सूर्यसूक्तम्
शुक्लयजुर्वेदसूर्यसूक्तम्
विभ्राड्बृहत्पिबतुसोम्म्यम्मध्वायुर्दधद्यज्ञपतावविह्रुतम् ।
वातजूतोयोऽभिरक्षतित्मनाप्रजाः पुपोषपुरुधाव्विराजति ॥ १॥
उदुत्त्यञ्जातवेदसन्देवमुदवंव्वहन्ति केतवः ॥
दृशेव्विश्वायसूर्यम् ॥ २ ॥
येनपावकचक्षसाभुरण्ण्यन्तन्जनाँ२ऽअनु
त्वं वरुण पश्यसि ॥ ३
दैव्यावद्ध्वर्यूऽआगत गुँ रथेन सूर्यत्वचा ॥
मद्ध्वायज्ञ गुँ समञ्जाथे ॥
तम्प्रत्क्नथायंव्वेनश्चित्रन्देवानाम् ॥ ४॥
तम्प्रत्नथापूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम् ॥
प्रतीचीनं वृजनं दोहसे धुनिमाशुं जयन्तमनुयासु वर्धसे ॥ ५॥
अयं वेनश्चोदयत्पृश्निगर्भाज्ज्योतिर्जरायुः रजसो विमाने ।
इममपां सङ्गमे सूर्यस्य शिशुं न विप्राः मतिभिः रिहन्ति ॥ ६॥
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ॥
आप्राद्यावापृथिवी अन्तरिक्षं सूर्य सूर्य आत्मा जगतस्तस्थुषश्च ॥ ७॥
आन इडाभिः विदथे सुशस्ति विश्वानरः सविता देव एतु ॥
अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥ ८ ॥
यदद्य कच्च वृत्रहन्नुदगा अभिसूर्य ॥
सर्वं तदिन्द्र ते वशे ॥ ९॥
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
विश्वमाभासि रोचनम् ॥ १०॥
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोः वितत सञ्जभार ॥
यदेदयुक्तहरितः सधस्थादाद्रात्रीवासस्तनुते सिमस्मै ॥ ११॥
तन्मित्रस्य वरुणस्याभिचक्षे सूर्योरूपं कृणुते द्योरुपस्थे ।
अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सम्भरन्ति ॥ १२॥
बण्महानसि सूर्य बडादित्य महानसि ॥
महस्ते सतो महिमा पनस्यतेऽद्धा देव महानसि ॥ १३॥
बट्सूर्य्य श्रवसा महानसि सत्रादेव महानसि ।
मन्हा देवानामसुर्यः पुरोहितो विभुज्योतिरदाभ्यम् ॥ १४॥
श्रायन्त इव॒सूर्य विश्वेदिन्द्रस्य भक्षत ॥
वसूनिजाते जनमाने ओजसा प्रतिभागं न दीधिम ॥ १५॥
अद्य देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात्
तन्नो मित्रो वरुणो मां महन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १६॥
आकृष्णेन रजसाऽऽवर्तमानो निवेशयन्नमृतं मर्त्यञ्च ॥
हिरण्ययेन सविता रथेन देव आयाति भुवनानि पश्यन् ॥ १७॥
शुक्लयजुर्वेद सूर्यसूक्तम्
