॥ श्रीललितात्रिशतीनामावलिः॥

श्री ललिता त्रिशतीनामावलिः

ॐ ककाररूपायै नमः  
ॐ कल्याण्यै नमः
ॐ कल्याणगुणशालिन्यै नमः
ॐ कल्याणशैलनिलयायै नमः
ॐ कमनीयायै नमः
ॐ कलावत्यै नमः
ॐ कमलाक्ष्यै नमः
ॐ कल्मषघ्न्यै नमः
ॐ करुणामृतसागरायै नमः
ॐ कदम्बकाननावासायै नमः
ॐ कदम्बकुसुमप्रियायै नमः
ॐ कन्दर्पविद्यायै नमः
ॐ कन्दर्प-जनकापाङ्ग-वीक्षणायै नमः
ॐ कर्पूरवीटि-सौरभ्य-कल्लोलित-ककुप्तटायै नमः
ॐ कलिदोषहरायै नमः
ॐ कञ्जलोचनायै नमः
ॐ कम्रविग्रहायै नमः
ॐ कर्मादिसाक्षिण्यै नमः
ॐ कारयित्र्यै नमः
ॐ कर्मफलप्रदायै नमः
ॐ एकाररूपायै नमः
ॐ एकाक्षर्यै नमः
ॐ एकानेकाक्षराकृत्यै नमः
ॐ एतत्तदित्यनिर्देश्यायै नमः
ॐ एकानन्द-चिदाकृत्यै नमः
ॐ एवमित्यागमाबोध्यायै नमः
ॐ एकभक्ति-मदर्चितायै नमः
ॐ एकाग्रचित्त-निर्ध्यातायै नमः
ॐ एषणा-रहितादृतायै नमः
ॐ एलासुगन्धिचिकुरायै नमः
ॐ एनःकूटविनाशिन्यै नमः
ॐ एकभोगायै नमः
ॐ एकरसायै नमः
ॐ एकैश्वर्य-प्रदायिन्यै नमः
ॐ एकातपत्र-साम्राज्य-प्रदायै नमः
ॐ एकान्तपूजितायै नमः
ॐ एधमानप्रभायै नमः
ॐ एजदनेकजगदीश्वर्यै नमः
ॐ एकवीरादि-संसेव्यायै नमः
ॐ एकप्राभव-शालिन्यै नमः
ॐ ईकाररूपायै नमः
ॐ ईशित्र्यै नमः
ॐ ईप्सितार्थ-प्रदायिन्यै नमः
ॐ ईदृगित्य-विनिर्देश्यायै नमः
ॐ ईश्वरत्व-विधायिन्यै नमः
ॐ ईशानादि-ब्रह्ममय्यै नमः
ॐ ईशित्वाद्यष्टसिद्धिदायै नमः
ॐ ईक्षित्र्यै नमः
ॐ ईक्षण-सृष्टाण्ड-कोट्यै नमः
ॐ ईश्वर-वल्लभायै नमः
ॐ ईडितायै नमः
ॐ ईश्वरार्धाङ्ग-शरीरायै नमः
ॐ ईशाधि-देवतायै नमः
ॐ ईश्वर-प्रेरणकर्यै नमः
ॐ ईशताण्डव-साक्षिण्यै नमः
ॐ ईश्वरोत्सङ्ग-निलयायै नमः
ॐ ईतिबाधा-विनाशिन्यै नमः
ॐ ईहाविरहितायै नमः
ॐ ईशशक्त्यै नमः
ॐ ईषत्-स्मिताननायै नमः
ॐ लकाररूपायै नमः
ॐ ललितायै नमः
ॐ लक्ष्मी-वाणी-निषेवितायै नमः
ॐ लाकिन्यै नमः
ॐ ललनारूपायै नमः
ॐ लसद्दाडिम-पाटलायै नमः
ॐ ललन्तिकालसत्फालायै नमः
ॐ ललाट-नयनार्चितायै नमः
ॐ लक्षणोज्ज्वल-दिव्याङ्ग्यै नमः
ॐ लक्षकोट्यण्ड-नायिकायै नमः
ॐ लक्ष्यार्थायै नमः
ॐ लक्षणागम्यायै नमः
ॐ लब्धकामायै नमः
ॐ लतातनवे नमः
ॐ ललामराजदलिकायै नमः
ॐ लम्बिमुक्तालताञ्चितायै नमः
