपां कुरु महेशानापराधं नो क्षमस्व वै  ४५

मखपाल मखाधीश मखविध्वंसकारक

कृपां कुरु मशानापराधं नः क्षमस्व वै  ४६

देवदेव परेशान भक्तप्राणप्रपोषक

दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमोऽस्तु ते  ४७

त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम्

रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम्  ४८

अद्भुतं चरितं ते हि निश्चितं कृपया तव

सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः  ४९

वायुरुवाच

इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः

स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः  ५०

चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम्

ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः  ५१

स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः

अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत  ५२

शिव उवाच

यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः

शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः  ५३

तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः

हरिविरिंचिसुरेन्द्र मुखास्सुखं व्रजत देवपुरं प्रति संप्रति  ५४

इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः

सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः  ५५

अथ सुरा अपि ते विगतव्यथाः कथितभद्र सुभद्र पराक्रमाः

सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः  ५६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशोऽध्यायः  २३

अध्याय २४

ऋषय ऊचुः

अन्तर्धानगतो देव्या सह सानुचरो हरः

क्व यातः कुत्र वासः किं कृत्वा विरराम ह  १

वायुरुवाच

महीधरवरः श्रीमान् मंदरश्चित्रकंदरः

दयितो देवदेवस्य निवासस्तपसोऽभवत्  २

तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ

चिरेण लब्धं तत्पादपंकजस्पर्शजं सुखम्  ३

तस्य शैलस्य सौन्दर्य्यं सहस्रवदनैरपि

न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि  ४

शक्यमप्यस्य सौन्दर्य्यं न वर्णयितुमुत्सहे

पर्वतान्तरसौन्दर्य्यं साधारणविधारणात्  ५

इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे

ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता  ६

अत एव हि देवेन देव्याः प्रियचिकीर्षया

अतीव रमणीयोयं गिरिरन्तःपुरीकृतः  ७

मेखलाभूमयस्तस्य विमलोपलपादपाः

शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वंत्यखिलंजगत्  ८

पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः

अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः  ९

लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः

अधिराज्येन चाद्री णामद्री रेषोऽभिषिच्यते  १०

निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः

चंद्रे णाचल साम्राज्यच्छत्रेणेव विराजते  ११

स शैलश्चंचलीभूतैर्बालैश्चामरयोषिताम्

सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते  १२

प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः

दर्पणे देहसौभाग्यं द्र ष्टुकाम इव स्थितः  १३

कूजद्विहंगवाचालैर्वातोद्धृतलताभुजैः

विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः  १४

लताप्रतानजटिलैस्तरुभिस्तपसैरिव

जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रि राट्  १५

अधोमुखैरूर्द्ध्वमुखैश्शृंगैस्तिर्यण्मुखैस्तथा

प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव  १६

परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि

पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम्  १७

गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः

अजीर्णलावण्यतया जृंभमाण इवाचलः  १८

ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम्

वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः  १९

निवास भूमयस्तास्ता दर्पणप्रतिमोदराः

तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः  २०

सरित्सरस्तडागादिसंपर्कशिशिरानिलाः

तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः  २१

तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः

रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ  २२

तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः

रराम रमणीयासु देव्यान्तःपुरभूमिषु  २३

तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च

दैत्यौ शुंभनिशुंभाख्यौ भ्रातरौ संबभूवतुः  २४

ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्टिना

अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि  २५

अयोनिजा तु या कन्या ह्यंबिकांशसमुद्भवा

अजातपुंस्पर्शरतिरविलंघ्यपराक्रमा  २६

तया तु नौ वधः संख्ये तस्यां कामाभिभूतयोः

इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति  २७

ततः प्रभृति शक्रादीन्विजित्य समरे सुरान्

निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात्  २८

तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः

विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा  २९

तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम्

निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि  ३०

एवमभ्यर्थितो धात्रा भगवान्नीललोहितः

कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः  ३१

ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात्

स्मयन्ती चाह भर्तारमसमाधेयया गिरा  ३२

देव्युवाच

ईदृशो मम वर्णेस्मिन्न रतिर्भवतोऽस्ति चेत्

एवावन्तं चिरं कालं कथमेषा नियम्यते  ३३

अरत्या वर्तमानोऽपि कथं च रमसे मया

न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः  ३४

स्वात्मारामस्य भवतो रतिर्न सुखसाधनम्

इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः  ३५

या च नाभिमता भर्तुरपि सर्वांगसुन्दरी

सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः  ३६ शेषो हि सर्ग एवैष योषिताम्

तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते  ३७

तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम्

वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम्  ३८

इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम्

ययाचेऽनुमतिं भर्तुस्तपसे कृतनिश्चया  ३९

तथा प्रणयभंगेन भीतो भूतपतिः स्वयम्

पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत  ४०

ईश्वर उवाच

अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे

रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम  ४१

माता त्वमस्य जगतः पिताहमधिपस्तथा

कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम  ४२

आवयोरभिकामोऽपि किमसौ कामकारितः

यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः  ४३

पृथग्जनानां रतये कामात्मा कल्पितो मया

ततः कथमुपालब्धः कामदाहादहं त्वया  ४४

मां वै त्रिदशसामान्यं मन्यमानो मनोभवः

मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः  ४५

विहारोप्यावयोरस्य जगतस्त्राणकारणात्

ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम्  ४६

स चायमचिरादर्थस्तवैवाविष्करिष्यते

क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत्  ४७

देव्युवाच

श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया

येनैवमतिधीराहमपि प्रागभिवंचिता  ४८

प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत्

कुलांगना शुभा सद्भिः कुत्सितैव हि गम्यते  ४९

भूयसी च तवाप्रीतिरगौरमिति मे वपुः

क्रीडोक्तिरपि कालीति घटते कथमन्यथा  ५०

सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसंमतम्

अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे  ५१

शिव उवाच

स यद्येवंविधतापस्ते तपसा किं प्रयोजनम्

ममेच्छया स्वेच्छया वा वर्णान्तरवती भव  ५२

देव्युवाच

नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा

ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम्  ५३

ईश्वर उवाच

मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा

तमाहूय महादेवि तपसा किं करिष्यसि  ५४

देव्युवाच

त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः

तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः  ५५

पुरा किल सती नाम्ना दक्षस्य दुहिताऽभवम्

जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा  ५६

एवमद्यापि तपसा तोषयित्वा द्विजं विधिम्

गौरी भवितुमिच्छामि को दोषः कथ्यतामिह  ५७

एवमुक्तो महादेव्या वामदेवः स्मयन्निव

न तां निर्बंधयामास देवकार्यचिकीर्षया  ५८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनं नाम चतुर्विंशोऽध्यायः  २४

अध्याय २५

वायुरुवाच

ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता

नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम्  १

तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः

तमेव देशमवृनोत्तपसे प्रणयात्पुनः  २

ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे

प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती  ३

पुनस्तपोवनं गत्वा भूषणानि विसृज्य च

स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम्  ४

संकल्प्य च महातीव्रं तपः परमदुश्चरम्

सदा मनसि सन्धाय भर्तुश्चरणपंकजम्  ५

तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः

त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः  ६

स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम्

प्रदास्यति ममेत्येवं नित्यं कृत्वाऽकरोत्तपः  ७

तथा तपश्चरन्तीं तां काले बहुतिथे गते

दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत्  ८

तथैवोपगतस्यापि तस्यातीवदुरात्मनः

गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः  ९

तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम्

न पृथग्जनवद्देवी स्वभावेन विविच्यते  १०

स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः

ममामिषं ततो नान्यदिति मत्वा निरन्तरम्  ११

निरीक्ष्यमाणः सततं देवीमेव तदाऽनिशम्

अतिष्ठदग्रतस्तस्या उपासनमिवाचरत्  १२

देव्याश्च हृदये नित्यं ममैवायमुपासकः

त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा  १३

तस्या एव कृपा योगात्सद्योनष्टमलत्रयः

बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा  १४

न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा

दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत  १५

तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः

सद्योपासक एवैष सिषेवे परमेश्वरीम्  १६

दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम्

स एव द्रा वको भूत्वा विचचार तपोवने  १७

तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम्

देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः  १८

चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात्

यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात्  १९

सोऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः

आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम्  २०

सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम्

संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः  २१

ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम्

प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम्  २२

ननाम चास्य जगतो मातरं स्वस्य वै हरेः

रुद्र स्य च पितुर्भार्यामार्यामद्री श्वरात्मजाम्  २३

ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह

अर्घ्यं तदर्हं दत्त्वाऽस्मै स्वागताद्यैरुपाचरत्  २४

तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च

पप्रच्छ तपसो हेतुमजानन्निव पद्मजः  २५

ब्रह्मोवाच

तीव्रेण तपसानेन देव्या किमिह साध्यते

तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः  २६

यश्चैव जगतां भर्ता तमेव परमेश्वरम्

भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम्  २७

अथवा सर्वमेवैतत्क्रीडाविलसितं तव

इदन्तु चित्रं देवस्य विरहं सहसे कथम्  २८

देव्युवाच

सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा

तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः  २९

यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः

उत्पन्नोऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः  ३०

यदा भवद्गिरीन्द्र स्ते पुत्रो मम पिता स्वयम्

तदा पितामहस्त्वं मे जातो लोकपितामह  ३१

तदीदृशस्य भवतो लोकयात्राविधायिनः

वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः  ३२

किमत्र बहुना देहे यश्चायं मम कालिमा

त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे  ३३

ब्रह्मोवाच

एतावता किमर्थेन तीव्रं देवि तपः कृतम्

स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ३४

क्रीडाऽपि च जगन्मातस्तव लोकहिताय वै

अतो ममेष्टमनया फलं किमपि साध्यताम्  ३५

निशुंभशुंभनामानौ दैत्यौ दत्तवरौ मया

दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः  ३६

अलं विलंबनेनात्र त्वं क्षणेन स्थिरा भव

शक्तिर्विसृज्यमानाऽद्य तयोर्मृत्युर्भविष्यति  ३७

ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा

त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत  ३८

सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः

काली कालाम्बुदप्रख्या कन्यका समपद्यत  ३९

सा तु मायात्मिका शक्तिर्योगनिद्रा  च वैष्णवी

शंखचक्रत्रिशूलादिसायुधाष्टमहाभुजा  ४०

सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्र शेखरा

अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी  ४१

दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी

निशुंभस्य च शुंभस्य निहंत्री दैत्यसिंहयोः  ४२

ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये

प्रबलः केसरी दत्तो वाहनत्वे समागतः  ४३

विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः

मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत्  ४४

सा चैव संमता शक्तिर्ब्रह्मणो विश्वकर्मणः

प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः  ४५

शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः

परीता प्रययौ विन्ध्यं दैत्येन्द्रौ  हन्तुमुद्यता  ४६

निहतौ च तया तत्र समरे दैत्यपुंगवौ

तद्बाणैः कामबाणैश्च च्छिन्नभिन्नांगमानसौ  ४७

तद्युद्धविस्तरश्चात्र न कृतोऽन्यत्र वर्णनात्

ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः  ४८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वभवनं नाम पंचविंशोऽध्यायः  २५

अध्याय २६

वायुरुवाच

उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम्

तस्य प्रत्युपकाराय पितामहमथाब्रवीत्  १

देव्युवाच

दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः

अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम्  २

मय्यर्पितमना एष भजते मामनन्यधीः

अस्य संरक्षणादन्यत्प्रियं मम न विद्यते  ३

भवितव्यमनेनातो ममान्तःपुरचारिणा

गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः  ४

एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे

प्रदीयतामनुज्ञा मे प्रजानां पतिना १ त्वया  ५

इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन्

तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत् १  ६

ब्रह्मोवाच

पशौ देवि मृगाः क्रूराः क्व च तेऽनुग्रहः शुभः

आशीविषमुखे साक्षादमृतं किं निषिच्यते  ७

व्याघ्रमात्रेण सन्नेष दुष्टः कोऽपि निशाचरः

अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः  ८

तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ

अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः  ९

अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु

अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना  १०

देव्युवाच

यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः

तथापि मां प्रपन्नोऽभून्न त्याज्यो मामुपाश्रितः  ११

ब्रह्मोवाच

अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम्

भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति  १२

पुण्यकर्मापि किं कुर्य्यात्त्वदीयाज्ञानपेक्षया

अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी  १३

त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः

त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा  १४

त्वमेव विविधा शक्तिः भवानामथ वा स्वयम्

अशक्तः कर्मकरणे कर्ता वा किं करिष्यति  १५

विष्णोश्च मम चान्येषां देवदानवरक्षसाम्

तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम्  १६

अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः

अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः  १७

त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम्

लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः  १८

व्यत्यासोऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः

सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः  १९

त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः

अनादिमध्यनिधना शक्तिराद्या सनातनी  २०

समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि

क्रीडसे २ विविधैर्भावैः कस्त्वां जानाति तत्त्वतः  २१

अतो दुष्कृतकर्मापि व्याघ्रोऽयं त्वदनुग्रहात्

प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः  २२

इत्यात्मनः परं भावं स्मारयित्वानुरूपतः

ब्रह्मणाभ्यर्थिता गौरी तपसोऽपि न्यवर्तत  २३

ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति

देवीं च मातरं दृष्ट्वा मेनां हिमवता सह  २४

प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ

तपः प्रणयिनो देवी तपोवनमहीरुहान्  २५

विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः

तत्तुच्छाखासमारूढविहगो दीरितै रुतैः  २६

व्याकुलं बहुधा दीनं विलापमिव कुर्वतः

सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने  २७

पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम्

देहस्य प्रभया चैव दीपयन्ती दिशो दश  २८

प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः

सर्वेषां जगतां धाता कर्ता पाता विनाशकृत्  २९

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशोऽध्यायः  २६

अध्याय २७

ऋषय ऊचुः

कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा

कथं ददर्श भर्तारं प्रविष्टा मन्दितं सती  १

प्रवेशसमये तस्या भवनद्वारगोचरैः

गणेशैः किं कृतं देवस्तान्दृष्ट्वा किन्तदाऽकरोत्  २

वायुरुवाच

प्रवक्तुमंजसाऽशक्यः तादृशः परमो रसः

येन प्रणयगर्भेण भावो भाववतां हृतः  ३

द्वास्थैस्ससंभ्रमैरेव देवो देव्यागमोत्सुकः

शंकमाना प्रविष्टान्तस्तञ्च सा समपश्यत  ४

तैस्तैः प्रणयभावैश्च भवनान्तरवर्त्तिभिः

गणेन्द्रै र्वन्दिता वाचा प्रणनाम त्रियम्बकम्  ५

प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः

प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा  ६

स्वांके धर्तुं प्रवृत्तोऽपि सा पर्य्यंके न्यषीदत

पर्य्यंकतो बलाद्देवीं सोण्कमारोप्य सुस्मिताम्  ७

सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव

तया संभाषणायेशः पूर्वभाषितमब्रवीत्  ८

देवदेव उवाच

सा दशा च व्यतीता किं तव सर्वांगसुन्दरि

यस्यामनुनयोपायः कोऽपि कोपान्न लभ्यते  ९

स्वेच्छयापि न कालीति नान्यवर्णवतीति च

त्वत्स्वभावाहृतं चित्तं सुभ्रु चिंतावहं मम  १०

विस्मृतः परमो भावः कथं स्वेच्छांगयोगतः

न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः  ११

पृथग्जनवदन्योन्यं विप्रियस्यापि कारणम्

आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम्  १२

अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता

अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम्  १३

जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः

आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत्  १४

अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम्

वागर्थमिव मे वैतज्जगत्स्थावरजंगमम्  १५

त्वं हि वागमृतं साक्षादहमर्थामृतं परम्

द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते  १६

विद्याप्रत्यायिका त्वं मे वेद्योऽहं प्रत्ययात्तव

विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः  १७

न कर्मणा सृजामीदं जगत्प्रतिसृजामि च

सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी  १८

आज्ञैकसारमैश्वर्य्यं यस्मात्स्वातंत्र्! यलक्षणम्

आज्ञया विप्रयुक्तस्य चैश्वर्य्यं मम कीदृशम्  १९

न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः

देवानां कार्य्यमुद्दिश्य लीलोक्तिं कृतवानहम्  २०

त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि

ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः  २१

यदनर्थाय भूतानां न तदस्ति खलु त्वयि

इति प्रियंवदे साक्षादीश्वरे परमेश्वरे  २२

शृंगारभावसाराणां जन्मभूमिरकृत्रिमा

स्वभर्त्रा ललितन्तथ्यमुक्तं मत्वा स्मितोत्तरम्  २३

लज्जया न किमप्यूचे कौशिकी वर्णनात्परम्

तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम्  २४

देव्युवाच

किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया

तादृशी कन्यका लोके न भूता न भविष्यति  २५

तस्या वीर्य्यं बलं विन्ध्यनिलयं विजयं तथा

शुंभस्य च निशुंभस्य मारणे च रणे तयोः  २६

प्रत्यक्षफलदानं च लोकाय भजते सदा

लोकानां रक्षणं शश्वद्ब्रह्मा विज्ञापयिष्यति  २७

इति संभाषमाणाया देव्या एवाज्ञया तदा

व्याघ्रः सख्या समानीय पुरोऽवस्थापितस्तदा  २८

तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम्

व्याघ्रं पश्य न चानेन सदृशो मदुपासकः  २९

अनेन दुष्टसंघेभ्यो रक्षितं मत्तपोवनम्

अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात्  ३०

स्वदेशं च परित्यज्य प्रसादार्थं समागतः

यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे  ३१

नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम्

रक्षिभिस्सह तच्चिह्नैर्वर्ततामयमीश्वर  ३२

वायुरुवाच

मधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः

प्रीतोऽस्मीत्याह तं देवस्स चादृश्यत तत्क्षणात्  ३३

बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कंचुकम्

छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक्  ३४

यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः

सोमनन्दीति विख्यातस्तस्मादेष समाख्यया  ३५

इत्थं देव्याः प्रियं कृत्वा देवश्चर्द्धेन्दुभूषणः

भूषयामास तन्दिव्यैर्भूषणै रत्नभूषितैः  ३६

ततस्स गौरीं गिरिशो गिरीन्द्र जां सगौरवां सर्वमनोहरां हरः

पर्य्यंकमारोप्य वरांगभूषणैर्विभूषयामास शशांकभूषणः  ३७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सप्तविंशोऽध्यायः  २७

अध्याय २८

ऋषय ऊचुः

देवीं समादधानेन देवेनेदं किमीरितम्

अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि  १

आज्ञैकसारमैश्वर्य्यमाज्ञा त्वमिति चोदितम्

तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः  २

वायुरुवाच

अग्निरित्युच्यते रौद्री  घोरा या तैजसी तनुः

सोमः शाक्तोऽमृतमयः शक्तेः शान्तिकरी तनुः  ३

अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम्

भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी  ४

द्विविधा तेजसो वृत्तिसूर्य्यात्मा चानलात्मिका

तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका  ५

विद्युदादिमयन्तेजो मधुरादिमयो रसः

तेजोरसविभेदैस्तु धृतमेतच्चराचरम्  ६

अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते

अत एव हि विक्रान्तमग्नीषोमं जगद्धितम्  ७

हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये

वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत्  ८

अग्निरूर्द्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम्

यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः  ९

अत एव हि कालाग्निरधस्ताच्छक्तिरूर्द्ध्वतः

यावदादहनं चोर्द्ध्वमधश्चाप्लावनं भवेत्  १०

आधारशक्त्यैव धृतः कालाग्निरयमूर्द्ध्वगः

तथैव निम्नगः सोमश्शिवशक्तिपदास्पदः  ११

शिवश्चोर्द्ध्वमधश्शक्तिरूर्द्ध्वं शक्तिरधः शिवः

तदित्थं शिवशक्तिभ्यान्नाव्याप्तमिह किञ्चन  १२

असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम्

अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः  १३

यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना

अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते  १४

अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितम्पुनः

अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते  १५

योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः

शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत्  १६

अतो मृत्युंजयायेत्थममृतप्लावनं सदा

शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः  १७

यो वेद दहनं गुह्यं प्लावनं च यथोदितम्

अग्नीषोमपदं हित्वा न स भूयोऽभिजायते  १८

शिवाग्निना तनुं दग्ध्वा शक्तिसौम्या मृतेन यः

प्लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते  १९

हृदि कृत्वेममर्थं वै देवेन समुदाहृतम्

अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः  २०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे भस्मतत्त्ववर्णनं नामाष्टाविंशोऽध्यायः  २८

अध्याय २९

वायुरुवाच

निवेदयामि जगतो वागर्थात्म्यं कृतं यथा

षडध्ववेदनं सम्यक् समासान्न तु विस्तरात्  १

नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः

ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः  २

प्रकृतेः परिणामोऽयं द्विधा शब्दार्थभावना

तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः  ३

शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः

स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा  ४

सूक्ष्मा चिन्तामयी प्रोक्ता चिंतया रहिता परा

या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया  ५

ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा

सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया  ६

समस्तकार्यजातस्य मूलप्रकृतितां गता

सैव कुण्डलिनी माया शुद्धाध्वपरमा सती  ७

सा विभागस्वरूपैव षडध्वात्मा विजृंभते

तत्र शब्दास्त्रयोऽध्वानस्त्रयश्चार्थाः समीरिताः  ८

सर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः

लयभोगाधिकारास्स्युस्सर्वतत्त्वविभागतः  ९

कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम्

परस्याः प्रकृतेरादौ पंचधा परिणामतः  १०

कलाश्च ता निवृत्त्याद्याः पर्य्याप्ता इति निश्चयः

मंत्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः  ११

भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात्

अत्रान्योन्यं च सर्वेषां व्याप्यव्यापकतोच्यते  १२

मंत्राः सर्वैः पदैर्व्याप्ता वाक्यभावात्पदानि च

वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः  १३

वर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलंभनात्

भुवनान्यपि तत्त्वौघैरुत्पत्त्यांतर्बहिष्क्रमात्  १४

व्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः

अंतरादुत्थितानीह भुवनानि तु कानिचित्  १५

पौराणिकानि चान्यानि विज्ञेयानि शिवागमे

सांख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानिचित्  १६

शिवशास्त्रप्रसिद्धानि ततोन्यान्यपि कृत्स्नशः

कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम्  १७

परस्याः प्रकृतेरादौ पंचधा परिणामतः

कलाश्च ता निवृत्त्याद्या व्याप्ताः पंच यथोत्तरम्  १८

व्यापिकातः परा शक्तिरविभक्ता षडध्वनाम्

परप्रकृतिभावस्य तत्सत्त्वाच्छिवतत्त्वतः  १९

शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम्

व्याप्तमेकेन तेनैव मृदा कुंभादिकं यथा  २०

शैवं तत्परमं धाम यत्प्राप्यं षड्भिरध्वभिः

व्यापिकाऽव्यापिका शक्तिः पंचतत्त्वविशोधनात्  २१

निवृत्त्या रुद्र पर्य्यन्तं स्थितिरण्डस्य शोध्यते

प्रतिष्ठया तदूर्ध्वं तु यावदव्यक्तगोचरम्  २२

तदूर्ध्वं विद्यया मध्ये यावद्विश्वेश्वरावधि

शान्त्या तदूर्ध्वं मध्वान्ते विशुद्धिः शान्त्यतीतया  २३

यामाहुः परमं व्योम परप्रकृतियोगतः

एतानि पंचतत्त्वानि यैर्व्याप्तमखिलं जगत्  २४

तत्रैव सर्वमेवेदं द्र ष्टव्यं खलु साधकैः

अध्वव्याप्तिमविज्ञाय शुद्धिं यः कर्तुमिच्छति  २५

स विप्रलम्भकः शुद्धेर्नालम्प्रापयितुं फलम्

वृथा परिश्रमस्तस्य निरयायैव केवलम्  २६

शक्तिपातसमायोगादृते तत्त्वानि तत्त्वतः

तद्व्याप्तिस्तद्विवृद्धिश्च ज्ञातुमेवं न शक्यते  २७

शक्तिराज्ञा परा शैवी चिद्रू पा मरमेश्वरी

शिवोऽधितिष्ठत्यखिलं यया कारणभूतया  २८

नात्मनो नैव मायैषा न विकारो विचारतः

न बंधो नापि मुक्तिश्च बंधमुक्तिविधायिनी  २९

सर्वैश्वर्यपराकाष्टा शिवस्य व्यभिचारिणी

समानधर्मिणी तस्य तैस्तैर्भावैर्विशेषतः  ३०

स तयैव गृही सापि तेनैव गृहिणी सदा

तयोरपत्यं यत्कार्यं परप्रकृतिजं जगत्  ३१

स कर्ता कारणं सेति तयोर्भेदो व्यवस्थितः

एक एव शिवः साक्षाद्द्विधाऽसौ समवस्थितः  ३२

स्त्रीपुंसभावेन तयोर्भेद इत्यपि केचन

अपरे तु परा शक्तिः शिवस्य समवायिनी  ३३

प्रभेव भानोश्चिद्रू पा भिन्नैवेति व्यवस्थितः

तस्माच्छिवः परो हेतुस्तस्याज्ञा परमेश्वरी  ३४

तयैव प्रेरिता शैवी मूलप्रकृतिरव्यया

महामाया च माया च प्रकृतिस्त्रिगुणेति च  ३५

त्रिविधा कार्यवेधेन सा प्रसूते षडध्वनः

स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत्  ३६

अस्यैव विस्तरं प्राहुः शास्त्रजातमशेषतः  ३७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वागर्थकतत्त्ववर्णनं नामैकोनत्रिंशोऽध्यायः  २९

अध्याय ३०

ऋषय ऊचुः

चरितानि विचित्राणि गृह्याणि गहनानि च

दुर्विज्ञेयानि देवैश्च मोहयंति मनांसि नः  १

शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते

चरितैः प्राकृतो भावस्तयोरपि विभाव्यते  २

ब्रह्मादयोऽपि लोकानां सृष्टिस्थित्यन्तहेतवः

निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः  ३

शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम्

अतोऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम्  ४

यद्येवमीदृशैश्वर्य्यं तत्तु स्वातन्त्र्! यलक्षणम्

स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत्  ५

न मूर्तिश्च स्वतंत्रस्य घटते मूलहेतुना

मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी  ६

सर्वत्र परमो भावोऽपरमश्चान्य उच्यते

परमापरमौ भावौ कथमेकत्र संगतौ  ७

निष्फलो हि स्वभावोऽस्य परमः परमात्मनः

स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः  ८

स्वभावो विपरीतश्चेत्स्वतंत्रः स्वेच्छया यदि

न करोति किमीशानो नित्यानित्यविपर्ययम्  ९

मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः

शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते  १०

मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति

तस्य मूर्तौ मूर्तिमतोः पारतंत्र्! यं हि निश्चितम्  ११

अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम्

मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया  १२

न हि स्वेच्छाशरीरत्वं स्वातंत्र्! यायोपपद्यते

स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी  १३

स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत

ब्रह्मादयः पिशाचांताः किं ते कर्मातिवर्तिनः  १४

इच्छया देहनिर्माणमिन्द्र जालोपमं विदुः

अणिमादिगुणैश्वर्य्यवशीकारानतिक्रमात्  १५

विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा

युध्यता समुपालब्धस्तद्रू पं दधता स्वयम्  १६

सर्वस्मादधिकस्यापि शिवस्य परमात्मनः

शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः  १७

सर्वानुग्राहकं प्राहुश्शिवं परमकारणम्

स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम्  १८

चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः

शिवनिन्दां प्रकुर्व्वंतं पुत्रेति कुमतेर्हठात्  १९

विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः

बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः  २०

देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात्

वीरेण वीरभद्रे ण न हि कश्चिददण्डितः  २१

पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः

क्षणेनैकेन देवेन नेत्राग्नेरिंधनीकृतम्  २२

प्रजानां रतिहेतुश्च कामो रतिपतिस्स्वयम्

क्रोशतामेव देवानां हुतो नेत्रहुताशने  २३

गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः

सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृतः  २४

जलंधरासुरो दीर्णश्चक्रीकृत्य जलं पदा

बद्ध्वानंतेन यो विष्णुं चिक्षेप शतयोजनम्  २५

तमेव जलसंधायी शूलेनैव जघान सः

तच्चक्रं तपसा लब्ध्वा लब्धवीर्य्यो हरिस्सदा  २६

जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम्

त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम्  २७

कण्ठात्कालांगनां सृष्ट्वा दारकोऽपि निपातितः

कौशिकीं जनयित्वा तु गौर्य्यास्त्वक्कोशगोचराम्  २८

शुंभस्सह निशुंभेन प्रापितो मरणं रणे

श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम्  २९

वधार्थे तारकाख्यस्य दैत्येन्द्र स्येन्द्र विद्विषः

ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः  ३०

विहृत्य सुचिरं देव्या विहाराऽतिप्रसण्गतः

रसां रसातलं नीतामिव कृत्वाभिधां ततः  ३१

देवीं च वंचयंस्तस्यां स्ववीर्यमतिदुर्वहम्

अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम्  ३२

गंगादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः

तत्समाहृत्य शनकैस्तोकंस्तोकमितस्ततः  ३३

स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया

सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित्  ३४

संदीपयित्वा कालेन तस्य भासा दिशो दश

रञ्जयित्वा गिरीन्सर्वान्कांचनीकृत्य मेरुणा  ३५

ततश्चिरेण कालेन संजाते तत्र तेजसि

कुमारे सुकुमारांगे कुमाराणां निदर्शने  ३६

तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम्

सह देवसुरैर्लोकैर्विस्मिते च विमोहिते  ३७

देवोऽपि स्वयमायातः पुत्रदर्शनलालसः

सह देव्यांकमारोप्य ततोऽस्य स्मेरमाननम्  ३८

पीतामृतमिव स्नेहविवशेनान्तरात्मना

देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः  ३९

स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम्

अनुभूय च तत्क्रीडां संभाव्य च परस्परम्  ४०

स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम्

तवावतारो जगतां हितायेत्यनुशास्य च  ४१

स्वयन्देवश्च देवी च न तृप्तिमुपजग्मतुः

ततः शक्रेण संधाय बिभ्यता तारकासुरात्  ४२

कारयित्वाभिषेकं च सेनापत्ये दिवौकसाम्

पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषा  ४३

स्वयमंतर्हितेनैव स्कन्दमिन्द्रा दिरक्षितम्

तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया  ४४

छेदितं तारकस्यापि शिरश्शक्रभिया सह

स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः  ४५

तथा रक्षोधिपः साक्षाद्रा वणो बलगर्वितः

उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः  ४६

तदागोऽसहमानस्य देवदेवस्य शूलिनः

पदांगुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि  ४७

बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः

त्वरयागत्य देवेन पादांतं गमितोन्तकः  ४८

स्ववाहनमविज्ञाय वृषेन्द्रं  वडवानलः

सगलग्रहमानीतस्ततोऽस्त्येकोदकं जगत्  ४९

अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः

अंगहारस्वसेनेदमसकृच्चालितं जगत्  ५०

शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः

सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत्  ५१

अनादिकर्म वैचित्र्! यमपि नात्र नियामकम्

कारणं खलु कर्मापि भवेदीश्वरकारितम्  ५२

किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम्

यथा ह्याशु निवर्तेत तथा कथय मारुत  ५३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वप्रश्नो नाम त्रिंशोऽध्यायः  ३०

अध्याय ३१

वायुरुवाच

स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः

जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु  १

प्रमणमत्र वक्ष्यामि सताम्मोहनिवर्तकम्

असतां त्वन्यथाभावः प्रसादेन विना प्रभोः  २

शिवस्य परिपूर्णस्य परानुग्रहमन्तरा

न किंचिदपि कर्तव्यमिति साधु विनिश्चितम्  ३

स्वभाव एव पर्य्याप्तः परानुग्रहकर्मणि

अन्यथा निस्स्वभवेन न किमप्यनुगृह्यते  ४

परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत्

परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः  ५

पतिराज्ञापकः सर्वमनुगृह्णाति सर्व्वदा

तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः  ६

अनुग्राह्यनपेक्षोऽस्ति न हि कश्चिदनुग्रहः

अतः स्वातन्त्र्! यशब्दार्थाननपेक्षत्वलक्षणः  ७

एतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते

अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात्  ८

मूर्तात्मनोऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात्

अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते  ९

येनोपलभ्यतेऽस्माभिस्सकलेनापि निष्कलः

स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते  १०

न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम्

साकारेणानुभावेन केनाप्यनुपलक्षितः  ११

प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम्

न तावतात्रोपेक्षाधीरुपलक्षणमंतरा  १२

आत्मोपमोल्वणं साक्षान्मूर्तिरेव हि काचन

शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम्  १३

यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते

एवं शिवोऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः  १४

यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम्

नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः  १५

अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम्

मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः  १६

लिंगादावपि तत्कृत्यमर्चायां च विशेषतः

तत्तन्मूर्त्यात्मभावेन शिवोऽस्माभिरुपास्यते  १७

यथानुगृह्यते सोऽपि मूर्त्यात्मा पारमेष्ठिना

तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम्  १८

लोकानुग्रहणायैव शिवेन परमेष्ठिना

सदाशिवादयस्सर्वे मूर्त्यात्मनोऽप्यधिष्ठिताः  १९

आत्मनामेव भोगाय मोक्षाय च विशेषतः

तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः  २०

भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः

न च कर्म शिवोऽस्तीति तस्य भोगः किमात्मकः  २१

सर्वं शिवोऽनुगृह्णाति न निगृह्णाति किंचन

निगृह्णतां तु ये दोषाश्शिवे तेषामसंभवात्  २२

ये पुनर्निग्रहाः केचिद्ब्रह्मादिषु निदर्शिताः

तेऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना  २३

ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः

श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति  २४

सदोषा एव देवाद्या निगृहीता यथोदितम्

ततस्तेपि विपाप्मानः प्रजाश्चापि गतज्वराः  २५

निग्रहोऽपि स्वरूपेण विदुषां न जुगुप्सितः

अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते  २६

यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः

न स चेदीशतां कुर्याज्जगतः कथमीश्वरः  २७

ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम्

आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम्  २८

तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम्

विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते  २९

साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत्

निवर्तते च सामादेरंते दण्डो हि साधनम्  ३०

हितार्थलक्षणं चेदं दण्डान्तमनुशासनम्

अतो यद्विपरीतं तदहितं संप्रचक्षते  ३१

हिते सदा निषण्णानामीश्वरस्य निदर्शनम्

स कथं दुष्यते सद्भिरसतामेव निग्रहात्  ३२

अयुक्तकारिणो लोके गर्हणीयाविवेकिता

यदुद्वेजयते लोकन्तदयुक्तं प्रचक्षते  ३३

सर्वोऽपि निग्रहो लोके न च विद्वेषपूर्वकः

न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत्  ३४

माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः

तस्याप्यवश्यं यत्किंचिन्नैर्घृण्यमनुवर्तते  ३५

अन्यथा न हिनस्त्येव सदोषानप्यसौ परान्

हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन्  ३६

तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः

इति निर्बंधयंत्येके नियमो नेति चापरे  ३७

निदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुंजतः

न किंचिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका  ३८

घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु

तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः  ३९

उपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु

शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते  ४०

सर्पस्याऽऽस्यगतम्पश्यन्यस्तु रक्ष्यमुपेक्षते

दोषाभासान्समुत्प्रेक्ष्य फलतः सोऽपि निर्घृणः  ४१

तस्माद् घृणा गुणायैव सर्वथेति न संमतम्

संमतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम्  ४२

मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः

तथापि तेषामेवैते न शिवस्य तु सर्वथा

अग्नावपि समाविष्टं ताम्रं खलु सकालिकम्  ४३

इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात्

नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते  ४४

अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते

एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत्  ४५

शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुध्यति

अयस्यग्नौ समाविष्टे दाहोऽग्नेरेव नायसः  ४६

मूर्त्तात्मन्येवमैश्वर्य्यमीश्वरस्यैव नात्मनाम्

न हि काष्ठं ज्वलत्यूर्द्ध्वमग्निरेव ज्वलत्यसौ  ४७

काष्ठस्यांगारता नाग्नेरेवमत्रापि योज्यताम्

अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि  ४८

शिवावेशवशादेव शिवत्वमुपचर्यते

मैत्र्! यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः  ४९

तैर्गुणैरुपरक्तानां दोषाय च गुणाय च

यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः

न गुणाय न दोषाय शिवस्य गुणवृत्तयः  ५०

न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः

संसारमोचनं किं तु शैवमाज्ञामयं हितम्  ५१

हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः

सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः  ५२

यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम्

तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः  ५३

हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम्

स्वभावप्रतिबन्धं तत्समं न लभते हितम्  ५४

यथा विकासयत्येव रविः पद्मानि भानुभिः

समं न विकसन्त्येव स्वस्वभावानुरोधतः  ५५

स्वभावोऽपि हि भावानां भाविनोऽर्थस्य कारणम्

न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत्  ५६

सुवर्णमेव नांगारं द्रा वयत्यग्निसंगमः

एवं पक्वमलानेव मोचयेन्न शिवपरान्  ५७

यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम्

विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत्  ५८

स्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः

स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः  ५९

अन्यथा संसरन्त्येते नियमान्न शिवः कथम्

कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः  ६०

अनुबन्धोऽयमस्यैव न शिवस्येति हेतुमान्

स हेतुरात्मनामेव निजो नागन्तुको मलः  ६१

आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना

योऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः  ६२

आत्मतायाः समत्वेऽपि बद्धा मुक्ताः परे यतः

बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः  ६३

ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः

केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः  ६४

मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्द्धसु स्थिताः

मध्ये महेश्वरा रुद्रा स्त्वर्वाचीनपदे स्थिताः  ६५

आसन्नेऽपि च मायायाः परस्मात्कारणात्त्रयम्

तत्राप्यात्मा स्थितोऽधस्तादन्तरात्मा च मध्यतः  ६६

परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः

वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः  ६७

अन्तरात्मपदे केचित्केचिदात्मपदे तथा

शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः  ६८

विद्यायान्तु यथा रौद्रा ः! प्रतिष्ठायां तु वैष्णवाः

निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्मांगयोनयः  ६९

देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम्

पक्ष्यादयोऽधमाः पंचयोनयस्ताश्चतुर्दश  ७०

उत्तराधरभावोऽपि ज्ञेयस्संसारिणो मलः

यथामभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता  ७१

मलोऽप्यामश्च पक्वश्च भवेत्संसारकारणम्

आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात्  ७२

पश्वात्मानस्त्रिधाभिन्ना एकद्वित्रिमलाः क्रमात्

अत्रोत्तरा एकमला द्विमला मध्यमा मताः

त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः  ७३

त्रिमलानधितिष्ठंति द्विमलैकमलाः क्रमात्

इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः  ७४

एकद्वित्रिमलान्सर्वाञ्छिव एकोऽधितिष्ठति

अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा  ७५

अरुद्रा त्मकमित्येवं रुद्रै र्जगदधिष्ठितम्

अण्डान्ता हि महाभूमिश्शतरुद्रा द्यधिष्ठिता  ७६

मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात्

अंगुष्ठमात्रपर्यन्तैस्समंतात्संततं ततम्  ७७

महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः

अनाश्रितान्तैरध्वान्तर्वर्त्तिभिस्समधिष्ठिताः  ७८

ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा

पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता  ७९

एवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक्

निदानभूतैस्संसाररोगः पुंसां प्रवर्तते  ८०

अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम्

भिषगाज्ञापकः शम्भुश्शिवः परमकारणम्  ८१

अदुःखेनाऽपि शक्तोऽसौ पशून्मोचयितुं शिवः

कथं दुःखं करोतीति नात्र कार्या विचारणा  ८२

दुःखमेव हि सर्वोऽपि संसार इति निश्चितम्

कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः  ८३

न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात्

रोगार्तं तु भिषग्रोगाद्भैषजैस्सुखमुद्धरेत्  ८४

एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून्

स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः  ८५

न भिषक्कारणं रोगे शिवः संसारकारणम्

इत्येतदपि वैषम्यं न दोषायास्य कल्पते  ८६

दुःखे स्वभावसंसिद्धे कथन्तत्कारणं शिवः

स्वाभाविको मलः पुंसां स हि संसारयत्यमून्  ८७

संसारकारणं यत्तु मलं मायाद्यचेतनम्

तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा  ८८

यथा मणिरयस्कांतस्सान्निध्यादुपकारकः

अयसश्चलतस्तद्वच्छिवोऽप्यस्येति सूरयः  ८९

न निवर्तयितुं शक्यं सान्निध्यं सदकारणम्

अधिष्ठाता ततो नित्यमज्ञातो जगतश्शिवः  ९०

न शिवेन विना किंचित्प्रवृत्तमिह विद्यते

तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति  ९१

शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी

तया ततमिदं शश्वत्तथापि स न दुष्यति  ९२

अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः

ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति  ९३

योऽन्यथा मन्यते मोहात्स विनष्यति दुर्मतिः

तच्छक्तिवैभवादेव तथापि स न दुष्यति  ९४

एतस्मिन्नंतरे व्योम्नः श्रुताः वागरीरिणी

सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम्  ९५

ततो हृष्टतराः सर्व्वे विनष्टाशेषसंशयाः

मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम्  ९६

तथा विगतसन्देहान्कृत्वापि पवनो मुनीन्

नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत्  ९७

वायुरुवाच्व

परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते

परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम्  ९८

हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते

अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति  ९९

नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम्

श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रि ताः  १००

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ज्ञानोपदेशो नामैकत्रिंशोऽध्यायः  ३१

