श्रीचण्डिकास्तुतिः
श्रीचण्डिकास्तुतिः
विविक्ततरगोमतीजठरमध्यसिद्धाश्रमां
पुरोगतसरोवरस्फुरदगाधपाथश्छटाम् ।
विशालतलतुङ्गभूलुलितनिम्बमूलालयां
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ १॥
न लक्ष्यघटनाश्रयां न च विशेषवेश्मावहां
घटानुकृतिगोमतीवहनभाव्यमानास्पदाम् ।
नमज्जनमनोरथारचनचारुचिन्तामणिं
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ २॥
निरन्तरसमुल्लसत्कमलकीर्णपाथोजिनी
प्रतानघनसम्पदा कमपि सम्मदं तन्वतीम् ।
त्रिकोणसरसीमयीं, परिणतिं पुरो बिभ्रतीं,
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ३॥
अनुग्रहरसच्छटामिव सरःश्रियं यान्तिके
विकासयति, पद्मिनीदलसहस्रसन्दानिताम् ।
प्रतिक्षणसमुन्मिषत्प्रमदमेदुरां तामहं,
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ४॥
प्रचण्डयति विक्रमं, झटिति खण्डयत्यापदः
सुमण्डयति वाक्कलां, सदसि दण्डयत्युद्धतान् ।
करण्डयति रोदसी, गुणसमृद्धिभिर्या हि तां
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ५॥
श्रुताऽभिलषिता, मता, सुकलिता, समभ्यर्चिता
सुधापृषतवर्षिभिर्नवनवैर्वचोभिः स्तुता ।
जयाय खलु कल्पते बहुविधादृता, तामहं
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ६॥
इतस्तत उदित्वरव्रततिनद्धवृक्षावली
लुलद्विहगमण्डलीमधुररावसंसेविताम् ।
स्खलत्कुसुमसौरभप्रसरपूर्यमाणाश्रमां
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ७॥
द्विषत्कुलकृपाणिकां, कुटिलकालविध्वंसिकां,
विपद्वनकुठारिकां, त्रिविधदुःखनिर्वासिकाम् ।
कृपाकुसुमवाटिकां, प्रणतभारतीभासिकां,
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ८॥
ब्रह्माण्डाधिकदेहापि गोमतीतीरचङ्क्रमा ।
जयाय भजतां भूयाच्चण्डिका चण्डविक्रमा ॥ ९॥
इति दुर्गाप्रसादद्विवेदीविरचिता चण्डिकास्तुतिः समाप्ता ।