ॐ लम्बोदर-प्रसुवे नमः
ॐ लभ्यायै नमः
ॐ लज्जाढ्यायै नमः
ॐ लयवर्जितायै नमः
ॐ ह्रीङ्काररूपायै नमः
ॐ ह्रीङ्कारनिलयायै नमः
ॐ ह्रीम्पदप्रियायै नमः
ॐ ह्रीङ्कारबीजायै नमः
ॐ ह्रीङ्कारमन्त्रायै नमः
ॐ ह्रीङ्कारलक्षणायै नमः
ॐ ह्रीङ्कारजपसुप्रीतायै नमः
ॐ ह्रीम्मत्यै नमः
ॐ ह्रींविभूषणायै नमः
ॐ ह्रींशीलायै नमः
ॐ ह्रीम्पदाराध्यायै नमः
ॐ ह्रीङ्गर्भायै नमः
ॐ ह्रीम्पदाभिधायै नमः
ॐ ह्रीङ्कारवाच्यायै नमः
ॐ ह्रीङ्कारपूज्यायै नमः
ॐ ह्रीङ्कारपीठिकायै नमः
ॐ ह्रीङ्कारवेद्यायै नमः
ॐ ह्रीङ्कारचिन्त्यायै नमः
ॐ ह्रीं नमः
ॐ ह्रीं-शरीरिण्यै नमः
ॐ हकाररूपायै नमः
ॐ हलधृक्पूजितायै नमः
ॐ हरिणेक्षणायै नमः
ॐ हरप्रियायै नमः
ॐ हराराध्यायै नमः
ॐ हरिब्रह्मेन्द्रवन्दितायै नमः
ॐ हयारूढा-सेविताङ्घ्र्यै नमः
ॐ हयमेध-समर्चितायै नमः
ॐ हर्यक्षवाहनायै नमः
ॐ हंसवाहनायै नमः
ॐ हतदानवायै नमः
ॐ हत्यादिपापशमन्यै नमः
ॐ हरिदश्वादि-सेवितायै नमः
ॐ हस्तिकुम्भोत्तुङ्गकुचायै नमः
ॐ हस्तिकृत्ति-प्रियाङ्गनायै नमः
ॐ हरिद्राकुङ्कुमादिग्धायै नमः
ॐ हर्यश्वाद्यमरार्चितायै नमः
ॐ हरिकेशसख्यै नमः
ॐ हादिविद्यायै नमः
ॐ हालामदालसायै नमः
ॐ सकाररूपायै नमः
ॐ सर्वज्ञायै नमः
ॐ सर्वेश्यै नमः
ॐ सर्वमङ्गलायै नमः
ॐ सर्वकर्त्र्यै नमः
ॐ सर्वभर्त्र्यै नमः
ॐ सर्वहन्त्र्यै नमः
ॐ सनातनायै नमः
ॐ सर्वानवद्यायै नमः
ॐ सर्वाङ्गसुन्दर्यै नमः
ॐ सर्वसाक्षिण्यै नमः
ॐ सर्वात्मिकायै नमः
ॐ सर्वसौख्यदात्र्यै नमः
ॐ सर्वविमोहिन्यै नमः
ॐ सर्वाधारायै नमः
ॐ सर्वगतायै नमः
ॐ सर्वावगुणवर्जितायै नमः
ॐ सर्वारुणायै नमः
ॐ सर्वमात्रे नमः
ॐ सर्वभूषण-भूषितायै नमः
ॐ ककारार्थायै नमः
ॐ कालहन्त्र्यै नमः
ॐ कामेश्यै नमः
ॐ कामितार्थदायै नमः
ॐ कामसञ्जीवन्यै नमः
ॐ कल्यायै नमः
ॐ कठिनस्तन-मण्डलायै नमः
ॐ करभोरवे नमः
ॐ कलानाथ-मुख्यै नमः
ॐ कचजिताम्बुदायै नमः
ॐ कटाक्षस्यन्दि-करुणायै नमः
ॐ कपालि-प्राणनायिकायै नमः
ॐ कारुण्य-विग्रहायै नमः
ॐ कान्तायै नमः
ॐ कान्तिधूत-जपावल्यै नमः
ॐ कलालापायै नमः
ॐ कम्बुकण्ठ्यै नमः
ॐ करनिर्जित-पल्लवायै नमः
ॐ कल्पवल्ली-समभुजायै नमः
ॐ कस्तूरी-तिलकाञ्चितायै नमः