अध्याय ३२

ऋषय ऊचुः

किं तच्छ्रेष्टमनुष्ठानं मोक्षो येनपरोक्षितः

तत्तस्य साधनं चाद्य वक्तुमर्हसि मारुत  १

वायुरुवाच

शैवो हि परमो धर्मः श्रेष्ठानुष्ठानशब्दितः

यत्रापरोक्षो लक्ष्येत साक्षान्मोक्षप्रदः शिवः  २

स तु पंचविधो ज्ञेयः पंचभिः पर्वभिः क्रमात्

क्रियातपोजपध्यानज्ञानात्मभिरनुत्तरैः  ३

तैरेव सोत्तरैस्सिद्धो धर्मस्तु परमो मतः

परोक्षमपरोक्षं च ज्ञानं यत्र च मोक्षदम्  ४

परमोऽपरमश्चोभौ धर्मौ हि श्रुतिचोदितौ

धर्मशब्दाभिधेयेर्थे प्रमाणं श्रुतिरेव नः  ५

परमो योगपर्यन्तो धर्मः श्रुतिशिरोगतः

धर्मस्त्वपरमस्तद्वदधः श्रुतिमुखोत्थितः  ६

अपश्वात्माधिकारत्वाद्यो धरमः परमो मतः

साधारणस्ततोऽन्यस्तु सर्वेषामधिकारतः  ७

स चायं परमो धर्मः परधर्मस्य साधनम्

धर्मशास्त्रादिभिस्सम्यक् सांग एवोपबृंहितः  ८

शैवो यः परमो धर्मः श्रेष्ठानुष्ठानशब्दितः

इतिहासपुराणाभ्यां कथंचिदुपबृंहितः  ९

शैवागमैस्तु संपन्नः सहांगोपांविस्तरः

तत्संस्काराधिकारैश्च सम्यगेवोपबृंहितः  १०

शैवागमो हि द्विविधः श्रौतोऽश्रौतश्च संस्कृतः

श्रुतिसारमयः श्रौतस्स्वतंत्र इतरो मतः  ११

स्वतंत्रो दशधा पूर्वं तथाष्टादशधा पुनः

कामिकादिसमाख्याभिस्सिद्धः सिद्धान्तसंज्ञितः  १२

श्रुतिसारमयो यस्तु शतकोटिप्रविस्तरः

परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते  १३

युगावर्तेषु शिष्येत योगाचार्य्यस्वरूपिणा

तत्रतत्रावतीर्णेन शिवेनैव प्रवर्त्यते  १४

संक्षिप्यास्य प्रवक्तारश्चत्वारः परमर्षय

रुरुर्दधीचोऽगस्त्यश्च उपमन्युर्महायशाः  १५

ते च पाशुपता ज्ञेयास्संहितानां प्रवर्तकाः

तत्संततीया गुरवः शतशोऽथ सहस्रशः  १६

तत्रोक्तः परमो धर्मश्चर्याद्यात्मा चतुर्विधः

तेषु पाशुपतो योगः शिवं प्रत्यक्षयेद्दृढम्  १७

तस्माच्छ्रेष्ठमनुष्ठानं योगः पाशुपतो मतः

तत्राप्युपायको युक्तो ब्रह्मणा स तु कथ्यते  १८

नामाष्टकमयो योगश्शिवेन परिकल्पितः

तेन योगेन सहसा शैवी प्रज्ञा प्रजायते  १९

प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम्

प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम्  २०

प्रसादात्परमो योगो यः शिवं चापरोक्षयेत्

शिवापरोक्षात्संसारकारणेन वियुज्यते  २१

ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत्

ब्रह्मप्रोक्त इत्युपायः स एव पृथगुच्यते  २२

शिवो महेश्वरश्चैव रुद्रो  विष्णुः पितामहः

संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः  २३

नामाष्टकमिदं मुख्यं शिवस्य प्रतिपादकम्

आद्यन्तु पञ्चकं ज्ञेयं शान्त्यतीताद्यनुक्रमात्  २४

संज्ञा सदाशिवादीनां पंचोपाधिपरिग्रहात्

उपाधिविनिवृत्तौ तु यथास्वं विनिवर्तते  २५

पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः

पदानां प्रतिकृत्तौ तु मुच्यन्ते पदिनो यतः  २६

परिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते

आत्मान्तराभिधानं स्याद्यदाद्यं नाम पञ्चकम्  २७

अन्यत्तु त्रितयं नाम्नामुपादानादियोगतः

त्रिविधोपाधिवचनाच्छिव एवानुवर्तते  २८

अनादिमलसंश्लेषः प्रागभावात्स्वभावतः

अत्यंतं परिशुद्धात्मेत्यतोऽयं शिव उच्यते  २९

अथवाशेषकल्याणगुणैकधन ईश्वरः

शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवादिभिः  ३०

त्रयोविंशतितत्त्वेभ्यः प्रकृतिर्हि परा मता

प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम्  ३१

यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः

वेदैकवेद्ययाथात्म्याद्वेदान्ते च प्रतिष्ठितः  ३२

तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः

तदधीनप्रवृत्तित्वात्प्रकृतेः पुरुषस्य च  ३३

अथवा त्रिगुणं तत्त्वमुपेयमिदमव्ययम्

मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्  ३४

मायाविक्षोभकोऽनंतो महेश्वरसमन्वयात्

कालात्मा परमात्मादिः स्थूलः सूक्ष्मः प्रकीर्तितः  ३५

रुद्दुःखं दुःखहेतुर्वा तद्रा वयति नः प्रभुः

रुद्र  इत्युच्यते सद्भिः शिवः परमकारणम्  ३६

तत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रि तः

व्याप्याधितिष्ठति शिवस्ततो रुद्र  इतस्ततः  ३७

जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि

पितृभावेन सर्वेषां पितामह उदीरितः  ३८

निदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः

उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः  ३९

संसारस्येश्वरो नित्यं समूलस्य निवर्तकः

संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः  ४०

दशार्थज्ञानसिद्ध्यर्थमिन्द्रि येष्वेषु सत्स्वपि

त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः  ४१

अणवो नैव जानन्ति माययैव मलावृताः

असत्स्वपि च सर्वेषु सर्वार्थज्ञानहेतुषु  ४२

यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः

अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते  ४३

सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात्

स्वस्मात्परात्मविरहात्परमात्मा शिवः स्वयम्  ४४

नामाष्टकमिदं चैव लब्ध्वाचार्यप्रसादतः

निवृत्त्यादिकलाग्रन्थिं शिवाद्यैः पंचनामभिः  ४५

यथास्वं क्रमशश्छित्वा शोधयित्वा यथागुणम्

गुणितैरेव सोद्धातैरनिरुद्धैरथापि वा  ४६

हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमन्विताम्

छित्त्वा पर्यष्टकाकारं स्वात्मानं च सुषुम्णया  ४७

द्वादशांतःस्थितस्येन्दोर्नीत्वोपरि शिवौजसि

संहृत्यं वदनं पश्चाद्यथासंस्करणं लयात्  ४८

शाक्तेनामृतवर्षेण संसिक्तायां तनौ पुनः

अवतार्य स्वमात्मानममृतात्माकृतिं हृदि  ४९

द्वादशांतःस्थितस्येन्दोः परस्ताच्छ्वेतपंकजे

समासीनं महादेवं शंकरम्भक्तवत्सलम्  ५०

अर्द्धनारीश्वरं देवं निर्मलं मधुराकृतिम्

शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्  ५१

ध्यात्वा हि मानसे देवं स्वस्थचित्तोऽथ मानवः

शिवनामाष्टकेनैव भावपुष्पैस्समर्चयेत्  ५२

अभ्यर्च्चनान्ते तु पुनः प्राणानायम्य मानवः

सम्यक्चित्तं समाधाय शार्वं नामाष्टकं जपेत्  ५३

नाभौ चाष्टाहुतीर्हुत्वा पूर्णाहुत्या नमस्ततः

अष्टपुष्पप्रदानेन कृत्वाभ्यर्च्चनमंतिमम्  ५४

निवेदयेत्स्वमात्मानं चुलुकोदकवर्त्मना

एवं कृत्वा चिरादेव ज्ञानं पाशुपतं शुभम्  ५५

लभते तत्प्रतिष्ठां च वृत्तं चानुत्तमं तथा

योगं च परमं लब्ध्वा मुच्यते नात्र संशयः  ५६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे श्रेष्ठानुष्ठानवर्णनं नाम द्वात्रिंशोऽध्यायः  ३२

अध्याय ३३

ऋषय ऊचुः

भगवञ्छ्रोतुमिच्छामो व्रतं पाशुपतं परम्

ब्रह्मादयोऽपि यत्कृत्वा सर्वे पाशुपताः स्मृताः  १

वायुरुवाच

रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम्

व्रतं पाशुपतं श्रौतमथर्वशिरसि श्रुतम्  २

कालश्चैत्री पौर्णमासी देशः शिवपरिग्रहः

क्षेत्रारामाद्यरण्यं वा प्रशस्तश्शुभलक्षणः  ३

तत्र पूर्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः

अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च  ४

पूजां वैशेषिकीं कृत्वा शुक्लांबरधरः स्वयम्

शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः  ५

दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च

प्राणायामत्रयं कृत्वा प्राण्मुखो वाप्युदण्मुखः

ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना  ६

व्रतमेतत्करोमीति भवेत्संकल्प्य दीक्षितः

यावच्छरीरपातं वा द्वादशाब्दमथापि वा  ७

तदर्धं वा तदर्धं वा मासद्वादशकं तु वा

तदर्धं वा तदर्धं वा मासमेकमथापि वा  ८

दिनद्वादशकं वाऽथ दिनषट्कमथापि वा

तदर्धं दिनमेकं वा व्रतसंकल्पनावधि  ९

अग्निमाधाय विधिवद्विरजाहोमकारणात्

हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम्  १०

पूर्णामापूर्य तां भूयस्तत्त्वानां शुद्धिमुद्दिशन्

जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः  ११

तत्त्वान्येतानि मद्देहे शुद्ध्यंताम् इ!१त्यनुस्मरन्

पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रि याणि च  १२

ज्ञानकर्मविभेदेन पञ्चकर्मविभागशः

त्वगादिधातवस्सप्त पञ्च प्राणादिवायवः  १३

मनोबुद्धिरहं ख्यातिर्गुणाः प्रकृतिपूरुषौ

रागो विद्याकले चैव नियतिः काल एव च  १४

माया च शुद्धिविद्या च महेश्वरसदाशिवौ

शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः  १५

मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजा भवेत्

शिवानुग्रहमासाद्य ज्ञानवान्स हि जायते  १६

अथ गोमयमादाय पिण्डीकृत्याभिमंत्र्! य च

विन्यस्याग्नौ च सम्प्रोक्ष्य दिने तस्मिन्हविष्यभुक्  १७

प्रभाते तु चतुर्दश्यां कृत्वा सर्वं पुरोदितम्

दिने तस्मिन्निराहारः कालं शेषं समापयेत्  १८

प्रातः पर्वणि चाप्येवं कृत्वा होमा वसानतः

उपसंहृत्य रुद्रा ग्निं गृह्णीयाद्भस्म यत्नतः  १९

ततश्च जटिलो मुण्डी शिखैकजट एव वा

भूत्वा स्नात्वा ततो वीतलज्जश्चेत्स्याद्दिगम्बरः  २०

अपि काषायवसनश्चर्मचीराम्बरोऽथ वा

एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली  २१

प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम्

संकुलीकृत्य तद्भस्म विरजानलसंभवम्  २२

अग्निरित्यादिभिर्मंत्रैः षड्भिराथर्वणैः क्रमात्

विभृज्यांगानि मूर्द्धादिचरणांतानि तैस्स्पृशेत्  २३

ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना

सर्वांगोद्धूलनं कुर्यात्प्रणवेन शिवेन वा  २४

ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम्

शिवभावं समागम्य शिवयोगमथाचरेत्  २५

कुर्यात्स्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम्

भुक्तिमुक्तिप्रदं चैतत्पशुत्वं विनिवर्तयेत्  २६

तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम्

पूजनीयो महादेवो लिंगमूर्तिस्सनातनः  २७

पद्ममष्टदलं हैमं नवरत्नैरलंकृतम्

कर्णिकाकेशरोपेतमासनं परिकल्पयेत्  २८

विभवे तदभावे तु रक्तं सितमथापि वा

पद्मं तस्याप्यभावे तु केवलं भावनामयम्  २९

तत्पद्मकर्णिकामध्ये कृत्वा लिंगं कनीयसम्

स्फीटिकं पीठिकोपेतं पूजयेद्विधिवत्क्रमात्  ३०

प्रतिष्ठाप्य विधानेन तल्लिंगं कृतशोधनम्

परिकल्प्यासनं मूर्तिं पंचवक्त्रप्रकारतः  ३१

पंचगव्यादिभिः पूर्णैर्यथाविभवसंभृतैः

स्नापयेत्कलशैः पूर्णैरष्टापदसमुद्भवैः  ३२

गंधद्र व्यैस्सकर्पूरैश्चन्दनाद्यैस्सकुंकुमैः

सवेदिकं समालिप्य लिंगं भूषणभूषितम्  ३३

बिल्वपत्रैश्च पद्मैश्च रक्तैः श्वेतैस्तथोत्पलैः

नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैस्सुगंधिभिः  ३४

पुण्यैः प्रशस्तैः पत्रैश्च चित्रैर्दूर्वाक्षतादिभिः

समभ्यर्च्य यथालाभं महापूजाविधानतः  ३५

धूपं दीपं तथा चापि नैवेद्यं च समादिशेत्

निवेदयित्वा विभवे कल्याणं च समाचरेत्  ३६

इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च

सर्वद्र व्याणि देयानि व्रते तस्मिन्विशेषतः  ३७

श्रीपत्रोत्पलपद्मानां संख्या साहस्रिकी मता

प्रत्येकमपरा संख्या शतमष्टोत्तरं द्विजाः  ३८

तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम्

हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात्  ३९

नीलोत्पलादिष्वप्येतत्समानं बिल्बपत्रकैः

पुष्पान्तरे न नियमो यथालाभं निवेदयेत्  ४०

अष्टाण्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः

चन्दनं वामदेवाख्ये हरितालं च पौरुषे  ४१

ईशाने भसितं केचिदालेपनमितीदृशाम्

न धूपमिति मन्यन्ते धूपान्तरविधानतः

सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः  ४२

पौरुषे गुग्गुलं सव्ये सौम्ये सौगंधिकं मुखे

ईशानेऽपि ह्युशीरादि देयाद्धूपं विशेषतः  ४३

शर्करामधुकर्पूरकपिलाघृतसंयुतम्

चंदनागुरुकाष्ठाद्यं सामान्यं संप्रचक्षते  ४४

कर्पूरवर्तिराज्याढ्या देया दीपावलिस्ततः

अर्घ्यमाचमनं देयं प्रतिवक्त्रमतः परम्  ४५

प्रथमावरणे पूज्यो क्रमाद्धेरम्बषण्मुखौ

ब्रह्मांगानि ततश्चैव प्रथमावरणेर्चिते  ४६

द्वितीयावरणे पूज्या विघ्नेशाश्चक्रवर्तिनः

तृतीयावरणे पूज्या भवाद्या अष्टमूर्तयः  ४७

महादेवादयस्तत्र तथैकादशमूर्तयः

चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः  ४८

बहिरेव तु पद्मस्य पंचमावरणे क्रमात्

दशदिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा  ४९

ब्रह्मणो मानसाः पुत्राः सर्वेऽपि ज्योतिषां गणाः

सर्वा देव्यश्च देवाश्च सर्वे सर्वे च खेचराः  ५०

पातालवासिनश्चान्ये सर्वे मुनिगणा अपि

योगिनो हि सखास्सर्वे पतंगा मातरस्तथा  ५१

क्षेत्रपालाश्च सगणाः सर्वं चैतच्चराचरम्

पूजनीयं शिवप्रीत्या मत्त्वा शंभुविभूतिमत्  ५२

अथावरणपूजांते संपूज्य परमेश्वरम्

साज्यं सव्यं जनं हृद्यं हविर्भक्त्या निवेदयेत्  ५३

मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम्

अलंकृत्य च भूयोऽपि नानापुष्पविभूषणैः  ५४

नीराजनांते विस्तीर्य पूजाशेषं समापयेत्

चषकं सोपकारं च शयनं च समर्पयेत्  ५५

चन्द्र संकाशहारं च शयनीयं समर्पयेत्

आद्यं नृपोचितं हृद्यं तत्सर्वमनुरूपतः  ५६

कृत्वा च कारयित्वा च हित्वा च प्रतिपूजनम्

स्तोत्रं व्यपोहनं जप्त्वा विद्यां पंचाक्षरीं जपेत्  ५७

प्रदक्षिणां प्रणामं च कृत्वात्मानं समर्पयेत्

ततः पुरस्ताद्देवस्य गुरुविप्रौ च पूजयेत्  ५८

दत्त्वार्घ्यमष्टौ पुष्पाणि देवमुद्वास्य लिंगतः

अग्नेश्चाग्निं सुसंयम्य ह्युद्वास्य च तमप्युत  ५९

प्रत्यहं च जनस्त्वेवं कुर्यात्सेवां पुरोदिताम्

ततस्तत्साम्बुजं लिंगं सर्वोपकरणान्वितम्  ६०

समर्पयेत्स्वगुरवे स्थापयेद्वा शिवालये

संपूज्य च गुरून्विप्रान्व्रतिनश्च विशेषतः  ६१

भक्तान्द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत्

स्वयं चानशने शक्तः फलमूलाशनेऽथ वा  ६२

पयोव्रतो वा भिक्षाशी भवेदेकाशनस्तथा

नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः  ६३

भस्मशायी तृणेशायी चीराजिनधृतोऽथवा

ब्रह्मचर्यव्रतो नित्यं व्रतमेतत्समाचरेत्  ६४

अर्कवारे तथाद्रा र्यां! पंचदश्यां च पक्षयोः

अष्टम्यां च चतुर्दश्यां शक्तस्तूपवसेदपि  ६५

पाखण्डिपतितोदक्यास्सूतकान्त्यजपूर्वकान्

वर्जयेत्सर्वयत्नेन मनसा कर्मणा गिरा  ६६

क्षमदानदयासत्याहिंसाशीलः सदा भवेत्

संतुष्टश्च प्रशान्तश्च जपध्यानरतस्तथा  ६७

कुर्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा

पूजां वैशेषिकीं चैव मनसा वचसा गिरा  ६८

बहुनात्र किमुक्तेन नाचरेदशिवं व्रती

प्रमादात्तु तथाचारे निरूप्य गुरुलाघवे  ६९

उचितां निष्कृतिं कुर्यात्पूजाहोमजपादिभिः

आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः  ७०

गोदानं च वृषोत्सर्गं कुर्यात्पूजां च संपदा

भक्तश्च शिवप्रीत्यर्थं सर्वकामविवर्जितः  ७१

सामान्यमेतत्कथितं व्रतस्यास्य समासतः

प्रतिमासं विशेषं च प्रवदामि यथाश्रुतम्  ७२

वैशाखे वज्रलिंगं तु ज्येष्ठे मारकतं शुभम्

आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम्  ७३

मासे भाद्र पदे चैव पद्मरागमयं परम्

आश्विने मासि विद्याद्वै लिंगं गोमेदकं वरम्  ७४

कार्तिक्यां वैद्रुमं लिंगं वैदूर्यं मार्गशीर्षके

पुष्परागमयं पौषे माघे द्युमणिजन्तथा  ७५

फाल्गुणे चन्द्र कान्तोत्थं चैत्रे तद्व्यत्ययोऽथवा

सर्वमासेषु रत्नानामलाभे हैममेव वा  ७६

हैमाभावे राजतं वा ताम्रजं शैलजन्तथा

मृन्मयं वा यथालाभं जातुषं चान्यदेव वा  ७७

सर्वगंधमयं वाथ लिंगं कुर्याद्यथारुचि

व्रतावसानसमये समाचरितनित्यकः  ७८

कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा

संपूज्य च तथाचार्यं व्रतिनश्च विशेषतः  ७९

देशिकेनाप्यनुज्ञातः प्राण्मुखो वाप्युदण्मुखः

दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च  ८०

जपित्वा शक्तितो मूलं ध्यात्वा साम्बं त्रियम्बकम्

अनुज्ञाप्य यथापूर्वं नमस्कृत्य कृताञ्जलिः  ८१

समुत्सृजामि भगवन्व्रतमेतत्त्वदाज्ञया

इत्युक्त्वा लिंगमूलस्थान्दर्भानुत्तरतस्त्यजेत्  ८२

ततो दण्डजटाचीरमेखला अपि चोत्सृजेत्

पुनराचम्य विधिवत्पंचाक्षरमुदीरयेत्  ८३

यः कृत्वात्यंतिकीं दीक्षामादेहान्तमनाकुलः

व्रतमेतत्प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः  ८४

सोऽत्याश्रमी च विज्ञेयो महापाशुपतस्तथा

स एव तपतां श्रेष्ठ स एव च महाव्रती  ८५

न तेन सदृशः कश्चित्कृतकृत्यो मुमुक्षुषु

यो यतिर्नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम्  ८६

योऽन्वहं द्वादशाहं वा व्रतमेतत्समाचरेत्

सोऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात्  ८७

घृताक्तो यश्चरेदेतद्व्रतं व्रतपरायणः

द्वित्रैकदिवसं वापि स च कश्चन नैष्ठिकः  ८८

कृत्यमित्येव निष्कामो यश्चरेद्व्रतमुत्तमम्

शिवार्पितात्मा सततं न तेन सदृशः क्वचित्  ८९

भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः

पापैस्सुदारुणैस्सद्यो मुच्यते नात्र संशयः  ९०

रुद्रा ग्निर्यत्परं वीर्य्यन्तद्भस्म परिकीर्तितम्

तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः  ९१

भस्मनिष्ठस्य नश्यन्ति देषा भस्माग्निसंगमात्

भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः  ९२

भस्मना दिग्धसर्वांगो भस्मदीप्तत्रिपुंड्रकः

भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः  ९३

भूतप्रेतपिशासाश्च रोगाश्चातीव दुस्सहाः

भस्मनिष्ठस्य सान्निध्याद्विद्र वंति न संशयः  ९४

भासनाद्भासितं प्रोक्तं भस्म कल्मषभक्षणात्

भूतिभूतिकरी चैव रक्षा रक्षाकरी परम्  ९५

किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम्

व्रती च भस्मना स्नातस्स्वयं देवो महेश्वरः  ९६

परमास्त्रं च शैवानां भस्मैतत्पारमेश्वरम्

धौम्याग्रजस्य तपसि व्यापदो यन्निवारिताः  ९७

तस्मात्सर्वप्रयत्नेन कृत्वा पाशुपतव्रतम्

धनवद्भस्म संगृह्य भस्मस्नानरतो भवेत्  ९८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे पशुपतिव्रतविधानवर्णनं नाम त्रयस्त्रिंशोऽध्यायः  ३३

अध्याय ३४

ऋषय ऊचुः

धौम्याग्रजेन शुशुना क्षीरार्थं हि तपः कृतम्

तस्मात् क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना  १

स कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम्

कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः  २

कथं च लब्धविज्ञानस्तपश्चरणपर्वणि

रुद्रा ग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम्  ३

वायुरुवाच

न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः

मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः  ४

जन्मान्तरेण संसिद्धः केनापि खलु हेतुना

स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम्  ५

महादेवप्रसादस्य भाग्यापन्नस्य भाविनः

दुग्धाभिलाषप्रभवद्वारतामगमत्तपः  ६

अतः सर्वगणेशत्वं कुमारत्वं च शाश्वतम्

सह दुग्धाब्धिना तस्मै प्रददौ शंकरः स्वयम्  ७

तस्य ज्ञानागमोप्यस्य प्रसादादेव शांकरात्

कौमारं हि परं साक्षाज्ज्ञानं शक्तिमयं विदुः  ८

शिवशास्त्रप्रवक्तृत्वमपि तस्य हि तत्कृतम्

कुमारो मुनितो लब्धज्ञानाब्धिरिव नन्दनः  ९

दृष्टं तु कारणं तस्य शिवज्ञानसमन्वये

स्वमातृवचनं साक्षाच्छोकजं क्षीरकारणात्  १०

कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे

ईर्षयया मातुलसुतं संतृप्तक्षीरमुत्तमम्  ११

पीत्वा स्थितं यथाकामं दृष्ट्वा वै मातुलात्मजम्

उपमन्युर्व्याघ्रपादिः प्रीत्या प्रोवाच मातरम्  १२

उपमन्युरुवाच

मातर्मातर्महाभागे मम देहि तपस्विनि

गव्यं क्षीरमतिस्वादु नाल्पमुष्णं पिबाम्यहम्  १३

वायुरुवाच

तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी

व्याघ्रपादस्य महिषी दुःखमापत्तदा च सा  १४

उपलाल्याथ सुप्रीत्या पुत्रमालिंग्य सादरम्

दुःखिता विललापाथ स्मृत्वा नैर्धन्यमात्मनः  १५

स्मृत्वास्मृत्वा पुनः क्षीरमुपमन्युस्स बालकः

देहि देहीति तामाह रुद्र न्भूयो महाद्युतिः  १६

तद्धठं सा परिज्ञाय द्विजपत्नी तपस्विनी

शान्तये तद्धठस्याथ शुभोपायमरीरचत्  १७

उञ्छवृत्त्यार्जितान्बीजान्स्वयं दृष्ट्वा च सा तदा

बीजपिष्टमथालोड्य तोयेन कलभाषिणी  १८

एह्येहि मम पुत्रेति सामपूर्वं ततस्सुतम्

आलिंग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः  १९

पीत्वा च कृत्रिमं क्षीरं मात्रां दत्तं स बालकः

नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः  २०

दुःखिता सा तदा प्राह संप्रेक्ष्याघ्राय मूर्द्धनि

समार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते  २१

जनन्युवाच

तटिनी रत्नपूर्णास्तास्स्वर्गपातालगोचराः

भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे  २२

राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम्

न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः  २३

भवप्रसादजं सर्वं नान्यद्देवप्रसादजम्

अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च  २४

क्षीरं तत्र कुतोऽस्माकं वने निवसतां सदा

क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः  २५

कृत्स्नाभावेन दारिद्र य्न्माया ते भाग्यहीनया

मिथ्यादुग्धमिदं दत्तम्पिष्टमालोड्य वारिणा  २६

त्वं मातुलगृहे स्वल्पं पीत्वा स्वादु पयः शृतम्

ज्ञात्वा स्वादु त्वया पीतं तज्जातीयमनुस्मरन्  २७

दत्तं न पय इत्युक्त्वा रुदन् दुःखीकरोषि माम्

प्रसादेन विना शंभो पयस्तव न विद्यते  २८

पादपंकजयोस्तस्य साम्बस्य सगणस्य च

भक्त्या समर्पितं यत्तत्कारणं सर्वसम्पदाम्  २९

अधुना वसुदोस्माभिर्महादेवो न पूजितः

सकामानां यथाकामं यथोक्तफलदायकः  ३०

धनान्युद्दिश्य नास्माभिरितः प्रागर्चितः शिवः

अतो दरिद्रा स्संजाता वयं तस्मान्न ते पयः  ३१

पूर्वजन्मनि यद्दत्तं शिवमुद्दिश्य वै सुतः

तदेव लभ्यते नान्यद्विष्णुमुद्दिश्य वा प्रभुम्  ३२

वायुरुवाच

इति मातृवचः श्रुत्वा तथ्यं शोकादिसूचकम्

बालोऽप्यनुतपन्नंतः प्रगल्भमिदमब्रवीत्  ३३

उपमन्युरुवाच

शोकेनालमितो मतः सांबो यद्यस्ति शंकरः

त्यज शोकं महाभागे सर्वं भद्रं  भविष्यति  ३४

शृणु मातर्वचो मेद्य महादेवोऽस्ति चेत्क्वचित्

चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम्  ३५

वायुरुवाच

इति श्रुत्वा वचस्तस्य बालकस्य महामतेः

प्रय्तुवाच तदा माता सुप्रसन्ना मनस्विनी  ३६

मातोवाच

शुभं विचारितं तात त्वया मत्प्रीतिवर्द्धनम्

विलंबं मा कथास्त्वं हि भज सांबं सदाशिवम्  ३७

सर्वस्मादधिकोऽस्त्येव शिवः परमकारणम्

तत्कृतं हि जगत्सर्वं ब्रह्माद्यास्तस्य किंकराः  ३८

तत्प्रसादकृतैश्वर्या दासास्तस्य वयं प्रभोः

तं विनान्यं न जानीमश्शंकरं लोकशंकरम्  ३९

अन्यान्देवान्परित्यज्य कर्मणा मनसा गिरा

तमेव सांबं सगणं भज भावपुरस्सरम्  ४०

तस्य देवाधिदेवस्य शिवस्य वरदायिनः

साक्षान्नमश्शिवायेति मंत्रोऽयं वाचकः स्मृतः  ४१

सप्तकोटिमहामंत्राः सर्वे सप्रणवाः परे

तस्मिन्नेव विलीयंते पुनस्तस्माद्विनिर्गताः  ४२

सप्रसादाश्च ते मंत्राः स्वाधिकाराद्यपेक्षया

सर्वाधिकारस्त्वेकोऽयं मंत्र एवेश्वराज्ञया  ४३

यथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः

क्षमते रक्षितुं तद्वन्मंत्रोऽयमपि सर्वदा  ४४

प्रबलश्च तथा ह्येष मंत्रो मन्त्रान्तरादपि

सर्वरक्षाक्षमोऽप्येष नापरः कश्चिदिष्यते  ४५

तस्मान्मन्त्रान्तरांस्त्यक्त्वा पंचाक्षरपरो भव

तस्मिञ्जिह्वांतरगते न किंचिदिह दुर्लभम्  ४६

अधोरास्त्रं च शैवानां रक्षाहेतुरनुत्तमम्

तच्च तत्प्रभवं मत्वा तत्परो भव नान्यथा  ४७

भस्मेदन्तु मया लब्धं पितुरेव तवोत्तमम्

विरजानलसंसिद्धं महाव्यापन्निवारणम्  ४८

मंत्रं च ते मया दत्तं गृहाण मदनुज्ञया

अनेनैवाशु जप्तेन रक्षा तव भविष्यति  ४९

वायुरुवाच

एवं मात्रा समादिश्य शिवमस्त्वित्युदीर्य च

विसृष्टस्तद्वचो मूर्ध्नि कुर्वन्नेव तदा मुनिः  ५०

तां प्रणम्यैवमुक्त्वा च तपः कर्तुं प्रचक्रमे

तमाह च तदा माता शुभं कुर्वंतु ते सुराः  ५१

अनुज्ञातस्तया तत्र तपस्तेपे स दुश्चरम्

हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः  ५२

अष्टेष्टकाभिः प्रसादं कृत्वा लिंगं च मृन्मयम्

तत्रावाह्य महादेवं सांबं सगणमव्ययम्  ५३

भक्त्या पञ्चाक्षरेणैव पुत्रैः पुष्पैर्वनोद्भवैः

समभ्यर्च्य चिरं कालं चचार परमं तपः  ५४

ततस्तपश्चरत्तं तं बालमेकाकिनं कृशम्

उपमन्युं द्विजवरं शिवसंसक्तमानसम्  ५५

पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः

संपीड्य राक्षसैर्भावैस्तपसोविघ्नमाचरन्  ५६

स च तैः पीड्यमानोऽपि तपः कुर्वन्कथञ्चन

सदा नमः शिवायेति क्रोशति स्मार्तनादवत्  ५७

तन्नादश्रवणादेव तपसो विघ्नकारिणः

ते तं बालं समुत्सृज्य मुनयस्समुपाचरन्  ५८

तपसा तस्य विप्रस्य चोपमन्योर्महात्मनः

चराचरं च मुनयः प्रदीपितमभूज्जगत्  ५९

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युतपोवर्णनं नाम चतुस्त्रिंशोऽध्यायः  ३४

अध्याय ३५

वायुरुवाच

अथ सर्वे प्रदीप्तांगा वैकुण्ठं प्रययुर्द्रुतम्

प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः  १

श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः

किमिदन्त्विति संचिन्त्य ज्ञात्वा तत्कारणं च सः  २

जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया

दृष्ट्वा देवं प्रणम्यैवं प्रोवाच सुकृतांजलिः  ३

विष्णुरुवाच

भगवन्ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः

क्षीरार्थमदहत्सर्वं तपसा तन्निवारय  ४

वायुरुवाच

इति श्रुत्वा वचो विष्णोः प्राह देवो महेश्वरः

शिशुं निवारयिष्यामि तत्त्वं गच्छ स्वमाश्रमम्  ५

तच्छ्रुत्वा शंभुवचनं स विष्णुर्देववल्लभः

जगामाश्वास्य तान्सर्वान्स्वलोकममरादिकान्  ६

एतस्मिन्नंतरे देवः पिनाकी परमेश्वरः

शक्रस्य रूपमास्थाय गन्तुं चक्रे मतिं ततः  ७

अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः

सह सुरासुरसिद्धमहोरगैरमरराजतनुं स्वयमास्थितः  ८

स वारणश्चारु तदा विभुं तं निवीज्य वालव्यजनेन दिव्यम्

दधार शच्या सहितं सुरेंद्रं  करेण वामेन शितातपत्रम्  ९

रराज भगवान्सोमः शक्ररूपी सदाशिवः

तेनातपत्रेण यथा चन्द्र बिंबेन मन्दरः  १०

आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः

जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम्  ११

तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम्

प्रणम्य शिरसा प्राह महामुनिवरः स्वयम्  १२

उपमन्युरुवाच

पावितश्चाश्रमस्सोऽयं मम देवेश्वर स्वयम्

प्राप्तो यत्त्वं जगन्नाथ भगवन्देवसत्तम  १३

वायुरुवाच

एवमुक्त्वा स्थितं प्रेक्ष्य कृतांजलिपुटं द्विजम्

प्राह गंभीरया वाचा शक्ररूपधरो हरः  १४

शक्र उवाच

तुष्टोऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत

ददामि चेप्सितान्सर्वान्धौम्याग्रज महामुने  १५

वायुरुवाच

एवमुक्तस्तदा तेन शक्रेण मुनिपुंगवः

वारयामि शिवे भक्तिमित्युवाच कृताञ्जलिः  १६

तन्निशम्य हरिः १ प्राह मां न जानासि लेखपम्

त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम्  १७

मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा

ददामि सर्वं भद्रं  ते त्यज रुद्रं  च निर्गुणम्  १८

रुद्रे ण निर्गुणेनापि किं ते कार्यं भविष्यति

देवपण्क्तिबहिर्भूतो यः पिशाचत्वमागतः  १९

वायुरुवाच

तच्छ्रुत्वा प्राह स मुनिर्जपन्पंचाक्षरं मनुम्

मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम्  २०

उपमन्युरुवाच

त्वयैवं कथितं सर्वं भवनिंदारतेन वै

प्रसंगादेव देवस्य निर्गुणत्वं महात्मनः  २१

त्वं न जानामि वै रुद्रं  सर्वदेवेश्वरेश्वरम्

ब्रह्मविष्णुमहेशानां जनक प्रकृतेः परम्  २२

सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः

नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम्  २३

हेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम्

उपासते यं तत्त्वज्ञा वरं तस्माद्वृणोम्यहम्  २४

नास्ति शंभोः परं तत्त्वं सर्वकारणकारणात्

ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः  २५

बहुनात्र किमुक्तेन मयाद्यानुमितं महत्

भवांतरे कृतं पापं श्रुता निन्दा भवस्य चेत्  २६

श्रुत्वा निंदां भवस्याथ तत्क्षणादेव सन्त्यजेत्

स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति  २७

आस्तां तावन्ममेच्छेयं क्षीरं प्रति सुराधम

निहत्य त्वां शिवास्त्रेण त्यजाम्येतं कलेवरम्  २८

वायुरुवाच

एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितस्स्वयम्

क्षीरे वाञ्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः  २९

भस्मादाय तदा घोरमघोरास्त्राभिमंत्रितम्

विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा  ३०

स्मृत्वा शंभुपदद्वंद्वं स्वदेहं दुग्धुमुद्यतः

आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः  ३१

एवं व्यवसिते विप्रे भगवान्भगनेत्रहा

वारयामास सौम्येन धारणां तस्य योगिनः  ३२

तद्विसृष्टमघोरास्त्रं नंदीश्वरनियोगतः

जगृहे मध्यतः क्षिप्तं नन्दी शंकरवल्लभः  ३३

स्वं रूपमेव भगवानास्थाय परमेश्वरः

दर्शयामास शिप्राय बालेन्दुकृतशेखरम्  ३४

क्षीरार्णवसहस्रं च पीयूषार्णवमेव वा

दध्यादेरर्णवांश्चैव घृतोदार्णवमेव च  ३५

फलार्णवं च बालस्य भक्ष्य भोज्यार्णवं तथा

अपूपानां गिरिं चैव दर्शयामास स प्रभुः  ३६

एवं स ददृशे देवो देव्या सार्द्धं वृषोपरि

गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः  ३७

दिवि दुंदुभयो नेदुः पुष्पवृष्टिः पपात च

विष्णुब्रह्मेन्द्र प्रमुखैर्देवैश्छन्ना दिशो दश  ३८

अथोपमन्युरानन्दसमुद्रो र्मिभिरावृतः

पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा  ३९

एतस्मिन्समये तत्र सस्मितो भगवान्भवः

एह्येहीति तमाहूय मूÞर्याघ्राय ददौ वरान्  ४०

शिव उवाच

भक्ष्यभोज्यान्यथाकामं बान्धवैर्भुक्ष्व सर्वदा

सुखी भव सदा दुःखान्निर्मुक्ता भक्तिमान्मम  ४१

उपमन्यो महाभाग तवाम्बैषा हि पार्वती

मया पुत्रीकृतो ह्यद्य दत्तः क्षीरोदकार्णवः  ४२

मधुनश्चार्णवश्चैव दध्यन्नार्णव एव च

आज्यौदनार्णवश्चैव फलाद्यर्णव एव च  ४३

अपूपगिरयश्चैव भक्ष्यभोज्यार्णवस्तथा

एते दत्ता मया ते हि त्वं गृह्णीष्व महामुने  ४४

पिता तव महादेवो माता वै जगदम्बिका

अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम्  ४५

वरान्वरय सुप्रीत्या मनोऽभिलषितान्परान्

प्रसन्नोऽहं प्रदास्यामि नात्र कार्या विचारणा  ४६

वायुरुवाच

एवमुक्त्वा महादेवः कराभ्यामुपगृह्यतम्

मूÞर्याघ्राय सुतस्तेऽयमिति देव्यै न्यवेदयत्  ४७

देवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम्

विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम्  ४८

क्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत्

उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम्  ४९

योगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम्

समृद्धिं परमान्तस्मै ददौ संतुष्टमानसः  ५०

अथ शंभुः प्रसन्नात्मा दृष्ट्वा तस्य तपोमहः

पुनर्ददौ वरं दिव्यं मुनये ह्युपमन्यवे  ५१

व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः

ददौ तस्मै प्रवक्तृत्वपाटवं सुचिरं परम्  ५२

सोऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा

तस्माच्छिवाच्च तस्याश्च शिवाया मुदितोऽभवत्  ५३

ततः प्रसन्नचेतस्कः सुप्रणम्य कृतांजलिः

ययाचे स वरं विप्रो देवदेवान्महेश्वरात्  ५४

उपमन्युरुवाच

प्रसीद देवदेवेश प्रसीद परमेश्वर

स्वभक्तिन्देहि परमान्दिव्यामव्यभिचारिणीम्  ५५

श्रद्धान्देहि महादेव द्वसम्बन्धिषु मे सदा

स्वदास्यं परमं स्नेहं सान्निध्यं चैव सर्वदा  ५६

एवमुक्त्वा प्रसन्नात्माहर्षगद्गदया गिरा

सतुष्टाव महादेवमुपमन्युर्द्विजोत्तमः  ५७

उपमन्युरुवाच

देवदेव महादेव शरणागतवत्सल

प्रसीद करुणासिंधो साम्ब शंकर सर्वदा  ५८

वायुरुवाच

एवमुक्तो महादेवः सर्वेषां च वरप्रदः

प्रत्युवाच प्रसन्नात्मोपमन्युं मुनिसत्तमम्  ५९

शिव उवाच

वत्सोपमन्यो तुष्टोऽस्मि सर्वं दत्तं मया हि ते

दृढभक्तोऽसि विप्रर्षे मया विज्ञासितो ह्यसि  ६०

अजरश्चामरश्चैव भव त्वन्दुःखवर्जितः

यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः  ६१

अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा

भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती  ६२

सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम

उपकंठं मम त्वं वै सानन्दं विहरिष्यसि  ६३

एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः

ईशानस्स वरान्दत्त्वा तत्रैवान्तर्दधे हरः  ६४

उपमन्युः प्रसन्नात्मा प्राप्य तस्माद्वराद्वरान्

जगाम जननीस्थानं सुखं प्रापाधिकं च सः  ६५

इति श्रीशिवमहापुराणे वैयासिक्यां चतुर्विंशतिसाहस्र्यां संहितायां तदन्तर्गतायां सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः  ३५

समाप्तोऽयं सप्तम्या वायवीयसंहितायाः पूर्वखण्डः

श्रीः

श्रीगणेशाय नमः

श्रीगौरीशंकराभ्यां नमः

अथ सप्तम्यां वायवीयसंहितायामुत्तरखण्डः प्रारभ्यते

अध्याय १

नमस्समस्तसंसारचक्रभ्रमणहेतवे

गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे  १

सूत उवाच

उक्त्वा भगवतो लब्धप्रसादादुपमन्युना

नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे  २

ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः

अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम्  ३

कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा

भगवंतमुपायांतं समीक्ष्य समुपाविशन्  ४

अथासौ नियमस्यांते भगवानम्बरोद्भवः

मध्ये मुनिसभायास्तु भेजे क्ळ्प्तं वरासनम्  ५

सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः

श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत्  ६

तं प्रपद्ये महादेवं सर्वज्ञमपराजितम्

विभूतिस्सकलं यस्य चराचरमिदं जगत्  ७

इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः

विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः  ८

ऋषय ऊचुः

उक्तं भगवता वृत्तमुपमन्योर्महात्मनः

क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात्  ९

दृष्टोऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा

धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम्  १०

प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम

कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम्  ११

वायुरुवाच

स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः

निंदयन्निव मानुष्यं देहशुद्धिं चकार सः  १२

पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः

आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम्  १३

भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम्

रुद्रा क्षमालाभरणं जटामंडलमंडितम्  १४

तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम्

शिवध्यानरतं शांतमुपमन्युं महाद्युतिम्  १५

नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः

बहुमानेन कृष्णोऽसौ त्रिः कृत्वा तु प्रदक्षिणाम्

स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः  १६

तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः

नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च  १७

तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः

भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात्  १८

अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम्

कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम्  १९

तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः

दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे  २०

ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान्

तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम्  २१

तपसो तेन वर्षांते दृष्टोऽसौ परमेश्वरः

श्रिया परमया युक्तस्सांबश्च सगणश्शिवः  २२

वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः

स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः  २३

सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः

तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै  २४

यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः

तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः  २५

तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः

महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात्  २६

य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा

स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते  २७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमोऽध्यायः  १

अध्याय २

ऋषय ऊचुः

किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः

कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा  १

एतत्सर्वं समाचक्ष्व वायो शंकरविग्रह

तत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः  २

सूत उवाच

इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभंजनः

संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे  ३

वायुरुवाच

पुरा साक्षान्महेशेन श्रीकंठाख्येन मन्दरे

देव्यै देवेन कथितं ज्ञानं पाशुपतं परम्  ४

तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना

पशुत्वं च सुरादीनां पतित्वं च शिवस्य च  ५

यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना

तथा समासतो वक्ष्ये तच्छृणुध्वमतंद्रि ताः  ६

पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः

प्रणिपत्य यथान्यायमिदं वचनमब्रवीत्  ७

श्रीकृष्ण उवाच

भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम्

दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः  ८

कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः

कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम्  ९

इति संचोदितः श्रीमानुपमन्युर्महात्मना

प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा  १०

उपमन्युरुवाच

ब्रह्माद्याः स्थावरांताश्च देवदेवस्य शूलिनः

पशवः परिकीर्त्यंते संसारवशवर्तिनः  ११

तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः

मलमायादिभिः पाशैः स बध्नाति पशून्पतिः  १२

स एव मोचकस्तेषां भक्त्या सम्यगुपासितः

चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी  १३

विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः

ब्रह्मादिस्तम्बपर्यंतान् पशून्बद्ध्वा महेश्वरः  १४

पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम्

तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम्  १५

बुद्धिं प्रसूते सा बुद्धिरहंकारमहंकृतिः

इन्द्रि याणि दशैकं च तन्मात्रापञ्चकं तथा  १६

शासनाद्देवदेवस्य शिवस्य शिवदायिनः

तन्मात्राण्यपि तस्यैव शासनेन महीयसा  १७

महाभूतान्यशेषाणि भावयंत्यनुपूर्वशः

ब्रह्मादीनां तृणान्तानां देहिनां देहसंगतिम्  १८

महाभूतान्यशेषाणि जनयंति शिवाज्ञया

अध्यवस्यति वै बुद्धिरहंकारोभिमन्यते  १९

चित्तं चेतयते चापि मनः संकल्पयत्यपि

श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक्  २०

स्वानेव नान्यान्देवस्य दिव्येनाज्ञाबलेन वै

वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रि याणि च  २१

यथा स्वं कर्म कुर्वन्ति नान्यत्किंचिच्छिवाज्ञया

शब्दादयोपि गृह्यंते क्रियन्ते वचनादयः  २२

अविलंघ्या हि सर्वेषामाज्ञा शंभोर्गरीयसी

अवकाशमशेषाणां भूतानां संप्रयच्छति  २३

आकाशः परमेशस्य शासनादेव सर्वगः

प्राणाद्यैश्च तथा नामभेदैरंतर्बहिर्जगत्  २४

बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः

हव्यं वहति देवानां कव्यं कव्याशिनामपि  २५

पाकाद्यं च करोत्यग्निः परमेश्वरशासनात्

संजीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया  २६

विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया

देवान्पात्यसुरान् हंति त्रिलोकमभिरक्षति  २७

आज्ञया तस्य देवेन्द्र ः! सर्वैर्देवैरलंघ्यया

आधिपत्यमपां नित्यं कुरुते वरुणस्सदा  २८

पाशैर्बध्नाति च यथा दंड्यांस्तस्यैव शासनात्

ददाति नित्यं यक्षेन्द्रो  द्र विणं द्र विणेश्वरः  २९

पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात्

करोति संपदः शश्वज्ज्ञानं चापि सुमेधसाम्  ३०

निग्रहं चाप्यसाधूनामीशानश्शिवशासनात्

धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः  ३१

यामाहुस्तामसीं रौद्री ं! मूर्तिमंतकरीं हरेः

सृजत्यशेषमीशस्य शासनाच्चतुराननः  ३२

अन्याभिर्मूर्तिभिः स्वाभिः पाति चांते निहन्ति च

विष्णुः पालयते विश्वं कालकालस्य शासनात्  ३३

सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः

हरत्यंते जगत्सर्वं हरस्तस्यैव शासनात्  ३४

सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति

कालः करोति सकलं कालस्संहरति प्रजाः  ३५

कालः पालयते विश्वं कालकालस्य शासनात्

त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन्  ३६

दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात्

पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि  ३७

देवैश्च पीयते चंद्र श्चन्द्र भूषणशासनात्

आदित्या वसवो रुद्रा  अश्विनौ मरुतस्तथा  ३८

खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः

पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च  ३९

नद्यस्समुद्रा  गिरयः काननानि सरांसि च

वेदाः सांगाश्च शास्त्राणि मंत्रस्तोममखादयः  ४०

कालाग्न्यादिशिवांतानि भुवनानि सहाधिपैः

ब्रह्मांडान्यप्यसंख्यानि तेषामावरणानि च  ४१

वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः

दिशश्च विदिशश्चैव कालभेदाः कलादयः  ४२

यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा

तत्सर्वं शंकरस्याज्ञा बलेन समधिष्ठितम्  ४३

आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्रा ः!

ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति  ४४

उपमन्युरुवाच

अत्याश्चर्यमिदं कृष्ण शंभोरमितकर्मणः

आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया  ४५

पुरा किल सुराः सेंद्रा  विवदंतः परस्परम्

असुरान्समरे जित्वा जेताहमहमित्युत  ४६

तदा महेश्वरस्तेषां मध्यतो वरवेषधृक्

स्वलक्षणैर्विहीनांगः स्वयं यक्ष इवाभवत्  ४७

स तानाह सुरानेकं तृणमादाय भूतले

य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित्  ४८

यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः

किंचित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः  ४९

न तत्तृणमुपदातुं मनसापि च शक्यते

यथा तथापि तच्छेत्तुं वज्रं वज्रधरोऽसृजत्  ५०

तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः

तृणेनाभिहतं तेन तिर्यगग्रं पपात ह  ५१

ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः

ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः  ५२

प्रजज्ज्वाल महावह्निः प्रचंडः पवनो ववौ

प्रवृद्धोऽपांपतिर्यद्वत्प्रलये समुपस्थिते  ५३

एवं देवैस्समारब्धं तृणमुद्दिश्य यत्नतः

व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै  ५४

तदाह यक्षं देवेंद्र ः! को भवानित्यमर्षितः

ततस्स पश्यतामेव तेषामंतरधादथ  ५५

तदंतरे हैमवती देवी दिव्यविभूषणा

आविरासीन्नभोरंगे शोभमाना शुचिस्मिता  ५६

तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः

प्रणम्य यक्षं पप्रच्छुः कोऽसौ यक्षो विलक्षणः  ५७

साऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः

तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम्  ५८

तेनादौ क्रियते विश्वं तेन संह्रियते पुनः

न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते  ५९

इत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै

देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः  ६०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे द्वितीयोऽध्यायः  २

अध्याय ३

उपमन्युरुवाच

शृणु कृष्ण महेशस्य शिवस्य परमात्मनः

मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम्  १

स शिवस्सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः

अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम्  २

ब्रह्मा विष्णुस्तथा रुद्रो  महेशानस्सदाशिवः

मूर्त्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम्  ३

अथान्याश्चापि तनवः पंच ब्रह्मसमाह्वयाः

तनूभिस्ताभिराव्याप्तमिह किंचिन्न विद्यते  ४

ईशानः पुरुषोऽघोरो वामः सद्यस्तथैव च

ब्रह्माण्येतानि देवस्य मूर्त्तयः पंच विश्रुताः  ५

ईशानाख्या तु या तस्य मूर्त्तिराद्या गरीयसी

भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति  ६

स्थाणोस्तत्पुरुषाख्या या मूर्त्तिर्मूर्त्तिमतः प्रभोः

गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति  ७

धर्माद्यष्टांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः

अधितिष्ठत्यघोराख्या मूर्त्तिरत्यंतपूजिता  ८

वामदेवाह्वयां मूर्त्तिं महादेवस्य वेधसः

अहंकृतेरधिष्ठात्रीमाहुरागमवेदिनः  ९

सद्यो जाताह्वयां मूर्त्तिं शम्भोरमितवर्चसः

मानसः समधिष्ठात्रीं मतिमंतः प्रचक्षते  १०

श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च

ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः  ११

त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम्

पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः  १२

चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च

अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः  १३

रमनायाश्च पायोश्च रसस्यापां तथैव च

ईश्वरीं वामदेवाख्यां मूर्त्तिं तन्निरतां विदुः  १४

घ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा

सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते  १५

मूर्तयः पंच देवस्य वंदनीयाः प्रयत्नतः

श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः  १६

तस्य देवादिदेवस्य मूर्त्त्यष्टकमयं जगत्

तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव  १७

शर्वो भवस्तथा रुद्र  उग्रो भीमः पशोः पतिः

ईशानश्च महादेवो मूर्त्तयश्चाष्ट विश्रुताः  १८

भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः

अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्त्तिभिः  १९

चराचरात्मकं विश्वं धत्ते विश्वंभरात्मिका

शार्वीर्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः  २०

संजीवनं समस्तस्य जगतस्सलिलात्मिका

भावीति गीयते मूर्त्तिभवस्य परमात्मनः  २१

बहिरंतर्गता विश्वं व्याप्य तेजोमयी शुभा

रौद्री  रुद्रा व्यया मूर्तिरास्थिता घोररूपिणी  २२

स्पंदयत्यनिलात्मदं बिभर्ति स्पंदते स्वयम्

औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः  २३

सर्वावकाशदा सर्वव्यापिका गगनात्मिका

मूर्तिर्भीमस्य भीमाख्या भूतवृंदस्य भेदिका  २४

सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी

मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृंतनी  २५

दीपयंती जगत्सर्वं दिवाकरसमाह्वया

ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति  २६

आप्याययति यो विश्वममृतांशुर्निशाकरः

महादेवस्य सा मूर्तिर्महादेवसमाह्वया  २७

आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः

व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम्  २८

वृक्षस्य मूलसेकेन शाखाः पुष्यंति वै यथा

शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत्  २९

सर्वाभयप्रदानं च सर्वानुग्रहणं तथा

सर्वोपकारकरणं शिवस्याराधनं विदुः  ३०

यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता

तथा सर्वस्य संप्रीत्या प्रीतो भवति शंकरः  ३१

देहिनो यस्य कस्यापि क्रियते यदि निग्रहः

अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः  ३२

अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम्

भजस्व सर्वभावेन रुद्र ः! परमकारणम्  ३३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे तृतीयोऽध्यायः  ३

अध्याय ४

कृष्ण उवाच

भगवन्परमेशस्य शर्वस्यामिततेजसः

मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम्  १

अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः

स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम्  २

उपमन्युरुवाच

श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः

वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते  ३

शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान्

तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम्  ४

वस्तु किंचिदचिद्रू पं किंचिद्वस्तु चिदात्मकम्

द्वयं शुद्धमशुद्धं च परं चापरमेव च  ५

यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम्

तदेवाशुद्धमपरमितरं तु परं शुभम्  ६

अपरं च परं चैव द्वयं चिदचिदात्मकम्

शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः  ७

शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ

ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ  ८

यथा शिवस्तथा देवी यथा देवी तथा शिवः

नानयोरंतरं विद्याच्चंद्र चन्द्रि कयोरिव  ९

चंद्रो  न खलु भात्येष यथा चंद्रि कया विना

न भाति विद्यमानोऽपि तथा शक्त्या विना शिवः  १०

प्रभया हि विनायद्वद्भानुरेष न विद्यते

प्रभा च भानुना तेन सुतरां तदुपाश्रया  ११

एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता

न शिवेन विना शक्तिर्न शक्त्या च विना शिवः  १२

शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम्

आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया  १३

यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः

समानधर्मिणीमेव शिवस्य परमात्मनः  १४

सैका परा च चिद्रू पा शक्तिः प्रसवधर्मिणी

विभज्य बहुधा विश्वं विदधाति शिवेच्छया  १५

सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता

शिवया च विपर्यस्तं यया ततमिदं जगत्  १६

एकधा च द्विधा चैव तथा शतसहस्रधा

शक्तयः खलु भिद्यंते बहुधा व्यवहारतः  १७

शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता

ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव  १८

ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया

तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ  १९

नादाद्विनिःसृतो बिंदुर्बिंदोदेवस्सदाशिवः

तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात्  २०

सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः

या सा वर्णस्वरूपेण मातृकेपि विजृम्भते  २१

अथानंतसमावेशान्माया कालमवासृजत्

नियतिञ्च कलां विद्यां कलातोरागपूरुषौ  २२

मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम्

त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः  २३

सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत्

गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्त्तयः  २४

अभवन्महदादीनि तत्त्वानि च यथाक्रमम्

तेभ्यस्स्युरण्डपिण्डानि त्वसंख्यानि शिवाज्ञया  २५

अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः  २५  २५

शरीरांतरभेदेन शक्तेर्भेदाः प्रकीर्तिताः

नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः  २६

रुद्र स्य रौद्री  सा शक्तिर्विष्णौर्वै वैष्णवी मता

ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्र स्यैंद्री ति कथ्यते  २७

किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम्

शक्यात्मनैव तद्व्याप्तं यथा देहेऽतरात्मना  २८

तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम्

कला या परमा शक्तिः कथिता परमात्मनः  २९

एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी

स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः  ३०

ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः

शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति  ३१

इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका

इच्छाशक्तिर्महेशस्य नित्या कार्य्यनियामिका  ३२

ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा

प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति  ३३

यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत्

कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी  ३४

यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी

शक्त्या परमया नुन्ना प्रसूते सकलं जगत्  ३५

एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः

शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत्  ३६

यथा न जायते पुत्रः पितरं मातरं विना

तथा भवं भवानीं च विना नैतच्चराचरम्

स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च  ३७

स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम्

परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता  ३८

शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी

शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते  ३९

पुरुषः परमेशानः प्रकृतिः परमेश्वरी

रुद्रो  महेश्वरस्साक्षाद्रुद्रा णी रुद्र वल्लभा  ४०

विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया

ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया  ४१

भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा

महेंद्रो  मन्मथारातिः शची शैलेन्द्र कन्यका  ४२

जातवेदा महादेवः स्वाहा शर्वार्द्धदेहिनी

यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका  ४३

निरृतिर्भगवानीशो नैरृती नगनंदनी

वरुणो भगवान्रुद्रो  वारुणी भूधरात्मजा  ४४

बालेंदुशेखरो वायुः शिवा शिवमनोहरा

यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्र जा  ४५

चंद्रा र्धशेखरश्चंद्रो  रोहिणी रुद्र वल्लभा

ईशानः परमेशानस्तदार्या परमेश्वरी  ४६

अनंतवलयोऽनंतो ह्यनंतानंतवल्लभा

कालाग्निरुद्र ः! कालारिः काली कालांतकप्रिया  ४७

पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया

दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी  ४८

रुचिर्भवो भवानी च बुधैराकूतिरुच्यते

भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया  ४९

मरीचिभगवान्रुद्र ः! संभूतिश्शर्ववल्लभा

गंगाधरोऽगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता  ५०

पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः

पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया  ५१

क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः

त्रिनेत्रोऽत्रिरुमा साक्षादनसूया स्मृता बुधैः  ५२

कश्यपः कालहा देवो देवमाता महेश्वरी

वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती  ५३

शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी

सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः  ५४

विषयी भगवानीशो विषयः परमेश्वरी

श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः  ५५

प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा

प्रष्टा स एव विश्वात्मा बालचन्द्रा वतंसकः  ५६

द्र ष्टव्यं वस्तुरूपं तु बिभर्त्ति वक्तवल्लभा

द्र ष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः  ५७

रसजातं महादेवी देवो रसयिता शिवः

प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः  ५८

मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी

मंता स एव विश्वात्मा महादेवो महेश्वरः  ५९

बोद्धव्यवस्तुरूपं तु बिभर्त्ति भववल्लभा

देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः  ६०

प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः

प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी  ६१

बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा

क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः  ६२

अहः शूलायुधो देवः शूलपाणिप्रिया निशा

आकाशः शंकरो देवः पृथिवी शंकरप्रिया  ६३

समुद्रो  भगवानीशो वेला शैलेन्द्र कन्यका

वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया  ६४

पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः

स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा  ६५

शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा

अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः  ६६

यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता

सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः  ६७

यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम्

तत्तदाह महाभागास्तयोस्तेजोविजृंभितम्  ६८

यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम्

तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत्  ६९

तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः

सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः  ७०

सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ

पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा  ७१

यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः

कथितं हि मया तेऽद्य न तु तावदियत्तया  ७२

तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः

महतामपि सर्वेषां मनसोऽपि बहिर्गतम्  ७३

अंतर्गतमनन्यानामीश्वरार्पितचेतसाम्

अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत्  ७४

येयमुक्ता विभूतिर्वै प्राकृती सा परा मता

अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः  ७५

यतो वाचो निवर्त्तंते मनसा चेन्द्रि यैस्सह

अप्राकृती परा चैषा विभूतिः पारमेश्वरी  ७६

सैवेह परमं धाम सैवेह परमा गतिः

सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः  ७७

तां प्राप्तुं प्रयतंतेऽत्र जितश्वासा जितेंद्रि याः

गर्भकारा गृहद्वारं निश्छिद्रं  घटितुं यथा  ७८

संसाराशीविषालीढमृतसंजीवनौषधम्

विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन  ७९

यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः

सोऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते  ८०

एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः

रहस्यमपि योग्योऽसि भर्गभक्तो भवानिति  ८१

नाशिष्येभ्योऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन

व्याहरेदीशयोर्भूतिमिति वेदानुशासनम्  ८२

तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि

त्वादृशेभ्योऽनुरूपेभ्यः कथयैतन्न चान्यथा  ८३

विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत्

संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात्  ८४

कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः

त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततोऽधिकाः  ८५

नश्यंत्यनिष्टरिपवो वर्द्धन्ते सुहृदस्तथा

विद्या च वर्द्धते शैवी मतिस्सत्ये प्रवर्तते  ८६

भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे

यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम्  ८७

अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि

प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते

पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम्  ८८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशंकरविभूतियोगो नाम चतुर्थोऽध्यायः  ४

अध्याय ५

उपमन्युरुवाच

विग्रहं देवदेवस्य विश्वमेतच्चराचरम्

तदेवं न विजानंति पशवः पाशगौरवात्  १

तमेकमेव बहुधा वदंति यदुनंदन

अजानन्तः परं भावमविकल्पं महर्षयः  २

अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा

केचिदाहुर्महादेवमनादिनिधनं परम्  ३

भूतेंद्रि यांतःकरणप्रधानविषयात्मकम्

अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम्  ४

बृहत्त्वाद्बृहणत्वाद्वा ब्रह्म चेत्यभिधीयते

उभे ते ब्रह्मणो रूपे ब्रह्मणोऽधिपतेः प्रभोः

विद्याऽविद्यास्वरूपीति कैश्चिदीशो निगद्यते  ५

विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम्

विद्याऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः  ६

रूपमेव न संदेहो विश्वं तस्य वशे यतः

भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः  ७

अयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते

यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते  ८

विकल्परहितं तत्त्वं परमित्यभिधीयते

वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः  ९

तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते

क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे  १०

क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते

उभे ते परमेशस्य रूपे तस्य वशे यतः  ११

तयोः परः शिवः शांतः क्षराक्षरापरस्स्मृतः

समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम्  १२

वदंति मुनयः केचिच्छिवं परमकारणम्

समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च  १३

ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात्

तयोः कारणभावेन शिवं परमकारणम्  १४

कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम्

जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः  १५

या पिंडेप्यनुवर्तेत सा जातिरिति कथ्यते

व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातेः समाश्रयम्  १६

जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः

यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः  १७

प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः

प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा  १८

त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः

कालः कार्य्यप्रपंचस्य परिणामैककारणम्  १९

एषामीशोऽधिपो धाता प्रवर्तकनिवर्तकः

आविर्भावतिरोभावहेतुरेकः स्वराडजः  २०

तस्मात्प्रधानपुरुषव्यक्तकालस्वरूपवान्

हेतुर्नेताधिपस्तेषां धाता चोक्ता महेश्वरः  २१

विराड्ढिरण्यगर्भात्मा कैश्चिदीशो निगद्यते

हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट्  २२

अंतर्यामी परश्चेति कथ्यते कविभिश्शिवः

प्राज्ञस्तैजसविश्वात्मेत्यपरे संप्रचक्षते  २३

तुरीयमपरे प्राहुः सौम्यमेव परे विदुः

माता मानं च मेयं च मतिं चाहुरथापरे  २४

कर्ता क्रिया च कार्य्यं च करणं कारणं परे

जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे संप्रचक्षते  २५

तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे

तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः  २६

केचित्संसारिणं प्राहुस्तमसंसारिणं परे

स्वतंत्रमपरे प्राहुरस्वतंत्रं परे विदुः  २७

घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः

रागवंतं परे प्राहुर्वीतरागं तथा परे  २८

निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः

निरिंद्रि यं परे प्राहुः सेंद्रि यं च तथापरे  २९

ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते

अरूपं केचिदाहुर्वै रूपवंतं परे विदुः  ३०

अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः

वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे

शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे  ३१

केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे

ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे  ३२

केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन

परमेके तमेवाहुरपरं च तथा परे  ३३

एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः

नाध्यवस्यंति मुनयो नानाप्रत्ययकारणात्  ३४

ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम्

ते हि जानंत्ययत्नेन शिवं परमकारणम्  ३५

यावत्पशुर्नैव पश्यत्यनीशं १ पुराणं भुवनस्येशितारम्

तावद्दुःखे वर्तते बद्धपाशः संसारेऽस्मिञ्चक्रनेमिक्रमेण  ३६

यदा २ पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्

तदाविद्वान्पुण्यपापे विधूय निरंजनः परममुपैति साम्यम्  ३७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पंचमोऽध्यायः  ५

अध्याय ६

उपमन्युरुवाच

नशिवस्याणवो बंधः कार्यो मायेय एव वा

प्राकृतो वाथ बोद्धा वा ह्यहंकारात्मकस्तथा  १

नैवास्य मानसो बंधो न चैत्तो नेंद्रि यात्मकः

न च तन्मात्रबंधोऽपि भूतबंधो न कश्चन  २

न च कालः कला चैव न विद्या नियतिस्तथा

न रागो न च विद्वेषः शंभोरमिततेजसः  ३

न चास्त्यभिनिवेशोऽस्य कुशलाऽकुशलान्यपि

कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले  ४

आशयैर्नापि संबन्धः संस्कारैः कर्मणामपि

भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः  ५

न तस्य कारणं कर्ता नादिरंतस्तथांतरम्

न कर्म करणं वापि नाकार्यं कार्यमेव च  ६

नास्य बंधुरबंधुर्वा नियंता प्रेरकोऽपि वा

न पतिर्न गुरुस्त्राता नाधिको न समस्तथा  ७

न जन्ममरणे तस्य न कांक्षितमकांक्षितम्

न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम्  ८

नास्ति यद्यदकल्याणं तत्तदस्य कदाचन

कल्याणं सकलं चास्ति परमात्मा शिवो यतः  ९

स शिवस्सर्वमेवेदमधिष्ठाय स्वशक्तिभिः

अप्रच्युतस्स्वतो भावः स्थितः स्थाणुरतः स्मृतः  १०

शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजंगमम्

सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति  ११

शर्वो रुद्रो  नमस्तस्मै पुरुषः सत्परो महान्

हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः  १२

अंबिकापतिरीशानः पिनाकी वृषवाहनः

एको रुद्र ः! परं ब्रह्म पुरुषः कृष्णपिंगलः  १३

बालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे

हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च  १४

योऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः

सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतोऽव्ययः  १५

स पुंविशेषः परमो भगवानन्तकांतकः

चेतनचेतनोन्मुक्तः प्रपंचाच्च परात्परः  १६

शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते

लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः  १७

प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम्

उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम्  १८

कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः

सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः  १९

शुद्धा स्वाभाविकी तस्य शक्तिस्सर्वातिशायिनी

ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मितम्  २०

ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम्

तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च  २१

परिपूर्णस्य सर्गाद्यैर्नात्मनोऽस्ति प्रयोजनम्

परानुग्रह एवास्य फलं सर्वस्य कर्मणः  २२

प्रणवो वाचकस्तस्य शिवस्य परमात्मनः

शिवरुद्रा दिशब्दानां प्रणवो हि परस्स्मृतः  २३

शंभो प्रणववाच्यस्य भवनात्तज्जपादपि

या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः  २४

तस्मादेकाक्षरं देवमाहुरागमपारगाः

वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः  २५

अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्द्धनि

आरश्चाप्युकारश्च मकारो नाद इत्यपि  २६

अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते

मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः  २७

अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः

उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः  २८

मकारः पुरुषो बीजं तमः संहारको हरः

नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः  २९

सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा

अभिधाय शिवात्मानं बोधयत्यर्धमात्रया  ३०

यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति किंचित्

वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्  ३१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं नाम षष्ठोऽध्यायः  ६

अध्याय ७

उपमन्युरुवच

शक्तिस्स्वाभविकी तस्य विद्या विश्वविलक्षणा

एकानेकस्य रूपेण भाति भानोरिव प्रभा  १

अनंताः शक्तयो यस्या इच्छाज्ञानक्रियादयः

मायाद्याश्चाभवन्वह्नोर्विस्फुलिंगा यथा तथा  २

सदाशिवेश्वराद्या हि विद्याऽविद्येश्वरादयः

अभवन्पुरुषाश्चास्याः प्रकृतिश्च परात्परा  ३

महदादिविशेषांतास्त्वजाद्याश्चापि मूर्त्तयः

यच्चान्यदस्ति तत्सर्वं तस्याः कार्य्यं न संशयः  ४

सा शक्तिस्सर्वगा सूक्ष्मा प्रबोधानंदरूपिणी

शक्तिमानुच्यते देवश्शिवश्शीतांशुभूषणः  ५

वेद्यश्शिवश्शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः

धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः  ६

आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे

शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः  ७

माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा

असच्च सच्च यत्किंचित्तया सर्वमिदं ततम्  ८

सा देवी मायया सर्वं ब्रह्मांडं सचराचरम्

मोहयत्यप्रयत्नेन मोचयत्यपि लीलया  ९

अनया सह सर्वेशः सप्तविंशप्रकारया

विश्वं व्याप्य स्थितस्तस्मान्मुक्तिरत्र प्रवर्तते  १०

मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः

संशयाविष्टमनसो विस्मृशंति यथातथम्  ११

किं कारणं कुतो जाता जीवामः केन वा वयम्

कुत्रास्माकं संप्रतिष्ठा केन वाधिष्ठिता वयम्  १२

केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम्

अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता  १३

कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते

भूतानि योनिः पुरुषो योगी चैषां परोऽथ वा  १४

अचेतनत्वात्कालादेश्चेतनत्वेपि चात्मनः

सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते  १५

तद्ध्यानयोगानुगतां प्रपश्यञ्छक्तिमैश्वरीम्

पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम्  १६

तया विच्छिन्नपाशास्ते सर्वकारणकारणम्

शक्तिमंतं महादेवमपश्यन्दिव्यचक्षुषा  १७

यः कारणान्यशेषाणि कालात्मसहितानि च

अप्रमेयोऽनया शक्त्या सकलं योऽधितिष्ठति  १८

ततः प्रसादयोगेन योगेन परमेण च

दृष्टेन भक्तियोगेन दिव्यः गतिमवाप्नुयुः  १९

तस्मात्सह तथा शक्त्या हृदि पश्यंति ये शिवम्

तेषां शाश्वतिकी शांतिर्नैतरेषामिति श्रुतिः  २०

न हि शक्तिमतश्शक्त्या विप्रयोगोऽस्ति जातुचित्

तस्माच्छक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः  २१

क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः

प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता  २२

देवो वा दानवो वापि पशुर्वा विहगोऽपि वा

कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः  २३

गर्भस्थो जायमानो वा बालो वा तरुणोऽपि वा

वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी  २४

पतितो वापि धर्मात्मा पंडितो मूढ एव वा

प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः  २५

अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः

प्रसीदति न संदेहो विगृह्य विविधान्मलान्  २६

प्रसदादेव सा भक्तिः प्रसादो भक्तिसंभवः

अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति  २७

प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी

नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना  २८

अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम्

विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः  २९

प्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते

अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा  ३०

तपसा विविधैश्शैवैर्धर्मैस्संयुज्यते नरः

तत्र योगे तदभ्यासस्ततो भक्तिः परा भवेत्  ३१

परया च तया भक्त्या प्रसादो लभ्यते परः

प्रसादात्सर्वपाशेभ्यो मुक्तिर्मुक्तस्य निर्वृतिः  ३२

अल्पभावोऽपि यो मर्त्यस्सोऽपि जन्मत्रयात्परम्

नयोनियंत्रपीडायै भवेन्नैवात्र संशयः  ३३

सांगाऽनंगा च या सेवा सा भक्तिरिति कथ्यते

सा पुनर्भिद्यते त्रेधा मनोवाक्कायसाधनैः  ३४

शिवरूपादिचिंता या सा सेवा मानसी स्मृता

जपादिर्वाचिकी सेवा कर्मपूजादि कायिकी  ३५

सेयं त्रिसाधना सेवा शिवधर्मश्च कथ्यते

स तु पंचविधः प्रोक्तः शिवेन परमात्मना  ३६

तपः कर्म जपो ध्यानं ज्ञानं चेति समासतः

कर्मलिण्गार्चनाद्यं च तपश्चान्द्रा यणादिकम्  ३७

जपस्त्रिधा शिवाभ्यासश्चिन्ता ध्यानं शिवस्य तु

शिवागमोक्तं यज्ज्ञानं तदत्र ज्ञानमुच्यते  ३८

श्रीकंठेन शिवेनोक्तं शिवायै च शिवागमः

शिवाश्रितानां कारुण्याच्छ्रेयसामेकसाधनम्  ३९

तस्माद्विवर्धयेद्भक्तिं शिवे परमकारणे

त्यजेच्च विषयासंगं श्रेयोऽर्थी मतिमान्नरः  ४०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वकथनं नाम सप्तमोऽध्यायः  ७

अध्याय ८

कृष्ण उवाच

भगवञ्छ्रोतुमिच्छामि शिवेन परिभाषितम्

वेदसारे शिवज्ञानं स्वाश्रितानां विमुक्तये  १

अभक्तानामबुद्धीनामयुक्तानामगोचरम्

अर्थैर्दशर्द्धैः संयुक्तं गूढमप्राज्ञनिंदितम्  २

वर्णाश्रमकृतैर्द्धर्मैर्विपरीतं क्वचित्समम्

वेदात्षडंगादुद्धृत्य सांख्याद्योगाच्च कृत्स्नशः  ३

शतकोटिप्रमाणेन विस्तीर्णं ग्रंथसंख्यया

कथितं परमेशेन तत्र पूजा कथं प्रभोः  ४

कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम्

तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत  ५

उपमन्युरुवाच

शैवं संक्षिप्य वेदोक्तं शिवेन परिभाषितम्

स्तुतिनिंदादिरहितं सद्यः प्रत्ययकारणम्  ६

गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम्

कथयिष्ये समासेन तस्य शक्यो न विस्तरः  ७

सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः

सत्कार्यकारणोपेतस्स्वयमाविरभूत्प्रभुः  ८

जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः

देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम्  ९

ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत

तं जायमानं जनको देवः प्रापश्यदाज्ञया  १०

दृष्टो रुद्रे ण देवोऽसावसृजद्विश्वमीश्वरः

वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक्  ११

सोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत

धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः  १२

ते चान्ये च सुरा रुद्रं  रुद्रा ध्यायेन तुष्टुवुः

प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः  १३

अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः

तमपृच्छंस्ततो देवाः को भवानिति मोहिताः  १४

सोऽब्रवीद्भगवान्रुद्रो  ह्यहमेकः पुरातनः

आसं प्रथममेवाहं वर्तामि १ च सुरोत्तमाः  १५

भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन

अहमेव जगत्सर्वं तर्पयामि स्वतेजसा  १६

मत्तोऽधिकः समो नास्ति मां यो वेद स मुच्यते

इत्युक्त्वा भगवान्रुद्र स्तत्रैवांतरधत्त स

अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः  १७

व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम्

भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा  १८

अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः  १९

सगणश्चोमया सार्द्धं सान्निध्यमकरोत्प्रभुः

यं विनिद्रा  जितश्वासा योगिनो दग्धकिल्बिषाः  २०

हृदि पश्यंति तं देवं ददृशुर्देवपुंगवाः

यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम्  २१

तामपश्यन्महेशस्य वामतो वामलोचनाम्

ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम्  २२

नित्यसिद्धाश्च ये वान्यं ते च दृष्टा गणेश्वराः

अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम्  २३

स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि

देवोऽपि देवानालोक्य घृणया वृषभध्वजः  २४

तुष्टोऽस्मीत्याह सुप्रीतस्स्वभावमधुरां गिरम्

अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम्

अर्थमहत्तमं देवाः पप्रच्छुरिममादरात्  २५

देवा ऊचुः

भगवन्केन मार्गेण पूजनीयोऽसि भूतले

कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः  २६

ततः सस्मितमालोक्य देवीं देववरोहरः

स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम्  २७

सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम्

शक्तिभिर्मूर्तिभिश्चांगैर्ग्रहैर्देवैश्च संवृतम्  २८

अष्टबाहुं चतुर्वक्त्रमर्द्धनारीकमद्भुतम्

दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः  २९

बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम्

पञ्चभूतानि शेषाणि तन्मयं च चराचरम्  ३०

एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै  ३१

सिंदूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम्

पद्माभनेत्राय सपंकजाय ब्रह्मेन्द्र नारायणकारणाय  ३२

सुरत्नपूर्णं ससुवर्णतोयं सुकुंकुमाद्यं सकुशं सपुष्पम्

प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद  ३३

नमश्शिवाय शांताय सगणायादिहेतवे

रुद्रा य विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये  ३४

यश्शिवं मण्डले सौरे संपूज्यैव समाहितः

प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम्  ३५

प्रणमेद्वा पठेदेताञ्छ्लोकाञ्छ्रुतिमुखानिमान्

न तस्य दुर्ल्लभं किंचिद्भक्तश्चेन्मुच्यते दृढम्  ३६

तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम्

धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा  ३७

अथ देवान्समालोक्य मण्डलस्थो महेश्वरः

सर्वागमोत्तरं दत्त्वा शास्त्रमंतरधाद्धरः  ३८

तत्र पूजाधिकारोऽयं ब्रह्मक्षत्रविशामिति

ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम्  ३९

अथ कालेन महता तस्मिञ्छास्त्रे तिरोहिते

भर्तारं परिपप्रच्छ तदंकस्था महेश्वरी  ४०

तया स चोदितो देवो देव्या चन्द्र विभूषणः

अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम्  ४१

प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः

मयागस्त्येन गुरुणा दधीचेन महर्षिणा  ४२

स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक्

स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसंततिम्  ४३

ऋभुस्सत्यो भार्गवश्च ह्यंगिराः सविता द्विजाः

मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुंगवः  ४४

सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः

शततेजास्स्वयं धर्मो नारायण इति श्रुतः  ४५

स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतंजयः

कृतंजयो भरद्वाजो गौतमः कविरुत्तमः  ४६

वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः

तृणबिंदुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः  ४७

जातूकर्ण्यो हरिस्साक्षात्कृष्णद्वैपायनो मुनिः

व्यासावताराञ्छृण्वंतु कल्पयोगेश्वरान्क्रमात्  ४८

लैंगे व्यासावतारा हि द्वापरां तेषु सुव्रताः

योगाचार्यावताराश्च तथा शिष्येषु शूलिनः  ४९

तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः

शिष्यास्तेषां प्रशिष्याश्च शतशोऽथ सहस्रशः  ५०

तेषां संभावनाल्लोके शैवाज्ञाकरणादिभिः

भाग्यवंतो विमुच्यंते भक्त्या चात्यंतभाविताः  ५१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनं नामाष्टमोऽध्यायः  ८

अध्याय ९

कृष्ण उवाच

युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु

अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद  १

उपमन्युरुवाच

श्वेतः सुतारो मदनः सुहोत्रः कण्क एव च

लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च  २

दधिवाहश्च ऋषभो मुनिरुग्रोऽत्रिरेव च

सुपालको गौतमश्च तथा वेदशिरा मुनिः  ३

गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः

जटामाली चाट्टहासो दारुको लांगुली तथा  ४

महाकालश्च शूली च डंडी मुण्डीश एव च

सविष्णुस्सोमशर्मा च लकुलीश्वर एव च  ५

एते वाराह कल्पेऽस्मिन्सप्तमस्यांतरो मनोः

अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात्  ६

शिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः

श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम्  ७

श्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः

दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा  ८

विकोशश्च विकेशश्च विपाशः पाशनाशनः

सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः  ९

सनत्कुमारस्सनकः सनंदश्च सनातनः

सुधामा विरजाश्चैव शंखश्चांडज एव च  १०

सारस्वतश्च मेघश्च मेघवाहस्सुवाहकः

कपिलश्चासुरिः पंचशिखो बाष्कल एव च  ११

पराशराश्च गर्गश्च भार्गवश्चांगिरास्तथा

बलबन्धुर्निरामित्राः केतुशृंगस्तपोधनः  १२

लंबोदरश्च लंबश्च लम्बात्मा लंबकेशकः

सर्वज्ञस्समबुद्धिश्च साध्यसिद्धिस्तथैव च  १३

सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा

अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोथ श्रविष्टकः  १४

कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः

काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः  १५

उतथ्यो वामदेवश्च महाकालो महाऽनिलः

वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः  १६

हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा

सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः  १७

प्लक्षो दार्भायणिश्चैव केतुमान्गौतमस्तथा

भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च  १८

उशिजो बृहदश्वश्च देवलः कविरेव च

शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः  १९

अक्षपादः कणादश्च उलूको वत्स एव च

कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च  २०

एते शिष्या महेशस्य योगाचार्यस्वरूपिणः

संख्या च शतमेतेषां सह द्वादशसंख्यया  २१

सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः

सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदांगपारगाः  २२

शिवाश्रमरतास्सर्वे शिवज्ञानपरायणाः

सर्वे संगविनिर्मुक्ताः शिवैकासक्तचेतसः  २३

सर्वद्वंद्वसहा धीराः सर्वभूतहिते रताः

ऋजवो मृदवः स्वस्था जितक्रोधा जितेंद्रि याः  २४

रुद्रा क्षमालाभरणास्त्रिपुंड्रांकितमस्तकाः

शिखाजटास्सर्वजटा अजटा मुंडशीर्षकाः  २५

फलमूलाशनप्रायाः प्राणायामपरायणाः

शिवाभिमानसंपन्नाः शिवध्यानैकतत्पराः  २६

समुन्मथितसंसारविषवृक्षांकुरोद्गमाः

प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति  २७

सदेशिकानिमान्मत्वा नित्यं यश्शिवमर्चयेत्

स याति शिवसायुज्यं नात्र कार्या विचारणा  २८

इति श्रीशिवमहापु॥॥ सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवस्य योगावतारवर्णनं नाम नवमोऽध्यायः  ९

