श्रीस्कन्दपुराणे नागरखण्डे चामुण्डास्तोत्रम्

श्रीचामुण्डास्तोत्रम्

श्रीगणेशाय नमः ।
श्रीभैरवाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।

जय सर्वगते देवि चर्ममुण्डधरे वरे ।
जय दैत्यकुलोच्छेददक्षे दक्षात्मजे शुभे ॥ १॥

कालरात्रि जयाचिन्त्ये नवम्यष्टमिवल्लभे ।
त्रिनेत्रे त्र्यम्बकाभीष्टे जय देवि सुरार्चिते ॥ २॥

भीमरूपे सुरूपे च महाविद्ये महाबले ।
महोदये महाकाये जयदेवि महाव्रते ॥ ३॥

नित्यरूपे जगद्धात्रि सुरामांसवसाप्रिये ।
विकरालि महाकालि जय प्रेतजनानुगे ॥ ४॥

शवयानरते रम्ये भुजङ्गाभरणान्विते ।
पाशहस्ते महाहस्ते रुधिरौघकृतास्पदे ॥ ५॥

फेत्कारारवशोभिष्ठे गीतवाद्यविराजिते ।
जयानाद्ये जय ध्येये भर्गदेहार्धसंश्रये ॥ ६॥

त्वं रतिस्त्वं धृतिस्तुष्टिस्त्वं गौरी त्वं सुरेश्वरी ।
त्वं लक्ष्मीस्त्वं च सावित्री गायत्री त्वमसंशयम् ॥ ७॥

यत्किञ्चित्त्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते ।
तत्सर्वं त्वन्मयं नात्र विकल्पोऽस्ति मम क्वचित् ॥ ८॥

येन सत्येन तेन त्वमत्रावासं द्रुतं कुरु ।
सान्निध्यं भक्तितस्तुष्टा सुरासुरनमस्कृते ॥ ९॥

सूत उवाच –
एवं स्तुता च सा देवी नलेन पृथिवीभुजा ।
प्रोवाच दर्शनं गत्वा तं नृपं भक्तवत्सला ॥ १०॥

श्रीदेव्युवाच –
परितुष्टाऽस्मि ते वत्स स्तोत्रेणानेन साम्प्रतम् ।
तस्माद्गृहाण मत्तस्त्वं वरं मनसि संस्थितम् ॥ ११॥

नल उवाच –
दमयन्तीति मे भार्या प्राणेभ्योऽपि गरीयसी ।
सा मया निर्जने मुक्ता वने व्यालगणान्विते ॥ १२॥

अखण्डशीलां निर्दोषां यथाहं त्वत्प्रसादतः ।
लभे भूयोऽपि तां देवि तथात्र कुरु सत्वरम् ॥ १३॥

स्तोत्रेणानेन यो देवि स्तुतिं कुर्यात्पुरस्तव ।
तत्रैव दिवसे तस्मै त्वया देयं मनोगतम् ॥ १४॥

॥ इति श्रीस्कान्दे नागरखण्डे चामुण्डास्तोत्रम् ॥

You cannot copy content of this page