श्रीचण्डिका नवाक्षरी त्रिशतीनामावलिः
श्रीचण्डिका नवाक्षरी त्रिशतीनामावलिः
ॐ ऐङ्कारपीठमध्यस्थायै नमः
ॐ ऐङ्कारासनसुस्थितायै नमः
ॐ ऐङ्कारजपसन्तुष्टायै नमः
ॐ ऐङ्कारजपसौख्यदायै नमः
ॐ ऐङ्कारमोहनपरायै नमः
ॐ ऐङ्काराभरणोज्ज्वलायै नमः
ॐ ऐङ्काररूपायै नमः
ॐ ऐङ्कार्यै नमः
ॐ ऐङ्कारवरवर्णिन्यै नमः
ॐ ऐङ्कारकल्पवृक्षस्थायै नमः
ओं ऐङ्काराम्बुजलोचनायै नमः
ॐ ऐङ्कारवाच्यायै नमः
ॐ ऐङ्कारपूज्यायै नमः
ॐ ऐङ्कारपङ्कजायै नमः
ॐ ऐङ्कारकाननावासायै नमः
ॐ ऐङ्कारगिरिरूपिण्यै नमः
ॐ ऐङ्कारकन्दरासिंह्यै नमः
ॐ ऐङ्काराक्षरशोभितायै नमः
ॐ ऐङ्काराब्जसमासीनायै नमः
ॐ ऐङ्कारमुख्यमण्डलायै नमः
ॐ ऐङ्कारारण्यहरिण्यै नमः
ॐ ऐङ्कारामृतवर्षिण्यै नमः
ॐ ऐङ्कारकमलावासायै नमः
ॐ ऐङ्कारोद्यानवासिन्यै नमः
ॐ ऐङ्कारवन्दितपदायै नमः
ॐ ऐङ्कारवरदायिन्यै नमः
ॐ ऐङ्कारामृतसन्धात्र्यै नमः
ॐ ऐङ्कारामृतपायिन्यै नमः
ॐ ऐङ्कारारण्यसञ्चारायै नमः
ॐ ऐङ्काराश्रयविराजितायै नमः
ॐ ऐङ्कारमन्त्रसञ्जप्यायै नमः
ॐ ऐङ्कारजपसिद्धिदायै नमः
ॐ ऐङ्कारनन्दनोद्यानकुसुमोज्ज्वलमूर्धजायै नमः
ॐ ह्रीङ्कारमन्त्रसमवासायै नमः
ॐ ह्रीङ्कारकुसुमशोभितायै नमः
ॐ ह्रीङ्काररूपायै नमः
ॐ ह्रीङ्कार्यै नमः
ॐ ह्रीङ्काराम्बुजमध्यगायै नमः
ॐ ह्रीङ्कारपूजनप्रीतायै नमः
ॐ ह्रीङ्काराक्षररूपिण्यै नमः
ॐ ह्रीङ्काराक्षरसञ्जप्यायै नमः
ॐ ह्रीङ्कारारण्यवल्लर्यै नमः
ॐ ह्रीङ्कारमणिभूषाढ्यायै नमः
ॐ ह्रीङ्कारारामशोभितायै नमः
ॐ ह्रीङ्कारजपसुप्रीतायै नमः
ॐ ह्रीङ्कारकमलोज्ज्वलायै नमः
ॐ ह्रीङ्कारशिखिसंरूढायै नमः
ॐ ह्रीङ्कारानन्ददायिन्यै नमः
ॐ ह्रीङ्कारगिरिसम्भूतायै नमः
ॐ ह्रीङ्कारगिरिवासिन्यै नमः
ॐ ह्रीङ्कारोद्यानपीठस्थायै नमः
ॐ ह्रीङ्कारवरदायिन्यै नमः
ॐ ह्रीङ्काररञ्जनपरायै नमः
ॐ ह्रीङ्कारादर्शबिम्बितायै नमः
ॐ ह्रीङ्काररोद्यानसंशोभायै नमः
ॐ ह्रीङ्कारारण्यवासिन्यै नमः
ॐ ह्रीङ्कारविलसद्रूपायै नमः
ॐ ह्रीङ्कारादित्यभास्वरायै नमः
ॐ ह्रीङ्कारेन्दुकलाधर्यै नमः
ॐ ह्रीङ्कारशशिमण्डलायै नमः
ॐ ह्रीङ्कारनादरसिकायै नमः
ॐ ह्रीङ्कारास्वादभृङ्गिकायै नमः