अध्याय १०

कृष्ण उवाच

भगवन्सर्वयोगींद्र  गणेश्वर मुनीश्वर

षडाननसमप्रख्य सर्वज्ञाननिधे गुरो  १

प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम्

महर्षिवपुरास्थाय स्थितोऽसि परमेश्वर  २

अन्यथा हि जगत्यस्मिन् देवो वा दानवोऽपि वा

त्वत्तोन्यः परमं भावं को जानीयाच्छिवात्मकम्  ३

तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः

शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः  ४

साक्षात्सर्वजगत्कर्तुर्भर्तुरंकं समाश्रिता

भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी  ५

उपमन्युरुवाच

स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम्

भवभक्तस्य युक्तस्य तव कल्याणचेतसः  ६

महीधरवरे दिव्ये मंदरे चारुकंदरे

देव्या सह महादेवो दिव्यो ध्यानगतोऽभवत्  ७

तदा देव्याः प्रियसखी सुस्मितास्या शुभावती

फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत्  ८

ततः स्वमंकमारोप्य देवीं देववरोरहः

अलंकृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम्  ९

अथांतःपुरचारिण्यो देव्यो दिव्यविभूषणाः

अंतरंगा गणेन्द्रा श्च सर्वलोकमहेश्वरीम्  १०

भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम्

चामरासक्तहस्ताश्च देवीं देवं सिषेविरे  ११

ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः

त्राणाय च नृणां लोके ये शिवं शरणं गताः  १२

तदावसरमालोक्य सर्वलोकमहेश्वरी

भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम्  १३

देव्युवाच

केन वश्यो महादेवो मर्त्यानां मंदचेतसाम्

आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम्  १४

ईश्वर उवाच

न कर्मणा न तपसा न जपैर्नासनादिभिः

न ज्ञानेन न चान्येन वश्योऽहं श्रद्धया विना  १५

श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना

वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्संभाष्य एव च  १६

साध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता

श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह  १७

स्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः

तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित्  १८

आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह

ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम्  १९

स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः

नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः

तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम्  २०

वर्णिनो ये प्रपद्यंते मामनन्यसमाश्रयाः

तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः  २१

वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः

तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम्  २२

अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम

तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः  २३

मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः

परं मदीयमासाद्य पुनरावृत्तिदुर्लभम्

परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः  २४

तस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम्

आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत्  २५

अलब्धलाभ एवैष कोटिकोटिगुणाधिकः

तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत्  २६

ममावतारा हि शुभे योगाचार्यच्छलेन तु

सर्वांतरेषु सन्त्यार्ये संततिश्च सहस्रशः  २७

अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि

दुर्लभं संततिज्ञानं ततो यत्नात्समाश्रयेत्  २८

सा हानिस्तन्महच्छिद्रं  स मोहस्सांधमूकता

यदन्यत्र श्रमं कुर्य्यान्मोक्षमार्गबहिष्कृतः  २९

ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि

चतुष्पादः समाख्यातो मम धर्मस्सनातनः  ३०

पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते

षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते  ३१

वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च

ममार्च्चनादिधर्मस्य चर्य्या चर्य्येति कथ्यते  ३२

मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः

वृत्त्यंतरनिरोधो यो योग इत्यभिधीयते  ३३

अश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम्

मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम्  ३४

विजितेंद्रि यवर्गस्य यमेन नियमेन च

पूर्वपापहरो योगो विरक्तस्यैव कथ्यते  ३५

वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते  ३६

योगज्ञः पतितो वापि मुच्यते नात्र संशयः

दया कार्याथ सततमहिंसा ज्ञानसंग्रहः  ३७

सत्यमस्तेयमास्तिक्यं श्रद्धा चेंद्रि यनिग्रहः

अध्यापनं चाध्ययनं यजनं याजनं तथा  ३८

ध्यानमीश्वरभावश्च सततं ज्ञानशीलता

य एवं वर्त्तते विप्रो ज्ञानयोगस्य सिद्धये  ३९

अचिरादेव विज्ञानं लब्ध्वा योगं च विंदति

दग्ध्वा देहमिमं ज्ञानी क्षणाज्ज्ञानाग्निना प्रिये  ४०

प्रसादान्मम योगज्ञः कर्मबंधं प्रहास्यति

पुण्यःपुण्यात्मकं कर्ममुक्तेस्तत्प्रतिबंधकम्

तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत्  ४१

फलकामनया कर्मकरणात्प्रतिबध्यते

न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत्  ४२

प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये

ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत्  ४३

विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः

न यजंति हि मां युक्ताः समलोष्टाश्मकांचनाः  ४४

नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः

ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात्  ४५

अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः

ज्ञानचर्याक्रियास्वेव तेऽधिकुर्य्युस्तदर्हकाः  ४६

द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा

वाण्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः  ४७

तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः

पंचधा कथ्यते सद्भिस्तदेव भजनं पुनः  ४८

अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम्

तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम्  ४९

मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते

मन्नामनिरता वाणी वाण्मता खलु नेतरा  ५०

लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः

ममोपचारनिरतः कायः कायो न चेतरः  ५१

मदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते

मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम्  ५२

जपः पंचाक्षराभ्यासः प्रणवाभ्यास एव च

रुद्रा ध्यायादिकाभ्यासो न वेदाध्ययनादिकम्  ५३

ध्यानम्मद्रू पचिंताद्यं नात्माद्यर्थसमाधयः

ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम्  ५४

बाह्ये वाभ्यंतरे वाथ यत्र स्यान्मनसो रतिः

प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत्  ५५

बाह्यादाभ्यंतरं श्रेष्ठं भवेच्छतगुणाधिकम्

असंकरत्वाद्दोषाणां दृष्टानामप्यसम्भवात्  ५६

शौचमाभ्यंतरं विद्यान्न बाह्यं शौचमुच्यते

अंतः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः  ५७

बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम्

न भावरहितं देवि विप्रलंभैककारणम्  ५८

कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः

बहिर्वाभ्यंतरं वाथ मया भावो हि गृह्यते  ५९

भावैकात्मा क्रिया देवि मम धर्मस्सनातनः

मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित्  ६०

फलोद्देशेन देवेशि लघुर्मम समाश्रयः

फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः  ६१

फलार्थिनोऽपि यस्यैव मयि चित्तं प्रतिष्ठितम्

भावानुरूपफलदस्तस्याप्यहमनिन्दिते  ६२

फलानपेक्षया येषां मनो मत्प्रवणं भवेत्

प्रार्थयेयुः फलं पश्चाद्भक्तास्तेऽपि मम प्रियाः  ६३

प्राक् संस्कारवशादेव ये विचिंत्य फलाफले

विवशा मां प्रपद्यंते मम प्रियतमा मताः  ६४

मल्लाभान्न परो लाभस्तेषामस्ति यथातथम्

ममापि लाभस्तल्लाभान्नापरः परमेश्वरि  ६५

मदनुग्रहतस्तेषां भावो मयि समर्पितः

फलं परमनिर्वाणं प्रयच्छति बलादिव  ६६

महात्मनामनन्यानां मयि संन्यस्तचेतसाम्

अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम्  ६७

मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम्

स्वयमभ्यर्चनं चैव मदर्थे चांगचेष्टितम्  ६८

मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रियाः

ममानुस्मरणं नित्यं यश्च मामुपजीवति  ६९

एवमष्टविधं चिह्नं यस्मिन् म्लेच्छेऽपि वर्तते

स विप्रेन्द्रो  मुनिः श्रीमान्स यतिस्स च पंडितः  ७०

न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचोऽपि यः

तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम्  ७१

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति  ७२

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं नाम दशमोऽध्यायः  १०

अध्याय ११

ईश्वर उवाच

अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम्

विदुषां द्विजमुख्यानां वर्णधर्मसमासतः  १

त्रिः स्नानं चाग्निकार्यं च लिंगार्चनमनुक्रमम्

दानमीश्ररभावश्च दया सर्वत्र सर्वदा  २

सत्यं संतोषमास्तिक्यमहिंसा सर्वजंतुषु

ह्रीश्रद्धाध्ययनं योगस्सदाध्यापनमेव च  ३

व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा

शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम्  ४

निषिद्धासेवनं चैव भस्मरुद्रा क्षधारणम्

पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः  ५

पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि

अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये  ६

सर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम्

तथा पर्युषितान्नस्य यावकस्य विशेषतः  ७

मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम्

सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः  ८

क्षमा शांतिश्च सन्तोषस्सत्यमस्तेयमेव च

ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम्  ९

सर्वसंगनिवृत्तिश्च दशैतानि विशेषतः

लिंगानि योगिनां भूयो दिवा भिक्षाशनं तथा  १०

वानप्रस्थाश्रमस्थानां समानमिदमिष्यते

रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम्  ११

अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः

वैश्यस्य च विशेषेण मया नात्र विधीयते  १२

रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा

दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम्  १३

अविश्वासश्च सर्वत्र विश्वासो मम योगिषु

स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च  १४

सदा संचारितैश्चारैर्लोकवृत्तांतवेदनम्

सदास्त्रधारणं चैव भस्मकंचुकधारणम्  १५

राज्ञां ममाश्रमस्थानामेष धर्मस्य संग्रहः

गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते  १६

शुश्रूषेतरवर्णानां धर्मः शूद्र स्य कथ्यते

उद्यानकरणं चैव मम क्षेत्रसमाश्रयः  १७

धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते

ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम्  १८

स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यस्सनातनः

ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत्  १९

या नारी भर्तृशुश्रूषां विहाय व्रततत्परा

सा नारी नरकं याति नात्र कार्या विचारणा  २०

अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम्

व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम्  २१

ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा

शांतिर्मौनं क्षमा नित्यं संविभागो यथाविधि  २२

अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः

एकादश्यां च विधिवदुपवासोममार्चनम्  २३

इति संक्षेपतः प्रोक्तो मयाश्रमनिषेविणाम्

ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम्  २४

तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि

शूद्रा णामथ नारीणां धर्म एष सनातनः  २५

ध्येयस्त्वयाहं देवेशि सदा जाप्यः षडक्षरः

वेदोक्तमखिलं धर्ममिति धर्मार्थसंग्रहः  २६

अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः

भावातिशयसंपन्नाः पूर्वसंस्कारसंयुताः  २७

विरक्ता वानुरक्ता वा स्त्र्! यादीनां विषयेष्वपि

पापैर्न ते विलिंपंते १ पद्मपत्रमिवांभसा  २८

तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम्

मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणात्  २९

नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम्

न विधिर्न निषेधश्च तेषां मम यथा तथा  ३०

तथेह परिपूर्णस्य साध्यं मम न विद्यते

तथैव कृतकृत्यानां तेषामपि न संशयः  ३१

मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः

रुद्र लोकात्परिभ्रष्टास्ते रुद्रा  नात्र संशयः  ३२

ममानुशासनं यद्वद्ब्रह्मादीनां प्रवर्तकम्

तथा नराणामन्येषां तन्नियोगः प्रवर्तकः  ३३

ममाज्ञाधारभावेन सद्भावातिशयेन च

तदालोकनमात्रेण सर्वपापक्षयो भवेत्  ३४

प्रत्ययाश्च प्रवर्तंते प्रशस्तफलसूचकाः

मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः  ३५

कंपस्वेदोऽश्रुपातश्च कण्ठे च स्वरविक्रिया

आनंदाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः  ३६

स तैर्व्यस्तैस्समस्तैर्वा लिंगैरव्यभिचारिभिः

मंदमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः  ३७

यथायोग्निसमावेशान्नायो भवति केवलम्

स तथैव मम सान्निध्यान्न ते केवलमानुषाः  ३८

हस्तपादादिसाधर्म्याद्रुद्रा न्मर्त्यवपुर्धरान्

प्राकृतानिव मन्वानो नावजानीत पंडितः  ३९

अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः

आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत्  ४०

ब्रह्मविष्णुसुरेशानामपि तूलायते पदम्

मत्तोन्यदनपेक्षाणामुद्धृतानां महात्मनाम्  ४१

अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा

गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम्  ४२

अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम्

मयि चित्तसमासंगो येन केनापि हेतुना  ४३

उपमन्युरुवाच

इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना

हिताय जगतामुक्तो ज्ञानसारार्थसंग्रहः  ४४

विज्ञानसंग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः

सेतिहासपुराणानि विद्या व्याख्यानविस्तरः  ४५

ज्ञानं ज्ञेयमनुष्ठेयमधिकारोऽथ साधनम्

साध्यं चेति षडर्थानां संग्रहत्वेष संग्रहः  ४६

गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः

लिंगार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतोऽपि यः  ४७

साधनं शिवमंत्राद्यं साध्यं शिवसमानता

षडर्थसंग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते  ४८

प्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः

बाह्येभ्यर्च्य शिवं पश्चादंतर्यागरतो भवेत्  ४९

रतिरभ्यंतरे यस्य न बाह्ये पुण्यगौरवात्

न कर्म करणीयं हि बहिस्तस्य महात्मनाः  ५०

ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः

नांतर्न च बहिः कृष्ण कृत्यमस्ति कदाचन  ५१

तस्मात्क्रमेण संत्यज्य बाह्यमाभ्यंतरं तथा

ज्ञानेन ज्ञेयमालोक्याज्ञानं चापि परित्यजेत्  ५२

नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा

एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा  ५३

तस्मात्कर्माण्यकृत्वा वा कृत्वा वांतर्बहिःक्रमात्

येन केनाप्युपायेन शिवे चित्तं निवेशयेत्  ५४

शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम्

परत्रेह च सर्वत्र निर्वृतिः परमा भवेत्  ५५

इहोन्नमः शिवायेति मंत्रेणानेन सिद्धयः

स तस्मादधिगंतव्यः परावरविभूतये  ५६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिवज्ञानवर्णनं नामैकादशोऽध्यायः  ११

अध्याय १२

श्रीकृष्ण उवाच

महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे

पंचाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः  १

उपमन्युरुवाच

पंचाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि

अशक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः शृणु  २

वेदे शिवागमे चायमुभयत्र षडक्षरेः

सर्वेषां शिवभक्तानामशेषार्थसाधकः  ३

तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम्

आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम्  ४

नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम्

सुनिश्चितार्थं गंभीरं वाक्यं तत्पारमेश्वरम्  ५

मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये

प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम्  ६

तद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम्

अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत्  ७

देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः

ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः  ८

इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु

मंत्रे नमश्शिवायेति संस्थितानि यथाक्रमम्

मंत्रे षडक्षरे सूक्ष्मे पंचब्रह्मतनुः शिवः  ९

वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः

वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः  १०

वाच्यवाचकभावोऽयमनादिसंस्थितस्तयोः

यथाऽनादिप्रवृत्तोयं घोरसंसारसागरः  ११

शिवोऽपि हि तथानादिसंसारान्मोचकः स्थितः

व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः  १२

तद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः

असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत्  १३

अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च

प्रधानपरमाण्वादि यावत्किंचिदचेतनम्  १४

न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना

धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात्  १५

न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति

वैद्यं विना निरानंदाः क्लिश्यंते रोगिणो यथा  १६

तस्मादनादिः सर्वज्ञः परिपूर्णस्सदाशिवः

अस्ति नाथः परित्राता पुंसां संसारसागरात्  १७

आदिमध्यांतनिर्मुक्तस्स्वभावविमलः प्रभुः

सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमे  १८

तस्याभिधानमन्त्रोऽयमभिधेयश्च स स्मृतः

अभिधानाभिधेयत्वान्मंत्रस्सिद्धः परश्शिवः  १९

एतावत्तु शिवज्ञानमेतावत्परमं पदम्

यदॐनमश्शिवायेति शिववाक्यं षडक्षरम्  २०

विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम्

यस्सर्वज्ञस्सुसंपूर्णः स्वभावविमलः शिवः  २१

लोकानुग्रहकर्त्ता च स मृषार्थं कथं वदेत्

यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः  २२

यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत्

रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत्  २३

ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा

अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत्

प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः  २४

तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता

यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः  २५

स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम्

वाक्यं मुनिवरैः शांतैस्तद्विज्ञेयं सुभाषितम्  २६

रागद्वेषानृतक्रोधकामतृष्णानुसारि यत्

वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते  २७

संस्कृतेनापि किं तेन मृदुना ललितेन वा

अविद्यारागवाक्येन संसारक्लेशहेतुना  २८

यच्छ्रुत्वा जायते श्रेयो रागादीनां च संशयः

विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम्  २९

बहुत्वेपि हि मंत्राणां सर्वज्ञेन शिवेन यः

प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित्  ३०

सांगानि वेदशास्त्राणि संस्थितानि षडक्षरे

न तेन सदृशस्तस्मान्मन्त्रोऽप्यस्त्यपरः क्वचित्  ३१

सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा

मन्त्रः षडक्षरो भिन्नस्सूत्रं वृत्यात्मना यथा  ३२

शिवज्ञानानि यावंति विद्यास्थानापि यानि च

षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः  ३३

किं तस्य बहुभिर्मंत्रैश्शास्त्रैर्वा बहुविस्तरैः

यस्योन्नमः शिवायेति मन्त्रोऽयं हृदि संस्थितः  ३४

तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम्

येनोन्नमश्शिवायेति मंत्राभ्यासः स्थिरीकृतः  ३५

नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम्

जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम्  ३६

अंत्यजो वाधमो वापि मूर्खो वा पंडितोऽपि वा

पंचाक्षरजपे निष्ठो मुच्यते पापपंजरात्  ३७

इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना

हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः  ३८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पंचाक्षरमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः  १२

अध्याय १३

देव्युवाच

कलौ कलुषिते काले दुर्जये दुरतिक्रमे

अपुण्यतमसाच्छन्ने लोके धर्मपराण्मुखे  १

क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते

सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये  २

तदोपदेशे विहते गुरुशिष्यक्रमे गते

केनोपायेन मुच्यंते भक्तास्तव महेश्वर  ३

ईश्वर उवाच

आश्रित्य परमां विद्यां हृद्यां पंचाक्षरीं मम

भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः  ४

मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः

दूषितानां कृतघ्नानां निंदकानां छलात्मनाम्  ५

लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम्

मम पंचाक्षरी विद्या संसारभयतारिणी  ६

मयैवमसकृद्देवि प्रतिज्ञातं धरातले

पतितोऽपि विमुच्येत मद्भक्तो विद्ययानया  ७

देव्युवाच

कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा

कर्मायोगेन यत्कर्म कृतं च नरकाय हि

ततः कथं विमुच्येत पतितो विद्ययाऽनया  ८

ईश्वर उवाच

तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि

रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा  ९

समंत्रकं मां पतितः पूजयेद्यदि मोहितः

नारकी स्यान्न सन्देहो मम पंचाक्षरं विना  १०

अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः

तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः  ११

भक्त्या पंचाक्षरेणैव यो हि मां सकृदर्चयेत्

सोऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात्  १२

तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा

पंचाक्षरार्चनस्यैते कोट्यंशेनापि नो समः  १३

बद्धो वाप्यथ मुक्तो वा पाशात्पंचाक्षरेण यः

पूजयेन्मां स मुच्येत नात्र कार्या विचारणा  १४

अरुद्रो  वा सरुद्रो  वा सकृत्पंचाक्षरेण यः

पूजयेत्पतितो वापि मूढो वा मुच्यते नरः  १५

षडक्षरेण वा देवि तथा पंचाक्षरेण वा

स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते  १६

पतितोऽपतितो वापि मन्त्रेणानेन पूजयेत्

मम भक्तो जितक्रोधो सलब्धोऽलब्ध एव वा  १७

अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः

तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत्  १८

लब्ध्वा संपूजयेद्यस्तु मैत्र्! यादिगुणसंयुतः

ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात्  १९

किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः

मम पंचाक्षरे मंत्रे तस्माच्छ्रेष्ठतरो हि सः  २०

पंचाक्षरप्रभावेण लोकवेदमहर्षयः

तिष्ठंति शाश्वता धर्मा देवास्सर्वमिदं जगत्  २१

प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे

सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति  २२

एकोऽहं संस्थितो देवि न द्वितीयोऽस्ति कुत्रचित्

तदा वेदाश्च शास्त्राणि सर्वे पंचाक्षरे स्थिताः  २३

ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः

ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः  २४

गुणमूर्त्यात्मनां चैव ततोवांतरसंहृतिः

तदा नारायणश्शेते देवो मायामयीं तनुम्  २५

आस्थाय भोगिपर्यंकशयने तोयमध्यगः

तन्नाभिपंकजाज्जातः पंचवक्त्रः पितामहः  २६

सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान्

मुनीन्दश ससर्जादौ मानसानमितौजसः  २७

तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः

मत्पुत्राणां महादेव शक्तिं देहि महेश्वर  २८

इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम्

पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये  २९

स पञ्चवदनैस्तानि गृह्णाँ ल्लोकपितामहः

वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम्  ३०

ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः

पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम्  ३१

ते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात्

तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः  ३२

मेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः

मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा  ३३

तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः

दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन्  ३४

तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम्

ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम्  ३५

न्यासं षडंगं दिग्बंधं विनियोगमशेषतः

प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये  ३६

ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः

सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम्  ३७

अस्याः परमविद्यायास्स्वरूपमधुनोच्यते

आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम्  ३८

सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता

सर्वजातस्य सर्वस्य बीजभूता सनातनी  ३९

प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका

तप्तचामीकरप्रख्या पीनोन्नतपयोधरा  ४०

चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा

पद्मोत्पलकरा सौम्या वरदाभयपाणिका  ४१

सर्वलक्षणसंपन्ना सर्वाभरणभूषिता

सितपद्मासनासीना नीलकुंचितमूर्द्धजा  ४२

अस्याः पञ्चविधा वर्णाः प्रस्फुरद्र श्मिमंडलाः

पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च  ४३

पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः

अर्द्धचन्द्र निभो बिंदुर्नादो दीपशिखाकृतिः  ४४

बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने

दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत्  ४५

वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम्

देवता शिव एवाहं मन्त्रस्यास्य वरानने  ४६

गौतमोऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः

भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः  ४७

गायत्र्! यनुष्टुप् त्रिष्टुप् च छंदांसि बृहती विराट्

इन्द्रो  रुद्रो  हरिर्ब्रह्मा स्कंदस्तेषां च देवताः  ४८

मम पंचमुखान्याहुः स्थाने तेषां वरानने

पूर्वादेश्चोर्द्ध्वपर्यंतं नकारादि यथाक्रमम्  ४९

अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः

पंचमः स्वरितश्चैव तृतीयो निहतः स्मृतः  ५०

मूलविद्या शिवं शैवं सूत्रं पंचाक्षरं तथा

नामान्यस्य विजानीयाच्छैवं मे हृदयं महत्  ५१

नकारश्शिर उच्येत मकारस्तु शिखोच्यते

शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते  ५२

यकारोऽस्त्रं नमस्स्वाहा वषट् हुंवौषडित्यपि

फडित्यपि च वर्णानामन्तेऽण्गत्वं यदा तदा  ५३

तत्रापि मूलमंत्रोऽयं किंचिद्भेदसमन्वयात्

तत्रापि पंचमो वर्णो द्वादशस्वरभूषितः  ५४

तास्मादनेन मंत्रेण मनोवाक्कायभेदतः

आवयोरर्चनं कुर्य्याज्जपहोमादिकं तथा  ५५

यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति

यथाशक्ति यथासंपद्यथायोगं यथारति  ५६

यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता

येन केनापि वा देवि पूजा मुक्तिं नयिष्यते  ५७

मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि

मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा  ५८

तथापि मम भक्ता ये नात्यंतविवशाः पुनः

तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः  ५९

तत्रादौ संप्रवक्ष्यामि मन्त्रसंग्रहणं शुभम्

यं विना निष्फलं जाप्यं येन वा सफलं भवेत्  ६०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पंचाक्षरमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः  १३

अध्याय १४

ईश्वर उवाच

आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने

आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम्  १

आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम्

एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम्  २

उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम्

जापितं सद्गुणोपेतं ध्यानयोगपरायणम्  ३

तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः

वाचा च मनसा चैव कायेन द्र विणेन च  ४

आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः

हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च  ५

भूषणानि च वासांसि धान्यानि च धनानि च

एतानि गुरवे दद्याद्भक्त्या च विभवे सति  ६

वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः

पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम्  ७

एवं संपूज्य विधिवद्यथाशक्तित्ववंचयन्

आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु  ८

एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम्

शुश्रूषुमनहंकारं स्नातं शुचिमुपोषितम्  ९

स्नापयित्वा विशुद्ध्यर्थं पूर्णकुंभघृतेन वै

जलेन मन्त्रशुद्धेन पुण्यद्र व्ययुतेन च  १०

अलंकृत्य सुवेषं च गंधस्रग्वस्त्रभूषणैः

पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च  ११

समुद्र तीरे नद्यां च गोष्ठे देवालयेऽपि वा

शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ  १२

नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते

अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि  १३

स्वरेणोच्चारयेत्सम्यगेकांतेऽतिप्रसन्नधीः

उच्चार्योच्चारयित्वा तमावयोर्मंत्रमुत्तमम्  १४

शिवं चास्तु शुभं चास्तु शोभनोऽस्तु प्रियोऽस्त्विति

एवं दद्याद्गुरुर्मंत्रमाज्ञां चैव ततः परम्  १५

एवं लब्ध्वा गुरोर्मंत्रमाज्ञां चैव समाहितः

संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम्  १६

यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम्

अनन्यस्तत्परो भूत्वा स याति परमां गतिम्  १७

जपेदक्षरलक्षं वै चतुर्गुणितमादरात्

नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः  १८

यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः

तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत्  १९

स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम्

त्वया मां हृदि संचिंत्य संचिंत्य स्वगुरुं ततः  २०

उदण्मुखः प्राण्मुखो वा मौनी चैकाग्रमानसः

विशोध्य पंचतत्त्वानि दहनप्लावनादिभिः  २१

मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः

आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च  २२

विद्यास्थानं स्वकं रूपमृषिञ्छन्दोऽधिदैवतम्

बीजं शक्तिं तथा वाक्यं स्मृत्वा पंचाक्षरीं जपेत्  २३

उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम्

अधमं वाचिकं प्राहुरागमार्थविशारदाः  २४

उत्तमं रुद्र दैवत्यं मध्यमं विष्णुदैवतम्

अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः  २५

यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः

मंत्रमुच्चारयेद्वाचा वाचिकोऽयं जपस्स्मृतः  २६

जिह्वामात्रपरिस्पंदादीषदुच्चारितोऽपि वा

अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते  २७

धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम्

शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः  २८

वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते

साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः  २९

प्राणायामसमायुक्तस्सगर्भो जप उच्यते

आद्यंतयोरगर्भोऽपि प्राणायामः प्रशस्यते  ३०

चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत्

मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत्  ३१

पंचकं त्रिकमेकं वा प्राणायामं समाचरेत्

अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते  ३२

सगर्भादपि साहस्रं सध्यानो जप उच्यते

एषु पंचविधेष्वेकः कर्त्तव्यः शक्तितो जपः  ३३

अण्गुल्या जपसंख्यानमेकमेवमुदाहृतम्

रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम्  ३४

शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम्

स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते  ३५

पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते

कुशग्रंथ्या च रुद्रा क्षैरनंतगुणितं भवेत्  ३६

त्रिंशदक्षैः कृता माला धनदा जपकर्मणि

सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत्  ३७

पंचविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति

अक्षैस्तु पंचदशभिरभिचारफलप्रदा  ३८

अंगुष्ठं मोक्षदं विद्यात्तर्ज्जनीं शत्रुनाशिनीम्

मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका  ३९

अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा

शतसंख्योत्तमा माला पंचाशद्भिस्तु मध्यमा  ४०

चतुः पंचाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता

इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत्  ४१

कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना

अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह  ४२

अंगुष्ठेन विना जप्यं कृतं तदफलं यतः

गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः  ४३

पुण्यारण्ये तथारामे सहस्रगुणमुच्यते

अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम्  ४४

कोटिं देवालये प्राहुरनन्तं मम सन्निधौ

सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च  ४५

विप्राणां च गवां चैव सन्निधौ शस्यते जपः

तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम्  ४६

पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत्

सूर्य्याग्निविप्रदेवानां गुरूणामपि सन्निधौ  ४७

अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत्

उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः  ४८

अपवित्रकरोऽशुद्धो विलपन्न जपेत्क्वचित्

क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे  ४९

दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि

आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह  ५०

ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम्

अनासनः शयाने वा गच्छन्नुत्थित एव वा  ५१

रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे

प्रसार्य्य न जपेत्पादौ कुक्कुटासन एव वा  ५२

यानशय्याधिरूढो वा चिंताव्याकुलितोऽथ वा

शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत्  ५३

किमत्र बहुनोक्तेन समासेन वचः शृणु

सदाचारो जपञ्छुद्धं ध्यायन्भद्रं  समश्नुते  ५४

आचारः परमो धर्म आचारः परमं धनं

आचारः परमा विद्या आचारः परमा गतिः  ५५

आचारहीनः पुरुषो लोके भवति निंदितः

परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत्  ५६

यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः

तस्य तेन समाचारः सदाचारो न चेतरः  ५७

सद्भिराचरितत्वाच्च सदाचारः स उच्यते

सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम्  ५८

आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः

न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत्  ५९

यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि

तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते  ६०

रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये

न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः  ६१

सदाचारविहीनस्य पतितस्यान्त्यजस्य च

पंचाक्षरात्परं नास्ति परित्राणं कलौ युगे  ६२

गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः

अशुचेर्वा शुचेर्वापि मन्त्रोऽयन्न च निष्फलः  ६३

अनाचारवतां पुंसामविशुद्धषडध्वनाम्

अनादिष्टोऽपि गुरुणा मन्त्रोऽयं न च निष्फलः  ६४

अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च

निर्मर्यादस्य नीचस्य मंत्रोऽयं न च निष्फलः  ६५

सर्वावस्थां गतस्यापि मयि भक्तिमतः परम्

सिध्यत्येव न संदेहो नापरस्य तु कस्यचित्  ६६

न लग्नतिथिनक्षत्रवारयोगादयः प्रिये

अस्यात्यंतमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः  ६७

न कदाचिन्न कस्यापि रिपुरेष महामनुः

सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति  ६८

सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते

असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः  ६९

असाधितस्साधितो वा सिध्यत्वेन न संशयः

श्रद्धातिशययुक्तस्य मयि मंत्रे तथा गुरौ  ७०

तस्मान्मंत्रान्तरांस्त्यक्त्वा सापायान् १धिकारतः

आश्रमेत्परमां विद्यां साक्षात्पंचाक्षरीं बुधः  ७१

मंत्रान्तरेषु सिद्धेषु मंत्र एष न सिध्यति

सिद्धे त्वस्मिन्महामंत्रे ते च सिद्धा भवंत्युत  ७२

यथा देवेष्वलब्धोऽस्मि लब्धेष्वपि महेश्वरि

मयि लब्धे तु ते लब्धा मंत्रेष्वेषु समो विधिः  ७३

ये दोषास्सर्वमंत्राणां न तेऽस्मिन्संभवंत्यपि

अस्य मंत्रस्य जात्यादीननपेक्ष्य प्रवर्तनात्  ७४

तथापि नैव क्षुद्रे षु फलेषु प्रति योगिषु

सहसा विनियुंजीत तस्मादेष महाबलः  ७५

उपमन्युरुवाच

एवं साक्षान्महादेव्यै महादेवेन शूलिना

हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा  ७६

य इदं कीर्त्तयेद्भक्त्या शृणुयाद्वा समाहितः

सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम्  ७७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे पंचाक्षरमहिमवर्णनं नाम चतुर्दशोध्यायः  १४

अध्याय १५

श्रीकृष्ण उवाच

भगवान्मंत्रमाहात्म्यं भवता कथितं प्रभो

तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा  १

इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम्

मंत्रसंग्रहणे किंचित्सूचितन्न तु विस्मृतम्  २

उपमन्युरुवाच

हन्त ते कथयिष्यामि सर्वपापविशोधनम्

संस्कारं परमं पुण्यं शिवेन पतिभाषितम्  ३

सम्यक् कृताधिकारः स्यात्पूजादिषु नरो यतः

संस्कारः कथ्यते तेन षडध्वपरिशोधनम्  ४

दीयते येन विज्ञानं क्षीयते पाशबंधनम्

तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते  ५

शांभवी चैव शाक्ती च मांत्री चैव शिवागमे

दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना  ६

गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि

सद्यस्संज्ञा भवेज्जंतोः पाशोपक्षयकारिणी  ७

सा दीक्षा शांभवी प्रोक्ता सा पुनर्भिद्यते द्विधा

तीव्रा तीव्रतरा चेति पाशो पक्षयभेदतः  ८

यया स्यान्निर्वृतिः सद्यस्सैव तीव्रतरा मता

तीव्रा तु जीवतोत्यंतं पुंसः पापविशोधिका  ९

शक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु

गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा  १०

मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका

मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः  ११

शक्तिपातानुसारेण शिष्योऽनुग्रहमर्हति

शैवधर्मानुसारस्य तन्मूलत्वात्समासतः  १२

यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते

न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः  १३

तस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः

ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत्  १४

योऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः

तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत्  १५

लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः

सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी  १६

आनंदबोधयोर्लिंगमंतःकरणविक्रियाः

यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः  १७

शिष्योपि लक्षणैरेभिः कुर्य्याद्गुरुपरीक्षणम्

तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः  १८

शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात्

तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत्  १९

यो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः

गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः  २०

यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः

शिवविद्या गुरूणां च पूजया सदृशं फलम्  २१

सर्वदेवात्मकश्चासौ सर्वमंत्रमयो गुरुः

तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत्  २२

श्रेयोऽर्थी यदि गुर्वाज्ञां मनसापि न लंघयेत्

गुर्वाज्ञापालको यस्माज्ज्ञानसंपत्तिमश्नुते  २३

गच्छंस्तिष्ठन्स्वपन्भुंजन्नान्यत्कर्म समाचरेत्

समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः  २४

गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत्

गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम्  २५

पापिनां च यथा संगात्तत्पापात्पतितो भवेत्

यथेह वह्निसंपर्कान्मलं त्यजति कांचनम्  २६

तथैव गुरुसंपर्क्कात्पापं त्यजति मानवः

यथा वह्निसमीपस्थो घृतकुम्भो विलीयते  २७

तथा पापं विलीयेत ह्याचार्यस्य समीपतः

यथा प्रज्वलितो वह्निः शुष्कमाद्र रं! च निर्दहेत्  २८

तथायमपि संतुष्टो गुरुः पापं क्षणाद्दहेत्

मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत्  २९

तस्य क्रोधेन दह्यंते ह्यायुःश्रीज्ञानसत्क्रियाः

तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः  ३०

यमश्च नियमाश्चैव नात्र कार्य्या विचारणा

गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः  ३१

वदेद्यदि महामोहाद्रौ रवं नरकं व्रजेत्

मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः  ३२

श्रेयोर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत्

गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा  ३३

असमक्षं समक्षं वा तस्य कार्यं समाचरेत्

इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः  ३४

गुरुप्रियकरः शिष्यः शैवधर्मांस्ततोऽर्हति

गुरुश्चेद्गुणवान्प्राज्ञः परमानंदभासकः  ३५

तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः

संवित्संजननं तत्त्वं परमानंदसंभवम्  ३६

तत्तत्त्वं विदितं येन स एवानंददर्शकः

न पुनर्नाममात्रेण संविदारहितस्तु यः  ३७

अन्योन्यं तारयेन्नौका किं शिला तारयेच्छिलाम्

एतस्या नाममात्रेण मुक्तिर्वै नाममात्रिका  ३८

यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि

तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः  ३९

परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते

पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते  ४०

तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते

सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम्  ४१

सर्वोपायविधिज्ञोऽपि तत्त्वहीनस्तु निष्फलः

यस्यानुभवपर्यंता बुद्धिस्तत्त्वे प्रवर्तते  ४२

तस्यावलोकनाद्यैश्च परानन्दोऽभिजायते

तस्माद्यस्यैव संपर्कात्प्रबोधानंदसंभवः  ४३

गुरुं तमेव वृणुयान्नापरं मतिमान्नरः

स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः  ४४

यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः

ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत्  ४५

न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथंचन

यत्रानंदः प्रबोधो वा नाल्पमप्युपलभ्यते  ४६

वत्सरादपि शिष्येण सोऽन्यं गुरुमुपाश्रयेत्

गुरुमन्यं प्रपन्नेऽपि नावमन्येत पौर्विकम्

गुरोर्भ्रातृ-स्तथा पुत्रान्बोधकान्प्रेरकानपि  ४७

तत्रादावुपसंगम्य ब्राह्मणं वेदपारगम्

गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम्  ४८

सर्वाभयप्रदातारं करुणाक्रांतमानसम्

तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा  ४९

तावदाराधयेच्छिष्यः प्रसन्नोसौ भवेद्यथा

तस्मिन्प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत्  ५०

तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च

भूषणानि च वासांसि यानशय्यासनानि च  ५१

एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः

वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम्  ५२

स एव जनको माता भर्ता बन्धुर्धनं सुखम्

सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत्  ५३

निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम्

समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत्  ५४

यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने

तदा शैवो भवेद्देही न ततोऽस्ति पुनर्भवः  ५५

गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत्

ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम्  ५६

प्राणद्र व्यप्रदानाद्यैरादेशैश्च समासमैः

उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि  ५७

आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि

ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि  ५८

अहिंसका दयावंतो नित्यमुद्युक्तचेतसः

अमानिनो बुद्धिमंतस्त्यक्तस्पर्द्धाः प्रियंवदाः  ५९

ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः

शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः  ६०

एवं वृत्तसमोपेता वाण्मनःकायकर्मभिः

शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः  ६१

नाधिकारः स्वतो नार्य्याः शिवसंस्कारकर्मणि

नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे  ६२

तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया

अधिकारो भवत्येव कन्यायाः पितुराज्ञया

शूद्रा णां मर्त्यजातीनां पतितानां विशेषतः  ६३

तथा संकरजातीनां नाध्वशुद्धिर्विधीयते

तैप्यकृत्रिमभावश्चेच्छिवे परमकारणे  ६४

पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम्

अत्रानुलोमजाता ये युक्ता एव द्विजातिषु  ६५

तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम्

या तु कन्या स्वपित्राद्यैश्शिवधर्मे नियोजिता  ६६

सा भक्ताय प्रदातव्या नापराय विरोधिने

दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम्  ६७

अशक्ता तं परित्यज्य मनसा धर्ममाचरेत्

यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता  ६८

कृतकृत्याऽभवत्पूर्वं तपसाराध्य शण्करम्

यथा नारायणं देवं तपसाराध्य पांडवान्  ६९

पताँ ल्लब्धवती धर्मे गुरुभिर्न नियोजिता

अस्वातन्त्र्! यकृतो दोषो नेहास्ति परमार्थतः  ७०

शिवधर्मे नियुक्तायाश्शिवशासनगौरवात्

बहुनात्र किमुक्तेन योऽपि कोऽपि शिवाश्रयः  ७१

संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते

गुरोरालोकनादेव स्पर्शात्संभाषणादपि  ७२

यस्य संजायते प्रज्ञा तस्य नास्ति पराजयः

मनसा यस्तु संस्कारः क्रियते योगवर्त्मना  ७३

स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः

क्रियावान्यस्तु संस्कारः कुंडमंडपपूर्वकः

स वक्ष्यते समासेन तस्य शक्यो न विस्तरः  ७४

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यं नाम पञ्चदशोऽध्यायः  १५

अध्याय १६

उपमन्युरुवाच

पुण्येऽहनि शुचौ देशे बहुदोषविवर्जिते

देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम्  १

परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः

शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत्  २

कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत्

अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात्  ३

प्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः

प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत्  ४

वितानध्वजमालाभिर्विविधाभिरनेकशः

वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम्  ५

रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम्

सिंदूरशालिनीवारचूर्णैरेवाथ निर्द्धनः  ६

एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा

एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता  ७

केसराणि तदर्द्धानि शेषं चाष्टदलादिकम्

द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम्  ८

कृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत्

एकहस्तं तदर्द्धं वा पुनर्वेद्यः तु मंडलम्  ९

व्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते

तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत्  १०

सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा

गन्धपुष्पाक्षताकीर्णं कुशदूर्वांकुराचितम्  ११

सितसूत्रावृतं कंठे नववस्त्रयुगावृतम्

शुद्धाम्बुपूर्णमुत्कूर्चं सद्र व्यं सपिधानकम्  १२

भृण्गारं वर्धनीं चापि शंखं च चक्रमेव वा

विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा  १३

तस्यासनारविंदस्य कल्पयेदुत्तरे दले

अग्रतश्चंदनांभोभिरस्त्रराजस्य वर्धनीम्  १४

मण्डलस्य ततः प्राच्यां मंत्रकुंभे च पूर्ववत्

कृत्वा विधिवदीशस्य महापूजां समाचरेत्  १५

अथार्णवस्य तीरे वा नद्यां गोष्ठेऽपि वा गिरौ

देवागरे गृहे वापि देशेऽन्यस्मिन्मनोहरे  १६

कृत्वा पूर्वोदितं सर्वं विना वा मंडपादिकम्

मंडलं पूर्ववत्कृत्वा स्थंडिलं च विभावसोः  १७

प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः

सर्वमंगलसंयुक्तः समाचरितनैत्यकः  १८

महापूजां महेशस्य कृत्वा मण्डलमध्यतः

शिवकुंभे तथा भूयः शिवमावाह्य पूजयेत्  १९

पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम्

अर्चयेदस्त्रवर्द्धन्यामस्त्रमीशस्य दक्षिणे  २०

मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः

कृत्वा मुद्रा दिकं सर्वं मन्त्रयागं समाचरेत्  २१

ततश्शिवानले होमं कुर्याद्देशिकसत्तमः

प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः  २२

आचार्यात्पादमर्द्धं वा होमस्तेषां विधीयते

प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः  २३

स्वाध्यायमपरे कुर्युः स्तोत्रं मंगलवाचनम्

जपं च विधिवच्चान्ये शिवभक्तिपरायणाः  २४

नृत्यं गीतं च वाद्यं च मंगलान्यपराणि च

पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः  २५

पुण्याहं कारयित्वाथ पुनः संपूज्य शंकरम्

प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया  २६

प्रसीद देवदेवेश देहमाविश्य मामकम्

विमोचयैनं विश्वेश घृणया च घृणानिधे  २७

अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः

आनीयोपोषितं शिष्यं हविष्याशिनमेव वा  २८

एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम्

जपंतं प्रणवं देवं ध्यायंतं कृतमंगलम्  २९

द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा

दर्भासने समासीनं विधायोदण्मुखं शिशुम्  ३०

स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृतांजलिम्

संप्रोक्ष्य प्रोक्षणौतोयैर्मूर्द्धन्यस्त्रेण मुद्र या  ३१

पुष्पक्षेपेण संताड्य बध्नीयाल्लोचनं गुरुः

दुकूलार्द्धेन वस्त्रेण मंत्रितेन नवेन च  ३२

ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मंडलम्

सोऽपि तेनेरितः शंभोराचरेत्त्रिः प्रदक्षिणम्  ३३

ततस्सुवर्णसंमिश्रं दत्त्वा पुष्पांजलिं प्रभोः

प्राण्मुखश्चोदण्मुखो वा प्रणमेद्दंडवत्क्षितो  ३४

ततस्संप्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत्

संताड्य देशिकस्तस्य मोचयेन्नेत्रबंधनम्  ३५

स दृष्ट्वा मंडलं भूयः प्रणमेत्साञ्जलिः प्रभुम्

अथासीनं शिवाचार्यो मंडलस्य तु दक्षिणे  ३६

उपवेश्यात्मनस्सव्ये शिष्यं दर्भासने गुरुः

आराध्य च महादेवं शिवहस्तं प्रविन्यसेत्  ३७

शिवतेजोमयं पाणिं शिवमंत्रमुदीरयेत्

शिवाभिमानसंपन्नो न्यसेच्छिष्यस्य मस्तके  ३८

सर्वांगालंबनं चैव कुर्यात्तेनैव देशिकः

शिष्योऽपि प्रणमेद्भूमौ देशिकाकृतमीश्वरम्  ३९

ततश्शिवानले देवं समभ्यर्च्य यथाविधि

हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा  ४०

दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत्

नमस्कृत्य महादेवं नाडीसंधानमाचरेत्  ४१

शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम्

शिष्यदेहप्रवेशं च स्मृत्वा मंत्रांस्तु तर्पयेत्  ४२

संतर्पणाय मूलस्य तेनैवाहुतयो दश

देयास्तिस्रस्तथांगानामंगैरेव यथाक्रमम्  ४३

ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः

पुनर्दशाहुतीन्कुर्यान्मूलमंत्रेण मंत्रवित्  ४४

पुनः संपूज्य देवेशं सम्यगाचम्य देशिकः

हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत्  ४५

तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः

कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः  ४६

राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः

रुद्र त्वं जनयेद्विप्रे रुद्र नामैव साधयेत्  ४७

प्रोक्षणं ताडनं कृत्वा शिशोस्स्वात्मानमात्मनि

शिवात्मकमनुस्मृत्य स्फुरंतं विस्फुलिंगवत्  ४८

नाड्या यथोक्तया वायुं रेचयेन्मंत्रतो गुरुः

निर्गम्य प्रविशेन्नाड्या शिष्यस्य हृदयं तथा  ४९

प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन्

स्वतेजसापास्तमलं ज्वलंतमनुचिंतयेत्  ५०

तमादाय तया नाड्या मंत्री संहारमुद्र या

न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः  ५१

कुंभकेन तथा नाड्या रेचकेन यथा पुरा

तस्मादादाय शिष्यस्य हृदये तन्निवेशयेत्  ५२

तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम्

हुत्वाऽऽहुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः  ५३

देवस्य दक्षिणे शिष्यमुपवेश्यवरासने

कुशपुष्पपरिस्तीर्णे बद्धांजलिरुदण्मुखम्  ५४

स्वस्तिकासनमारूढं विधाय प्राण्मुखः स्वयम्

वरासनस्थितो मंत्रैर्महामंगलनिःस्वनैः  ५५

समादाय घटं पूर्णं पूर्णमेव प्रसादितम्

ध्यायमानः शिवं शिष्यमाभिषिंचेत देशिकः  ५६

अथापनुद्य स्नानांबु परिधाय सितांबरम्

आचान्तोलंकृतश्शिष्यः प्रांजलिर्मंडपं व्रजेत्  ५७

उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे

संपूज्य मंडलं देवं करन्यासं समाचरेत्  ५८

ततस्तु भस्मना देवं ध्यायन्मनसि देशिकः

समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत्  ५९

अथ तस्य शिवाचार्यो दहनप्लावनादिकम्

सकलीकरणं कृत्वा मातृकान्यासवर्त्मना  ६०

ततः शिवासनं ध्यात्वा शिष्यमूर्द्ध्नि देशिकः

तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम्  ६१

प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थितो भव

इति विज्ञाप्य तं शंभोस्तेजसा भासुरं स्मरेत्  ६२

संपूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम्

कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत्  ६३

स तु बद्धांजलिः श्रुत्वा मन्त्रं तद्गतमानसः

शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात्  ६४

ततः शाक्तं च संदिश्य मन्त्रं मन्त्रविचक्षणः

उच्चारयित्वा च सुखं तस्मै मंगलमादिशेत्  ६५

आसान्मन्त्रार्थं वाच्यवाचकयोगतः

समदिश्येश्वरं रूपं योगमासनमादिशेत्  ६६

अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ

भक्त्यैवमभिसंधाय दीक्षावाक्यमुदीरयेत्  ६७

वरं प्राणपरित्यागश्छेदनं शिरसोऽपि वा

न त्वनभ्यर्च्य भुंजीय भगवन्तं त्रिलोचनम्  ६८

स एव दद्यान्नियतो यावन्मोहविपर्ययः

तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः  ६९

ततः स समयो नाम भविष्यति शिवाश्रमे

लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत्  ७०

अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः

दद्याच्छिष्याय मूलेन रुद्रा क्षं चाभिमंत्रितम्  ७१

प्रतिमा वापि देवस्य गूढदेहमथापि वा

पूजाहोमजपध्यानसाधनानि च संभवे  ७२

सोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः

आददीताज्ञया तस्य देशिकस्य न चान्यथा  ७३

आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः

रक्षयेत्पूजयेच्छंभुं मठे वा गृह एववा  ७४

अतः परं शिवाचारमादिशेदस्य देशिकः

भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः  ७५

यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम्

शिवाचार्येण समये तत्सर्वं शिरसा वहेत्  ७६

शिवागमस्य ग्रहणं वाचनं श्रवणं तथा

देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः  ७७

इति संक्षेपतः प्रोक्तः संस्कारः समयाह्वयः

साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम्  ७८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिष्यसंस्कारवर्णनं नाम षोडशोऽध्यायः  १६

