सष्टाङ्ग दण्डवत्
ओम् भगवन्नाशयणाभिमतानुरूप स्वरूपरूप
गुणविभव ऐश्वर्य शीलादि अनवधिकातिशय
असंख्येय कल्याणगुणगणां पद्मवनालयां
भगवतीं श्रियं देवीं नित्यानपायिनीं
निरवद्यां देवदेवदिव्यमहिषीम्
अखिलजगन्मातरम्
अस्मन्मातरम्
अशरण्यशरण्याम्
अनन्यशरण:
शरणमहं
प्रपद्ये ।।