ॐ ह्रीङ्कारवापिकाहंस्यै नमः
ॐ ह्रीङ्कारालापकोकिलायै नमः
ॐ ह्रीङ्कारोज्ज्वलसर्वाङ्ग्यै नमः
ॐ ह्रीङ्कारमधुमत्तायै नमः
ॐ क्लीङ्कारपद्मनिलयायै नमः
ॐ क्लीङ्कारहृदयस्थितायै नमः
ॐ क्लीङ्कारबिम्बसंशोभायै नमः
ॐ क्लीङ्काराह्लादचन्द्रिकायै नमः
ॐ क्लीङ्कारानन्दसन्धात्र्यै नमः
ॐ क्लीङ्कारमणिमण्डपायै नमः
ॐ क्लीङ्कारपीठमध्यस्थायै नमः
ॐ क्लीङ्कारपारसौख्यदायै नमः
ॐ क्लीङ्कारसौधमध्यस्थायै नमः
ॐ क्लीङ्कारतिलकोज्ज्वलायै नमः
ॐ क्लीङ्कारामोदहृदयायै नमः
ॐ क्लीङ्कारविजयप्रदायै नमः
ॐ क्लीङ्कारबीजसर्वस्वायै नमः
ॐ क्लींस्थितायै नमः
ॐ क्लीन्निवासिन्यै नमः
ॐ क्लीङ्कारसाधकपरायै नमः
ॐ क्लीङ्कारकलुषापहायै नमः
ॐ क्लीङ्कारपुष्टिसन्धात्र्यै नमः
ॐ क्लीङ्कारकमलासनायै नमः
ॐ क्लीङ्कारपद्मसंवासायै नमः
ॐ क्लीङ्कारमधुपायिन्यै नमः
ॐ क्लीङ्कारचापहस्ताढ्यायै नमः
ॐ क्लीङ्कारेषुसुबाहुकायै नमः
ॐ क्लीङ्कारकुसुममध्यस्थायै नमः
ॐ क्लीङ्कारकुसुमशोभितायै नमः
ॐ क्लीङ्कारमधुरालापायै नमः
ॐ क्लीङ्काराङ्कुशशोभितायै नमः
ॐ क्लीङ्कारपद्महस्ताढ्यायै नमः
ॐ क्लीङ्कारमधुवापिकायै नमः
ॐ क्लीङ्कारहतदैत्यौघायै नमः
ॐ क्लीङ्कारोत्पलमालिकायै नमः
ॐ क्लीङ्कारानलसन्दग्धदुष्टदैत्यसमूहिकायै नमः
ॐ क्लीङ्कारनन्दनोद्यानमणिमण्डपशोभितायै नमः
ॐ चापबाणलसद्धस्तायै नमः
ॐ चारुचन्द्रकलाधरायै नमः
ॐ चाम्पेयकुसुमप्रीतायै नमः
ॐ चारुनूपुरशोभितायै नमः
ॐ चारुरूपायै नमः
ॐ चारुहासायै नमः
ॐ चराचरनिवासिन्यै नमः
ॐ चातुर्वर्ण्यसमाराध्यायै नमः
ॐ चारुशुभ्रसुशोभितायै नमः
ॐ चारुकुसुमाकारनासादण्डविराजितायै नमः
ॐ चामरद्वयसंवीज्यलक्ष्मीवाणीसुशोभितायै नमः
ॐ चारुदन्तायै नमः
ॐ चारुजिह्वायै नमः
ॐ चारुकुण्डलशोभितायै नमः
ॐ चारुदेहायै नमः
ॐ चारुकण्ठायै नमः
ॐ चारुहस्तायै नमः
ॐ चतुर्भुजायै नमः
ॐ चारुपादायै नमः
ॐ चारुजङ्घायै नमः
ॐ चारुवक्षोजयुग्मायै नमः ॥॥वक्षोरुयुग्मायै इस् अल्सो चोर्रेच्त् छन् बे शोव्न् अस् वर्
ॐ चारुवक्षायै नमः
ॐ चारुनासायै नमः
ॐ चारुजघनोज्ज्वलायै नमः
ॐ चारुपृष्ठायै नमः
ॐ चारुकट्यै नमः