अध्याय १७

उपमन्युरुवाच

अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम्

षडध्वशुद्धिं कुर्वीत सर्वबंधविमुक्तये  १

कलां तत्त्वं च भुवनं वर्णं पदमतः परम्

मंत्रश्चेति समासेन षडध्वा परिपठ्यते  २

निवृत्त्याद्याः कलाः पंच कलाध्वा कथ्यते बुधैः

व्याप्ताः कलाभिरितरे त्वध्वानः पंच पंचभिः  ३

शिवतत्त्वादिभूम्यंतं तत्त्वाध्वा समुदाहृतः

षड्विंशत्संख्ययोपेतः शुद्धाशुद्धोभयात्मकः  ४

आधाराद्युन्मनांतश्च भुवनाध्वा प्रकीर्तितः

विना भेदोपभेदाभ्यां षष्टिसंख्यासमन्वितः  ५

पंचाशद्रुद्र रूपास्तु वर्णा वर्णाध्वसंज्ञिताः

अनेकभेदसंपन्नः पदाध्वा समुदाहृतः  ६

सर्वोपमंत्रैर्मंत्राध्वा व्याप्तः परमविद्यया

यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः  ७

मंत्राध्वनि न गण्येत तथासौ मंत्रनायकः

कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम्  ८

न वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम्

षड्विधस्याध्वनो रूपं न येन विदितं भवेत्  ९

व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते

तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा  १०

यथावदवगम्यैव कुर्य्यादध्वविशोधनम्

कुंडमंडलपर्यंतं तत्र कृत्वा यथा पुरा  ११

द्विहस्तमानं कुर्वीत प्राच्यां कलशमंडलम्

ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः  १२

प्रविश्य मंडलं शंभोः पूजां पूर्ववदाचरेत्

तत्राढकावरैस्सिद्धं तंदुलैः पायसं प्रभोः  १३

अर्द्धं निवेद्य होमार्थं शेषं समुपकल्पयेत्

पुरतः कल्पिते वाथ मंडले वर्णिमंडिते  १४

स्थापयेत्पंचकलशान्दिक्षु मध्ये च देशिकः

तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः  १५

नमआद्यैर्यकरांतैः कल्पयेत्कल्पवित्तमः

ईशानं मध्यमे कुंभे पुरुषं पुरतः स्थिते  १६

अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे

रक्षां विधाय मुद्रा  च बद्ध्वा कुंभाभिमंत्रणम्  १७

कृत्वा शिवानलैर्होमं प्रारभेत् यथा पुरा

यदर्द्धं पायसं पूर्वं होमार्थं परिकल्पितम्  १८

हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत्

तर्पणांतं च मंत्राणां कृत्वा कर्म यथा पुरा  १९

हुत्वा पूर्णाहुतिं तेषां ततः कुर्य्यात्प्रदीपनम्

ॐकारादनु हुंकारं ततो मूलं फडंतकम्  २०

स्वाहांतं दीपने प्राहुरंगानि च यथाक्रमम्

तेषामाहुतयस्तिस्रो देया दीपनकर्मणि  २१

मंत्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः

त्रिगुणं त्रिगुणी कृत्य द्विजकन्याकृतं सितम्  २२

सूत्रं सूत्रेण संमंत्र्! य शिखाग्रे बंधयेच्छिशोः

चरणांगुष्ठपर्य्यंतमूर्द्ध्वकायस्य तिष्ठतः  २३

लंबयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत्

शांतया मुद्र यादाय मूलमंत्रेण मंत्रवित्  २४

हुत्वाहुतित्रयं तस्यास्सान्निध्यमुपकल्पयेत्

हृदि संताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत्  २५

चैतन्यं समुपादाय द्वादशांते निवेद्य च

सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा  २६

अवगुंठ्याथ तत्सूत्रं शिष्यदेहं विचिंतयेत्

मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम्  २७

विषयेन्द्रि यदेहादिजनकं तस्य भावयेत्

व्योमादिभूतरूपिण्यः शांत्यतीतादयः कलाः  २८

सूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः

अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात्  २९

ततो मलादेस्तत्त्वादौ व्याप्तिं समलोकयेत्

कलाव्याप्तिं मलादौ च हुत्वा संदीपयेत्कलाः  ३०

शिष्यं शिरसि संताड्य सूत्रं देहे यथाक्रमम्

शांत्यतीतपदे सूत्रं लाञ्छयेन्मंत्रमुच्चरन्  ३१

एवं कृत्वा निवृत्त्यन्तं शांत्यतीतमनुक्रमात्

हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत्  ३२

देवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम्

सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः  ३३

शिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम्

भुक्त्वा पश्चाद्द्विराचम्य शिवमन्त्रमुदीरयेत्  ३४

अपरे मण्डले दद्यात्पंचगव्यं तथा गुरुः

सोऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत्  ३५

तृतीये मण्डले शिष्यमुपवेश्य यथा पुरा

प्रदद्याद्दंतपवनं यथाशास्त्रोक्तलक्षणम्  ३६

अग्रेण तस्य मृदुना प्राण्मुखो वाप्युदण्मुखः

वाचं नियम्य चासीनश्शिष्यो दंतान्विशोधयेत्  ३७

प्रक्षाल्य दंतपवनं त्यक्त्वाचम्य शिवं स्मरेत्

प्रविशेद्देशिकादिष्टः प्रांजलिः शिवमण्डलम्  ३८

त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि

प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम्  ३९

अशस्ताशामुखे तस्मिन्गुरुस्तद्दोषशांतये

शतमर्द्धं तदर्द्धं वाजुहुयान्मूलमन्त्रतः  ४०

ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम्

देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत्  ४१

अहतास्तरणास्तीर्णे स दर्भशयने शुचिः

मंत्रितेऽन्तः शिवं ध्यायञ्शयीत प्राक्छिरा निशि  ४२

शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः

आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा  ४३

रेखात्रयं च परितो भस्मना तिलसर्षपैः

कृत्वास्त्रजप्तैस्तद्वाह्ये दिगीशानां बलिं हरेत्  ४४

शिष्योऽपि परतोऽनश्नन्कृत्वैवमधिवासनम्

प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत्  ४५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं नाम सप्तदशोऽध्यायः  १७

अध्याय १८

उपमन्युरुवाच

ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः

गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः  १

अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा

नेत्रबंधनपर्य्यंतं दर्शयेन्मण्डलं गुरुः  २

बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते

यत्रापतंति पुष्णाणि तस्य नामाऽस्य संदिशेत्  ३

तं चोपनीय निर्माल्यमण्डलेऽस्मिन्यथा पुरा

पूजयेद्देवमीशानं जुहुयाच्च शिवानले  ४

शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये

शतमर्द्धं तदर्द्धं वा जुहुयान्मूलविद्यया  ५

ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा

आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम्  ६

वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम्

अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम्  ७

मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम्

प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु  ८

सूत्रदेहेऽथ शिष्यस्य ताडनप्रोक्षणादिकम्

कृत्वात्मानं समादाय द्वादशांते निवेद्य च  ९

ततोऽप्यादाय मूलेन मुद्र या शास्त्रदृष्टया

योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु  १०

देवानां जातयश्चाष्टौ तिरश्चां पंच जातयः

जात्यैकया च मानुष्या योनयश्च चतुर्दश  ११

तासु सर्वासु युगपत्प्रवेशाय शिशोर्द्धिया

वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत्  १२

गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च

हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत्  १३

निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा

आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा  १४

निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये

हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः  १५

भोक्तृत्वविषयासंगमलं १ तत्कायशोधनम्

कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः  १६

निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः

कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम्  १७

हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः

हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत्  १८

पितामह त्वया नास्य यातुः शैवं परं पदम्

प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी  १९

इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः

समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम्  २०

निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा

निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः  २१

हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम्

कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह  २२

संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम्

शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत्  २३

ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम्

तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत्  २४

पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत्

विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः  २५

विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया

प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा  २६

कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम्

दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत्  २७

नीलरुद्र मुपस्थाप्य तस्मै पूजादिकं तथा

कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना  २८

तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये

विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत्  २९

स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा

बालार्कसदृशाकारां भासयंतीं दिशो दश  ३०

ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम्

आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत्  ३१

महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम्

शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत्  ३२

स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत्

नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत्  ३३

कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम्

तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः  ३४

तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत्

समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत्  ३५

ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत्

विलयं शांत्यतीतायाः शक्तितत्त्वेऽथ चिंतयेत्  ३६

षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम्

कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत्  ३७

तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम्

प्रक्षाल्य कर्त्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः  ३८

कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः

ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम्  ३९

वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम्

हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत्  ४०

ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम्

प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत्  ४१

पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये

वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम्  ४२

उपांशूच्चारयोगेन जुहुयादाहुतित्रयम्

पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये  ४३

मानसोच्चारयोगेन जुहुयादाहुतित्रयम्

तत्र शंभुं समाराध्य मंडलस्थं सहांबया

हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः  ४४

भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः

कृता तस्मात्परं धाम गमयैनं तवाव्ययम्  ४५

इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम्

पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत्  ४६

स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे

ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि  ४७

भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः

भूतानि स्थितयोगेन यो जपेत्परमे शिवे  ४८

विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः

स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः  ४९

तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम्

शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा  ५०

विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात्

जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत्  ५१

स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम्

बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत्  ५२

आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः

शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान्  ५३

अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम्

तथैव तु गुणानेव पुनरस्योपपादयेत्  ५४

सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम्

अलुप्तशक्तिं स्वातन्त्र्! यमनंतां शक्तिमेव च  ५५

ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम्

अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम्  ५६

अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत्

लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत्  ५७

ॐकारपूर्विकां तत्र संपुटान्तु नमोऽतगाम्

शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम्  ५८

ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा

ऊजां सावरणां शम्भोरासनानि च सन्दिशेत्  ५९

पुनः संपूज्य देवेशं यन्मया समनुष्ठितम्

सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम्  ६०

सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले

प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि  ६१

ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात्  ६२

सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः

वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः  ६३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशोऽध्यायः  १८

अध्याय १९

उपमन्युरुवाच

अतः परं प्रवक्ष्यामि साधकं नाम नामतः

संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया  १

संपूज्य मंडले देवं स्थाप्य कुम्भे च पूर्ववत्

हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मंडले  २

पूर्वांतं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा

संतर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः  ३

सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात्

अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम्  ४

तत्र विद्योपदेशांतं कृत्वा विस्तरशः क्रमात्

पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत्  ५

तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः

भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः  ६

इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः

साधनं शिवयोगं च साधकाय समादिशेत्  ७

तच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः

पुरतो विनियोगस्य मन्त्रसाधनमाचरेत्  ८

साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते

पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः  ९

नात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम्

कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत्  १०

शुभेऽहनि शुभे देशे काले वा दोषवर्जिते

शुक्लदन्तनखः स्नातः कृतपूर्वाह्णिकक्रियः  ११

अलंकृत्य यथा लब्धैर्गंधमाल्यविभूषणैः

सोष्णीषः सोत्तरासंगः सर्वशुक्लसमाहितः  १२

देवालये गृहेऽन्यस्मिन्देशे वा सुमनोहरे

सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः  १३

तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना

संपूज्य देवदेवेशं नकुलीश्वरमीश्वरम्  १४

निवेद्य पायसं तस्मै समप्याराधनं क्रमात्

प्रणिपत्य च तं देवं प्राप्तानुज्ञश्च तन्मुखात्  १५

कोटिवारं तदर्द्धं वा तदर्द्धं वा जपेच्छिवम्

लक्षविंशतिकं वापि दशलक्षमथापि वा  १६

ततश्च पायसाक्षारलवणैकमिताशनः

अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत्  १७

अलाभे पायसस्याश्नन्फलमूलादिकानि वा

विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम्  १८

चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च

शाकं पयो दधि घृतं मूलं फलमथोदकम्  १९

अभिमंत्र्! य च मन्त्रेण भक्ष्यभोज्यादिकानि च

साधनेऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः  २०

मन्त्राष्टशतपूतेन जलेन शुचिना व्रती

स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः  २१

तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले

सप्तभिः पञ्चभिर्द्र व्यैस्त्रिभिर्वाथ घृतेन वा  २२

इत्थं भक्त्या शिवं शैवो यः साधयति साधकः

तस्येहामुत्र दुष्प्रापं न किंचिदपि विद्यते  २३

अथवाऽहरहर्मंत्रं जपेदेकाग्रमानसः

अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम्  २४

न तस्य दुर्लभं किंचिन्न तस्यास्त्यशुभं क्वचित्

इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विंदति  २५

साधने विनियोगे च नित्ये नैमित्तिके तथा

जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात्  २६

शुचिर्बद्धशिखस्सूत्री सपवित्रकरस्तथा

धृतत्रिपुंड्ररुद्रा क्षो विद्यां पञ्चाक्षरीं जपेत्  २७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशोऽध्यायः  १९

अध्याय २०

उपमन्युरुवाच

अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम्

आचार्यत्वेऽभिषिंचेत तद्योगत्वेन चान्यथा  १

मण्डलं पूर्ववत्कृत्त्वा संपूज्य परमेश्वरम्

स्थापयत्पंचकलशान्दिक्षु मध्ये च पूर्ववत्  २

निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे

विद्यां दक्षिणतः शांतिमुत्तरे मध्यतः पराम्  ३

कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रा ं! च धैनवीम्

अभिमंत्र्! य घटान्हुत्वा पूर्णांतं च यथा पुरा  ४

प्रवेश्य मंडले शिष्यमनुष्णीषं च देशिकः

तर्पणाद्यं तु मंत्राणां कुर्यात्पूर्वावसानकम्  ५

ततः संपूज्य देवेशमनुज्ञाप्य च पूर्ववत्

अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत्  ६

सकलीकृत्य तं पश्चात्कलापंचकरूपिणम्

न्यस्तमंत्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत्  ७

ततो निवृत्तिकुंभादिघटानुद्धृत्य वै क्रमात्

मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत्  ८

शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः

शिवभावसमापन्नः शिवाचार्यं तमादिशेत्  ९

अथालंकृत्य तं देवमाराध्य शिवमण्डले

शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः  १०

पुनः सम्पूज्य देवेशं प्रणम्य भुवि दंडवत्

शिरस्यंजलिमाधाय शिवं विज्ञापयेद्गुरुः  ११

भगवंस्त्वत्प्रसादेन देशिकोऽयं मया कृतः

अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम्  १२

एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च

शिवं शिवागमं दिव्यं पूजयेच्छिववद्गुरुः  १३

पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम्

उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः  १४

स ताम्मूर्ध्नि समाधाय विद्यां विद्यासनोपरि

अधिरोप्य यथान्यायमभिवंद्य समर्चयेत्  १५

अथ तस्मै गुरुर्दद्याद्रा जोपकरणान्यपि

आचार्यपदवीं प्राप्तो राज्यं चापि यतोऽर्हति  १६

अथानुशासनं कुर्यात्पूर्वैराचरितं यथा

यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते  १७

शिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः

संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः  १८

एवं सर्वमनायासं शौचं क्षांतिं दयां तथा

अस्पृहामप्यसूयां च यत्नेन च विभावयेत्  १९

इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मंडलात्

शिवकुंभानलादींश्च सदस्यानपि पूजयेत्  २०

युगपद्वाथ संस्कारान्कुर्वीत सगणो गुरुः

तत्र यत्र द्वयं वापि प्रयोगस्योपदिश्यते  २१

तदादावेव कलशान्कल्पयेदध्वशुद्धिवत्

कृत्वा समयसंस्कारमभिषेकं विनाखिलम्  २२

समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम्

तस्मिन्परिसमाप्ते तु पुनर्देवं प्रपूजयेत्  २३

हुत्वा मंत्रन्तु संतर्प्य संदीप्याशास्य चेश्वरम्

समर्प्य मंत्रं शिष्यस्य पाणौ शेषं समापयेत्  २४

अथवा मंत्रसंस्कारमनुचिंत्याखिलं क्रमात्

अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम्  २५

तत्र यः शान्त्यतीतादिकलासु विहितो विधिः

स सर्वोऽपि विधातव्यस्तत्त्वत्रयविशोधने  २६

शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम्

शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ  २७

शिवेन शांत्यतीताध्वा व्याप्तस्तदपरः परः

विद्यया परिशिष्टोऽध्वा ह्यात्मना निखिलः क्रमात्  २८

दुर्लभं शांभवं मत्वा मंत्रमूलं मनीषिणः

शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः  २९

इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः

चातुर्विध्यमिदं कृष्ण किं भूय श्रोतुमिच्छसि  ३०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे विशेषादिसंस्कृतिर्नाम विंशोऽध्यायः  २०

अध्याय २१

कृष्ण उवाच

भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम्

शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा  १

उपमन्युरुवाच

प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया

विचार्य कार्यं निर्गच्छेद्गृहादभ्युदितेऽरुणे  २

अबाधे विजने देशे कुर्यादावश्यकं ततः

कृत्वा शौचं विधानेन दंतधावनमाचरेत्  ३

अलाभे दंतकाष्ठानामष्टम्यादिदिनेषु च

अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम्  ४

आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत्

नद्यां वा देवखाते वा ह्रदे वाथ गृहेऽपि वा  ५

स्नानद्र व्याणि तत्तीरे स्थापयित्वा बहिर्मलम्

व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत्  ६

स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च

सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च  ७

मलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम्

न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा  ८

सोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम्

अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम्  ९

सौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत्

उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत्  १०

गोशृंगेण सदर्भेण पालाशेन दलेन वा

पाद्मेन वाथ पाणिभ्यां पंचकृत्वस्त्रिरेव वा  ११

उद्यानादौ गृहे चैव वर्द्धन्या कलशेन वा

अवगाहनकालेऽद्भिर्मंत्रितैरभिषेचयेत्  १२

अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा

आद्रे र्ण! शोधयेद्देहमापादतलमस्तकम्  १३

आग्नेयं वाथ वा मांत्रं कुर्यात्स्नानं शिवेन वा

शिवचिंतापरं स्नानं युक्तस्यात्मीयमुच्यते  १४

स्वसूत्रोक्तविधानेन मंत्राचमनपूर्वकम्

आचरेद्ब्रह्मयज्ञांतं कृत्वा देवादितर्पणम्  १५

मंडलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि

दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे  १६

अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत्

करन्यासं ततः कृत्वा सकलीकृतविग्रहः  १७

वामहस्तगतांभोभिर्गंधसिद्धार्थकान्वितैः

कुशपुंजेन वाभ्युक्ष्य मूलमंत्रसमन्वितैः  १८

आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम्

वामनासापुटेनैव देवं संभावयेत्सितम्  १९

अर्घमादाय देहस्थं सव्यनासापुटेन च

कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम्  २०

तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः

भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि  २१

रक्तचंदनतोयेन हस्तमात्रेण मंडलम्

सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलंकृतम्  २२

तत्र संपूजयेद्भानुं स्वकीयावरणैः सह

स्वखोल्कायेति मंत्रेण सांगतस्सुखसिद्धये  २३

पुनश्च मंडलं कृत्वा तदंगैः परिपूज्य च

तत्र स्थाप्य हेमपात्रं मागधप्रस्थसंमितम्  २४

पूरयेद्गंधतोयेन रक्तचंदनयोगिना

रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः  २५

दूर्वापामार्गगव्यैश्च केवलेन जलेन वा

जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले  २६

कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत्

अथवांजलिना तोयं सदर्भं मूलविद्यया  २७

उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये

कृत्वा पुनः करन्यासं करशोधनपूर्वकम्  २८

बुद्ध्वेशानादिसद्यांतं पंचब्रह्ममयं शिवम्

गृहीत्वा भसितं मन्त्रैर्विमृज्याण्गानि संस्पृशेत्  २९

या दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात्

ततो मूलेन सर्वांगमालभ्य वसनान्तरम्  ३०

परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः

जलैराच्छाद्य वासोऽयद्द्विराचम्य शिवं स्मरेत्  ३१

पुनर्न्यस्तकरो मन्त्री त्रिपुंड्रं भस्मना लिखेत्

अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा  ३२

वृत्तं वा चतुरस्रं वा बिन्दुमर्द्धेन्दुमेव वा

ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः  ३३

तादृशं भुजयोर्मूर्ध्नि स्तनयोरंतरे लिखेत्

सर्वांगोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः  ३४

तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना

रुद्रा क्षान्धारयेद्मूर्ध्नि कंठे श्रोते करे तथा  ३५

सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम्

विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम्  ३६

तदलाभे यथालाभं धारणीयमदूषितम्

तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः  ३७

नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत्

इत्थं त्रिसंध्यमथवा द्विसंध्यं सकृदेव वा  ३८

कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम्

प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम्  ३९

ध्यायेद्देवं च देवीं च प्राण्मुखो वाप्युदण्मुखः

श्वेतादीन्नकुलीशांतांस्तच्छिष्यान्प्रणमेद्गुरुम्  ४०

पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत्

शिवो महेश्वरश्चैव रुद्रो  विष्णुः पितामहः  ४१

संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम्

अथवा शिवमेवैकं जपित्वैकादशाधिकम्  ४२

जिह्वाग्रे तेजसो राशिं ध्यात्वाव्याध्यादिशांतये

प्रक्षाल्य चरणौ कृत्वा करौ चंदनचर्चितौ

प्रकुर्वीत करन्यासं करशोधनपूर्वकम्  ४३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशोऽध्यायः  २१

अध्याय २२

उपमन्युरुवाच

न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात्

स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम्  १

यतीनां संहृतिन्यासो वनस्थानां तथैव च

स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत्  २

कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम्

अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः  ३

दक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च

उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः  ४

सबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात्

अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः  ५

अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमंत्रतः

निवृत्त्यादिकलाः पंच पंचभूतस्वरूपिणीः  ६

पंचभूताधिपैस्सार्द्धं ततच्चिह्नसमन्विताः

हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः  ७

तद्तद्बीजेन संग्रंथीस्तद्तद्बीजेषु भावयेत्

तासां विशोधनार्थाय विद्यां पंचाक्षरीं जपेत्  ८

निरुद्ध्वा प्राणवायुं च गुणसंख्यानुसारतः

भूतग्रंथिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्र या  ९

नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना

निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा  १०

विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत्

ततश्चोपरिभावेन कलास्संहृत्य वायुना  ११

देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना

प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत्  १२

अथ संहृत्य वै दग्धः कलासर्गं विनैव तु

अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः  १३

ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम्

शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत्  १४

देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे

पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः  १५

ततः कुर्यात्करन्यासं करशोधनपूर्वकम्

देहन्यासं ततः पश्चान्महत्या मुद्र या चरेत्  १६

अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना

वर्णन्यासं ततः कुर्य्याद्धस्तपादादिसंधिषु  १७

षडंगानि ततो न्यस्य जातिषट्कयुतानि च

दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम्  १८

यद्वा मूर्द्धादिपंचांगं न्यासमेव समाचरेत्

तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना  १९

एवं समासरूपेण कृत्वा देहात्मशोधनम्

शिवभावमुपागम्य पूजयेत्परमेश्वरम्  २०

अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः

स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत्  २१

तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः

तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः  २२

पंचमः कथ्यते सद्भिर्न्यासः पंचाक्षरात्मकः

एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु  २३

अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके

इं ईं च नेत्रयोस्तद्वत् उं ऊं श्रवणयोस्तथा  २४

ऋं ऋ- कपोलयोश्चैव क्तं! क्तं! नासापुटद्वये

एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात्  २५

अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम्

कवर्गं दक्षिणे हस्ते न्यसेत्पंचसु संधिषु  २६

चवर्गं च तथा वामहस्तसंधिषु विन्यसेत्

टवर्गं च तवर्गं च पादयोरुभयोरपि  २७

पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः

न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम्  २८

यकरादिसकारांतान्न्यसेत्सप्तसु धातुषु

हंकारं हृदयस्यांतः क्षकारं भ्रूयुगांतरे  २९

एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्र वर्त्मना

अंगवक्त्रकलाभेदात्पंच ब्रह्माणि विन्यसेत्  ३०

करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात्

शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत्  ३१

ततश्चोर्द्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत्

ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात्  ३२

ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि

चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः  ३३

हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि

अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः  ३४

पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु

जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत्  ३५

घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः

अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः  ३६

पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत्

बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः  ३७

पार्श्वोदरोरुजंघेषु पादयोः पृष्ठतस्तथा

इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः  ३८

हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम्

बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि  ३९

विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि

कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा  ४०

कठ्योः पाण्योर्गुल्फयोश्च यद्वा पंचांगवर्त्मना

हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः  ४१

यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते

नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत्  ४२

नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम्

तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम्  ४३

शिवोऽहमिति संचिन्त्य शैवं कर्म समाचरेत्

कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः

ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः  ४४

कर्मयज्ञरताः केचित्तपोयज्ञरताः परे

जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा  ४५

ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम्

क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः  ४६

कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत्

अकामे रुद्र भवने भोगान्भुक्त्वा ततश्च्युतः  ४७

तपोयज्ञरतो भूत्वा जायते नात्र संशयः

तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः  ४८

जपध्यानरतो भूत्वा जायते भुवि मानवः

जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह  ४९

ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात्

तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञोऽपि देहिनाम्  ५०

अकामः कामसंयुक्तो बन्धायैव भविष्यति

तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत्  ५१

ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः

हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः  ५२

ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः

बहिः कर्मकरा यद्वन्नातीव फलभागिनः  ५३

दृष्ट्वा नरेन्द्र भवने तद्वदत्रापि कर्मिणः

ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम्  ५४

यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम्

ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान्  ५५

नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात्

आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः  ५६

हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः

ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते  ५७

तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत्

द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे  ५८

नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा

नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा  ५९

बहिर्यागोपचारेण देवं देवीं च पूजयेत्

अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा  ६०

वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः

अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम्

अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा  ६१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशोऽध्यायः  २२

अध्याय २३

उपमन्युरुवाच

व्याख्यां पूजाविधानस्य प्रवदामि समासतः

शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु  १

अंगमभ्यंतरं यागमग्निकार्यावसानकम्

विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत्  २

तत्र द्र व्याणि मनसा कल्पयित्वा विशोध्य च

ध्यात्वा विनायकं देवं पूजयित्वा विधानतः  ३

दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा

आराध्य मनसा सम्यगासनं कल्पयेद्बुधः  ४

आराधनादिकैर्युक्तस्सिंहयोगासनादिकम्

पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम्  ५

तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम्

सर्वलक्षणसंपन्नं सर्वावयवशोभनम्  ६

सर्वातिशयसंयुक्तं सर्वाभरणभूषितम्

रक्तास्यपाणिचरणं कुंदचंद्र स्मिताननम्  ७

शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम्

चतुर्भुजमुदाराण्गं चारुचंद्र कलाधरम्  ८

वरदाभयहस्तं च मृगटंकधरं हरम्

भुजंगहारवलयं चारुनीलगलांतरम्  ९

सर्वोपमानरहितं सानुगं सपरिच्छदम्

ततः संचिंतयेत्तस्य वामभागे महेश्वरीम्  १०

प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम्

पूर्णचंद्रा भवदनां नीलकुंचितमूर्धजाम्  ११

नीलोत्पलदलप्रख्यां चन्द्रा र्द्धकृतशेखराम्

अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम्  १२

तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम्

सर्वाभरणसंपन्नां ललाटतिलकोज्ज्वलाम्  १३

विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम्

सर्वतोऽनुगुणाकारां किंचिल्लज्जानताननाम्  १४

हेमारविंदं विलसद्दधानां दक्षिणे करे

दंडवच्चापरं हस्ते न्यस्यासीनां महासने  १५

पाशविच्छेदिकां साक्षात्सच्चिदानंदरूपिणीम्

एवं देवं च देवीं च ध्यात्वासनवरे शुभे  १६

सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत्

अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः  १७

शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम्

षड्विंशकाभिधानां वा श्रीकंठाख्यामथापि वा  १८

मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा

अस्यां मूर्तौ मूर्तिमंतं शिवं सदसतः परम्  १९

ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्त्तयेद्धिया

समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत्  २०

भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम्

इत्थमंगे स्वतंत्रे वा योगे ध्यानमये शुभे  २१

अग्निकार्य्यावसानं च सर्वत्रैव समो विधिः

अथ चिंतामयं सर्वं समाप्याराधनक्रमम्  २२

लिंगे च पूजयेद्देवं स्थंडिले वानलेऽपि वा

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधानव्याख्यानवर्णनं नाम त्रयोविंशोऽध्यायः  २३

