श्रीविष्णो: षोडशनामस्तोत्रम्

औषधे चिंतयेद् विष्णुं भोजने च प्रजापतिम्।
शयने पद्मनाभं च विवाहे च प्रजापतिम्।।

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम्।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे।।

दुस्स्वप्ने स्मर गोविंदं संकटे-मधुसूदनम्।
कानने नारसिंहं च पावके जलशायिनम्।।

जलमध्ये वराहं च पर्वते रघुनंदनम्।
गमने वामनं चैव सर्वकालेषु माधवम्।।

षोडशैतानि नामानि प्रातरुत्थाय यः पठेत्।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते।।

You cannot copy content of this page