ॐ चारुपार्श्वद्वयोज्ज्वलायै नमः
ॐ चारुनेत्रायै नमः
ॐ चारुकर्णायै नमः
ॐ चारुनेत्रललाटिकायै नमः
ॐ चारुकेश्यै नमः
ॐ चारुमूर्त्यै नमः
ॐ चारुसर्वाङ्घसुन्दर्यै नमः
ॐ मुण्डसेनामहासङ्घनादविमोहितायै नमः
ॐ मुण्डसेनामहावेगगर्जनस्तम्भकारिण्यै नमः
ॐ मुण्डसेनापतीसङ्घज्याशब्दपरिमोहितायै नमः
ॐ मुण्डसेनापतीव्रातविनाशनसमुत्सुकायै नमः
ॐ मुण्डासुरचमूसङ्घघण्टाजयघोषमूर्छितायै नमः
ॐ मुण्डासुरचमूघोषस्वशब्दविनिवारिण्यै नमः
ॐ मुण्डजल्पवशोत्साहदैत्यसैन्यसमुत्सुकायै नमः
ॐ मुण्डासुरवधोद्युक्तखड्गहस्तसुशोभितायै नमः
ॐ मुण्डासुरमहायुद्धसंस्तम्भितमहासुरायै नमः
ॐ मुण्डदूषितशक्त्यौघदैत्यसङ्घविदारितायै नमः
ॐ मुण्डकोपप्रज्वलितभीतदेवसमुत्सुकायै नमः
ॐ मुण्डासुरमहायुद्धदेववाद्यसुघोषितायै नमः
ॐ मुण्डासुरवधोत्साहदेवदुन्दुभिघोषितायै नमः
ॐ मुण्डासुरमहायुद्धपटहानद्धदैत्यगायै नमः
ॐ मुण्डासुरशिरोगृह्यखड्गपातनिकृन्तन्यै नमः
ॐ मुण्डासुरशिरोगृह्यहस्तकन्दुकक्रीडनोत्सुकायै नमः
ॐ मुण्डासुरशिरोहस्तसन्तुष्टसुरसैनिकायै नमः
ॐ मुण्डासुरहतप्राप्तदैत्यसङ्घप्ररोचिन्यै नमः
ॐ मुण्डासुरशिरोहस्तविभ्रामितदिगम्बरायै नमः
ॐ मुण्डासुरशिरोहस्तदैत्यसङ्घविभीषितायै नमः
ॐ मुण्डासुरशिरस्रावरक्तवस्त्रसमुज्ज्वलायै नमः
ॐ मुण्ड मुण्ड सुसन्दृष्ट दैत्यसैन्यपलायितायै नमः
ॐ मुण्डमालालसत्कण्ठलम्बजिह्वासुनर्तन्यै नमः
ॐ मुण्डवस्त्रपरीधानसुशोभितशरीरिण्यै नमः
ॐ मुण्डदैत्यवधोत्साहमुनिसङ्घसमुत्सुकायै नमः
ॐ मुण्डदैत्यवधोत्साहदेवसंस्तुतवैभवायै नमः
ॐ मुण्डदैत्यशिरछेत्र्यै नमः
ॐ मुण्डिन्यै नमः
ॐ मुण्डरूपिण्यै नमः
ॐ मुण्ड्यै नमः
ॐ मुण्डमथन्यै नमः
ॐ मुण्डोज्ज्वलसुशोभितायै नमः
ॐ मुण्डासुरवधोत्पन्नदेवऋषिगणतोषितायै नमः
ॐ डमरोत्कटसन्नद्धायै नमः
ॐ डाकिनीगणसेवितायै नमः
ॐ डमर्वङ्कुशहस्ताढ्यायै नमः
ॐ डाकिनीगणपूजितायै नमः
ॐ डम्बरयुक्तजनोत्साहायै नमः
ॐ डम्बरयुक्तविगर्हितायै नमः
ॐ डाडिमीकुसुमसङ्काशायै नमः
ॐ डाडिमीफलसुप्रियायै नमः
ॐ डकारशोभितमनवे नमः
ॐ डम्बिकायै नमः
ॐ डामरोत्सुकायै नमः
ॐ डामर्यै नमः