अध्याय २४

उपमन्युरुवाच

प्रोक्षयेन्मूलमंत्रेण पूजास्थानं विशुद्धये

गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत्  १

अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा

अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम्  २

तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः

संशोध्य सर्वपात्राणि द्र व्यशुद्धिं समाचरेत्  ३

प्रोक्षणीमर्ध्यपात्रं च पाद्यपात्रमतः परम्

तथैवाचमनीयस्य पात्रं चेति चतुष्टयम्  ४

प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम्

पुण्यद्र व्याणि सर्वाणि यथालाभं विनिक्षिपेत्  ५

रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः

फलपल्लवदर्भांश्च पुण्यद्र व्याण्यनेकधा  ६

स्नानोदके सुगन्धादि पानीये च विशेषतः

शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत्  ७

उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत्

जातिकंकोलकर्पूरबहुमूलतमालकान्  ८

क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः

एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा  ९

कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि

आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके  १०

कुशपुष्पयवव्रीहिबहुमूलतमालकान्

प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम्  ११

सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः

पश्चादस्त्रेण संरक्ष्य धेनुमुद्रा ं! प्रदर्शयेत्  १२

पूजाद्र व्याणि सर्वाणि प्रोक्षणीपात्रवारिणा

सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः  १३

पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु

साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः  १४

ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात्

पूजयित्वा विधानेन द्वारपार्श्वेऽथ दक्षिणे  १५

अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत्

चामीकराचलप्रख्यं सर्वाभरणभूषितम्  १६

बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम्

दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम्  १७

चन्द्र बिम्बाभवदनं हरिवक्त्रमथापि वा

उत्तरे द्वारपार्श्वस्य भार्य्यां च मरुतां सुताम्  १८

सुयशां सुव्रतामम्बां पादमण्डनतत्पराम्

पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः  १९

संपूज्य लिण्गं तैर्द्र व्यैर्निर्माल्यमपनोदयेत्

प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये  २०

पुष्पहस्तो जपेच्छक्त्या मन्त्रं मन्त्रविशुद्धये

ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत्  २१

कल्पयेदासनं पश्चादाधारादि यथाक्रमम्

आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि  २२

तस्याः पुरस्तादुत्कंठमनंतं कुण्डलाकृतिम्

धवलं पंचफणिनं लेलिहानमिवाम्बरम्  २३

तस्योपर्यासनं भद्रं  कण्ठीरवचतुष्पदम्

धर्म्मो ज्ञानं च वैराग्यमैश्वर्यञ्च पदानि वै  २४

आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः

अधर्मादीनि पूर्वादीन्युत्तरांतान्यनुक्रमात्  २५

राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत्

अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम्  २६

अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम्

केसराणि च वामाद्या रुद्रा वामादिशक्तिभिः  २७

बीजान्यपि च ता एव शक्तयॐतर्मनोन्मनीः

कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम्  २८

यश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले

त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम्  २९

सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम्

आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम्  ३०

आवाहनं स्थापनं च सन्निरोधं निरीक्षणम्

नमस्कारं च कुर्वीत बध्वा मुद्रा ः! पृथक्पृथक्  ३१

पाद्यमाचमनं चार्घ्यं गंधं पुष्पं ततः परम्

धूपं दीपं च तांबूलं दत्त्वाथ स्वापयेच्छिवौ  ३२

अथवा परिकल्प्यैवमासनं मूर्तिमेव च

सकलीकृत्य मूलेन ब्रह्माभिश्चापरैस्तथा  ३३

आवाहयेत्ततो देव्या शिवं परमकारणम्

शुद्धस्फटिकसंकाशं देवं निश्चलमक्षरम्  ३४

कारणं सर्वलोकानां सर्वलोकमयं परम्

अंतर्बहिःस्थितं व्याप्य ह्यणोरणु १ महत्तरम् २  ३५

भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम्

ब्रह्मेंद्र विष्णुरुद्रा द्यैरपि देवैरगोचरम्  ३६

देवसारं च विद्वद्भिरगोचरमिति श्रुतम्

आदिमध्यान्तरहितं भेषजं भवरोगिणाम्  ३७

शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम्

पंचोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम्  ३८

लिंगमूर्त्तिर्महेशस्य शिवस्य परमात्मनः

स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम्  ३९

पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः

मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः  ४०

बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसंभवैः

संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः  ४१

घर्षयेद्विल्वपत्राद्यैर्लेपगंधापनुत्तये

पुनः संस्नाप्य सलिलैश्चक्रवर्त्त्युपचारतः  ४२

सुगंधामलकं दद्याद्धरिद्रा ं! च यथाक्रमम्

ततः संशोध्य सलिलैर्लिंगं बेरमथापि वा  ४३

स्नापयेद्गंधतोयेन कुशपुष्पोदकेन च

हिरण्यरत्नतोयैश्च मंत्रसिद्धैर्यथाक्रमम्  ४४

असंभवे तु द्र व्याणां यथासंभवसंभृतैः

केवलैर्मंत्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम्  ४५

कलशेनाथ शंखेन वर्द्धन्या पाणिना तथा

सकुशेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम्  ४६

पवमानेन रुद्रे ण नीलेन त्वरितेन च

लिंगसूक्तादिसूक्तैश्च शिरसाथर्वणेन च  ४७

ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पंचभिः

स्नापयेद्देवदेवेशं शिवेन प्रणवेन च  ४८

यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा

न तु कश्चिद्विशेषोऽस्ति तत्र तौ सदृशौ यतः  ४९

प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः

देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात्  ५०

अर्द्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते

तत्र तत्रोपचाराणां लिंगे वान्यत्र वा क्वचित्  ५१

कृत्वाऽभिषेकं लिंगस्य शुचिना च सुगंधिना

संमृज्य वाससा दद्यादंबरं चोपवीतकम्  ५२

पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च भूषणम्

धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम्  ५३

पुनश्चाचमनीयं च मुखवासं ततः परम्

मुकुटं च शुभं भद्रं  सर्वरत्नैरलंकृतम्  ५४

भूषणानि पवित्राणि माल्यानि विविधानि च

व्यजने चामरे छत्रं तालवृंतं च दर्पणम्  ५५

दत्त्वा नीराजनं कुर्यात्सर्वमंगलनिस्वनैः

गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः  ५६

हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे

पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः  ५७

त्रिशूलशंखयुग्माब्जनन्द्यावर्तैः करीषजैः

श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः  ५८

अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे

तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः  ५९

कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः

धेनुमुद्रा ं! च संदर्श्य पाणिभ्यां पात्रमुद्धरेत्  ६०

अथवारोपयेत्पात्रे पंचदीपान्यथाक्रमम्

विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा  ६१

ततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात्

त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया  ६२

दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम्

कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत्  ६३

पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः

पंचसौगंधिकोपेतं ताम्बूलं च निवेदयेत्  ६४

प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत्

लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम्  ६५

प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम्

विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम्  ६६

अर्घ्यं पुष्पांजलिं दत्त्वा बद्ध्वा मुद्रा ं! यथाविधि

पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिंतयेत्  ६७

पाद्यादिमुखवासांतमर्घ्याद्यं चातिसंकटे

पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरस्सरम्  ६८

तावतैव परो धर्मो भावने सुकृतो भवेत्

असंपूज्य न भुञ्जीत शिवमाप्राणसंचरात्  ६९

यदि पापस्तु भुंजीत स्वैरं तय्स न निष्कृतिः

प्रमादेन तु भुंक्ते चेत्तदुद्गीर्य प्रयत्नतः  ७०

स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च

शिवस्यायुतमभ्यस्येद्ब्रह्मचर्यपुरस्सरम्  ७१

परेद्युश्शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च

शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत्  ७२

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशोऽध्यायः  २४

अध्याय २५

उपमन्युरुवाच

अनुक्तं चात्र पूजायाः कमलोपभयादिव

यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात्  १

हविर्निवेदनात्पूर्वं दीपदानादनन्तरम्

कुर्यादावरणाभ्यर्चां प्राप्ते नीराजनेऽथ वा  २

तत्रेशानादिसद्यांतं रुद्रा द्यस्त्रांतमेव च

शिवस्य वा शिवायाश्च प्रथमावरणे जपेत्  ३

ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा

पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा  ४

वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम्

गर्भावरणमाख्यातं मन्त्रसंघातमेव वा  ५

हृदयाद्यस्त्रपर्यंतमथवापि समर्चयेत्

तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत्  ६

वरुणं वारुणे भागे धनदं चोत्तरे बुधः

ईशमैशेऽनलं स्वीये नैरृते निरृतिं यजेत्  ७

मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे

बहिःपद्मस्य वज्राद्यान्यब्जांतान्यायुधान्यपि  ८

प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत्

देवं देवीं च संप्रेक्ष्य सर्वावरणदेवताः  ९

बद्धांजलिपुटा ध्येयाः समासीना यथासुखम्

सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः  १०

पुष्पैः संपूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम्

गर्भावरणमेवापि यजेत्स्वावरणेन वा  ११

योगे ध्याने जपे होमे वाह्ये वाभ्यंतरेऽपि वा

हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च  १२

पायसं दधिसंमिश्रं गौडं च मधुनाप्लुतम्

एतेष्वेकमनेकं वा नानाव्यंजनसंयुतम्  १३

गुडखंडन्वितं दद्यान्मथितं दधि चोत्तमम्

भक्ष्याण्यपूपमुख्यानि स्वादुमंति फलानि च  १४

रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम्

मृदु एलारसाक्तं च खण्डं पूगफलस्य च  १५

दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः

गौराणि स्वर्णवर्णानि विहितानि शिवानि च

शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम्  १६

कर्पूरं चाथ कंकोलं जात्यादि च नवं शुभम्

आलेपनं चन्दनं स्यान्मूलकाष्ठंरजोमयम्  १७

कस्तूरिका कुंकुमं च रसो मृगमदात्मकः

पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च  १८

निर्गंधान्युग्रगंधानि दूषितान्युषितानि च

स्वयमेव विशीर्णानि न देयानि शिवार्चने  १९

वासांसि च मृदून्येव तपनीयमयानि च

विद्युद्वलयकल्पानि भूषणानि विशेषतः  २०

सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः

आधूपितानि पुष्पौघैर्वासितानि समंततः  २१

चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णिकैः

घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते  २२

कपिलासम्भवेनैव घृतेनातिसुगन्धिना

नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः  २३

पञ्चगव्यं च मधुरं पयो दधि घृतं तथा

कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके  २४

आसनानि च भद्रा णि गजदंतमयानि च

सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च  २५

मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च

उच्चावचानि रम्याणि शयनानि सुखानि च  २६

नद्यस्समुद्र गामिन्या नटाद्वाम्भः समाहृतम्

शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः  २७

छत्रं शशिनिभं चारु मुक्तादामविराजितम्

नवरत्नचितं दिव्यं हेमदण्डमनोहरम्  २८

चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते

राजहंसद्वयाकारे रत्नदंडोपशोभिते  २९

दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम्

समंताद्र त्नसञ्छन्नं स्रग्वैरैश्चापि भूषितम्  ३०

गम्भीरनिनदः शंखो हंसकुंदेन्दुसन्निभः

आस्वपृष्ठादिदेशेषु रत्नचामीकराचितः  ३१

काहलानि च रम्याणि नानानादकराणि च

सुवर्णनिर्मितान्येव मौक्तिकालंकृतानि च  ३२

भेरीमृदंगमुरजतिमिच्छपटहादयः

समुद्र कल्पसन्नादाः कल्पनीयाः प्रयत्नतः  ३३

भांडान्यपि च रम्याणि पत्राण्यपि च कृत्स्नशः

तदाधाराणि १ सर्वाणि सौवर्णान्येव साधयेत्  ३४

आलयं च महेशस्य शिवस्य परमात्मनः

राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम्  ३५

उच्चप्राकारसंभिन्नं भूधराकारगोपुरम्

अनेकरत्नसंच्छन्नं हेमद्वारकपाटकम्  ३६

तप्तजांबूनदमयं रत्नस्तम्भशतावृतम्

मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम्  ३७

चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः

अलंकृतशिरोभागमस्त्र २राजेन चिह्नितम्  ३८

राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः

प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समंततः  ३९

आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च

अत्यन्तालंकृतप्रांतमंतरावरणैरिव  ४०

उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः

वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम्  ४१

रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः

अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः  ४२

दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम्

वेदवेदांततत्त्वज्ञैश्शिवशास्त्रपरायणैः  ४३

शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः

शांतैः स्मितमुखैः स्फीतैः सदाचारपरायणैः  ४४

शैवैर्माहेश्वरैश्चैव श्रीमद्भिस्सेवितद्विजैः

एवमंतर्बहिर्वाथयथाशक्तिविनिर्मितैः  ४५

स्थाने शिलामये दांते दारवे चेष्टकामये

केवलं मृन्मये वापि पुण्यारण्येऽथ वा गिरौ  ४६

नद्यां देवालयेऽन्यत्र देशे वाथ गृहे शुभे

आढ्यो वाथ दरिद्रो  वा स्वकां शक्तिमवंचयन्

द्र व्यैर्न्यायार्जितैरेव भक्त्या देवं समर्च्चयेत्  ४७

अथान्यायार्ज्जितैश्चापि भक्त्या चेच्छिवमर्च्चयेत्

न तस्य प्रत्यवायोऽस्ति भाववश्यो यतः प्रभुः  ४८

न्यायार्जितैरपि द्र व्यैरभक्त्या पूजयेद्यदि

न तत्फलमवाप्नोति भक्तिरेवात्र कारणम्  ४९

भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम्

अल्पे महति वा तुल्यं फलमाढ्यदरिद्र योः  ५०

भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः

महाविभवसारोपि न कुर्याद्भक्तिवर्जितः  ५१

सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः

न तेन फलभाक्स स्याद्भक्तिरेवात्र कारणम्  ५२

न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः

गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मकम्  ५३

गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे

शिवे भक्तिर्न संदेहस्तया भक्तो विमुच्यते  ५४

शिवमंत्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम्

दानमध्ययनं सर्वे भावार्थं नात्र संशयः  ५५

भावहीनो नरस्सर्वं कृत्वापि न विमुच्यते

भावयुक्तः पुनस्सर्वमकृत्वापि विमुच्यते  ५६

चांद्रा यणसहस्रैश्च प्राजापत्यशतैस्तथा

मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः  ५७

अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च

तपंति चाल्पभोगार्थं भक्तो भावेन मुच्यते  ५८

सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः

राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः  ५९

असुरा राक्षसाश्चैव तमोगुणसमन्विताः

ऐहिकार्थं यजन्तीशं नराश्चान्येऽपि तादृशाः  ६०

तामसं राजसं वापि सात्त्विकं भावमेव च

आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं  समश्नुते  ६१

यतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता

तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम्  ६२

अन्त्यजो वाधमो वापि मूर्खो वा पतितोऽपि वा

शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः  ६३

तस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत्

अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः  ६४

वक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम

वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम्  ६५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं नाम पंचविंशोऽध्यायः  २५

अध्याय २६

उपमन्युरुवाच

ब्रह्मघ्नो वा सुरापो वा स्तेयीवा गुरुतल्पगः

मातृहा पितृहा वापि वीरहा भ्रूणहापि वा  १

संपूज्यामन्त्रकं भक्त्या शिवं परमकारणम्

तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात्  २

तस्मात्सर्वप्रयत्नेन पतितोऽपि यजेच्छिवम्

भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेंद्रि यः  ३

कृत्वापि सुमहत्पापं भक्त्या पंचाक्षरेण तु

पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते  ४

अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः

तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः  ५

भक्त्या पंचाक्षरेणैव यः शिवं सकृदर्चयेत्

सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात्  ६

तस्मात्तपांसि यज्ञांश्च सर्वे सर्वस्वदक्षिणाः

शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः  ७

बद्धो वाप्यथ मुक्तो वा पश्चात्पञ्चाक्षरेण चेत्

पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा  ८

अरुद्रो  वा सरुद्रो  वा सूक्तेन शिवमर्चयेत्

यः सकृत्पतितो वापिमूढो वा मुच्यते नरः  ९

षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत्

शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च  १०

अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः

स ब्रह्मांगेन वा तेन सहंसेन विमुच्यते  ११

तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत्

एककालं द्विकालं वा त्रिकालं नित्यमेव वा  १२

येऽर्चयंति महादेवं विज्ञेयास्ते महेश्वराः

ज्ञानेनात्मसहायेन नार्चितो भगवाञ्छिवः  १३

स चिरं संसरत्यस्मिन्संसारे दुःखसागरे

दुर्ल्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम्  १४

निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः

दुर्ल्लभं प्राप्य मानुष्यं येऽर्चयन्ति पिनाकिनम्  १५

तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः

भवभक्तिपरा ये च भवप्रणतचेतसः  १६

भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः

भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः  १७

धनं चातृप्तिपर्य्यन्तं शिवपूजाविधेः फलम्

ये वाञ्छन्ति महाभोगान्राज्यं च त्रिदशालये  १८

ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम्

सौभाग्यं कान्तिमद्रू पं सत्त्वं त्यागार्द्र भावता  १९

शौर्यं वै जगति ख्यातिश्शिवमर्चयतो भवेत्

तस्मात्सर्वं परित्यज्य शिवैकाहितमानसः  २०

शिवपूजाविधिं कुर्याद्यदीच्छेच्छिवमात्मनः

त्वरितं जीवितं याति त्वरितं याति यौवनम्  २१

त्वरितं व्याधिरभ्येति तस्मात्पूज्यः पिनाकधृक्

यावन्नायाति मरणं यावन्नाक्रमते जरा  २२

यावन्नेन्द्रि यवैकल्यं तावत्पूजय शंकरम्

न शिवार्चनतुल्योऽस्ति धर्मोऽन्यो भुवनत्रये  २३

इति विज्ञाय यत्नेन पूजनीयस्सदाशिवः

द्वारयागं जवनिकां परिवारबलिक्रियाम्  २४

नित्योत्सवं च कुर्वीत प्रसादे यदि पूजयेत्

हविर्निवेदनादूर्द्ध्वं स्वयं चानुचरोऽपि वा  २५

प्रसादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम्

निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः  २६

पुष्पं धूपं च दीपञ्च दद्यादन्नं जलैः सह

ततो दद्यान्महापीठे तिष्ठन्बलिमुदण्मुखः  २७

ततो निवेदितं देवे यत्तदन्नादिकं पुरा

तत्सर्वं सावशेषं वा चण्डाय विनिवेदयेत्  २८

हुत्वा च विधिवत्पश्चात्पूजाशेषं समापयेत्

कृत्वा प्रयोगं विधिवद्यावन्मन्त्रं जपं ततः  २९

नित्योत्सवं प्रकुर्वीत यथोक्तं शिवशासने

विपुले तैजसे पात्रे रक्तपद्मोपशोभिते  ३०

अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत्

शिवस्यारोप्यः तत्पात्रं द्विजस्यालंकृतस्य च  ३१

न्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च

प्रासादपरिवारेभ्यो बहिर्मंगलनिःस्वनैः  ३२

नृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः

प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम्  ३३

महापीठं समावृत्य त्रिःप्रदक्षिणयोगतः

पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः

आदायाभ्यंतरं नीत्वा ह्यस्त्रमुद्वासयेत् ततः  ३४

प्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात्

आदाय चाष्टपुष्पाणि पूजामथ समापयेत्  ३५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे सांगोपांगपूजाविधानवर्णनं नाम षड्विंशोऽध्यायः  २६

अध्याय २७

उपमन्युरुवाच

अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थंडिलेऽपि वा

वेद्यां वा ह्यायसे पात्रे मृन्मये वा नवे शुभे  १

आधायाग्निं विधानेन संस्कृत्य च ततः परम्

तत्राराध्य महादेवं होमकर्म समाचरेत्  २

कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा

वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम्  ३

कुण्डं विस्तारवन्निम्नं तन्मध्येऽष्टदलाम्बुजम्

चतुरंगुलमुत्सेधं तस्य द्व्यंगुलमेव वा  ४

वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते

मध्यं च मध्यमांगुल्या मध्यमोत्तमपर्वणोः  ५

अंगुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः

मेखलानां त्रयं वापि द्वयमेकमथापि वा  ६

यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम्

अश्वत्थपत्रवद्योनिं गजाधारवदेव वा  ७

मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणेऽपि वा

शोभनामग्नितः किंचिन्निम्नामुन्मीलिकां शनैः  ८

अग्रेण कुण्डाभिमुखीं किंचिदुत्सृज्य मेखलाम्

नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती  ९

मंडलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम्

कुण्डं च मृन्मयं वेदिमालिपेद्गोमयांबुना  १०

प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदंभसा

स्वसूत्रोक्तप्रकारेण कुण्डादौ विल्लिखेत्ततः  ११

संप्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम्

अर्चनार्थं च होमार्थं सर्वद्र व्याणि साधयेत्  १२

प्रक्षाल्यक्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत्

मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम्  १३

अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत्

त्रिः प्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात्  १४

वह्निबीजं समुच्चार्य त्वादधीताग्निमासने

योनिमार्गेण वा तद्वदात्मनः संमुखेन वा  १५

नियोगः प्रदेश सर्वं कुंडं कुर्याद्विचक्षणः

स्वनाभ्यंतःस्थितं वह्निं तद्रं ध्राद्विस्फुलिंगवद्  १६

निर्गम्य पावके बह्ये लीनं बिंबाकृति स्मरेत्

आज्यसंस्कारपर्यंतमन्वाधानपुरस्सरम्  १७

स्वसूत्रोक्तक्रमात्कुर्यान्मूलमन्त्रेण मन्त्रवित्

शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः  १८

न्यस्य मन्त्रं घृते मुद्रा ं! दर्शयेद्धेनुसंज्ञिताम्

स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ  १९

यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ

पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे  मध्य उत्थिते  २०

संसृज्य दर्भैस्तौ वह्नौ संताप्य प्रोक्षयेत्पुनः

पारार्षर्च्यस्वसूत्रोक्तक्रमेण शिवपूर्वकैः  २१

जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये

भ्रुंस्तुंब्रुश्रुं क्रमेणैव पुंड्रंद्र मित्यतः परम्  २२

बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः

त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया  २३

रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता

अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा  २४

स्वबिजानन्तरं वाच्या स्वाहांतञ्च यथाक्रमम्

जिह्वामंत्रैस्तु तैर्हुत्वाज्यं जिह्वास्त्वेकैकश क्रमात्  २५

रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम्

सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत्  २६

एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम्

तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम्

दीपान्तं परिषिच्याथ समिद्धोमं समाचरेत्  २७

ताः पालाश्यः परा वापि याज्ञिया द्वादशांगुलाः

अवक्रा न स्वयं शुष्कास्सत्वचो निर्व्रणाः समाः  २८

दशांगुला वा विहिताः कनिष्ठांगुलिसंमिताः

प्रादेशमात्रा वालाभे होतव्याः सकला अपि  २९

दूर्वापत्रसमाकारां चतुरंगुलमायताम्

दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः  ३०

लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा

सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे  ३१

दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा

होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम्  ३२

श्रुवेणाज्यं समित्याद्यास्रुचाशेषात्करेण वा

तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा  ३३

द्र व्येणैकेन वाऽलाभे जुहुयाच्छ्रद्धया पुनः

प्रायश्चित्ताय जुहुयान्मंत्रयित्वाहुतित्रयम्  ३४

ततो होमविशिष्टेन घृतेनापूर्य्य वै स्रुचम्

निधाय पुष्पं तस्याग्रे श्रुवेणाधोमुखेन ताम्  ३५

सदर्भेन समाच्छाद्य मूलेनांजलिनोत्थितः

वौषडंतेन जुहुयाद्धारां तु यवसंमिताम्  ३६

इत्थं पूर्णाहुतिं कृत्वा परिषिंचेच्च पूर्ववत्

तत उद्वास्य देवेशं गोपयेत्तु हुताशनम्  ३७

तमप्युद्वास्य वा नाभौ यजेत्संधाय नित्यशः

अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना  ३८

वागीशीगर्भसंभूतं संस्कृत्य विधिवद्यजेत्

अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च  ३९

पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः

संशोध्य प्रोक्षणीपात्रं प्रोक्ष्यतानि तदंभसा  ४०

प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः

आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ  ४१

गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः

कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत्  ४२

त्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम्

मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम्  ४३

रक्तं रक्ताम्बरालेपं माल्यभूषनभूषितम्

सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम्  ४४

शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे

तोमरं तालवृंतं च घृतपात्रं तथेतरैः  ४५

जातं ध्यात्वैवमाकारं जातकर्म समाचरेत्

नालापनयनं कृत्वा ततः संशोध्य सूतकम्  ४६

शिवाग्निरुचिनामास्य कृत्वाहुतिपुरस्सरम्

पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम्  ४७

अप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु

आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः  ४८

रमित्यनेन बीजेन परिषिंचेत्ततः परम्

ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च  ४९

तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम्

धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित्  ५०

साधयित्वाज्यपूर्वाणि द्र व्याणि पुनरेव च

कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा  ५१

संपूज्य देवं देवीं च ततः पूर्णांतमाचरेत्

अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम्  ५२

बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः

शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा  ५३

वैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च

कपिलायाः शकृच्छस्तं गृहीतं गगने पतत्  ५४

न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम्

उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि  ५५

पिंडीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमंत्रतः

अपक्वमतिपाक्वं च संत्यज्य भसितं सितम्  ५६

आदाय वा समालोड्य भस्माधारे विनिक्षिपेत्

तैजसं दारवं वापि मृन्मयं शैलमेव च  ५७

अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत्

समे देशे शुभे शुद्धे धनवद्भस्म निक्षिपेत्  ५८

न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत्

न संस्पृशेच्च नीचांगैर्नोपेक्षेत न लंघयेत्  ५९

तस्माद्भसितमादाय विनियुंजीत मन्त्रतः

कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत्  ६०

भस्मसंग्रहणं कुर्याद्देवेऽनुद्वासिते सति

उद्वासने कृते यस्माच्चण्डभस्म प्रजापते  ६१

अग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः

स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत्  ६२

अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्दले

विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात्  ६३

विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम्

तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत्  ६४

ततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान्

ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम्  ६५

निवेदितं च वा देवे तच्छेषं चात्मशुद्धये

श्रद्दधानो न लोभेन न चण्डाय समर्पितम्  ६६

गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः

न तु तत्र शिवोस्मीति बुद्धिं कुर्याद्विचक्षणः  ६७

भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत्

कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः  ६८

रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम्

शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम्  ६९

भक्ष्यभोज्यांबरालेपपुष्पमालादिकं तथा

मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम्  ७०

ततो देवस्य देव्याश्च पादमूले शुचिस्स्वपेत्

गृहस्थो भार्यया सार्द्धं तदन्येऽपि तु केवलाः  ७१

प्रत्यूषसमयं बुद्ध्वा मात्रामाद्यामुदीरयेत्

प्रणम्य मनसां देवं सांबं सगणमव्ययम्  ७२

देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः

शंखादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत्  ७३

ततस्तत्समयोन्निद्रै ः! पुष्पैरतिसुगंधिभिः

निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम्  ७४

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशोऽध्यायः  २७

अध्याय २८

उपमन्युरुवाच

अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम्

शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम्  १

सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि

अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात्  २

अयने विषुवे चैव ग्रहणेषु विशेषतः

कर्तव्या महती पूजा ह्यधिका वापि शक्तितः  ३

मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु

स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः  ४

ब्रह्महत्यादिदोषाणामतीव महतामपि

निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते  ५

पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः

माघे मघाख्ये नक्षत्रे प्रदद्याद् घृतकंबलम्  ६

फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम्

चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि  ७

वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम्

ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत्  ८

आषाढे चोत्तराषाढे पवित्रारोपणं तथा

श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत्  ९

श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम्

प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने  १०

आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम्

अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने  ११

कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम्

मार्गशीर्षे तथाद्रा र्यां! घृतेन स्नापयेच्छिवम्  १२

अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा

आस्थानं वा महापूजामधिकं वा समर्चनम्  १३

आवृत्तेऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु

दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने  १४

उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबलेऽथ वा

स्नानपूजाजपध्यानहोमदानादिकाः क्रियः  १५

निर्मितानुगुणाः कार्य्याः पुरश्चरणपूर्विकाः

शिवानले च विहते पुनस्सन्धानमाचरेत्  १६

य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः

तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः  १७

एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः

दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति  १८

तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः

कालांतरेच्युतस्तस्मादौमं कौमारमेव च  १९

संप्राप्य वैष्णवं ब्राह्मं रुद्र लोकं विशेषतः

तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान्  २०

पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम्

श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत्  २१

अर्द्धचर्य्यारतश्चापि द्विरावृत्त्यैवमेव तु

पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात्  २२

अर्द्धार्द्धचरितो यस्तु देही देहक्षयात्परम्

अंडांतं वोर्द्ध्वमव्यक्तमतीत्य भुवनद्वयम्  २३

संप्राप्य पौरुषं रौद्र स्थानमद्री न्द्र जापतेः

अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा  २४

पुण्यक्षये क्षितिं प्राप्य कुले महति जायते

तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः  २५

पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत्

तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत्  २६

भोगांश्च विविधान्भुक्त्वा विश्वेश्वरपदं व्रजेत्

तत्र विद्येश्वरैस्सार्द्धं भुक्त्वा भोगान्बहून्क्रमात्  २७

अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः

ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च  २८

शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते

यश्चातीव शिवे भक्तो विषयासक्तचित्तवत्  २९

शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते

एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः  ३०

न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान्

तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना  ३१

शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः

नात्र निर्बंधयिष्यामो वयं केचन केनचित्  ३२

निर्बन्धेभ्योऽतिवादेभ्यः प्रकृत्यैतन्न रोचते

रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात्  ३३

संसारकारणं येषां न प्ररोढुमलं भवेत्

प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः  ३४

शिवधर्मेऽधिकुर्वीत यदीच्छेच्छिवमात्मनः  ३५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशोऽध्यायः  २८

अध्याय २९

श्रीकृष्ण उवाच

भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया

स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा  १

इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम्

काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम्  २

उपमन्युरुवाच

अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा

ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः  ३

किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम्  ४

जपध्यानमयं किंचित्किंचित्सर्वमयं तथा

क्रियामयं तथा भिन्नं होमदानार्चनक्रमात्  ५

सर्वशक्तिमतामेव नान्येषां सफलं भवेत्

शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः  ६

तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः

अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम्  ७

शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात्

शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते  ८

यथा तथा न भिद्यंते शैवा माहेश्वरा अपि

शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः  ९

माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि

तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः  १०

न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः

परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः  ११

मनोभिलषिते तत्र वितानविततांबरे

सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे  १२

प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना

एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत्  १३

आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम्

रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः  १४

पञ्चावरणसंयुक्तं बहुशोभासमन्वितम्

दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः  १५

रुद्रा  वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात्

कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः  १६

स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम्

कर्णिकोपरि चाग्नेयं मंडलं सौरमैन्दवम्  १७

शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम्

सर्वासनोपरि सुखं विचित्रकुसुमान्वितम्  १८

पंचावरणसंयुक्तं पूजयेदंबया सह

शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्  १९

विद्युद्वलयसंकाशजटामुकुटभूषितम्

शार्दूलचर्मवसनं किञ्चित्स्मितमुखांबुजम्  २०

रक्तपद्मदलप्रख्यपादपाणितलाधरम्

सर्वलक्षणसंपन्नं सर्वाभरणभूषितम्  २१

दिव्यायुधवरैर्युक्तं दिव्यगंधानुलेपनम्

पंचवक्त्रं दशभुजं चन्द्र खण्डशिखामणिम्  २२

अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम्

त्रिलोचनारविंदाढ्यं कृतबालेंदुशेखरम्  २३

दक्षिणं नीलजीमूतसमानरुचिरप्रभम्

भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम्  २४

दंष्ट्राकरालं दुर्द्धर्षं स्फुरिताधरपल्लवम्

उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम्  २५

सविलासं त्रिनयनं चन्द्रा भरणशेखरम्

पश्चिमं पूर्णचन्द्रा भं लोचनत्रितयोज्ज्वलम्  २६

चन्द्र रेखाधरं सौम्यं मंदस्मितमनोहरम्

पंचमं स्फटिकप्रख्यमिंदुरेखासमुज्ज्वलम्  २७

अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम्

दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम्  २८

सव्ये च नागनाराचघण्टापाशांकुशोज्ज्वलम्

निवृत्त्याजानुसंबद्धमानाभेश्च प्रतिष्ठया  २९

आकंठं विद्यया तद्वदाललाटं तु शांतया

तदूर्द्ध्वं शांत्यतीताख्यकलया परया तथा  ३०

पंचाध्वव्यापिनं साक्षात्कलापंचकविग्रहम्

ईशानमुकुटं देवं पुरुषाख्यं पुरातनम्  ३१

अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम्

सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम्  ३२

मातृकामयमीशानं पंचब्रह्ममयं तथा

ॐकाराख्यमयं चैव हंसशक्त्या समन्वितम्  ३३

तथेच्छात्मिकया शक्त्या समारूढांकमंडलम्

ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया  ३४

तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम्

मूर्तिमूलेन संकल्प्य सकलीकृत्य च क्रमात्  ३५

संपूज्य च यथान्यायमर्घान्तं मूलविद्यया

मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह  ३६

तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम्

पंचोपकरणं कृत्वा पूजयेत्परमेश्वरम्  ३७

ब्रह्मभिश्च षडण्गैश्च ततो मातृकया सह

प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात्  ३८

शांतेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः

पूजयेत्परमं देवं केवलेन शिवेन वा  ३९

पाद्यादिमुखवासांतं कृत्वा प्रस्थापनं विना

पंचावरणपूजां तु ह्यारभेत यथाक्रमम्  ४०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः  २९

अध्याय ३०

तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात्

गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ  १

ततो ब्रह्माणि परित ईशानादि यथाक्रमम्

सशक्तिकानि सद्यांतं प्रथमावरणे यजेत्  २

षडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात्

शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत्  ३

तत्र वामादिकान्रुद्रा नष्टौ वामादिशक्तिभिः

अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात्  ४

प्रथमावरणं प्रोक्तं मया ते यदुनंदन

द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु  ५

अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः

सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत्  ६

ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम्

तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत्  ७

एकरुद्रं  च तच्छक्तिं पश्चादीशदलेऽर्चयेत्

त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले  ८

श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः

तथैव मारुते पत्रे शिखंडीशं समर्चयेत्  ९

द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्त्तिनः

तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः  १०

अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात्

भवः शर्वस्तथेशानो रुद्र ः! पशुपतिस्ततः  ११

उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात्

अनंतरं ततश्चैव महादेवादयः क्रमात्

शक्तिभिस्सह संपूज्यास्तत्रैकादशमूर्त्तयः  १२

महादेवः शिवो रुद्र ः! शंकरो नीललोहितः

ईशानो विजयो भीमो देवदेवो भवोद्भवः  १३

कपर्दीशश्च कथ्यंते तथैकादशशक्तयः

तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम्  १४

देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे

भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम्  १५

तस्मिन्नावरणे भूयो वृषेन्द्रं  पुरतो यजेत्

नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे  १६

शास्तारं वह्निदिक्पत्रे मातृ-र्दक्षिणदिग्दले

गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः  १७

ज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे

शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं  वृषभं यजेत्  १८

महाकालस्योत्तरतः पिंगलं तु समर्चयेत्

शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः  १९

मातृविघ्नेशमध्ये तु वीरभद्रं  समर्चयेत्

स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम्  २०

ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्च्चिताम्

ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत्  २१

गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत्

अत्रैवावरणे भूयः शिवानुचरसंहतिम्  २२

रुद्र प्रथमभूताख्यां विविधां च सशक्तिकाम्

शिवायाश्च सखीवर्ग्गं जपेद्ध्यात्वा समाहितः  २३

एवं तृतीयावरणे वितते पूजिते सति

चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्च्चयेत्  २४

भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः

रुद्रो  वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले  २५

चतुर्णामपि देवानां पृथगावरणान्यथ

तस्यांगानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः  २६

दीप्ता सूक्ष्मा जया भद्रा  विभूतिर्विमला क्रमात्

अमोघा विद्युता चैव पूर्वादि परितः स्थिताः  २७

द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात्

पूर्वाद्युत्तरपर्यंताः शक्तयश्च ततः परम्  २८

आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः

अर्को ब्रह्मा तथा रुद्रो  विष्णुश्चैते विवस्वतः  २९

विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः

बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः  ३०

उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम्

ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत्  ३१

सोममंगारकं चैव बुधं बुद्धिमतां वरम्

बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम्  ३२

शनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम्

समंततो यजेदेतांस्तृतीयावरणे क्रमात्  ३३

अथवा द्वादशादित्या द्वितीयावरणे यजेत्

तृतीयावरणे चैव राशीन्द्वादश पूजयेत्  ३४

सप्तसप्त गणांश्चैव बहिस्तस्य समंततः

ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान्  ३५

ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान्

सप्तच्छंदोमयांश्चैव वालखिल्यांश्च पूजयेत्  ३६

एवं तृतीयावरणे समभ्यर्च्य दिवाकरम्

ब्रह्माणमर्चयेत्पश्चात्त्रिभिरावरणैः सहः  ३७

हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः

कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत्  ३८

हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः

कालो जात्यंजनप्रख्यः पुरुषः स्फटिकोपमः  ३९

त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा

चत्वार एते क्रमशः प्रथमावरणे स्थिताः  ४०

द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात्

सनत्कुमारः सनकः सनंदश्च सनातनः  ४१

तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन्

अष्टौ पूर्वांश्च पूर्व्वादौ त्रीन्प्राक्पश्चादनुक्रमात्  ४२

दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथांगिराः

पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः  ४३

वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे

तेषां भार्य्याश्च तैस्सार्द्धं पूजनीया यथाक्रमम्  ४४

प्रसूतिश्च तथाऽऽकूतिः ख्यातिः सम्भूतिरेव च

धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका  ४५

देवमातारुन्धती च सर्वाः खलु पतिव्रताः

शिवार्चनरतो नित्यं श्रीमत्यः प्रियदर्शनाः  ४६

प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत्

इतिहासपुराणानि द्वितीयावरणे पुनः  ४७

तृतीयावरणे पश्चाद्धर्मशास्त्रपुरस्सराः

वैदिक्यो निखिला विद्याः पूज्या एव समंततः  ४८

पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि

अष्टधा वा चतुर्धा वा कृत्वा पूजां समंततः  ४९

एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम्

दक्षिणे पश्चिमे पश्चाद्रुद्रं  सावरणं यजेत्  ५०

तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम्

द्वितीयावरणे चैव विश्वेश्वरमयं तथा  ५१

तृतीयावरणे भेदो विद्यते स तु कथ्यते

चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात्  ५२

त्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः

राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः  ५३

तामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः

सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः  ५४

एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम्

समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत्  ५५

वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत्

अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः  ५६

सौम्ये संकर्षणं पश्चाद्व्यत्यस्तौ वा यजेदिमौ

प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम्  ५७

मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः

रामश्चान्यतमः कृष्णो भवानश्वमुखोपि च  ५८

तृतीयावरणे चक्रुः पूर्वभागे समर्चयेत्

नारायणाख्यां याम्येस्त्रं क्वचिदव्याहतं यजेत्  ५९

पश्चिमे पांचजन्यं च शार्ण्गंधनुरथोत्तरे

एवं त्र्! यावरणैः साक्षाद्विश्वाख्यां परमं हरिम्  ६०

महाविष्णुं सदाविष्णुं मूर्तीकृत्य समर्चयेत्

इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम्

पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात्  ६१

प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम्

गणांबिका च वायव्ये लक्ष्मीं रौद्रे  समर्चयेत्  ६२

एवं भान्वादिमूर्त्तीनां तच्छक्तीनामनंतरम्

पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत्  ६३

इन्द्र मग्निं यमं चैव निरृतिं वरुणं तथा

वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत्  ६४

एवं चतुर्थावरणं पूजयित्वा विधानतः

आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत्  ६५

श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्र दिण्मुखे

परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत्  ६६

नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे

अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत्  ६७

पश्चिमाभिमुखं रौद्रं  क्षेत्रपालं समर्चयेत्

पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः  ६८

सर्वावरणदेवानां बहिर्वा पञ्चमेऽथवा

पञ्चमे मातृभिस्सार्द्धं महोक्ष पुरतो यजेत्  ६९

ततः समंततः पूज्यास्सर्वा वै देवयोनयः

खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः  ७०

अनंताद्याश्च नागेंद्रा  नागैस्तत्तत्कुलोद्भवैः

डाकिनीभूतवेतालप्रेतभैरवनायकाः  ७१

पातालवासिनश्चान्ये नानायोनिसमुद्भवाः

नद्यस्समुद्रा  गिरयः काननानि सरांसि च  ७२

पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्र योनयः

नराश्च विविधाकारा मृगाश्च क्षुद्र योनयः  ७३

भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः

बहिरंडान्यसंख्यानि भुवनानि सहाधिपैः  ७४

ब्रह्मांडाधारका रुद्रा  दशदिक्षु व्यवस्थिताः

यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम्  ७५

यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम्

तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत्  ७६

कृतांजलिपुटाः सर्वेऽचिंत्याः स्मितमुखास्तथा

प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा  ७७

इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये

पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत्  ७८

निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम्

सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम्  ७९

द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम्

साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत्  ८०

ततो निवेद्य पानीयं तांबूलं चोपदंशकैः

नीराजनादिकं कृत्वा पूजाशेषं समापयेत्  ८१

भोगोपयोग्यद्र व्याणि विशिष्टान्येव साधयेत्

वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति  ८२

शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः

न फलंत्येव कर्माणि काम्यानीति सतां कथा  ८३

तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः

कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति  ८४

इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च

भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत्  ८५

ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम्

जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः  ८६

विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम्

यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत्  ८७

ततः उद्वास्य देवेशं सर्वैरावरणैः सह

मण्डलं गुरवे दद्याद्यागोपकरणैस्सह  ८८

शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः

अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत्  ८९

शिवाग्नौ वा यजेद्देवं होमद्र व्यैश्च सप्तभिः

समभ्यर्च्य यथान्यायं सर्वावरणदेवताः  ९०

एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः

न तस्मादधिकः कश्चिद्यागोऽस्ति भुवने क्वचित्  ९१

न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु

ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा  ९२

इदमस्य फलं नेदमिति नैव नियम्यते

श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम्  ९३

इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते

चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम्  ९४

तथापि क्षुद्र मुद्दिश्य फलं नैतत्प्रयोजयेत्

लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत्  ९५

महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति

महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम्  ९६

तस्मादनन्यलभ्येषु शत्रुमृत्युंजयादिषु

फलेषु दृष्टादृष्टेषु कुर्य्यादेतद्विचक्षणः  ९७

महत्स्वपि च पातेषु महारागभयादिषु

दुर्भिक्षादिषु शांत्यर्थं शांतिं कुर्य्यादनेन तु  ९८

बहुना किं प्रलापेन महाव्यापन्निवारकम्

आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः  ९९

तस्मादितः परं नास्ति परित्राणमिहात्मनः  १००ब्

इति मत्वा प्रयुंजानः कर्मेदं शुभमश्नुते  १००

स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः  १०१ब्

सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात्  १०१

अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत्  १०२ब्

अष्टाभ्यां वा चतुर्दश्यां फलमर्द्धं समाप्नुयात्  १०२

यस्त्वर्थमनुसंधाय पर्वादिषु तथा व्रती  १०३ब्

मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात्  १०३

इति श्रीशिवमहापुराणे सप्तम्यांवायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकवर्णनं नाम त्रिंशोऽध्यायः  ३०