ॐ हकारार्थायै नमः
ॐ हंसगत्यै नमः
ॐ हाटकाभरणोज्ज्वलायै नमः
ॐ हारहारि-कुचाभोगायै नमः
ॐ हाकिन्यै नमः
ॐ हल्यवर्जितायै नमः
ॐ हरित्पति-समाराध्यायै नमः
ॐ हठात्कार-हतासुरायै नमः
ॐ हर्षप्रदायै नमः
ॐ हविर्भोक्त्र्यै नमः
ॐ हार्दसन्तमसापहायै नमः
ॐ हल्लीसलास्य-सन्तुष्टायै नमः
ॐ हंसमन्त्रार्थ-रूपिण्यै नमः
ॐ हानोपादान-निर्मुक्तायै नमः
ॐ हर्षिण्यै नमः
ॐ हरिसोदर्यै नमः
ॐ हाहाहूहू-मुख-स्तुत्यायै नमः
ॐ हानि-वृद्धि-विवर्जितायै नमः
ॐ हय्यङ्गवीन-हृदयायै नमः
ॐ हरिगोपारुणांशुकायै नमः
ॐ लकाराख्यायै नमः
ॐ लतापूज्यायै नमः
ॐ लयस्थित्युद्भवेश्वर्यै नमः
ॐ लास्य-दर्शन-सन्तुष्टायै नमः
ॐ लाभालाभ-विवर्जितायै नमः
ॐ लङ्घ्येतराज्ञायै नमः
ॐ लावण्य-शालिन्यै नमः
ॐ लघु-सिद्धिदायै नमः
ॐ लाक्षारस-सवर्णाभायै नमः
ॐ लक्ष्मणाग्रज-पूजितायै नमः
ॐ लभ्येतरायै नमः
ॐ लब्धभक्ति-सुलभायै नमः
ॐ लाङ्गलायुधायै नमः
ॐ लग्न-चामर-हस्त-श्री-शारदा-परिवीजितायै नमः
ॐ लज्जापद-समाराध्यायै नमः
ॐ लम्पटायै नमः
ॐ लकुलेश्वर्यै नमः
ॐ लब्धमानायै नमः
ॐ लब्धरसायै नमः
ॐ लब्धसम्पत्समुन्नत्यै नमः
ॐ ह्रीङ्कारिण्यै नमः
ॐ ह्रीङ्काराद्यायै नमः
ॐ ह्रीम्मध्यायै नमः
ॐ ह्रींशिखामण्यै नमः
ॐ ह्रीङ्कार-कुण्डाग्नि-शिखायै नमः
ॐ ह्रीङ्कार-शशिचन्द्रिकायै नमः
ॐ ह्रीङ्कार-भास्कररुच्यै नमः
ॐ ह्रीङ्काराम्भोद-चञ्चलायै नमः
ॐ ह्रीङ्कार-कन्दाङ्कुरिकायै नमः
ॐ ह्रीङ्कारैक-परायणायै नमः
ॐ ह्रीङ्कार-दीर्घिकाहंस्यै नमः
ॐ ह्रीङ्कारोद्यान-केकिन्यै नमः
ॐ ह्रीङ्कारारण्य-हरिण्यै नमः
ॐ ह्रीङ्कारावाल-वल्लर्यै नमः
ॐ ह्रीङ्कार-पञ्जरशुक्यै नमः
ॐ ह्रीङ्काराङ्गण-दीपिकायै नमः
ॐ ह्रीङ्कार-कन्दरा-सिंह्यै नमः
ॐ ह्रीङ्काराम्भोज-भृङ्गिकायै नमः
ॐ ह्रीङ्कार-सुमनो-माध्व्यै नमः
ॐ ह्रीङ्कार-तरुमञ्जर्यै नमः
ॐ सकाराख्यायै नमः
ॐ समरसायै नमः
ॐ सकलागम-संस्तुतायै नमः
ॐ सर्ववेदान्त-तात्पर्यभूम्यै नमः
ॐ सदसदाश्रयायै नमः
ॐ सकलायै नमः
ॐ सच्चिदानन्दायै नमः
ॐ साध्यायै नमः
ॐ सद्गतिदायिन्यै नमः
ॐ सनकादिमुनिध्येयायै नमः
ॐ सदाशिव-कुटुम्बिन्यै नमः
ॐ सकलाधिष्ठान-रूपायै नमः
ॐ सत्यरूपायै नमः