ॐ डम्बरहितायै नमः
ॐ डम्बाडम्बसमुत्सुकायै नमः
ॐ डमरुवाद्यसुसंप्रीत्यै नमः
ॐ डमरुहस्तसखीजनायै नमः
ॐ डमरोत्कटसन्नादायै नमः
ॐ डमरुध्वनिसङ्कुलायै नमः
ॐ डमरुध्वनिसंस्तम्भितदैत्यसङ्घविराजितायै नमः
ॐ डकारविलसन्मन्त्रायै नमः
ॐ डकारपरमार्थदायै नमः
ॐ डकारमन्त्रसर्वस्वायै नमः
ॐ डकारहतकिल्बिषायै नमः
ॐ डकारहतदैत्यौघायै नमः
ॐ डकारगिरिसुप्रियायै नमः
ॐ डकाराक्षरसुप्रीतायै नमः
ॐ डकारामोददायिन्यै नमः
ॐ डम्बासुरसुसंहन्त्र्यै नमः
ॐ डम्बाडम्बविवर्जितायै नमः
ॐ डकारहतपापौघायै नमः
ॐ डकारपरसौख्यदायै नमः
ॐ डकारपूजनप्रीतायै नमः
ॐ डकारोज्ज्वलमध्यगायै नमः
ॐ यैङ्काराक्षरसम्पूज्यायै नमः
ॐ यैङ्काराक्षरशोभितायै नमः
ॐ यैङ्कारक्षरशोभितमनसे नमः
ॐ यैङ्कारतरुवासिन्यै नमः
ॐ यैङ्कारगिरिसम्भवायै नमः
ॐ यैङ्कारगुहसंस्थितायै नमः
ॐ यैङ्कारसिंहसंवाहायै नमः
ॐ यैङ्काराक्षरसुस्थिरायै नमः
ॐ यैङ्काराक्षरसुप्रीतायै नमः
ॐ यैङ्कारमनुमध्यगायै नमः
ॐ यैङ्कारमनुमध्यस्थायै नमः
ॐ यैङ्काराक्षरसुप्रियायै नमः
ॐ यैङ्कारविलसन्मन्त्रायै नमः
ॐ यैङ्काराक्षरभासुरायै नमः
ॐ यैङ्कारगजसंरूढायै नमः
ॐ यैङ्कारतुरगोज्ज्वलायै नमः
ॐ यैङ्कारविलसद्योगायै नमः
ॐ यैङ्काराह्लादकारिण्यै नमः
ॐ यैङ्काररथसंरूढायै नमः
ॐ यैङ्कारसुखसुप्तिकायै नमः
ॐ यैङ्काराक्षररूपिण्यै नमः
ॐ यैङ्कारपरमानन्दायै नमः
ॐ यैङ्कारपरमाक्षरायै नमः
ॐ यैङ्कारानन्दहृदयायै नमः
ॐ यैङ्कारपरसौख्यदायै नमः
ॐ यैङ्कारसुखसंसुप्तायै नमः
ॐ यैङ्कारायै नमः
ॐ यैङ्काररूपिण्यै नमः
ॐ यैङ्कारज्ञानसम्पन्नायै नमः
ॐ यैङ्कारपररूपिण्यै नमः
ॐ यैङ्कारसम्पदापत्यै नमः
ॐ यैङ्कारफलदायिन्यै नमः
ॐ यैङ्कारजपसौख्यदायै नमः
ॐ विज्ञानजनसन्तुष्टायै नमः
ॐ विज्ञानजनपूजितायै नमः
ॐ विज्ञानजनसुप्रीतायै नमः
ॐ विज्ञानजनसौख्यदायै नमः
ॐ विज्ञानपरमानन्ददायै नमः
ॐ विज्ञानजनतोषिण्यै नमः
ॐ विज्ञानानन्दसुखितायै नमः
ॐ विज्ञानतत्त्वसन्दर्शायै नमः
ॐ विज्ञानानन्दरूपिण्यै नमः
ॐ विज्ञानवादसुप्रीतायै नमः
ॐ विज्ञानार्थविदां वरायै नमः
ॐ विज्ञानवादमध्यस्थायै नमः