अध्याय ३१

उपमन्युरुवाच

स्तोत्रं वक्ष्यामि ते कृष्ण पंचावरणमार्गतः

योगेश्वरमिदं पुण्यं कर्म येन समाप्यते  १

जय जय जगदेकनाथ शंभो प्रकृतिमनोहर नित्यचित्स्वभाव

अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम्  २

स्वभावनिर्मलाभोग जय सुन्दरचेष्टित

स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव  ३

अनन्तकांतिसंपन्न जयासदृशविग्रह

अतर्क्यमहिमाधार जयानाकुलमंगल  ४

निरंजन निराधार जय निष्कारणोदय

निरन्तरपरानन्द जय निर्वृतिकारण  ५

जयातिपरमैश्वर्य जयातिकरुणास्पद

जय स्वतंत्रसर्वस्व जयासदृशवैभव  ६

जयावृतमहाविश्व जयानावृत केनचित्

जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर  ७

जयाद्भुत जयाक्षुद्र  जयाक्षत जयाव्यय

जयामेय जयामाय जयाभाव जयामल  ८

महाभुज महासार महागुण महाकथ

महाबल महामाय महारस महारथ  ९

नमः परमदेवाय नमः परमहेतवे

नमश्शिवाय शांताय नमश्शिवतराय ते  १०

त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम्

अतस्त्वद्विहितामाज्ञां क्षमते कोऽतिवर्तितुम्

अयं पुनर्जनो नित्यं भवदेकसमाश्रयः

भवानतोऽनुगृह्यास्मै प्रार्थितं संप्रयच्छतु  १३

जयांबिके जगन्मातर्जय सर्वजगन्मयि

जयानवधिकैश्वर्ये जयानुपमविग्रहे  १४

जय वाण्मनसातीते जयाचिद्ध्वांतभंजिके

जय जन्मजराहीने जय कालोत्तरोत्तरे  १५

जयानेकविधानस्थे जय विश्वेश्वरप्रिये

जय विश्वसुराराध्ये जय विश्वविजृंभिणि  १६

जय मंगलदिव्यांगि जय मंगलदीपिके

जय मंगलचारित्रे जय मंगलदायिनि  १७

नमः परमकल्याणगुणसंचयमूर्तये

त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते  १८

त्वद्विनातः फलं दातुमीश्वरोपि न शक्नुयात्

जन्मप्रभृति देवेशि जनोयं त्वदुपाश्रितः  १९

अतोऽस्य तव भक्तस्य निर्वर्तय मनोरथम्

पंचवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः  २०

वर्णब्रह्मकलादेहो देवस्सकलनिष्कलः

शिवभक्तिसमारूढः शांत्यतीतस्सदाशिवः

भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु  २१

सदाशिवांकमारूढा शक्तिरिच्छा शिवाह्वया

जननी सर्वलोकानां प्रयच्छतु मनोरथम्  २२

शिवयोर्दयिता पुत्रौ देवौ हेरंबषण्मुखौ

शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ  २३

तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ

सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि  २४

सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा

स्वेच्छावतारं कुर्वंतौ स्वांशभेदैरनेकशः  २५

ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ

तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम्  २६

शुद्धस्फटिकसंकाशमीशानाख्यं सदाशिवम्

मूर्द्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः  २७

शिवार्चनरतं शांतं शांत्यतीतं मखास्थितम्

पंचाक्षरांतिमं बीजं कलाभिः पंचभिर्युतम्  २८

प्रथमावरणे पूर्वं शक्त्या सह समर्चितम्

पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु  २९

बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम्

पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः  ३०

शांत्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम्

प्रथमं शिवबीजेषु कलासु च चतुष्कलम्  ३१

पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम्

पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु  ३२

अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम्

देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम्  ३३

विद्यापादं समारूढं वह्निमण्डलमध्यगम्

द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम्  ३४

शंभोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम्

पवित्रं मध्यमं ब्रह्म प्रार्थितं मे प्रयच्छतु  ३५

कुंकुमक्षोदसंकाशं वामाख्यं वरवेषधृक्

वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम्  ३६

वारिमंडलमध्यस्थं महादेवार्चने रतम्

तुरीयं शिवबीजेषु त्रयोदशकलान्वितम्  ३७

देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम्

पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु  ३८

शंखकुंदेंदुधवलं संध्याख्यं सौम्यलक्षणम्

शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम्  ३९

निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम्

तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम्  ४०

देवस्य पश्चिमे भागे शक्त्या सह समर्चितम्

पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु  ४१

शिवस्य तु शिवायाश्च हृन्मूर्तिशिवभाविते

तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम्  ४२

शिवस्य च शिवायाश्च शिखामूर्तिशिवाश्रिते

सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम्  ४३

शिवस्य च शिवायाश्च वर्मणा शिवभाविते

सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम्  ४४

शिवस्य च शिवायाश्च नेत्रमूर्तिशिवाश्रिते

सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम्  ४५

अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे

सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम्  ४६

वामौ ज्येष्ठस्तथा रुद्र ः! कालो विकरणस्तथा

बलो विकरणश्चैव बलप्रमथनः परः  ४७

सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः

प्रार्थितं मे प्रयच्छंतु शिवयोरेव शासनात्  ४८

अथानंतश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः

एक रुद्रा ख्यमर्तिश्च श्रीकण्ठश्च शिखंडकः  ४९

तथाष्टौ शक्तयस्तेषां द्वितीयावरणेऽर्चिताः

ते मे कामं प्रयच्छंतु शिवयोरेव शासनात्  ५०

भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः

महादेवादयश्चान्ये तथैकादशमूर्तयः  ५१

शक्तिभिस्सहितास्सर्वे तृतीयावरणे स्थिताः

सत्कृत्य शिवयोराज्ञां दिशंतु फलमीप्सितम्  ५२

वृक्षराजो महातेजा महामेघसमस्वनः

मेरुमंदरकैलासहिमाद्रि शिखरोपमः  ५३

सिताभ्रशिखराकारः ककुदा परिशोभितः

महाभोगींद्र कल्पेन वालेन च विराजितः  ५४

रक्तास्यशृंगचरणौ रक्तप्रायविलोचनः

पीवरोन्नतसर्वांगस्सुचारुगमनोज्ज्वलः  ५५

प्रशस्तलक्षणः श्रीमान्प्रज्वलन्मणिभूषणः

शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः  ५६

तथा तच्चरणन्यासपावितापरविग्रहः

गोराजपुरुषः श्रीमाञ्छ्रीमच्छूलवरायुधः

तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु  ५७

नन्दीश्वरो महातेजा नगेन्द्र तनयात्मजः

सनारायणकैर्देवैर्नित्यमभ्यर्च्य वंदितः  ५८

शर्वस्यांतःपुरद्वारि सार्द्धं परिजनैः स्थितः

सर्वेश्वरसमप्रख्यस्सर्वासुरविमर्दनः  ५९

सर्वेषां शिवधर्माणामध्यक्षत्वेऽभिषेचितः

शिवप्रियश्शिवासक्तश्श्रीमच्छूलवरायुधः  ६०

शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि

सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु  ६१

महाकालो महाबाहुर्महादेव इवापरः

महादेवाश्रितानां १ तु नित्यमेवाभिरक्षतु  ६२

शिवप्रियः शिवासक्तश्शिवयोरर्चकस्सदा

सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्  ६३

सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्नोः परा तनुः

महामोहात्मतनयो मधुमांसासवप्रियः

तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु  ६४

ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा

वाराही चैव माहेंद्री  चामुंडा चंडविक्रमा  ६५

एता वै मातरः सप्त सर्वलोकस्य मातरः

प्रार्थितं मे प्रयच्छंतु परमेश्वरशासनात्  ६६

मत्तमातंगवदनो गंगोमाशंकरात्मजः

आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः  ६७

ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः

शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत्  ६८

विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः

सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्  ६९

षण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः

अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः  ७०

गंगायाश्च गणांबायाः कृत्तिकानां तथैव च

विशाखेन च शाखेन नैगमेयेन चावृतः  ७१

इंद्र जिच्चंद्र सेनानीस्तारकासुरजित्तथा

शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा  ७२

तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः

कुमारस्सुकुमाराणां रूपोदाहरणं महत्  ७३

शिवप्रियः शिवासक्तः शिवपदार्चकस्सदा

सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्  ७४

ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजनेरता

तयोराज्ञां पुरस्कृत्य सा मे दिशतु कांक्षितम्  ७५

त्रैलोक्यवंदिता साक्षादुल्काकारा गणांबिका

जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणाऽभ्यर्थिता शिवात्  ७६

शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृताः

दक्षायणी सती मेना तथा हैमवती ह्युमा  ७७

कौशिक्याश्चैव जननी भद्र काल्यास्तथैव च

अपर्णायाश्च जननी पाटलायास्तथैव च  ७८

शिवार्चनरता नित्यं रुद्रा णी रुद्र वल्लभा

सत्कृट्य शिवयोराज्ञां सा मे दिशतु कांक्षितम्  ७९

चंडः सर्वगणेशानः शंभोर्वदनसंभवः

सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्  ८०

पिंगलो गणपः श्रीमाञ्छिवासक्तः शिवप्रियः

आज्ञया शिवयोरेव स मे कामं प्रयच्छतु  ८१

भृंगीशो नाम गणपः शिवराधनतत्परः

प्रयच्छतु स मे कामं पत्युराज्ञा पुरःसरम्  ८२

वीरभद्रो  महातेजा हिमकुंदेंदुसन्निभः

भद्र कालीप्रियो नित्यं मातृ-णां चाभिरक्षिता  ८३

यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः

उपेंद्रे द्रं! यमादीनां देवानामंगतक्षकः  ८४

शिवस्यानुचरः श्रीमाञ्छिवशासनपालकः

शिवयोः शासनादेव स मे दिशतु कांक्षितम्  ८५

सरस्वती महेशस्य वाक्सरोजसमुद्भवा

शिवयोः पूजने सक्ता स मे दिशतु कांक्षितम्  ८६

विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता

शिवयोः शासनादेव सा मे दिशतु कांक्षितम्  ८७

महामोटी महादेव्याः पादपूजापरायणा

तस्या एव नियोगेन सा मे दिशतु कांक्षितम्  ८८

कौशिकी सिंहमारूढा पार्वत्याः परमा सुता

विष्णोर्निद्रा महामाया महामहिषमर्दिनी  ८९

निशंभशुंभसंहत्री मधुमांसासवप्रिया

सत्कृत्य शासनं मातुस्सा मे दिशतु कांक्षितम्  ९०

रुद्रा  रुद्र समप्रख्याः प्रथमाः प्रथितौजसः

भूताख्याश्च महावीर्य्या महादेवसमप्रभाः  ९१

नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः

सशक्तयस्सानुचरास्सर्वलोकनमस्कृताः  ९२

सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः

परस्परानुरक्ताश्च परस्परमनुव्रताः  ९३

परस्परमतिस्निग्धाः परस्परनमस्कृताः

शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः  ९४

सौम्याधारास्तथा मिश्राश्चांतरालद्वयात्मिकाः

विरूपाश्च सुरूपाश्च नानारूपधरास्तथा  ९५

सत्कृत्य शिवयोराज्ञां ते मे कामं दिशंतु वै

देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः  ९६

सहितो रुद्र कन्याभिः शक्तिभिश्चाप्यनेकशः

तृतीयावरणे शंभोर्भक्त्या नित्यं समर्चितः  ९७

सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम्

दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमंडलः  ९८

निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः

अविकारात्मकश्चाद्य एकस्सामान्यविक्रियः  ९९

असाधारणकर्मा च सृष्टिस्थितिलयक्रमात्  १००ब्

एवं त्रिधा चतुर्द्धा च विभक्ताः पंचधा पुनः  १००

चतुर्थावरणे शंभोः पूजितश्चानुगैः सह  १०१ब्

शिवप्रियः शिवासक्तः शिवपादार्चने रतः  १०१

सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम्  १०२ब्

दिवाकरषडंगानि दीप्ताद्याश्चाष्टशक्तयः  १०२

आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः  १०३ब्

अर्को ब्रह्मा तथा रुद्रो  विष्नुश्चादित्यमूर्तयः  १०३

विस्तरासुतराबोधिन्याप्यायिन्यपराः पुनः  १०४ब्

उषा प्रभा तथा प्राज्ञा संध्या चेत्यपि शक्तयः  १०४

सोमादिकेतुपर्यंता ग्रहाश्च शिवभाविताः  १०५ब्

शिवयोराज्ञयानुन्ना मंगलं प्रदिशंतु मे  १०५

अथवा द्वादशादित्यास्तथा द्वादश शक्तयः  १०६ब्

ऋषयो देवगंधर्वाः पन्नगाप्सरसां गणाः  १०६

ग्रामण्यश्च तथा यक्षा राक्षसाश्चासुरास्तथा  १०७ब्

सप्तसप्तगणाश्चैते सप्तच्छंदोमया हयाः  १०७

वालखिल्या दयश्चैव सर्वे शिवपदार्चकाः  १०८ब्

सत्कृत्यशिवयोराज्ञां मंगलं प्रदिशंतु मे  १०८

ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः  १०९ब्

चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः  १०९

निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः  ११०ब्

अविकारात्मको देवस्ततस्साधारणः पुरः  ११०

असाधारणकर्मा च सृष्टिस्थितिलयक्रमात्  १११ब्

भुवं त्रिधा चतुर्द्धा च विभक्तः पंचधा पुनः  १११

चतुर्थावरणे शंभो पूजितश्च सहानुगैः  ११२ब्

शिवप्रियः शिवासक्तश्शिवपादार्चने रतः  ११२

सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम्  ११३ब्

हिरण्यगर्भो लोकेशो विराट् कालश्च पूरुषः  ११३

सनत्कुमारः सनकः सनंदश्च सनातनः  ११४ब्

प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः  ११४

एकादश सपत्नीका धर्मस्संकल्प एव च  ११५ब्

शिवार्चनरताश्चैते शिवभक्तिपरायणाः  ११५

शिवाज्ञावशगास्सर्वे दिशंतु मम मंगलम्  ११६ब्

चत्वारश्च तथा वेदास्सेतिहासपुराणकाः  ११६

धर्मशास्त्राणि विद्याभिर्वैदिकीभिस्समन्विताः  ११७ब्

परस्परविरुद्धार्थाः शिवप्रकृतिपादकाः  ११७

सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे  ११८ब्

अथ रुद्रो  महादेवः शंभोर्मूर्तिर्गरीयसी  ११८

वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान्प्रभुः  ११९ब्

शिवाभिमानसंपन्नो निर्गुणस्त्रिगुणात्मकः  ११९

केवलं सात्त्विकश्चापि राजसश्चैव तामसः  १२०ब्

अविकाररतः पूर्वं ततस्तु समविक्रियः  १२०

असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक्  १२१ब्

ब्रह्मणोपि शिरश्छेत्ता जनकस्तस्य तत्सुतः  १२१

जनकस्तनयश्चापि विष्णोरपि नियामकः  १२२ब्

बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः  १२२

अंडस्यांतर्बहिर्वर्ती रुद्रो  लोकद्वयाधिपः  १२३ब्

शिवप्रियः शिवासक्तः शिवपादार्चने रतः  १२३

शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम्  १२४ब्

तस्य ब्रह्म षडंगानि विद्येशांतं तथाष्टकम्  १२४

चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः

शिवो भवो हरश्चैव मृडश्चैव तथापरः  १२५

शिवस्याज्ञां पुरस्कृत्य मंगलं प्रदिशंतु मे  १२५

अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः  १२६ब्

वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः  १२६

निर्गुणस्सत्त्वबहुलस्तथैव गुणकेवलः  १२७ब्

अविकाराभिमानी च त्रिसाधारणविक्रियः  १२७

असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक्  १२८ब्

दक्षिणांगभवेनापि स्पर्द्धमानः स्वयंभुवा  १२८

आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु  १२९ब्

अंडस्यांतर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः  १२९

असुरांतकरश्चक्री शक्रस्यापि तथानुजः  १३०ब्

प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह  १३०

भूभारनिग्रहार्थाय स्वेच्छयावातरक्षितौ  १३१ब्

अप्रमेयबलो मायी मायया मोहयञ्जगत्  १३१

मूर्तिं कृत्वा महाविष्णुं सदाशिष्णुमथापि वा  १३२ब्

वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने  १३२

शिवप्रियः शिवासक्तः शिवपादार्चने रतः  १३३ब्

शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम्  १३३

वासुदेवोऽनिरुद्धश्च प्रद्युम्नश्च ततः परः  १३४ब्

संकर्षणस्समाख्याताश्चतस्रो मूर्तयो हरेः  १३४

मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः  १३५ब्

रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः  १३५

चक्रं नारायणस्यास्त्रं पांचजन्यं च शार्ण्गकम्  १३६ब्

सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे  १३६

प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता  १३७ब्

शिवयोः शासनादेता मंगलं प्रदिशंतु मे  १३७

इन्द्रो ऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा  १३८ब्

वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक्  १३८

सर्वे शिवार्चनरताः शिवसद्भावभाविताः  १३९ब्

सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे  १३९

त्रिशूलमथ वज्रं च तथा परशुसायकौ   १४०ब्

खड्गपाशांकुशाश्चैव पिनाकश्चायुधोत्तमः  १४०

दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः  १४१ब्

सत्कृत्य शिवयोराज्ञां रक्षां कुर्वंतु मे सदा  १४१

वृषरूपधरो देवः सौरभेयो महाबलः  १४२ब्

वडवाख्यानलस्पर्द्धां पञ्चगोमातृभिर्वृतः  १४२

वाहनत्वमनुप्राप्तस्तपसा परमेशयोः  १४३ब्

तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु  १४३

नंदा सुनंदा सुरभिः सुशीला सुमनास्तथा  १४४ब्

पंचगोमातरस्त्वेताश्शिवलोके व्यवस्थिताः  १४४

शिवभक्तिपरा नित्यं शिवार्चनपरायणाः  १४५ब्

शिवयोः शासनादेव दिशंतु मम वांछितम्  १४५

क्षेत्रपालो महातेजा नील जीमूतसन्निभः  १४६ब्

दंष्ट्राकरालवदनः स्फुरद्र क्ताधरोज्ज्वलः  १४६

रक्तोर्द्ध्वमूर्द्धजः श्रीमान्भ्रुकुटीकुटिलेक्षणः  १४७ब्

रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः  १४७

नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः  १४८ब्

भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः  १४८

क्षेत्रेक्षेत्रे समासीनः स्थितो यो रक्षकस्सताम्  १४९ब्

शिवप्रणामपरमः शिवसद्भावभावितः  १४९

शिवश्रितान्विशेषेण रक्षन्पुत्रानिवौरसान्  १५०ब्

सत्कृत्य शिवयोराज्ञां स मे दिशतु मण्गलम्  १५०

तालजण्घादयस्तस्य प्रथमावरणेर्चिताः  १५१ब्

सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम्  १५१

भैरवाद्याश्च ये चान्ये समंतात्तस्य वेष्टिताः  १५२ब्

तेऽपि मामनुगृह्णंतु शिवशासनगौरवात्  १५२

नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः  १५३ब्

साध्या मागाश्च ये देवा जनलोकनिवासिनः  १५३

विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः  १५४ब्

सप्तर्षयस्तथान्ये वै वैमानिकगुणैस्सह  १५४

सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः  १५५ब्

शिवयोराज्ञया मह्यं दिशंतु मम कांक्षितम् १  १५५

गंधर्वाद्याः पिशाचांताश्चतस्रो देवयोनयः  १५६ब्

सिद्धा विद्याधराद्याश्च येऽपि चान्ये नभश्चराः  १५६

असुरा राक्षसाश्चैव पातालतलवासिनः  १५७ब्

अनंताद्याश्च नागेन्द्रा  वैनतेयादयो द्विजाः  १५७

कूष्मांडाः प्रेतवेताला ग्रहा भूतगणाः परे  १५८ब्

डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः  १५८

क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च  १५९ब्

द्वीपाः समुद्रा  नद्यश्च नदाश्चान्ये सरांसि च  १५९

गिरयश्च सुमेर्वाद्याः कननानि समंततः  १६०ब्

पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः  १६०

भुवनान्यपि सर्वाणि भुवनानामधीश्वरः  १६१ब्

अण्डान्यावरणैस्सार्द्धं मासाश्च दश दिग्गजाः  १६१

वर्णाः पदानि मंत्राश्च तत्त्वान्यपि सहाधिपैः  १६२ब्

ब्रह्मांडधारका रुद्रा  रुद्रा श्चान्ये सशक्तिकाः  १६२

यच्च किंचिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम्  १६३ब्

सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात्  १६३

अथ विद्या परा शैवी पशुपाशविमोचिनी  १६४ब्

पंचार्थसंज्ञिता दिव्या पशुविद्याबहिष्कृता  १६४

शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम्  १६५ब्

शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसंमितम्  १६५

शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः  १६६ब्

शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः  १६६

ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये  १६७ब्

कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम्  १६७

श्वेताद्या नकुलीशांताः सशिष्याश्चापि देशिकाः  १६८ब्

तत्संततीया गुरवो विशेषाद्गुरवो मम  १६८

शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः  १६९ब्

कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम्  १६९

लौकिका ब्राह्मणास्सर्वे क्षत्रियाश्च विशः क्रमात्  १७०ब्

वेदवेदांगतत्त्वज्ञाः सर्वशास्त्रविशारदाः  १७०

सांख्या वैशेषिकाश्चैव यौगा नैयायिका नराः  १७१ब्

सौरा ब्रह्मास्तथा रौद्रा  वैष्णवाश्चापरे नराः  १७१

शिष्टाः सर्वे विशिष्टा च शिवशासनयंत्रिताः  १७२ब्

कर्मेदमनुमन्यंतां ममाभिप्रेतसाधकम्  १७२

शैवाः सिद्धांतमार्गस्थाः शैवाः पाशुपतास्तथा  १७३ब्

शैवा महाव्रतधराः शैवाः कापालिकाः परे  १७३

शिवाज्ञापालकाः पूज्या ममापि शिवशासनात्  १७४ब्

सर्वे ममानुगृह्णंतु शंसंतु सफलक्रियाम्  १७४

दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः  १७५ब्

अविरोधेन वर्तंतां मंत्रश्रेयोऽर्थिनो मम  १७५

नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः  १७६ब्

पाषंडाश्चातिपापाश्च वर्तंतां दूरतो मम  १७६

बहुभिः किं स्तुतैरत्र येऽपि केऽपिचिदास्तिकाः  १७७ब्

सर्वे मामनुगृह्णंतु संतः शंसंतु मंगलम्  १७७

नमश्शिवाय सांबाय ससुतायादिहेतवे  १७८ब्

पंचावरणरूपेण प्रपंचेनावृताय ते  १७८

इत्युक्त्वा दंडवद्भूमौ प्रणिपत्य शिवं शिवाम्  १७९ब्

जपेत्पंचाक्षरीं विद्यामष्टोत्तरशतावराम्  १७९

तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम्  १८०ब्

कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत्  १८०

एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयंगमम्  १८१ब्

सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम्  १८१

य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः  १८२ब्

स विधूयाशु पापानि शिवसायुज्यमाप्नुयात्  १८२

गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा  १८३ब्

शरणागतघाती च मित्रविश्रंभघातकः  १८३

दुष्टपापसमाचारो मातृहा पितृहापि वा  १८४ब्

स्तवेनानेन जप्तेन तत्तत्पापात्प्रमुच्यते  १८४

दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च  १८५ब्

यदि संकीर्तयेदेतन्न ततो नार्थभाग्भवेत्  १८५

आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम्  १८६ब्

स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः  १८६

असंपूज्य शिवस्तोत्रं जपात्फलमुदाहृतम्  १८७ब्

संपूज्य च जपे तस्य फलं वक्तुं न शक्यते  १८७

आस्तामियं फलावाप्तिरस्मिन्संकीर्तिते सति  १८८ब्

सार्द्धमंबिकया देवः श्रुत्यैवं दिवि तिष्ठति  १८८

तस्मान्नभसि संपूज्य देवं देवं सहोमया  १८९ब्

कृतांजलिपुटस्तिष्ठंस्तोत्रमेतदुदीरयेत्  १८९

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमहास्तोत्रवर्णनं नामैकत्रिंशोऽध्यायः  ३१

अध्याय ३२

उपमन्युरुवाच

एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम्

क्रियातपोजपध्यानसमुच्चयमयं परम्  १

अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम्

पूजाहोमजपध्यानतपोदानमयं महत्  २

तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः

दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः  ३

सिद्धमन्त्रोऽप्यदृष्टेन प्रबलेन तु केनचित्

प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः  ४

तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः

परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत्  ५

योऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः

न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम्  ६

अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित्

स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति  ७

नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले

यथोक्तकारिणां पुंसामिहैव फलदर्शनात्  ८

साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः

विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम्  ९

अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत्

रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा  १०

हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत्

सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत्  ११

इत्थमाचारवान्भूत्वा स्वानुकूले शुभेऽहनि

पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते  १२

आलिप्य शकृता १ भूमिं हस्तमानावरां यथा

विलिखेत्कमले भद्रे  दीप्यमानं स्वतेजसा  १३

तप्तजांबूनदमयमष्टपत्रं सकेसरम्

मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम्  १४

स्वाकारसदृशेनैव नालेन च समन्वितम्

तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः  १५

तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः

रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम्

लिण्गं सवेदिकं चैव स्थापयित्वा विधानतः  १६

तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम्

तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः  १७

चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता

शार्दूलचर्मवसना किंचिद्विहसितानना  १८

वरदाभयहस्ता च मृगटंकधरा तथा

अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि  १९

तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे

वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती  २०

बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना

तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम्  २१

दक्षिणं नीलजीमूतसदृशं घोरदर्शनम्

उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम्  २२

पश्चिमं पूर्णचंद्रा भं सौम्यमिंदुकलाधरम्

तदंकमंडलारूढा शक्तिर्माहेश्वरी परा  २३

महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा

मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात्  २४

मूर्तिमंतमथावाह्य यजेत्परमकारणम्

स्नानार्थे कल्पयेत्तत्र पंचगव्यं तु कापिलम्  २५

पंचामृतं च पूर्णानि बीजानि च विशेषतः

पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलंकृतम्  २६

कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः

सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत्  २७

ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात्

तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत्  २८

पुण्यद्र व्याणि निक्षिप्य समन्त्रं सविधानकम्

दुकूलाद्येन वस्त्रेण समाच्छाद्य समंततः  २९

सर्वत्र मंत्रं विन्यस्य तत्तन्मंत्रपुरस्सरम्

स्नानकाले तु संप्राप्ते सर्वमण्गलनिस्वनैः  ३०

पंचगव्यादिभिश्चैव स्नापयेत्परमेश्वरम्

ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि  ३१

गंधपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात्

उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम्  ३२

गंधं पुष्पादिदीपांश्च पूजाकर्म समाचरेत्

पलावरः स्यादालेप एकादशपलोत्तरः  ३३

सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च

नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः  ३४

कमलानि च रक्तानि श्वेतान्यपि च शंभवे

कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः  ३५

कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः

पंचब्रह्मषडंगानि पूज्यान्यावरणानि च  ३६

नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः

पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम्  ३७

पंचसौगंधिकोपेतं तांबूलं च सुसंस्कृतम्

सुवर्णरत्नसिद्धानि भूषणानि विशेषतः  ३८

वासांसि च विचित्राणि सूक्ष्माणि च नवानि च

दर्शनीयानि देयानि गानवाद्यादिभिस्सह  ३९

जपश्च मूलमंत्रस्य लक्षः परमसंख्यया

एकावरा त्र्! युत्तरा च पूजा फलवशादिह  ४०

दशसंख्यावरो होमः प्रतिद्र व्यं शतोत्तरः

घोररूपश्शिवश्चिंत्यो मारणोच्चाटनादिषु  ४१

शिवलिंगे शिवाग्नौ च ह्यन्यासु प्रतिमासु च

चिंत्यस्सौम्यतनुश्शंभुः कार्ये शांतिकपौष्टिके  ४२

आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु

तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः  ४३

दूर्वया घृतगोक्षीरमिश्रया मधुना तथा

चरुणा सघृतेनैव केवलं पयसापि वा  ४४

जुहुयान्मृत्युविजये तिलै रोगोपशांतये

घृतेन पयसा चैव कमलैर्वाथ केवलैः  ४५

समृद्धिकामो जुहुयान्महादारिद्र य्शांतये

जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु  ४६

घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः

तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः  ४७

स्तंभनं सर्षपेणापि लशुनेन तु पातनम्

ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः  ४८

मारणोच्चाटने कुर्याद्रो हिबीजैस्तिलान्वितैः

विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु  ४९

बंधनं रोहिबीजेन सेनास्तंभनमेव च

रक्तसर्षपसंमिश्रैर्होमद्र व्यैरशेषतः  ५०

हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके

कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च  ५१

सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके

ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा  ५२

सर्वसिद्धिकरो होमः क्षौद्रा ज्यदधिभिर्युतैः

क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा  ५३

शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः

द्र व्यैर्विशेषतो होमे वश्यमाकर्षणं तथा  ५४

वश्यमाकर्षणं चैव श्रीपदं च विशेषतः

बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा  ५५

समिधः शांतिकार्येषु पालाशखदिरादिकाः

करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे  ५६

प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः

निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम्  ५७

अतीवदुरवस्थायां प्रतीकारांतरं न चेत्

आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम्  ५८

स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम्

यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा योऽपि कोपि वा  ५९

तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत

मनसा कर्म्मणा वाचा योऽपि कोपि शिवाश्रितः  ६०

स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा

कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः  ६१

स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन

न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः  ६२

अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम्

पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत्  ६३

बाणलिंगेऽपि वा कुर्यान्निर्धनो धनवानपि

स्वयंभूतेऽथ वा लिंगे आर्षके वैदिकेऽपि वा  ६४

अभावे हेमरत्नानामशक्तौ च तदर्जने

मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः  ६५

क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके

सोऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति  ६६

कर्मण्यनुष्ठितेऽप्यस्मिन्फलं यत्र न दृश्यते

द्विस्त्रिर्वावर्त्तयेत्तत्र सर्वथा दृश्यते फलम्  ६७

पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम्

तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक्  ६८

स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत्

अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते  ६९

यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया

सोऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः  ७०

स्वयं गृह्णाति यो लोभात्पूजांगद्र व्यमुत्तमम्

कांक्षितं न लभेन्मूढो नात्र कार्या विचारणा  ७१

अर्चितं यत्तु तल्लिंगं गृह्णीयाद्वा नवा स्वयम्

गृह्णीयाद्यदि तन्नित्यं स्वयं वान्योऽपि वार्चयेत्  ७२

यथोक्तमेव कर्मैतदाचरेद्योऽनपायतः

फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम्  ७३

तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम्

अपि शत्रुभिराक्रांतो व्याधिभिर्वाप्यनेकशः  ७४

मृत्योरास्यगतश्चापि मुच्यते निरपायतः

पूजायतेऽतिकृपणो रिक्तो वैश्रवणायते  ७५

कामायते विरूपोऽपि वृद्धोऽपि तरुणायते

शत्रुर्मित्रायते सद्यो विरोधी किंकरायते  ७६

विषायते यदमृतं विषमप्यमृतायते

स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते  ७७

महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः

पद्माकरायते वह्निः सरो वैश्वानरायते  ७८

वनायते यदुद्यानं तदुद्यानायते वनम्

सिंहायते मृगः क्षुद्र ः! सिंहः क्रीडामृगायते  ७९

स्त्रियोऽभिसारिकायन्ते लक्ष्मीः सुचरितायते

स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते  ८०

स्वैराचारायते मेधा वज्रसूचीयते मनः

महावातायते शक्तिर्बलं मत्तगजायते  ८१

स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया

शत्रुपक्षायतेऽरीणां सर्व एव सुहृज्जनः  ८२

शत्रवः कुणपायन्ते जीवन्तोपि सबांधवाः

आपन्नोऽपि गतारिष्टः स्वयं खल्वमृतायते  ८३

रसाय नायते नित्यमपथ्यमपि सेवितम्

अनिशं क्रियमाणापि रतिस्त्वभिनवायते  ८४

अनागतादिकं सर्वं करस्थामलकायते

यादृच्छिकफलायन्ते सिद्धयोऽप्यणिमादयः  ८५

बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु

अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते  ८६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशोऽध्यायः  ३२

अध्याय ३३

उपमन्युरुवाच

अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम्

नैतेन सदृशं किंचित्कर्मास्ति भुवनत्रये  १

पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः

ब्रह्मणा विष्णुना चैव रुद्रे ण च विशेषतः  २

इंद्रा दिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः

विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः  ३

श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः

नंदीश्वरमहाकालभृंगीशाद्यैर्गणेश्वरैः  ४

पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः

सिद्धैर्यक्षैश्च गंधर्वै रक्षोभूतपिशाचकैः  ५

स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः

अनेन विधिना सर्वे देवा देवत्वमागताः  ६

ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः

रुद्रो  रुद्र त्वमापन्न इंद्र श्चेन्द्र त्वमागतः  ७

गणेशश्च गणेशत्वमनेन विधिना गतः

सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम्

श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च  ८

तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम्

विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः  ९

मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम्

अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम्  १०

दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत्

अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम्  ११

उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः

सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत्  १२

धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम्

वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत्  १३

पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत्

सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम्  १४

प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत्

सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत्  १५

शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः

एवं योऽर्चयते नित्यं पञ्चगन्धमयं शुभम्  १६

सर्वपापविनिर्मुक्तः शिवलोके महीयते

एतद्व्रतोत्तमं गुह्यं शिवलिंगमहाव्रतम्  १७

भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित्

देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा  १८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः  ३३

अध्याय ३४

उपमन्युरुवाच

नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता

सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया  १

सर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम्

तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम्  २

ब्रह्मणा विष्णुना वापि रुद्रे णान्येन केन वा

लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः  ३

किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम्

पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः  ४

तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे

स्थापयेत्परमेशस्य लिंगं बेरमथापि वा  ५

श्रीकृष्ण उवाच

किमिदं लिंगमाख्यातं कथं लिंगी महेश्वरः

कथं च लिंगभावोऽस्य कस्मादस्मिञ्छिवोऽर्च्यते  ६

उपमन्युरुवाच

अव्यक्तं लिंगमाख्यातं त्रिगुणप्रभवाप्ययम्

अनाद्यनंतं विश्वस्य यदुपादानकारणम्  ७

तदेव मूलप्रकृतिर्माया च गगनात्मिका

तत एव समुत्पन्नं जगदेतच्चराचरम्  ८

अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा

ततः शिवो महेशश्च रुद्रो  विष्णुः पितामहः  ९

भूतानि चेन्द्रि यैर्जाता लीयन्तेऽत्र शिवाज्ञया

अत एव शिवो लिंगो लिंगमाज्ञापयेद्यतः  १०

यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः

ततो जातस्य विश्वस्य तत्रैव विलयो यतः  ११

अनेन लिंगतां तस्य भवेन्नान्येन केनचित्

लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम्  १२

अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत्

लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः  १३

तयोः संपूजनादेव स च सा च समर्चितौ

न तयोर्लिंगदेहत्वं विद्यते परमार्थतः  १४

यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः

तदेव परमा शक्तिः शिवस्य परमात्मनः  १५

शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम्

न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि  १६

येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि

पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते  १७

वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम्

यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः  १८

ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम्

मायया मोहितः शम्भोर्विष्णुमाह पितामहः  १९

कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम्

स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात्  २०

प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम्

तमाह चांतस्संक्रुद्धः स्वयमक्रुद्धवद्धरिः  २१

कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद

इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम्  २२

रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत

वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः  २३

मां न जानासि किं नाथं प्रपंचो यस्य मे कृतिः

त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते  २४

संहरामि नमे कश्चित्स्रष्टा जगति विद्यते

इत्युक्ते सति सोऽप्याह ब्रह्माणं विष्णुरव्ययः  २५

अहमेवादिकर्तास्य हर्ता च परिपालकः

भवानपि ममैवांगादवतीर्णः पुराव्ययात्  २६

मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम्

सृजस्यवसि चांते तत्पुनः प्रतिसृजस्यपि  २७

विस्मृतोसि जगन्नाथं नारायणमनामयम्

तवापि जनकं साक्षान्मामेवमवमन्यसे  २८

तवापराधो नास्त्यत्र भ्रांतोसि मम मायया

मत्प्रसादादियं भ्रांतिरपैष्यति तवाचिरात्  २९

शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम्

कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः  ३०

एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम्

अभवच्च महायुद्धं भैरवं रोमहर्षणम्  ३१

मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः

तयोर्दर्पापहाराय प्रबोधाय च देवयोः  ३२

मध्ये समाविरभवल्लिंगमैश्वरमद्भुतम्

ज्वालामालासहस्राढ्यमप्रमेयमनौपमम्  ३३

क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम्

तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ  ३४

विसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा

न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा  ३५

तदा समुद्यतौ स्यातां तस्याद्यंतं परीक्षितुम्  ३६

तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः

मनोनिलजवो भूत्वा गतस्तूर्द्ध्वं प्रयत्नतः  ३७

नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम्

वाराहममितं रूपमस्थाय गतवानधः  ३८

एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः

नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः  ३९

तावत्कालं गतश्चोर्द्ध्वं तस्यांतं ज्ञातुमिच्छया

श्रांतोत्यंतमदृष्ट्वांतं पापताधः पितामहः  ४०

तथैव भगवान् विष्णुः श्रांतः संविग्नलोचनः

क्लेशेन महता तूर्णमधस्तादुत्थितोऽभवत्  ४१

समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ

मायया मोहितौ शंभोः कृत्याकृत्यं न जग्मतुः  ४२

पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ

प्रणिपत्य किमात्मेदमित्यचिंतयतां तदा  ४३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशोऽध्यायः  ३४

अध्याय ३५

उपमन्युरुवाच

अथाविरभवत्तत्र सनादं शब्दलक्षणम्

ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम्  १

तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा

रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम्  २

तदा विभक्तमभवच्चतुर्द्धैकं तदक्षरम्

अ उ मेति त्रिमात्राभिः परस्ताच्चार्द्धमात्रया  ३

तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे

उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः  ४

अर्द्धमात्रात्मको नादः श्रूयते लिंगमूर्द्धनि

विभक्तेऽपि तदा तस्मिन्प्रणवे परमाक्षरे  ५

विभावार्थं च तौ देवौ न किंचिदवजग्मतुः

वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः  ६

तत्राकारो ऋगभवदुकारो यजुरव्ययः

मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः  ७

ऋगयं स्थापयामास समासात्त्वर्थमात्मनः

रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि  ८

सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम्

कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पंचसु  ९

लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये

चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु  १०

तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत्

अथोपस्थापयामास स्वार्थं दशविधं यजुः  ११

सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि

स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु  १२

कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पंचसु

मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु  १३

प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम्

ततोपस्थापयामास सामार्थं दशधात्मनः  १४

तमोगुणेष्वथो रुद्रं  मूर्तिष्वाद्यं क्रियासु च

संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम्  १५

विद्याकलास्वघोरं च तथा ब्रह्मसु पंचसु

लिंगभागेषु पीठोर्द्ध्वं बीजिनं कारणत्रये  १६

पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत्

अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः  १७

ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम्

क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः  १८

भूतानुग्रहणं चैव मुच्यंते येन जंतवः

लोकेष्वपि यतो वाचो निवृत्ता मनसा सह  १९

तदूर्द्ध्वमुन्मना लोकात्सोमलोकमलौकिकम्

सोमस्सहोमया यत्र नित्यं निवसतीश्वरः  २०

तदूर्द्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते

शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि  २१

तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पंचसु

मूर्द्धानमपि लिंगस्य नादभागेष्वनुत्तमम्  २२

यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः

तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात्  २३

तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः

कारणेषु त्रयातीतान्मायाविक्षोभकारणात्  २४

अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात्

सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात्  २५

सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात्

पंचवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात्  २६

तस्मादपि पराद्बिंदोरर्द्धेदोश्च ततः परात्

ततः परान्निशाधीशान्नादाख्याच्च ततः परात्  २७

ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि

ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः  २८

परमं कारणं साक्षात्स्वयं निष्कारणं शिवम्

कारणानां च धातारं ध्यातारां ध्येयमव्ययम्  २९

परमाकाशमध्यस्थं परमात्मोपरि स्थितं

सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम्  ३०

ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात्

अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात्  ३१

तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात्

परमं परमैश्वर्यमुन्मनाद्यमनादि च  ३२

अपारमपराधीनं निरस्तातिशयं स्थिरम्

इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः  ३३

यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात्

ऋग्वेदः पुनराहेदं जाग्रद्रू पं मयोच्यते  ३४

येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः

यजुर्वेदोऽवदत्तद्वत्स्वप्नावस्था मयोच्यते  ३५

भोग्यात्मना परिणता विद्यावेद्या यतो मयि

साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते  ३६

ममार्थेन शिवेनेदं तामसेनाभिधीयते

अथर्वाह तुरायाख्यं तुरीयातीतमेव च  ३७

मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम्

अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम्  ३८

तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा

अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम्  ३९

तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम्

द्वयोः प्रमापको नादो नदांतश्च मदात्मकः  ४०

तस्मान्ममार्थस्वातंत्र्! यात्प्रधानः परमेश्वरः

यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः  ४१

समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते

सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम्  ४२

तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः

शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः  ४३

वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः

चिंतया रहितो रुद्रो  वाचोयन्मनसा सह  ४४

अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः

एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते  ४५

एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते

एकाक्षरान्मकाराख्याच्छिवो रुद्र  उदाहृतः  ४६

दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः

वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः  ४७

हृदयान्नीलरुद्रो  भूच्छिवस्य शिवसंज्ञिकः

सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः  ४८

संहारस्य तथा रुद्र स्तयोर्नित्यं नियामकः  ४९

तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च

कारणत्रयहेतुश्च शिवः परमकारणम्  ५०

अर्थमेतमविज्ञाय रजसा बद्धवैरयोः

युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम्  ५१

एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा

ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः  ५२

वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि

स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते  ५३

तयोस्तत्र प्रबोधाय तमोपनयनाय च

लिंगेपि मुद्रि तं सर्वं यथा वेदैरुदाहृतम्  ५४

तद्दृष्ट्वा मुद्रि तं लिंगे प्रसादाल्लिंगिनस्तदा

प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः  ५५

उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम्

ततः परतरं धाम धामवंतं च पूरुषम्  ५६

निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम्

पशुपाशमयस्यास्य प्रपंचस्य सदा पतिम्  ५७

अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम्

वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम्  ५८

निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम्

अलक्षणमनिर्देश्यमवाण्मनसगोचरम्  ५९

प्रकाशैकरसं शांतं प्रसन्नं सततोदितम्

सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम्  ६०

ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा

रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः  ६१

ब्रह्मोवाच

अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः

ईदृशीं भ्रांतिमापन्न इति कोऽत्रापराध्यति  ६२

आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो

निर्भयः कोऽभिभाषेत कृत्यं स्वस्य परस्य वा  ६३

आवयोर्देवदेवस्य विवादोऽपि हि शोभनः

पादप्रणामफलदो नाथस्य भवतो यतः  ६४

विष्णुरुवाच

स्तोतुं देव न वागस्ति महिम्नः सदृशी तव

प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः  ६५

किमत्र संघटेत्कृत्यमित्येवावसरोचितम्

अजानन्नपि यत्किंचित्प्रलप्य त्वां नतोऽस्म्यहम्  ६६

कारणत्वं त्वया दत्तं विस्मृतं तव मायया

मोहितोऽहंकृतश्चापि पुनरेवास्मि शासितः  ६७

विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर

यतोऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः  ६८

त्वामुशंति महादेवं भीतानामार्तिनाशनम्

अतो व्यतिक्रमं मेऽद्य क्षंतुमर्हसि शंकर  ६९

इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः

प्रीतोऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत  ७०

ईश्वर उवाच

वत्सवत्स विधे विष्णो मायया मम मोहितौ

युवां प्रभुत्वेऽहंकृत्य बुद्धवैरो परस्परम्  ७१

विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल

ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः  ७२

अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि

तन्निवर्तयितुं युष्मद्दर्प्पमोहौ मयैव तु  ७३

एवं निवारितावद्यलिंगाविर्भावलीलया

तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः  ७४

यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ

पुरा ममाज्ञया सार्द्धं समस्तज्ञानसंहिताः  ७५

युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये

मंत्ररत्नं च सूत्राख्यं पंचाक्षरमयं परम्  ७६

मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम्

ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया  ७७

यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे

एवमुक्त्वा महादेवो नारायणपितामहौ  ७८

मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह

तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम्  ७९

महार्थं मंत्ररत्नं च तथैव सकलाः कलाः

दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः  ८०

अतिष्ठतां वीतभयावानंदास्तिमितौ तदा

एतस्मिन्नंतरे चित्रमिंद्र जालवदैश्वरम्  ८१

लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते

ततो विलप्य हाहेति सद्यःप्रणयभंगतः  ८२

किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम्

अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ  ८३

अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम्

जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ  ८४

ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः

ऋषयश्च नरा नागा नार्यश्चापि विधानतः

लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च  ८५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पंचत्रिंशोऽध्यायः  ३५

