श्रीदुर्गानामषोडशी
श्रीदुर्गानामषोडशी
दुर्गा नारायणीशाना विष्णुमाया शिवा सती ।
नित्या सत्या भगवती शर्वाणी सर्वमङ्गळा ।
अम्बिका वैष्णवी गौरी पार्वती च सनातनी ॥
एषा नाम्नां षोडशिका श्रीदुर्गायाः प्रियङ्करी ।
कीर्तनादाशु सुखदा सर्वोपद्रवनाशिनी ।
श्रीदुर्गाषोडशनामावलिः
ॐ दुर्गायै नमः ।
ॐ नारायण्यै नमः ।
ॐ ईशानायै नमः ।
ॐ विष्णुमायायै नमः ।
ॐ शिवायै नमः ।
ॐ सत्यै नमः ।
ॐ नित्यायै नमः ।
ॐ सत्यायै नमः ।
ॐ भगवत्यै नमः ।
ॐ शर्वाण्यै नमः ।
ॐ सर्वमङ्गळायै नमः ।
ॐ अम्बिकायै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ गौर्यै नमः ।
ॐ पार्वत्यै नमः ।
ॐ सनातन्यै नमः ।
इति श्रीदुर्गानामषोडशी समाप्ता ।