ॐ विज्ञानघनरूपिण्यै नमः
ॐ विज्ञानज्ञानसन्धात्र्यै नमः
ॐ विज्ञानसुखदायिन्यै नमः
ॐ विज्ञानार्थविवादकारणानन्दविग्रहायै नमः
ॐ विज्ञानतत्त्वपदार्थजनसन्देहनाशिन्यै नमः
ॐ विज्ञानज्ञानविदितायै नमः
ॐ विज्ञानारण्यवासिन्यै नमः
ॐ विज्ञानासवसुप्रीतायै नमः
ॐ विज्ञानमधुपायिन्यै नमः
ॐ विज्ञानामृतसंवासायै नमः
ॐ विज्ञानामृतपायिन्यै नमः
ॐ विज्ञानामृताब्धिमध्यस्थायै नमः
ॐ विज्ञानाब्धिसमाह्लादायै नमः
ॐ विज्ञानाब्धिचन्द्रमसे नमः
ॐ विज्ञानमन्दिरावासायै नमः
ॐ विज्ञानमधुभृङ्गिकायै नमः
ॐ विज्ञानरथसंरूढायै नमः
ॐ विज्ञानतुरगोज्ज्वलायै नमः
ॐ विज्ञानहृदयानन्दसत्स्वरूपप्रदेशिन्यै नमः
ॐ विज्ञानानन्दसम्योगप्रबोधनपटीयस्यै नमः
ॐ विज्ञानमण्डपान्तस्थसुपूजितपदद्वयायै नमः
ॐ चेतनायै नमः
ॐ चेतनारूपायै नमः
ॐ चेतनारूपधारिण्यै नमः
ॐ चेकाराक्षरसम्पूज्यायै नमः
ॐ चेकाराक्षरमूर्धजायै नमः
ॐ चेकारशोभितमनवे नमः
ॐ चेकाराक्षरशोभितायै नमः
ॐ चेकारसिद्धनैर्मल्यायै नमः
ॐ चेकाराक्षरसौख्यदायै नमः
ॐ चेकिताशेषभुवनायै नमः
ॐ चेकारानन्दायिन्यै नमः
ॐ चेरदेशकृतावासायै नमः
ॐ चेरदेशसुरक्षितायै नमः
ॐ चेकाराक्षरसंशोभायै नमः
ॐ चेरेश्वरसुरक्षितायै नमः
ॐ चेकारान्त्यसुशोभितायै नमः
ॐ चेकाराक्षरसञ्जप्यायै नमः
ॐ चेकाराक्षरसम्युतायै नमः
ॐ चेकाराक्षरमन्त्राद्यजपसन्तोषदायिन्यै नमः
ॐ चेदिराज्यकृतद्वेषायै नमः
ॐ चेदिराजावमानितायै नमः
ॐ चेदिराजसंहन्त्र्यै नमः
ॐ चेदिराजभयप्रदायै नमः
ॐ चेदिराजसमुन्मूलनाशनोत्सुकविग्रहायै नमः
ॐ चेदिराजप्रमोत्पन्नसमुत्सुकविराजितायै नमः
ॐ चेदिराजवधोत्साहायै नमः
ॐ चेदिराजवधप्रियायै नमः
ॐ चेदिराजशिरोहन्त्र्यै नमः
ॐ चेदिजनसुरक्षितायै नमः
ॐ चेतनाचेतनयै नमः
ॐ चेनोज्ज्वलरूपिण्यै नमः
ॐ चेरचोळादिदेशस्थराजचोरविनाशिन्यै नमः
ॐ ऐं ह्रीं क्लीं शोभायै नमः
ॐ चामुण्डायै सुपूजितायै नमः
ॐ विच्छे विशेषतत्त्वार्थज्ञानज्ञेयस्वरूपिण्यै नमः
ॐ महाकालीमहालक्ष्मीमहासरस्वतीस्वरूपिण्यै नमः
ॐ चण्डिकापरमेश्वर्यै नमः
ॐ श्रीदुर्गापरमेश्वर्यै नमः
इति श्रीचण्डिका नवाक्षरी त्रिशती नामावलिः