ॐ समाकृत्यै नमः
ॐ सर्वप्रपञ्च-निर्मात्र्यै नमः
ॐ समानाधिक-वर्जितायै नमः
ॐ सर्वोत्तुङ्गायै नमः
ॐ सङ्गहीनायै नमः
ॐ सगुणायै नमः
ॐ सकलेष्टदायै नमः
ॐ ककारिण्यै नमः
ॐ काव्यलोलायै नमः
ॐ कामेश्वरमनोहरायै नमः
ॐ कामेश्वर-प्राणनाड्यै नमः
ॐ कामेशोत्सङ्गवासिन्यै नमः
ॐ कामेश्वरालिङ्गिताङ्ग्यै नमः
ॐ कामेश्वर-सुखप्रदायै नमः
ॐ कामेश्वर-प्रणयिन्यै नमः
ॐ कामेश्वर-विलासिन्यै नमः
ॐ कामेश्वर-तपःसिद्ध्यै नमः
ॐ कामेश्वर-मनःप्रियायै नमः
ॐ कामेश्वर-प्राणनाथायै नमः
ॐ कामेश्वर-विमोहिन्यै नमः
ॐ कामेश्वर-ब्रह्मविद्यायै नमः
ॐ कामेश्वर-गृहेश्वर्यै नमः
ॐ कामेश्वराह्लादकर्यै नमः
ॐ कामेश्वर-महेश्वर्यै नमः
ॐ कामेश्वर्यै नमः
ॐ कामकोटिनिलयायै नमः
ॐ काङ्क्षितार्थदायै नमः
ॐ लकारिण्यै नमः
ॐ लब्धरूपायै नमः
ॐ लब्धधियै नमः
ॐ लब्ध-वाञ्चितायै नमः
ॐ लब्धपाप-मनोदूरायै नमः
ॐ लब्धाहङ्कार-दुर्गमायै नमः
ॐ लब्धशक्त्यै नमः
ॐ लब्धदेहायै नमः
ॐ लब्धैश्वर्यसमुन्नत्यै नमः
ॐ लब्धवृद्ध्यै नमः
ॐ लब्धलीलायै नमः
ॐ लब्धयौवनशालिन्यै नमः
ॐ लब्धातिशय-सर्वाङ्ग-सौन्दर्यायै नमः
ॐ लब्धविभ्रमायै नमः
ॐ लब्धरागायै नमः
ॐ लब्धपत्यै नमः
ॐ लब्ध-नानागमस्थित्यै नमः
ॐ लब्धभोगायै नमः
ॐ लब्धसुखायै नमः
ॐ लब्धहर्षाभिपूरितायै नमः
ॐ ह्रीङ्कार-मूर्त्यै नमः
ॐ ह्रीङ्कार-सौधशृङ्गकपोतिकायै नमः
ॐ ह्रीङ्कार-दुग्धाब्धि-सुधायै नमः
ॐ ह्रीङ्कार-कमलेन्दिरायै नमः
ॐ ह्रीङ्कार-मणिदीपार्च्यै नमः
ॐ ह्रीङ्कार-तरुशारिकायै नमः
ॐ ह्रीङ्कार-पेटक-मण्यै नमः
ॐ ह्रीङ्कारादर्श-बिम्बितायै नमः
ॐ ह्रीङ्कार-कोशासिलतायै नमः
ॐ ह्रीङ्कारास्थान-नर्तक्यै नमः
ॐ ह्रीङ्कार-शुक्तिका-मुक्तामण्यै नमः
ॐ ह्रीङ्कार-बोधितायै नमः
ॐ ह्रीङ्कारमय-सौवर्णस्तम्भ-विद्रुम-पुत्रिकायै नमः
ॐ ह्रीङ्कार-वेदोपनिषदे नमः
ॐ ह्रीङ्काराध्वर-दक्षिणायै नमः
ॐ ह्रीङ्कार-नन्दनाराम-नवकल्पक-वल्लर्यै नमः
ॐ ह्रीङ्कार-हिमवद्गङ्गायै नमः
ॐ ह्रीङ्कारार्णव-कौस्तुभायै नमः
ॐ ह्रीङ्कार-मन्त्र-सर्वस्वायै नमः
ॐ ह्रीङ्कार-परसौख्यदायै नमः

॥ इति श्री ललितात्रिशतीनामावलिः ॥

You cannot copy content of this page