अध्याय ३६

श्रीकृष्ण उवाच

भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम्

लिंगस्यापि च बेरस्य शिवेन विहितं यथा  १

उपमन्युरुवाच

अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके

शिवशास्त्रोक्तमार्गेण कुर्याल्लिंगं प्रमाणवत्  २

स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च

दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान्  ३

तेषां दशोपचाराणां पूर्वं पूज्य १ विनायकम्

स्थानशुद्ध्यादिकं कृत्वालिंगं स्नानालयं नयेत्  ४

शलाकया कांचनया २ कुंकुमादिरसाक्तया

लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः  ५

अष्टमृत्सलिलैर्वाथ पंचमृत्सलिलैस्तथा

लिण्गं पिंडिकया सार्द्धं पंचगव्यैश्च शोधयेत्  ६

सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम्

नीत्वाधिवासयेत्तत्र लिंगं पिंडिकया सह  ७

अधिवासालये शुद्धे सर्वशोभासमन्विते

सतोरणे सावरणे दर्भमालासमावृते  ८

दिग्गजाष्टकसंपन्ने दिक्पालाष्टघटान्विते

अष्टमंगलकैर्युक्ते कृतदिक्पालकार्चिते  ९

तेजसं दारवं वापि कृत्वा पद्मासनांकितम्

विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम्  १०

द्वारपालान्समभ्यर्च्य भद्रा दींश्चतुरःक्रमात्

समुद्र श्च विभद्र श्च सुनंदश्च विनंदकः  ११

स्नापयित्वा समभ्यर्च्य लिंगं वेदिकया सह

सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समंततः  १२

प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत्

प्राक्शिरस्कमधःसूत्रं पिंडिकां चास्य पश्चिमे  १३

सर्वमंगलसंयुक्तं लिंगं तत्राधिवासयेत्

पंचरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा  १४

विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत्

संपूज्योत्सवमार्गेण शयनालयमानयेत्  १५

तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः

शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात्  १६

ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले

शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत्  १७

वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः

तस्य पश्चिमतश्चापि चंडिकापद्ममालिखेत्  १८

क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा

प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत्  १९

तत्र लिंगं समानीय सर्वमंगलनिःस्वनैः

रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः  २०

सह पिंडिकयावेष्ट्य शाययेच्च यथा पुरा

पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम्  २१

विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्द्धनीम्

परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः  २२

ते चाष्टमूर्त्तयः कल्प्याः पूर्वादिपरितः स्थिताः

चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः  २३

जुहुयुस्ते विरंच्याद्याश्चतस्रो मूर्तयः स्मृताः

दैशिकः प्रथमं तेषामैशान्यां पश्चिमेऽथ वा  २४

प्रधानहोमं कुर्वीत सप्तद्र व्यैर्यथाक्रमम्

आचार्य्यात्पादमर्द्धं वा जुहुयुश्चापरे द्विजाः  २५

प्रधानमेकमेवात्र जुहुयादथ वा गुरुः

पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम्  २६

मूर्ध्नि मूलेन लिंगस्य शिवहस्तं प्रविन्यसेत्

शतमर्द्धं तदर्द्धं वा क्रमाद्द्रव्यैश्च सप्तभिः  २७

हुत्वाहुत्वा स्पृशेल्लिंगं वेदिकां च पुनः पुनः

पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम्  २८

आचार्यात्पादमर्द्धं वा होतृ-णां स्थपतेरपि

तदर्द्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः  २९

ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च

मृदंभसा पंचगव्यैः पुनः शुद्धजलेन च  ३०

शोधितां चंदनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत्

करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः  ३१

हरितालादिधातूंश्च बीजगंधौषधैरपि

शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि  ३२

प्रतिलिंगं तु संस्थाप्य क्षीरं वृक्षसमुद्भवम्

स्थितं बुद्ध्वा तदुत्सृज्य लिंगं ब्रह्मशिलोपरि  ३३

प्रागुदक्प्रवरां किंचित्स्थापयेन्मूलविद्यया

पिंडिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन्  ३४

बन्धनं बंधकद्र व्यैः कृत्वा स्थानं विशोध्य च

दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः  ३५

यथायोग्यं निषेकादि लिंगस्य पुरतस्तदा

आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात्  ३६

महापूजामथारभ्य संपूज्य कलशान्दश

शिवमंत्रमनुस्मृत्य शिवकुंभजलांतरे  ३७

अंगुष्ठानामिकायोगादादाय तमुदीरयेत्

न्यसेदीशानभागस्य मध्ये लिंगस्य मंत्रवित्  ३८

शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम्

लिण्गमूले शिवजलैस्ततो लिंगं निषेचयेत्  ३९

वर्द्धन्यां पिंडिकालिंगं विद्येशकलशैः पुनः

अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत्  ४०

कृत्वा पंचकलान्यासं दीप्तं लिंगमनुस्मरेत्

आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदण्मुखः  ४१

वृषाधिराजमारुह्य विमानं वा नभस्तलात्

अलंकृतं सहायांतं देव्या देवमनुस्मरन्

सर्वाभरणशोभाढ्यं सर्वमंगलनिस्वनैः  ४२

ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः

आनंदक्लिन्नसर्वांगैर्विन्यस्तांजलिमस्तकैः  ४३

स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम्

ततः पंचोपचारांश्च कृत्वा पूजां समापयेत्  ४४

नातः परतरः कश्चिद्विधिः पञ्चोपचारकात्

प्रतिष्ठां लिंगवत्कुर्यात्प्रतिमास्वपि सर्वतः  ४५

लक्षणोद्धारसमये कार्यं नयनमोचनम्

जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम्  ४६

कुम्भोदशायितां मंत्रैर्हृदि तां सन्नियोजयेत्

कृतालयां परामाहुः प्रतिष्ठामकृतालयात्  ४७

शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत्

अशक्तश्चेत्प्रतिष्ठाप्य लिंगं बेरमथापि वा  ४८

शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम्

गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम्  ४९

कृत्वा कनीयसंबेरं लिंगं वा लक्षणान्वितम्

अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने  ५०

देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत्

विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च  ५१

परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत्

पंच ब्रह्माणि तद्बीजैस्तेषु पंचसु पंचभिः  ५२

न्यस्य संपूज्य मुद्रा दि दर्शयित्वाभिरक्ष्य च

विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा  ५३

स्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने

निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः  ५४

समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम्

कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया  ५५

ततः पंचकलान्यासं कृत्वा पूजां च पूर्ववत्

नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम्  ५६

एकमेवाथ वा कुंभं मूर्तिमन्त्रसमन्वितम्

न्यस्य पद्मांतरे सर्वं शेषं पूर्ववदाचरेत्  ५७

अत्यंतोपहतं लिंगं विशोध्य स्थापयेत्पुनः

संप्रोक्षयेदुपहतमनागुपहतं यजेत्  ५८

लिंगानि बाणसंज्ञानि स्थापनीयानि वा न वा

तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः  ५९

शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत्

स्वयमुद्भूतलिंगे च दिव्ये चार्षे तथैव च  ६०

अपीठे पीठमावेश्य कृत्वा संप्रोक्षणं विधिम्

यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते  ६१

दग्धं श्लथं क्षतांगं च क्षिपेल्लिंगं जलाशये

संधानयोग्यं संधाय प्रतिष्ठाविधिमाचरेत्  ६२

बेराद्वा विकलाल्लिंगाद्देवपूजापुरस्सरम्

उद्वास्य हृदि संधानं त्यागं वा युक्तमाचरेत्  ६३

एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम्

द्विरात्रे च महापूजां संप्रोक्षणमतः परम्  ६४

मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते

प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्संप्रोक्षणक्रमः  ६५

संप्रोक्षणे तु लिंगादेर्देवमुद्वास्य पूर्ववत्

अष्टपञ्चक्रमेणैव स्नापयित्वा मृदंभसा  ६६

गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च

प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम्  ६७

सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके

पंचवारं जपेन्मूलमष्टोत्तरशतं ततः  ६८

ततो मूलेन मूर्द्धादिपीठांतं संस्पृशेदपि

पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत्  ६९

अलब्धे स्थापिते लिंगे शिवस्थाने जलेऽथ वा

वह्नौ रवौ तथा व्योम्नि भगवंतं शिवं यजेत्  ७०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्ततिष्ठाविधिवर्णनं नाम षट्त्रिंशोऽध्यायः  ३६

अध्याय ३७

शीकृष्ण उवाच

ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात्

उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया  १

इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम्

साधिकारं च सांगं च सविधिं सप्रयोजनम्  २

यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः

सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः  ३

तच्च तत्कारणं चैव तत्कालकरणानि च

तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः  ४

उपमन्युरुवाच

स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना

ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः  ५

निरुद्धवृत्त्यंतरस्यं शिवे चित्तस्य निश्चला

या वृत्तिः स समासेन योगः स खलु पंचधा  ६

मंत्रयोगःस्पर्शयोगो भावयोगस्तथापरः

अभावयोगस्सर्वेभ्यो महायोगः परो मतः  ७

मंत्राभ्यासवशेनैव मंत्रवाच्यार्थगोचरः

अव्याक्षेपा मनोवृत्तिर्मंत्रयोग उदाहृतः  ८

प्राणायाममुखा सैव स्पर्शे योगोभिधीयते

स मंत्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः  ९

विलीनावयवं विश्वं रूपं संभाव्यते यतः

अभावयोगः संप्रोक्तोऽनाभासाद्वस्तुनः सतः  १०

शिवस्वभाव एवैकश्चिंत्यते निरुपाधिकः

यथा शैवमनोवृत्तिर्महायोग इहोच्यते  ११

दृष्टे तथानुश्रविके विरक्तं विषये मनः

यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित्  १२

विषयद्वयदोषाणां गुणानामीश्वरस्य च

दर्शनादेव सततं विरक्तं जायते मनः  १३

अष्टांगो वा षडंगो वा सर्वयोगः समासतः

यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम्  १४

प्राणायामः प्रत्याहारो धारणा ध्यानमेव च

समाधिरिति योगांगान्यष्टावुक्तानि सूरिभिः  १५

आसनं प्राणसंरोधः प्रत्याहारोथ धारणा

ध्यानं समाधिर्योगस्य षडंगानि समासतः  १६

पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम्

शिवागमेषु चान्येषु विशेषात्कामिकादिषु  १७

योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः

यम इत्युच्यते सद्भिः पंचावयवयोगतः  १८

शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च

इति पंचप्रभेदस्स्यान्नियमः स्वांशभेदतः  १९

स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम्

पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा  २०

प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम्

तद्रो चकं पूरकं च कुंभकं च त्रिधोच्यते  २१

नासिकापुटमंगुल्या पीड्यैकमपरेण तु

औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः  २२

बाह्येन मरुता देहं दृतिवत्परिपूरयेत्

नासापुटेनापरेण पूरणात्पूरकं मतम्  २३

न मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम्

संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक  २४

रेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम्

तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः  २५

रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः

स्वेच्छोत्क्रमणपर्यंतः प्रोक्तो योगानुशासने  २६

कन्यकादिक्रमवशात्प्राणायामनिरोधनम्

तच्चतुर्द्धोपदिष्टं स्यान्मात्रागुणविभागतः  २७

कन्यकस्तु चतुर्द्धा स्यात्स च द्वादशमात्रकः

मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः  २८

उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः

स्वेदकंपादिजनकः प्राणायामस्तदुत्तरः  २९

आनंदोद्भवरोमांचनेत्राश्रूणां विमोचनम्

जल्पभ्रमणमूर्च्छाद्यं जायते योगिनः परम्  ३०

जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम्

अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता  ३१

मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः

नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत्  ३२

अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः

जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात्  ३३

अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः

तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम्  ३४

प्राणस्य विजयादेव जीयंते देह १वायवः

प्राणोऽपानः समानश्च ह्युदानो व्यान एव च  ३५

नागः कूर्मश्च कृकलो देवदत्तो धनंजयः

प्रयाणं कुरुते यस्मात्तस्मात्प्राणोऽभिधीयते  ३६

अवाण्नयत्यपानाख्यो यदाहारादि भुज्यते

व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन्  ३७

उद्वेजयति मर्माणीत्युदानो वायुरीरितः

समं नयति सर्वांगं समानस्तेन गीयते  ३८

उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः

कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे  ३९

न जहाति मृतं चापि सर्वव्यापी धनंजयः

क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान्  ४०

निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति

प्राणे तु विजिते सम्यक् तच्चिह्नान्युपलक्षयेत्  ४१

विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते

बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा  ४२

लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम्

सर्वरोगक्षयश्चैव बलं तेजः सुरूपता  ४३

धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता

तपांसि पापक्षयता यज्ञदानव्रतादयः  ४४

प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम्

इन्द्रि याणि प्रसक्तानि यथास्वं विषयेष्विह  ४५

आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते

नमःपूर्वाणींद्रि याणि स्वर्गं नरकमेव च  ४६

निगृहीतनिसृष्टानि स्वर्गाय नरकाय च

तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः  ४७

इंद्रि याश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत्

धारणा नाम चित्तस्य स्थानबन्धस्समासतः  ४८

स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः

कालं कंचावधीकृत्य स्थानेऽवस्थापितं मनः  ४९

न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा

मनसः प्रथमं स्थैर्यं धारणातः प्रजायते  ५०

तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः

ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः  ५१

अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते

ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः  ५२

प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते

सर्वमन्यत्परित्यज्य शिव एव शिवंकरः  ५३

परो ध्येयोऽधिदेवेशः समाप्ताथर्वणी श्रुतिः

तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ  ५४

तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ

सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः  ५५

विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम्

इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम्  ५६

ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम्

एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित्  ५७

ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः

निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः  ५८

जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत्

जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति  ५९

धारणा द्वादशायामा ध्यानं द्वादशधारणम्

ध्यानद्वादशकं यावत्समाधिरभिधीयते  ६०

समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम्

समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते  ६१

यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम्

स्वरूपशून्यवद्भानं समाधिरभिधीयते  ६२

ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम्

निर्वाणानलवद्योगी समाधिस्थः प्रगीयते  ६३

न शृणोति न चाघ्राति न जल्पति न पश्यति

न च स्पर्शं विजानाति न संकल्पयते मनः  ६४

नवाभिमन्यते किंचिद्बध्यते न च काष्टवत्

एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते  ६५

यथा दीपो निवातस्थः स्पन्दते न कदाचन

तथा समाधिनिष्ठोऽपि तस्मान्न विचलेत्सुधीः  ६६

एवमभ्यसतश्चारं योगिनो योगमुत्तमम्

तदन्तराया नश्यंति विघ्नाः सर्वे शनैःशनैः  ६७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशोऽध्यायः  ३७

अध्याय ३८

उपमन्युरुवाच

आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः

अनवस्थितचित्तत्वमश्रद्धा भ्रांतिदर्शनम्  १

दुःखानि दौर्मनस्यं च विषयेषु च लोलता

दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः  २

आलस्यमलसत्त्वं तु योगिनां देहचेतनोः

धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः  ३

प्रमादो नाम योगस्य साधना नाम भावना

इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः  ४

अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते

अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि  ५

विपर्यस्ता मतिर्या सा भ्रांतिरित्यभिधीयते

दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः  ६

आधिभौतिकमंगोत्थं यच्च दुःखं पुरा कृतैः

आधिदैविकमाख्यातमशन्यस्त्रविषादिकम्  ७

इच्छाविघातजं मोक्षं दौर्मनस्यं प्रचक्षते

विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता  ८

शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः

उपसर्गाः प्रवर्तंते दिव्यास्ते सिद्धिसूचकाः  ९

प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः

उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः  १०

सूक्ष्मे व्यवहितेऽतीते विप्रकृष्टे त्वनागते

प्रतिभा कथ्यते योऽर्थे प्रतिभासो यथातथम्  ११

श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः

वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम्  १२

दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः

तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते  १३

स्पर्शनाधिगमस्तद्वद्वेदना नाम विश्रुता

गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः  १४

संतिष्ठन्ते च रत्नानि प्रयच्छंति बहूनि च

स्वच्छन्दमधुरा वाणी विविधास्यात्प्रवर्तते  १५

रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा

सिध्यंति प्रणिपत्यैनं दिशंति सुरयोषितः  १६

योगसिद्ध्यैकदेशेऽपि दृष्टे मोक्षे भवेन्मतिः

दृष्टमेतन्मया यद्वत्तद्वन्मोक्षो भवेदिति  १७

कृशता स्थूलता बाल्यं वार्द्धक्यं चैव यौवनम्

नानाचातिस्वरूपं च चतुर्णां देहधारणम्  १८

पार्थिवांशं विना नित्यं सुरभिर्गन्धसंग्रहः

एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम्  १९

जले निवसनं चैव भूम्यामेवं विनिर्गमः

इच्छेच्छक्तः स्वयं पातुं समुद्र मपि नातुरः  २०

यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम्

विना कुम्भादिकं पाणौ जलसञ्चयधारणम्  २१

यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात्

रसादिकं भवेच्चान्यत्त्रयाणां देहधारणम्  २२

निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम्

तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम्  २३

शरीरादग्निनिर्माणं तत्तापभयवर्ज्जनम्

शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः  २४

स्थापनं वानलस्याऽप्सु पाणौ पावकधारणम्

दग्धे सर्गे यथापूर्व्वं मुखे चान्नादिपाचनम्

द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम्  २५

एतच्चतुर्विंशतिधा तैजसं परिचक्षते

मनोजवत्वं भूतानां क्षणादन्तःप्रवेशनम्  २६

पर्व्वतादिमहाभारधारणञ्चाप्रयत्नतः

गुरुत्वञ्च लघुत्वञ्च पाणावनिलधारणम्  २७

अंगुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम्

एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तैजसैः  २८

द्वात्रिंशद्गुणमैश्वर्य्यं मारुतं कवयो विदुः

छायाहीनविनिष्पत्तिरिन्द्रि याणामदर्शनम्  २९

खेचरत्वं यथाकाममिन्द्रि यार्थसमन्वयः

आकाशलंघनं चैव स्वदेहे तन्निवेशनम्  ३०

आकाशपिण्डीकरणमशरीरत्वमेव च

अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत्  ३१

ऐन्द्र मैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते

यथाकामोपलब्धिश्च यथाकामविनिर्गमः  ३२

सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम्

कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम्  ३३

संसारदर्शनं चैव भोगैरैन्द्रै स्समन्वितम्

एतच्चांद्र मसैश्वर्यं मानसं गुणतोऽधिकम्  ३४

छेदनं ताडनं चैव बंधनं मोचनं तथा

ग्रहणं सर्वभूतानां संसारवशवर्तिनाम्  ३५

प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा

आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते  ३६

एतच्चान्द्र मसैर्भोगैः षट्पञ्चाशद्गुणं महत्

सर्गः संकल्पमात्रेण त्राणं संहरणं तथा  ३७

स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम्

असादृश्यं च सर्वस्य निर्माणं जगतः पृथक्  ३८

शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम्

चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते  ३९

बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः

वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः

ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते  ४०

तत्पौरुषं च गौणं च गणेशं पदमैश्वरम्

विष्णुना तत्पदं किंचिज्ज्ञातुमन्यैर्न शक्यते  ४१

विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः

निरोद्धव्या प्रयत्नेन वर्राग्येण परेण तु  ४२

प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः

न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम्  ४३

तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम्

तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत्  ४४

अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः

यथाकामंगुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति  ४५

अथ प्रयोगं योगस्य वक्ष्ये शृणु समाहितः

शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः

विजने जंतुरहिते निःशब्दे बाधवर्जिते  ४६

सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते

मुक्तपुष्पसमाकीर्णे वितानादि विचित्रिते  ४७

कुशपुष्पसमित्तोयफलमूलसमन्विते

नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचयेऽपि वा  ४८

न दंशमशकाकीर्णे सर्पश्वापदसंकुले

न च दुष्टमृगाकीर्णे न भये दुर्जनावृते  ४९

श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे

नदीनदसमुद्रा णां तीरे रथ्यांतरेऽपि वा  ५०

न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निंदिते

नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते  ५१

नच्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते

न चातिचिंताकुलितो न चातिक्षुत्पिपासितः  ५२

नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत्

युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु  ५३

युक्तनिद्रा प्रबोधश्च सर्वायासविवर्जितः

आसनं मृदुलं रम्यं विपुलं सुसमं शुचि  ५४

पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च

अभिवंद्य स्वगुर्वंतानभिवाद्याननुक्रमात्  ५५

ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छिष्टलोचनः

किंचिदुन्नामितशिरा दंतैर्दंतान्न संस्पृशेत्  ५६

दंताग्रसंस्थिता जिह्वामचलां सन्निवेश्य च

पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः  ५७

ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः

दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि  ५८

उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः

संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्  ५९

संभृतप्राणसंचारः पाषाण इव निश्चलः

स्वदेहायतनस्यांतर्विचिंत्य शिवमंबया  ६०

हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत्

मूले नासाग्रतो नाभौ कंठे वा तालुरंध्रयोः  ६१

भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत्

परिकल्प्य यथान्यायं शिवयोः परमासनम्  ६२

तत्र सावरणं वापि निरावरणमेव वा

द्विदलेषोडशारे वा द्वादशारे यथाविधि  ६३

दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत्

भ्रुवोरंतरतः पद्मं द्विदलं तडिदुज्ज्वलम्  ६४

भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे

विद्युत्समानवर्णे च पर्णे वर्णावसानके  ६५

षोडशारस्य पत्राणि स्वराः षोडश तानि वै

पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः  ६६

ककारादिटकारांता वर्णाः पर्णान्यनुक्रमात्

भानुवर्णस्य पद्मस्य ध्येयं तद् १धृदयान्तरे  ६७

गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम्

अधो दलस्याम्बुजस्य एतस्य २ च दलानि षट्  ६८

विधूमांगारवर्णस्य वर्णा वाद्याश्च लान्तिमाः

मूलाधारारविंदस्य हेमाभस्य यथाक्रमम्

वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः  ६९

एतेष्वथारविंदेषु यत्रैवाभिरतं मनः

तत्रैव देवं देवीं च चिंतयेद्धीरया धिया  ७०

अंगुष्ठमात्रममलं दीप्यमानं समंततः

शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम्  ७१

इन्दुरेखासमाकारं तारारूपमथापि वा

नीवारशूकस्सदृशं बिससुत्राभमेव वा  ७२

कदम्बगोलकाकारं तुषारकणिकोपमम्

क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति  ७३

तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिंतयेत्

सदाशिवांता ब्रह्माद्यभवाद्याश्चाष्टमूर्तयः  ७४

शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः

घोरा मिश्रा प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः  ७५

फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः

घोराश्चेच्चिंतिताः कुर्युः पापरोगपरिक्षयम्  ७६

चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि

सौम्ये मुक्तिर्विशेषेण शांतिः प्रज्ञा प्रसिध्यति  ७७

सिध्यंति सिद्धयश्चात्र क्रमशो नात्र संशयः  ७८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे योगगतौ विघ्नोत्पत्तिवर्णनं नामाष्टत्रिंशोऽध्यायः  ३८

अध्याय ३९

उपमन्युरुवाच

श्रीकंठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः

प्रसिध्यंतीति मत्वैके तं वै ध्यायंति योगिनः  १

स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते

स्थूलं तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम्  २

शिवे तु चिंतिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः

मूर्त्यंतरेषु ध्यातेषु शिवरूपं विचिंतयेत्  ३

लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः

ध्यानमादौ सविषयं ततो निर्विषयं जगुः  ४

तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम्

बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते  ५

तेन निर्विषया बुद्धिः केवलेह प्रवर्तते

तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम्  ६

सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः

यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम्  ७

निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम्

निर्बीजं च सबीजं च तदेव ध्यानमुच्यते  ८

निराकारश्रयत्वेन साकाराश्रयतस्तथा

तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम्  ९

अंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये

प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात्  १०

शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम्

शमः सर्वापदां चैव शांतिरित्यभिधीयते  ११

तमसोऽन्तबहिर्नाशः प्रशान्तिः परिगीयते

बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते  १२

स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः

कारणानि च सर्वाणि सबाह्याभ्यंतराणि च  १३

बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत

ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम्

एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत्  १४

ज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः

श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः  १५

ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः  १६

योगाभ्यासस्तथाल्पेऽपि यथा पापं विनाशयेत्

ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम्  १७

अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते

बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलंबनम्

ध्येयमित्युच्यते सद्भिस्तच्च सांबः स्वयं शिवः  १९

विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम्

शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम्  २०

यस्मात्सौख्यं च मोक्षं च ध्यानादभयमाप्नुयात्

तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः  २१

नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः

ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः  २२

ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्ज्जितम्

योगाभ्यासेन युक्तस्य योगिनस्त्वेव सिध्यति  २३

प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः

पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा  २४

यथावह्निर्महादीप्तः शुष्कमाद्र रं! च निर्दहेत्

तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात्  २५

अत्यल्पोऽपि यथा दीपः सुमहन्नाशयेत्तमः

योगाभ्यासस्तथाल्पोऽपि महापापं विनाशयेत्  २६

ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम्

यद्भवेत्सुमहच्छ्रेयस्तस्यांतो नैव विद्यते  २७

नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः

नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत्  २८

तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान्

योगिनो न प्रपद्यंते स्वात्मप्रत्ययकारणात्  २९

योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम्

यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम्  ३०

यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः

तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः  ३१

बहिस्करा यथा लोके नातीव फलभोगिनः

दृष्ट्वा नरेन्द्र भवने तद्वदत्रापि कर्मिणः  ३२

यद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः

योगस्योद्योगमात्रेण रुद्र लोकं गमिष्यति  ३३

अनुभूय सुखं तत्र स जातो योगिनां कुले

ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्त्तते  ३४

जिज्ञासुरपि योगस्य यां गतिं लभते नरः

न तां गतिमवाप्नोति सर्वैरपि महामखैः  ३५

द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम्

भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने  ३६

यज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम्

योगिनामन्नदानेन तत्समस्तं फलं लभेत्  ३७

ये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम्

श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात्  ३८

सति श्रोतरि वक्तास्यादपवादस्य योगिनाम्

तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः

ये पुनः सततं भक्त्या भजंति शवयोगिनः  ३९

ते विदंति महाभोगानंते योगं च शांकरम्

भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः  ४०

प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः

योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः  ४१

वज्रतंदुलवज्ज्ञेयं तथा पापेन योगिनः

न लिप्यंते च तापौघैः पद्मपत्रं यथांभसा  ४२

यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः

सोऽपि देशो भवेत्पूतः सपूत इति किं पुनः  ४३

तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः

सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत्  ४४

सिद्धयोगफलो योगी लोकानां हितकाम्यया

भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम्  ४५

अथवा क्षुद्र मित्येव मत्वा वैषयिकं सुखम्

त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम्  ४६

यस्त्वासन्नां मृतिं मर्त्यो दृष्टारिष्टं च भूयसा

स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत्  ४७

स तत्र निवसन्नेव यदि धीरमना नरः

प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत्  ४८

कृत्वाप्यनशनं चैव हुत्वा चांगं शिवानले

क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात्  ४९

शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत्

सद्य एव विमुच्येत नात्र कार्या विचारणा २  ५०

रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः

म्रियते यदि सोप्येवं मुच्यते नात्र संशयः  ५१

यथा हि मरणं श्रेष्ठमुशंत्यनशनादिभिः

शास्त्रविश्रंभधीरेण मनसा क्रियते यतः  ५२

शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा

यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते  ५३

शिवनिन्दारतं हंतुमशक्तो यः स्वयं मृतः

सद्य एव प्रमुच्येत त्रिः सप्तकुलसंयुतः  ५४

शिवार्थे यस्त्यजेत्प्राणाञ्छिवभक्तार्थमेव वा

न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः  ५५

तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमंडलात्

एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा  ५६

षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि

पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम्  ५७

नैवाशौचं प्रपद्येत तत्पुत्रादिविशेषतः

शिवचारार्थमथवा शिवविद्यार्थमेव वा

खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना  ५८

क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत्

अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम्  ५९

कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत्

धनं तस्य भजेच्छैवः शैवी चेतस्य सन्ततिः

नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः  ६०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवयोगवर्णनं नामैकोनचत्वारिंशोऽध्यायः  ३९

अध्याय ४०

श्रीसूत उवाच

इति स विजितमन्योर्यादवेनोपमन्योरधिगतमभिधाय ज्ञानयोगं मुनिभ्यः

प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा सपदि वियति वायुः सायमन्तर्हितोऽभूत्  १

ततः प्रभातसमये नैमिषीयास्तपोधनाः

सत्रान्तेऽवभृथं कर्तुं सर्व एव समुद्ययुः  २

तदा ब्रह्मसमादेशाद्देवी साक्षात्सरस्वती

प्रसन्ना स्वादुसलिला प्रावर्तत नदीशुभा  ३

सरस्वतीं नदीं दृष्ट्वा मुनयो हृष्टमानसाः

समाप्य सत्रं प्रारब्धं चक्रुस्तत्रावगाहनम्  ४

अथ संतर्प्य देवादींस्तदीयैः सलिलैः शिवैः

स्मरन्तः पूर्ववृत्तान्तं ययुर्वाराणसीं प्रति  ५

तदा ते हिमवत्पादात्पंततीं दक्षिणामुखीम्

दृष्ट्वा भागीरथी तत्र स्नात्वा तत्तीरतो ययुः  ६

ततो वाराणसीं प्राप्य मुदितास्सर्व एव ते

तदोत्तरप्रवाहायां गंगायामवगाह्य च  ७

अविमुक्तेश्वरं लिंगं दृष्ट्वाभ्यर्च्य विधानतः

प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम्  ८

सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम्

आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम्  ९

अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः

मुनयोऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि  १०

तथा विलीयमानेषु तपस्विषु महात्मसु

सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत्  ११

तद्दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः

किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति  १२

प्रागेवैषां तु गमनात्पवनो लोकपावनः

दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः  १३

शद्धां बुद्धिं ततस्तेषां सांबे सानुचरे शिवे

समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम्  १४

विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये

स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति  १५

अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च

परस्पर स्पर्द्धितयोर्गाने विवदमानयोः  १६

तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन्

गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः  १७

तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः

मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन्  १८

अथ तुम्बुरुणा गाने समतां प्राप्य नारदः

साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना  १९

त्यक्त्वा परस्परस्पर्द्धां मैत्रीं च परमां गतः

सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः  २०

उपवीणयितुं देवं नकुलीश्वरमीश्वरम्

भवनान्निर्ययौ धातुर्जलदादंशुमानिव  २१

तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम्

प्रणम्यावसरं शंभोः पप्रच्छुः परमादरात्  २२

स चावसर एवायमितॐतर्गम्यतामिति

वदन्ययावन्यपरस्त्वरया परया युतः  २३

ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन्

तेन ते विविशुर्वेश्म पिंडीभूयांडजन्मनः  २४

प्रविश्य दूरतो देवं प्रणम्य भुवि दंडवत्

समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे  २५

तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः

वृत्तांतं वो मया ज्ञातं वायुरेवाह नो यतः  २६

भवद्भिः किं कृतं पश्चान्मारुतेंतर्हिते सति

इत्युक्तवति देवेशे मुनयोऽवभृथात्परम्  २७

गंगातीर्थेस्य गमनं यात्रां वाराणसीं प्रति

दर्शनं तत्र लिंगानां स्थापितानां सुरेश्वरैः  २८

अविमुक्तेश्वरस्यापि लिंगस्याभ्यर्चनं सकृत्

आकाशे महतस्तस्य तेजोराशेश्च दर्शनम्  २९

मुनीनां विलयं तत्र निरोधं तेजसस्ततः

याथात्म्यवेदनं तस्य चिंतितस्यापि चात्मभिः  ३०

सर्वं सविस्तरं तस्मै प्रणम्याहुर्मुहुर्मुहुः

मुनिभिः कथितं श्रुत्वा विश्वकर्मा चतुर्मुखः  ३१

कंपयित्वा शिरः किंचित्प्राह गंभीरया गिरा

प्रत्यासीदति युष्माकं सिद्धिरामुष्मिकी परा  ३२

भवद्भिर्दीर्घसत्रेण चिरमाराधितः प्रभुः

प्रसादाभिमुखो भूत इति भुतार्थसूचितम्  ३३

वाराणस्यां तु युष्माभिर्यद्दृष्टं दिवि दीप्तिमत्

तल्लिंगसंज्ञितं साक्षात्तेजो माहेश्वरं परम्  ३४

तत्र लीनाश्च मुनयः श्रौतपाशुपतव्रताः

मुक्ता बभूवुः स्वस्थाश्च नैष्ठिका दग्धकिल्बिषाः  ३५

प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि

स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा  ३६

तत्र वः काल एवैष दैवादुपनतः स्वयम्

प्रयात दक्षिणं मेरोः शिखरं देवसेवितम्  ३७

सनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः

प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः  ३८

पुरा सनत्कुमारोपि दृष्ट्वापि परमेश्वरम्

अज्ञानात्सर्वयोगीन्द्र मानी विनयदूषितः  ३९

अभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः

ततोऽपराधात्क्रुद्धेन महोष्ट्रो नंदिना कृतः  ४०

अथ कालेन महता तदर्थे शोचता मया

उपास्य देवं देवीञ्च नंदिनं चानुनीय वै  ४१

कथंचिदुष्ट्रता तस्य प्रयत्नेन निवारिता

प्रापितो हि यथापूर्वं सनत्पूर्वां कुमारताम्  ४२

तदाह च महादेवः स्मयन्निव गणाधिपम्

अवज्ञाय हि मामेव तथाहंकृतवान्मुनिः  ४३

अतस्त्वमेव याथात्म्यं ममास्मै कथयानघ

ब्रह्मणः पूर्वजः पुत्रो मां मूढ इव संस्मरन्  ४४

मयैव शिष्यते दत्तो मम ज्ञानप्रवर्तकः

धर्माध्यक्षाभिषेकं च तव निर्वर्त्तयिष्यति  ४५

स एवं व्याहृतो भूयस्सर्वभूतगणाग्रणीः

यत्पराज्ञापनं मूर्ध्ना प्रातः प्रतिगृहीतवान्  ४६

तथा सनत्कुमारोऽपि मेरौ मदनुशासनात्

प्रसादार्थं गणस्यास्य तपश्चरति दुश्चरम्  ४७

द्र ष्टव्यश्चेति युष्माभिः प्राग्गणेशसमागमात्

तत्प्रसादार्थमचिरान्नंदी तत्रागमिष्यति  ४८

इति सत्वरमादिश्य प्रेषिता विश्वयोगिना

कुमारशिखरं मेरोर्दक्षिणं मुनयो ययुः  ४९

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नैमिषर्षियात्रावर्णनं नाम चत्वारिंशोऽध्यायः  ४०

अध्याय ४१

सूत उवाच

तत्र स्कंदसरो नाम सरस्सागरसन्निभम्

अमृतस्वादुशिशिरस्वच्छा गाधलघूदकम्  १

समंततः संघटितं स्फटिको पलसंचयैः

सर्वर्तुकुसुमैः फुल्लैश्छादिताखिलदिण्मुखम्  २

शैवलैरुत्पलैः पद्मैः कुमुदैस्तारकोपमैः

तरंगैरभ्रसंकाशैराकाशमिव भूमिगम्  ३

सुखावतरणारोहैः स्थलैर्नीलशिलामयैः

सोपानमार्गौ रुचिरैश्शोभमानाष्टदिण्मुखम्  ४

तत्रावतीर्णैश्च यथा तत्रोत्तीर्णश्च भूयसा

स्नातैः सितोपवीतैश्च शुक्लाकौपीनवल्कलैः  ५

जटाशिखायनैर्मुंडैस्त्रिपुंड्रकृतमंडनैः

विरागविवशस्मेरमुखैर्मुनिकुमारकैः  ६

घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः

कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः  ७

आत्मार्थं च परार्थं च देवतार्थं विशेषतः

आनीयमानसलिलमात्तपुष्पं च नित्यशः  ८

अंतर्जलशिलारूढैर्नीचानां स्पर्शशंकया

आचारवद्भिर्मुनिभिः कृतभस्मांगधूसरैः  ९

इतस्ततोऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः

तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः  १०

देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम्

निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान्  ११

स्थानेस्थाने कृतानेकबलिपुष्पसमीरणैः

सौरार्घ्यपूर्वं कुर्वद्भिःस्थंडलेभ्यर्चनादिकम्  १२

क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम्

क्वचिच्च तृषयायातमृगीमृगतुरंगमम्  १३

क्वचित्पीतजनोत्तीर्णमयूरवरवारणम्

क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम्  १४

क्वचित्कारंडवरवैः क्वचित्सारसकूजितैः

क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः  १५

स्नानपानादिकरणैः स्वसंपद्द्रुमजीविभिः

प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत्  १६

कूलशाखिशिखालीनकोकिलाकुलकूजितैः

आतपोपहतान्सर्वान्नामंत्रयदिवानिशम्  १७

उत्तरे तस्य सरसस्तीरे कल्पतरोरधः

वेद्यां वज्रशिलामय्यां मृदुले मृगचर्मणि  १८

सनत्कुमारमासीनं शश्वद्बालवपुर्द्धरम्

तत्कालमात्रोपरतं समाधेरचलात्मनः  १९

उपास्यमानं मुनिभिर्योगींद्रै रपि पूजितम्

ददृशुर्नैमिषेयास्ते प्रणताश्चोपतस्थिरे  २०

यावत्पृष्टवते तस्मै प्रोचुः स्वागतकारणम्

तुमुलः शुश्रुवे तावद्दिवि दुंदुभिनिस्वनः  २१

ददृशे तत्क्षणे तस्मिन्विमानं भानुसन्निभम्

गणेश्वरैरसंख्येयैः संवृतं च समंततः  २२

अप्सरोगणसंकीर्णं रुद्र कन्याभिरावृतम्

मृदंगमुरजोद्घुष्टं वेणुवीणारवान्वितम्  २३

चित्ररत्नवितानाढ्यं मुक्तादामविराजितम्

मुनिभिस्सिद्धगंधर्वैर्यक्षचारणकिन्नरैः  २४

नृत्यद्भिश्चैव गायद्भिर्वादयद्भिश्च संवृतम्

वीरगोवृषचिह्नेन विद्र मद्रुमयष्टिना  २५

कृतगोपुरसत्कारं केतुना मान्यहेतुना

तस्य मध्ये विमानस्य चामरद्वितयांतरे  २६

छत्त्रस्य मणिदंडस्य चंद्र स्येव शुचेरधः

दिव्यसिंहासनारूढं देव्या सुयशया सह  २७

श्रिया च वपुषा चैव त्रिभिश्चापि विलोचनैः

प्राकारैरभिकृत्यानां प्रत्यभिज्ञापकं प्रभोः  २८

अविलंघ्य जगत्कर्तुराज्ञापनमिवागतम्

सर्वानुग्रहणं शंभोः साक्षादिव पुरःस्थितम्  २९

शिलादतनयं साक्षाच्छ्रीमच्छूलवरायुधम्

विश्वेश्वरगणाध्यक्षं विश्वेश्वरमिवापरम्  ३०

विश्वस्यापि विधातृ-णां निग्रहानुग्रहक्षमम्

चतुर्बाहुमुदारांगं चन्द्र रेखाविभूषितम्  ३१

कंठे नागेन मौलौ च शशांकेनाप्यलंकृतम्

सविग्रहमिवैश्वर्यं सामर्थ्यमिव सक्रियम्  ३२

समाप्तमिव निर्वाणं सर्वज्ञमिव संगतम्

दृष्ट्वा प्रहृष्टवदनो ब्रह्मपुत्रः सहर्षिभिः  ३३

तस्थौ प्राञ्जलिरुत्थाय तस्यात्मानमिवार्पयन्

अथ तत्रांतरे तस्मिन्विमाने चावनिं गते  ३४

प्रणम्य दण्डवद्देवं स्तुत्वा व्यज्ञापयन्मुनीम्

षट्कुलीया इमे दीर्घं नैमिषे सत्रमास्थिताः

आगता ब्रह्मणादिष्टाः पूर्वमेवाभिकांक्षया  ३५

श्रुत्वा वाक्यं ब्रह्मपुत्रस्य नंदीछित्त्वा पाशान्दृष्टिपातेन सद्यः

शैवं धर्मं चैश्वरं ज्ञानयोगं दत्त्वा भूयो देवपार्श्वं जगाम  ३६

सनत्कुमारेण च तत्समस्तं व्यासाय साक्षाद्गुरवे ममोक्तम्

व्यासेन चोक्तं महितेन मह्यं मया च तद्वः कथितं समासात्  ३७

नावेदविद्भ्यः कथनीयमेतत्पुराणरत्नं पुरशासनस्य

नाभक्तशिष्याय च नास्तिकेभ्यो दत्तं हि मोहान्निरयं ददाति  ३८

मार्गेण सेवानुगतेन यैस्तद्दत्तं गृहीतं पठितं श्रुतं वा

तेभ्यः सुखं धर्ममुखं त्रिवर्गं निर्वाणमंते नियतं ददाति  ३९

परस्परस्योपकृतं भवद्भिर्मया च पौराणिकमार्ग्गयोगात्

अतो गमिष्येऽहमवाप्तकामः समस्तमेवास्तु शिवं सदा नः  ४०

सूते कृताशिषि गते मुनयः सुवृत्ता यागे च पर्यवसिते महति प्रयोगे

काले कलौ च विषयैः कलुषायमाणे वाराणसीपरिसरे वसतिं विनेतुः  ४१

अथ च ते पशुपाशमुमुक्षयाखिलतया कृतपाशुपतव्रताः

अधिकृताखिलबोधसमाधयः परमनिर्वृतिमापुरनिंदिताः  ४२

व्यास उवाच

एतच्छिवपुराणं हि समाप्तं हितमादरात्

पठितव्यं प्रयत्नेन श्रोतव्यं च तथैव हि  ४३

नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च

अभक्ताय महेशस्य तथा धर्मध्वजाय च  ४४

एतच्छ्रुत्या ह्येकवारं भवेत्पापं हि भस्मसात्

अभक्तो भक्तिमाप्नोति भक्तो भक्तिसमृद्धिभाक्  ४५

पुनः श्रुते च सद्भक्तिर्मुक्तिस्स्याच्च श्रुतेः पुनः

तस्मात्पुनःपुनश्चैव श्रोतव्यं हि मुमुक्षुभिः  ४६

पञ्चावृत्तिः प्रकर्तव्या पुराणस्यास्य सद्धिया

परं फलं समुद्दिश्य तत्प्राप्नोति न संशयः  ४७

पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः

सप्तकृत्वस्तदावृत्त्यालभन्त शिवदर्शनम्  ४८

श्रोष्यत्यथापि यश्चेदं मानवो भक्तितत्परः

इह भुक्त्वाखिलान्भोगानंते मुक्तिं लभेच्च सः  ४९

एतच्छिवपुराणं हि शिवस्यातिप्रियं परम्

भुक्तिमुक्तिप्रदं ब्रह्मसंमितं भक्तिवर्द्धनम्  ५०

एतच्छिवपुराणस्य वक्तुः श्रोतुश्च सर्वदा

सगणस्ससुतस्सांबश्शं करोतु स शंकरः  ५१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे व्यासोपदेशश्रीशिवमहापुराणमाहात्म्यवर्णनं नामैकचत्वारिंशोऽध्यायः  ४१

समाप्तोऽयं ग्रन्थः

Credits:

Source: Siva-Purana, Book 7, Parts 1 & 2 (Bombay: Venkateshvara Steam Press, 1920).

Data Entry and Proofing by Jun Takashima et al.

File conversion using Vedapad software by Ralph Bunker.

Formatted for Maharishi University of Management Vedic Literature Collection.

You cannot copy content of this page